Adhikarana adhyAyopakramaH · Śloka
अङ्गविभागादन्तरं मर्मविभागं शारीरं प्रारभ्यते| मर्मणामङ्गाश्रितत्वात्| यतो मर्माण्यङ्गप्रत्यङ्गसमाश्रितानि, अतस्तत्रैव व्याख्यातुं युक्तानि, बहुवक्तव्यत्वात्पृथगुच्यन्ते| तस्मादस्यैवाध्यायस्यारम्भो युक्त इत्याह-
Adhikarana marmaviBAgaSArIro~adhyAyaH (2) · Śloka 2
अथातो मर्मविभागं शारीरं व्याख्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः|
गद्यसूत्रे||२||
म्रियतेऽस्मिन्नङ्ग उपहत इति मर्म| विभजनं-विभागः, मर्मणां विभागो मर्मविभागः| सोऽस्मिन्नध्यायेऽस्तीति मर्मविभागः| अर्शादित्वादच्| शारीरस्थान प्रतिबद्धत्वाच्च शारीरः| शेषं पूर्ववत्|
Adhikarana marmaNAM saMKyA (1) · Śloka 1
सुखग्रहणाद्यर्थं च पूर्वं मर्मणां सङ्ख्यां बक्तुमाह सप्तोत्तरं मर्मशतम्|
|१|
सप्तोत्तराणि-अधिकानि, यस्मिन्-शते, तदेवम्|
Adhikarana teShAM sthAnAni (1-2) · Śloka 2
तेषामेकादशादिशेत्|
पृथक्सक्थ्नोस्तथा बाह्वोस्त्रीणि कोष्ठे नवोरसि||१||
पृष्ठे चतुर्दशोर्ध्वं तु जत्रोस्त्रिंशच्च सप्त च|
|२|
तेषां-मर्मणां मध्ये, पृथक्-प्रत्येकं कृत्वा, सक्थ्नोर्द्वयोर्बाह्णोश्च द्वयोरेकादशादिशेत्, एवं चतुश्चत्वारिंशन्मर्माणि शाकासु विद्यात्| कोष्ठे-जठरे, त्रीणि मर्माणि| उरसि-वक्षसि, नवसङ्ख्यानि| पृष्ठे चतुर्दश| जत्रोरूर्ध्वं-जत्रुण उपरिष्टात्, त्रिंशत्तथा सप्त, एवं सप्तत्रिंशदित्यर्थः| जत्रोरिति पुंस्त्वमत्र चिन्त्यम्| अथवा 'अनित्यमागमशासनम्' इत्यत्र नुम् न कृतः|
Adhikarana talahRunmarmaNaH sthAnaM karma ca (2-3) · Śloka 3
इदानीमेषां मर्मणामापादतलान्मस्तकं यावद्विशिष्टदेशसमाश्रयेण विशिष्टसंज्ञान्तराणि विशिष्टकर्माणि मर्माणि दर्शयितुमाह |
मध्ये पादतलस्याहुरभितो मध्यमाङ्गुलिम्||२||
तलहृन्नाम रुजया तत्र विद्धस्य पञ्चता|
|३|
पादतलस्य मध्ये-मध्यप्रदेशे, मध्यमाङ्गुलिमभितो-मध्यमाङ्गुलेः पादसम्बन्धिन्या आभिमुख्येन, यत्पादतलं-पादपृष्ठं, तत्र तलहृन्नाम मर्माहुः, पूर्वाचार्या इति शेषः| मध्यमाङ्गुलिमिति "आबितः [ परितः समयानिकषाहाप्रतियोगेऽपि" इति ] शब्दप्रयोगे द्वितीया| तत्र-तस्मिन्, विद्धस्य-आहतस्य, पञ्चता-मरणं, भवति| कया? रुजया,-वेदनया|
Adhikarana kShiprasya sthAnaM karma ca (3) · Śloka 3
|
अङ्गुष्ठाङ्गुलिमध्यस्थं क्षिप्रमाक्षेपमारणम्||३||
अङ्गुष्ठश्चाङ्गुलिश्च, तयोर्मध्यस्थं-अङ्गुष्ठाङ्गुलिमध्यस्थितं, क्षिप्रंनाम मर्म| तद्विद्धमाक्षेपमारणं-आक्षेपकाख्येन वातव्याधिना मारयति|
Adhikarana kUrcasya sthAnaM karma ca (4) · Śloka 4
तस्योर्ध्वं द्व्यङ्गुले कूर्चः पादभ्रमणकम्पकृत्|
|४|
तस्योर्ध्वं-तस्य क्षिप्राख्यस्य मर्मण उपरिष्टात्, द्व्यङ्गुले-द्व्यङ्गुलं विमुच्य, कूर्चो नाम मर्म| तद्विद्धं पादस्य भ्रमणं कम्पं च करोति|
Adhikarana kUrchaSirasaH sthAnaM karma ca (4) · Śloka 4
|
गुल्फसन्धेरधः कूर्चशिरःशोफरुजाकरम्||४||
गुल्फसन्धेरधः कूर्चशिरो नाम मर्म| तद्विद्धं शोफरुजाकरम्|
Adhikarana gulPasya sthAnaM karma ca (5) · Śloka 5
जङ्घाचरणयोः सन्धौ गुल्फो रुक्स्तम्भमान्द्यकृत्|
|५|
जङ्घाचरणयोः सन्धौ-सन्धिप्रदेशे, गुल्फो नाम मर्म| तद्विद्धं रुक् च स्तम्भश्च मान्द्यं च, तानि करोति| स्तम्भः स्तब्धत्वमिवाङ्गस्य|
Adhikarana indrabasteH sthAnaM karma ca (5) · Śloka 5
|
जङ्घान्तरे त्विन्द्रबस्तिर्मारयत्यसृजः क्षयात्||५||
जङ्घन्तरे-जङ्घामध्ये पार्ष्णिप्रभृतिद्वादशभिरङ्गुलैः, इन्द्रबस्तिर्नाम मर्म| तद्विद्धं रक्तक्षयान्मारयति, नान्यथा| तस्माद्रक्तस्तम्भने यतितव्यमिति प्रतिपादनार्थमसृक्क्षयादिति हेतुरुपन्यस्तः| एष एव न्यायोऽन्यत्राप्यनुसर्तव्यः| तेन यत्र यद्धेतुकं मारणादिकं कर्म व्यधे कथितं, तत्र तच्चिकित्सायां यतितव्यमिति|
Adhikarana jAnunaH sthAnaM karma ca (6) · Śloka 6
जङ्ह्घोर्वोः सङ्गमे जानु खञ्जता तत्र जीवतः|
|६|
जङ्घोर्वोः सङ्गमे-सन्धौ, जानुनाम मर्म| तत्र-जानुनि विद्धे, पुरुषो म्रियत एव| अथ जीवति ततोऽस्य जीवतः पुंसः खञ्जता स्यादिति| अर्थात् प्रायेण मरणं पुरुषस्येति बोधयति|
Adhikarana ANImarmaNaH sthAnaM karma ca (6) · Śloka 6
|
जानुनस्त्र्यङ्गुलादूर्ध्वमाण्यूस्तम्भशोफकृत्||६||
जानुनः-जानुसन्धेः, त्र्यङ्गुलादूर्ध्वमाणीनाम मर्म| तद्विद्धमूरुस्तम्भशोफकरम्|
Adhikarana urvImarmaNaH sthAnaM karma ca (7) · Śloka 7
उर्व्यूरुमध्ये तद्वेधात्सक्थिशोषोऽस्रसङ्क्षयात्|
|७|
उर्वी नाम मर्म ऊरुमध्ये| तद्वेधात्-तदभिघातात्, सक्थिशोषः-ऊरुकार्श्यम्| सक्थिशोषोऽस्रसङ्क्षयात्,स्यात् नान्यथा व्यधे सत्यपि|
Adhikarana lohitAkShasya sthAnaM karma ca (7) · Śloka 7
|
ऊरुमूले लोहिताक्षं हन्ति पक्षमसृक्क्षयात्||७||
ऊरुमूले- उर्व्यास्तूर्ध्वं वङ्क्षणसन्धेरधस्ताल्लोहिताक्षं नाम मर्म| तद्विद्धं पक्षं हत्यसृक्क्षयात् व्यधे सत्यपि|
Adhikarana viTapasya sthAnaM karma ca (8) · Śloka 8
मुष्कवङ्क्षणयोर्मध्ये विटपं षण्ढताकरम्|
|८|
मुष्कवङ्क्षणयोर्मध्ये विटपं नाम मर्म| तद्विद्धं पुंसः षण्ढताकरं-निरपत्यताकरम्|
Adhikarana iti sakthnoH pratyekamekAdaSa marmANi ,tathA bAhvoH pratyekamekAdaSa ,atra maNibandha kUrparakakShAdhRu~gmarmaNAM sthAnaM karma , (8-9) · Śloka 9
|
इति सक्थ्नोस्तथा बाह्णोर्मणिबन्धोऽत्र गुल्फवत्||८||
कूर्परं जानुवत्कौण्यं तयोर्विटपवत्पुनः|
कक्षाक्षमध्ये कक्षाधृक् कुणित्वं तत्र जायते||९||
इति-एवमनेन प्रकारेण, सक्थ्नोर्द्वयोः प्रत्येकमेकादश मर्माणि भवन्ति| तथा बाह्वोः-तेनैव प्रकारेण बाह्वोः, तलहृदादीन्येकादश मर्माणि भवन्ति| अथ किञ्चिन्मात्रमत्र विशेषमाहमणीत्यादि| अत्र-बाहुमर्मसु, गुल्फेन तुल्यो मणिबन्धः, संज्ञामात्रभेदः, जानुतुल्यं कूर्परम्| तयोः-मणिबन्धकूर्पराख्ययोर्बाहुमर्मणोः, विद्धयोः कौण्यं-पाणिपाण्यङ्गुलीकुब्जत्वम्| विटपेत्यादि| कक्षा चाक्षश्च कक्षाक्षौ, तयोर्मध्ये विटपेन तुल्यं कक्षाधृक्संज्ञं मर्म| तत्र विद्धे सति कुणित्वं-बाहुपाण्यङ्गुलिकुब्जता, जायते|
Adhikarana gudamarmaNaH sthAnaM karma ca (10) · Śloka 10
इति शाखासु मर्माणि चतुश्चत्वारिंशदुक्त्वा, अन्तराधौ कथयति स्थूलान्त्रबद्धः सद्योघ्नो विड्वातवमनो गुदः|
|१०|
स्थूलान्त्रसूक्ष्मान्त्रभेदात् द्विधाऽन्त्रम्| तत्र स्थूलान्त्रबद्धो गुदो नाम मर्मविशेषः| स च विड्वातौ-वातवर्चसी, वमतिउद्गिरति, इति विड्वातवमनः| बाहुलकात्कर्तरि ल्युट्| स गुदः सद्यः-तत्क्षणादेव, हन्ति| सद्योघ्न इति "अमनुष्यकर्तृके च" इति ठक्| गुदशब्दस्यात्र पुंस्त्वं चिन्त्यम्, न चार्धर्चादिष्वयमस्ति|
Adhikarana bastimarmaNaH sthAnaM karma ca (10-12) · Śloka 12
अधुना बस्त्याख्यमाह |
मूत्राशयो धनुर्वक्रो बस्तिरल्पास्रमांसगः||१०||
एकाधोवदनो मध्ये कट्याः सद्यो निहन्त्यसून्|
ऋतेऽश्मरीव्रणाद्विद्धस्तत्राप्युभयतश्च सः||११||
मूत्रस्नाव्येकतो भिन्ने व्रणो रोहेच्च यत्नतः|
|१२|
मूत्रस्याशय आधारो मूत्राशयो-यत्र मूत्रं तिष्ठति, स धनुर्वक्रः-चापवत् कुटिलः| अनेनास्य संस्थानमुक्तम्| स च बस्तिनाम मर्मविशेषः| अस्रं च मांसं चास्रमांसे, अल्पे अस्रमांसे गच्छति| "अन्येभ्योऽपि दृश्यते" इति डः| तत्रास्थो न बहुरक्तमांसप्रदेश इत्यर्थः| तथा, एकमधोवदनं यस्यासावेकाधोवदनः| कट्या मध्य इति स्थाननिर्देशः| कट्या मध्यप्रदेशेऽसाववतिष्ठते| स विद्धः सद्यः-तत्क्षणादेव, असून्-प्राणान्, निहन्ति| ऋतेऽश्मरीव्रणात्-अश्मर्याहरणार्थं यो व्रणः क्रियते तं व्रणं वर्जयित्वा| तत्रापि-अश्मरीव्रणे, उभयतः-उभयपार्श्वतश्च, स विद्धस्तदाऽसौ सद्योऽसून्निहन्ति| तस्मिन् बस्तावेक [तः-एक]पार्श्वतो, भिन्ने-विद्धे सति, मूत्रस्रावी व्रणः स्यात्| स च यत्नतः-आदरेणोपक्रान्तो, रोहति नान्यथा|
Adhikarana nABimarmaNaH sthAnaM karma ca (12-13) · Śloka 13
|
देहामपक्वस्थानानां मध्ये सर्वसिराश्रयः||१२||
नाभिः सोऽपि हि सद्योघ्नो|
|१३|
आमं च पक्वं चामपक्वे, स्थानं च स्थानं च स्थाने, आमपक्वयोः स्थाने आमपक्वस्थाने, देहश्चामपक्वस्थाने च देहामपक्वस्थानानि, तेषां मध्ये| तत्रैकत्वाद्देहस्य देहमध्यप्रदेशे, तथोभयोरामपक्वाशययोर्मध्ये-अन्तराले, नाभिर्नाम मर्म| स सर्वासां सिराणां-सकलशरीरगानां आश्रयः-आधारः| सोऽपि हि सद्योघ्नः| अपिः समुच्चये| हिर्यस्मादर्थे| न केवलं गुदबस्ती सद्योघ्नौ यावन्नाभिरपि विद्धः सद्योघ्नः| नाभिशब्दस्य पुंस्तवं चिन्त्यम्|
Adhikarana hRudayamarmaNaH sthAnaM karma ca (13) · Śloka 13
द्वारमामाश्यस्य च|
सत्वादिधाम हृदयम् स्तनोरः कोष्ठमध्यगम्||१३||
हृदयं नाम यन्मर्म तदपि सद्योघ्नम्| तच्चामाशयस्य द्वारंमुखम्| तेन हि द्वारेणान्नपानमामाशये प्रविशति| तच्च सत्वादीनां-सत्वरजस्तमसां, तथा विज्ञानस्य-इन्द्रियाणां चार्थपञ्चकस्य, तथाऽऽत्मनः-चेतसः, धाम-स्थानम्| तच्च स्तनोरः कोष्ठमध्यगम्| स्तनौ चोरश्च कोष्ठश्च स्तनोरःकोष्ठं, तस्य मध्यं तत्र गच्छति-स्थितिं बध्नाति, कोष्ठवक्षसोः स्तनयोश्च मध्ये स्थितमित्यर्थः|
Adhikarana stanarohitasya sthAnaM karma ca,stanamUlasya sthAnaM karma ca (14) · Śloka 14
स्तनरोहितमूलाख्ये द्व्यङ्गुले स्तनयोर्वदेत्|
ऊर्ध्वाधोऽस्रकफापूर्णकोष्ठो नश्येत्तयोःक्रमात्||१४||
स्तनरोहितं च मूलं च प्रकृतत्वात्स्तनस्यैव, ते| स्तनरोहितस्तनमूले आख्ये-संज्ञे, ययोस्ते स्तनरोहितमूलाख्ये द्वे मर्मणी वदेत्| क्व प्रदेशे ? स्तनयोः| क्रमादिति वक्ष्यमाणमिहापि सम्बध्यते| तेन स्तनयोरूर्ध्वं द्व्यङ्गुले स्तनरोहिते| स्तनयोरधो द्व्यङ्गुले स्तनमूले| तयोः-स्तनरोहितस्तनमूलाख्ययोर्मर्मणोर्विद्धयोः, पुरुशोऽस्रकफापूर्णकोष्ठः क्रमात्-यथाक्रमं, नश्येत्| तेन स्तनरोहिते विद्धे सत्यसृजा पूर्णकोष्ठे नरो नश्येत्, स्तनमूले विद्धे कफेन पूर्णकोष्ठो नश्येत्|
Adhikarana apastamBamarmaNoH sthAnaM karma ca (15) · Śloka 15
अपस्तम्भावुरःपार्श्वे नाड्यावनिलवाहिनी|
रक्तेन पूर्णकोष्ठोऽत्र श्वासात्कासाच्च नश्यति||१५||
उरसः पार्श्वे द्वे नाड्यावपस्तम्भाख्ये मर्मणी| अनिलवाहिनी-वातवहे| अत्र मर्मद्वये विद्धे रक्तेन पूर्णकोष्ठः श्वासकासाभ्यां विपद्यते|
Adhikarana apalApamarmaNoH sthAnaM karma ca (16-17) · Śloka 17
पृष्ठवंशोरसोर्मध्ये तयोरेव च पार्श्वयोः|
अधोंऽसकूटयोर्विद्यादपालापाख्यमर्मणी||१६||
तयोः कोष्ठेऽसृजा पूर्णे नश्येद्यातेन पूयताम्|
|१७|
पृष्ठवंशस्य तथोरसः, अनयोर्मध्ये-अन्तराले, तयोरेव चपृष्टोरसोः, ये पार्श्वे, तयोरुपरिभागयोरंसकूटयोरधः, अपालापाख्ये द्वे मर्मणी विद्यात्| तयोर्विद्धयो रक्तेन कोष्ठे पूर्णे, पूयतां यातेन-गतेन, लोहितेन नश्येत्| यावद्रक्तं पूयतां न यातं तावज्जीवति| न तु रक्तकोष्ठपूरणमात्रादेव म्रियत इति भावः|
Adhikarana kaTIkataruNayoHsthAnaM karma ca (17-18) · Śloka 18
इदानीं पृष्ठे वक्ति |
पार्श्वयोः पृष्ठवंशस्य श्रोणीकर्णौ प्रति स्थिते||१७||
वंशाश्रिते स्फिजोरूर्ध्वं कटीकतरुणो स्मृते|
तत्र रक्तक्षयात्पाण्डुर्हीनरूपो विनश्यति||१८||
पृष्ठवंशस्य पार्श्वयोः-उभयतः, प्रतिश्रोणीकर्णौ स्थिते| वंशाश्रिते-वंशप्रतिवद्धे, स्फिजोरूर्ध्वं-उपरिष्टात्, द्वेऽस्थिनी कटीकतरुणे-एतत्संज्ञे द्वे मर्मणी, स्मृते-उक्ते| तत्र-तस्मिन्मर्मद्वये विद्धे, रक्तक्ष्यात्पाण्डुर्हीनरूपो-विगतकान्तिः सन्, नरो विनश्यति|
Adhikarana kukundarayoH sthAnaM karma ca (19-20) · Śloka 20
पृष्ठवंशं ह्युभयतो यौ सन्धी कटीपार्श्वयोः|
जघनस्य बहिर्भागे मर्मणी तौ कुकुन्दरौ||१९||
चेष्टाहानिरघःकाये स्पर्शाज्ञानं च तद्व्यधात्|
|२०|
पृष्ठवंशस्योभयोः कटिपार्श्वयोर्यौ सन्धी जघनस्य बहिर्भागेनान्तः, तौ कुकुन्दरौ निम्राकारौ सन्धिममर्णी| तद्व्यधात्-तयोर्व्यधात्, अधःशरीरे चेष्टाहानिः-गमनाकुञ्चनप्रसारणादावधःकायोऽशक्तः सम्पद्यत इत्यर्थः| तथा, स्पर्शाज्ञानं-स्पर्शासंवित्तिर्भवति| पृष्ठवंशमुभयत इति "उभसर्वतसोः" इत्यादिनाद्वितीया|
Adhikarana nitambamarmaNoH sthAnaM karma ca (20-21) · Śloka 21
|
पार्श्वान्तरनिबद्धौ यावुपरि श्रोणिकर्णयोः||२०||
आशयच्चादनौ तौ तु नितम्बौ तरुणास्थिगौ|
अधःशरीरे शोफोऽत्र दौर्बल्यं मरणं ततः||२१||
पार्श्वान्तरे-पार्श्वमध्ये, निबद्धौ-प्रतिवद्धौ लग्नौ, पार्श्वान्तरनिबद्धौ यौ, तथा श्रोणिकर्णयोरुपरि-उपरिष्टात्, मूत्रादीनां य आशयाः-अधारा बस्त्यादयः, तेषां छादनौ, नितम्बौ-नितम्बसंज्ञौ मर्मविशेषौ| तौ च तरुणास्थिगौ-तरुणसंज्ञेऽस्थ्नि स्थितावित्यर्थः| अत्र-अस्मिन्मर्मद्वये विद्धे सति, अधःकाये शोफो भवति| तथा, दौर्बल्यं प्रकृतत्वादधःशरीर एव| दौर्बल्यं-अल्पबलत्वं स्वव्यापाराक्षमत्वम्| ततो-दौर्बल्यादनन्तरं, मरणं भवति|
Adhikarana pArSvasandhimarmaNoH sthAnaM karma ca (22-23) · Śloka 23
पार्श्वान्तरनिबद्धौ च मध्ये जघनपार्श्वयोः|
तिर्यगूर्ध्वं च निर्दिष्टौ पार्श्वसन्धी तयोर्यधात्||२२||
रक्तपूरितकोष्ठस्य शरीरान्तरसम्भवः|
|२३|
पार्श्वयोरन्तरं-मध्यं, तत्र निबद्धौ-संश्लिष्टौ, सन्धी मर्मविशेषौ पार्श्वसन्धी इति निर्दिष्टौ| ततश्चैकस्मिन् पार्श्वान्तर एकः सन्धिर्द्वितीयस्मिन् पार्श्वान्तरे द्वितीयः सन्धिः| क्व स्थितौ कथम् ? जघनस्य पार्श्वे जघनपार्श्वे, तयोर्मध्ये तिर्यगूर्ध्वं च| एवमेकस्मिन् जघनपार्श्वमध्य एकः सन्धिर्द्वितीयस्मिन् द्वितीयः स्थित इति| तयोर्व्यधात् पुंसो रक्तपूरितकोष्ठस्य शरीरान्तरसम्भवः-अपरशरीरोत्पत्तिः, मरणमित्यर्थः|
Adhikarana bRuhatImarmaNoH sthAnaM karma ca (23-24) · Śloka 24
|
स्तनमूलार्जवे भागे पृष्ठवंशाश्रये सिरे||२३||
बृहत्यौ, तत्र विद्धस्य मरणं रक्तसङ्क्षयात्|
|२४|
स्तनयोर्मूलं-स्तनमूलं तस्यार्जवे भागे-स्पष्ट उद्देशे, पृष्ठवंशाश्रये सिरे-पृष्ठवंशस्योभयपार्श्वप्रतिबद्धे सिरे, बृहत्यौ-एतत्संज्ञे मर्मणी| तत्र-मर्मद्वये, विद्धस्य मरणं भवति रक्तसङ्क्षयात्, नान्यथा|
Adhikarana aMsaPalakamarmaNoH sthAnaM karma ca (24-25) · Śloka 25
|
बाहुमूलाभिसम्बद्धे पृष्ठवंशस्य पार्श्वयोः||२४||
अंसयोः फलके बाहुस्वापशौषौ तयोर्व्यधात्|
|२५|
बाह्वोर्मूले बाहुमूले,-यत्र बाहू प्रतिष्ठितौ| मूले हि प्रतिष्ठा, वृक्षमूलवत्| पृष्ठवंशस्य पार्श्वद्वये बाहुमूलयोराभिमुख्येन सम्बद्धे-संश्लिष्टे| के ते ? अंसयोः फलके| असमासनिर्देशश्चन्दोनुरोधात्| फलकस्य च नपुंसकत्वं लोकाश्रयत्वाल्लिङ्गस्येति| अंसफलकाख्ये द्वे मर्मणी| तयोर्व्यधात् बाहुस्वापशोषौ भवतः| स्वाप इव स्वापः, यथा सुप्तस्य निश्चेतनमङ्गं भवति तथा बाहू अंसफलके विद्धे भवतः|
Adhikarana aMsamarmaNoH sthAnaM karma ca (25-26) · Śloka 26
|
ग्रीवामुभयतः स्नाव्नी ग्रीवाबाहुशिरोन्तरे||२५||
स्कन्धांसपीठसम्बन्धावंसौ बाहुक्रियाहरौ|
|२६|
ग्रीवाया उभयोः पार्श्वयोः स्नाव्नी द्वे अंसावुच्येते| क्व स्थितौ ? ग्रीवाबाहुशिरोन्तरे| ग्रीवायास्तथा बाह्नोः शिरसश्च मध्ये तेषामन्तराले स्थितौ| किं प्रयोजनौ? स्कन्धेत्यादि| अंसयोः पीठ इव पीठे,-प्रतिष्ठाने, यत्रांसौ तिष्ठतः| स्कन्धे चांसपीठे च, तेषां सम्बन्धः-प्रयोजनं, ययोस्तावेवांसौ विद्धौ बाह्वोः क्रिया-आकुच्चनप्रसारणादिका, तां हरतः, तौ बाहुक्रियाहरौ|
Adhikarana nIlAmarmaNoH sthAnaM karma ca,manyAmarmaNoH sthAnaM karma ca (26-27) · Śloka 27
|
कण्ठनाडीमुभयतः सिरा हनुसमाश्रिताः||२६||
चतस्रस्तासु नीले द्वे मन्ये द्वे मर्मणी स्मृते|
स्वरप्रणाशवकृत्यं रसाज्ञानं च तद्व्यधे||२७||
कण्ठनाड्याः पार्श्वयोर्द्वयोः सिरा याश्चतस्रो हन्वोः समाश्रिताः, तासु मध्ये द्वे सिरे नीले नाम द्वे मर्मणी, मन्ये नाम द्वे मर्मणि स्मृते, तन्त्रकृद्भिरिति शेषः| तासां व्यधस्तद्वयधः, तस्मिन् तद्व्यधे स्वरप्रणाशादयो जायन्ते| स्वरस्य प्रणाशः स्वरप्राणाशः,-स्वरहानिः| अथवा वैकृत्यम्, तच्च प्रकृत्त्वात्स्वरस्यैव, स्वरभावान्यथात्वमित्यर्थः| रसाज्ञानं-रसानवबोधः|
Adhikarana mAtRukAmarmaNAM sthAnaM karma ca (28) · Śloka 28
कण्ठनाडीमुभयतो जिह्वानासागताः सिराः|
पृथक् चतस्रस्ताः सद्यो घ्नन्त्यसून्मातृकाह्वयाः||२८||
कण्ठनाड्या उभयपार्श्वयोः सिरा जिह्वागतास्तथा नासागताः पृथक्-प्रत्येकं, एकस्मिन् पार्श्वे चतस्रः द्वितीये पार्श्वे चतस्रः| ता मातृकाह्वयाः-मातृकासंज्ञाः, विद्धाः सद्योऽसून् घ्नन्ति| एतानि मातृकाख्यानि सिरामर्माणि|
Adhikarana kRukATikAmarmaNoH sthAnaM karma ca (29) · Śloka 29
कृकाटिके शिरोग्रीवासन्धौ, तत्र चलं शिरः|
|२९|
शिरश्च ग्रीवा च, तयोः सन्धाने यौ सन्धी पार्श्वद्वये कृकाटिकाख्ये ते द्वे मर्मणी| तत्र-तस्मिन्मर्मद्वये विद्धे, चलं-सकम्पं, शिरो भवति|
Adhikarana vidhuramarmaNoH sthAnaM karma ca (29) · Śloka 29
|
अधस्तात्कर्णयोर्निम्ने विधुरे श्रुतिहारिणी||२९||
अधस्तात्कर्णयोः-कर्णपृष्ठयोरधो, निम्ने-नोन्नते, विधुराख्ये द्वे मर्मणी| ते च विद्धे सती श्रुतिं-शब्दश्रवणं, हरतः, श्रुतिहारिणी|
Adhikarana PaNamarmaNoH sthAnaM karma ca (30) · Śloka 30
फणावुभयतो घ्राणमार्गं श्रोत्रपथानुगौ|
अन्तर्गलस्थितौ वेधाद्गन्धविज्ञानहारिणौ||३०||
फणौ नाम मर्मविशेषौ घ्राणमार्गस्योभयोः पाऱ्श्वयोः श्रोत्रपथानुगौ-श्रोत्रमार्गप्राप्तौ| अन्तर्गलस्थितौ-गलाभ्यन्तरे स्थितौ| फणाविव संस्थानं रूपमनयोः फणाविति नाम| तौ वेधाद्गन्ध विज्ञानं-गन्धोपलब्धिः, तद्धरतस्तौ गन्धविज्ञानहारिणौ|
Adhikarana apA~ggamarmaNoH sthAnaM karma ca (31) · Śloka 31
नेत्रयोर्बाह्यतोऽपाङ्गौ भ्रुवोः पुच्छान्तयोरधः|
तथोपरि भ्रुवोर्निम्नावावर्तावान्ध्यमेषु तु||३१||
नेत्रेयोर्द्वयोर्बाह्यतः-बहिर्भागे, भ्रुवोः पुच्छान्तयोः-अवसानयोः, अधः, अपाङ्गौ नाम मर्मविशेषौ प्रसिद्धावेव| तथोपरीति तेनैवापाङ्गोद्दिष्टेन न्यायेन भ्रुवोः पुच्छान्तयोरुपरि निम्रावावर्तसंज्ञौ| एषु तु-अपाङ्गावर्ताख्येषु चतुर्षु, विद्धस्य नरस्यान्ध्यं भवति|
Adhikarana Sa~gKamarmaNoH sthAnaM karma ca (32) · Śloka 32
अनुकर्णं ललाटान्ते शङ्खौ सद्योविनाशनौ|
|३२|
अत्रापि भ्रुवोः पुच्छान्तयोरुपति ललाटावसानेऽनुकर्णंकर्णसमीपे, शङ्खौ मर्मविशेषौ| तौ विद्धौ पुरुषस्य सद्योविनाशनौ भवतः|
Adhikarana utkShepamarmaNoH sthAnaM karma ca ,sthapanImarmaNaH sthAnaM karma ca (32-33) · Śloka 33
|
केशान्ते शङ्खयोरूर्ध्वमुत्क्षेपौ, स्थपनी पुनः||३२||
भ्रुवोर्मध्ये, त्रयेऽप्यत्र शल्ये जीवेदनुद्धृते|
स्वयं वा पतिते पाकात्सद्यो नश्यति तूद्धृते||३३||
केशावसाने शङ्खयोरूर्ध्वं-उपरि, उत्क्षेपौ मर्मणी| स्थपनी पुनर्मर्म भ्रुवोर्मध्ये| त्रयेऽप्यत्र-अस्मिन् मर्मत्रये द्वावुत्क्षेपावेका स्थपनी एवंभूते, विद्धे पुरुषोऽनुद्धृते शल्ये जीवेत्| कालान्तरेण पाकात्-पाकेन हेतुना, स्वयं वा पतिते शल्ये सति,-न तूद्धरणहेतुना, जीवेत् पुरुषः| सद्य इत्यादि| उद्धृते तु शल्ये सद्य एव नरो नश्यति, वायुकोपादिति भावः|
Adhikarana SRu~ggATakamarmaNAM sthAnaM karma ca (34-35) · Śloka 35
जिह्वाक्षिनासिकाश्रोत्रखचतुष्टयसङ्गमे|
तालुन्यास्यानि चत्वारि स्रोतसां, तेषु मर्मसु||३४||
विद्धः शॄङ्गाटकाख्येषु सद्यस्त्यजति जीवितम्|
|३५|
जिह्वा चाक्षिणी च नासिका च श्रोत्रे च तदेवम्| तस्य खानि, तेषां चतुष्टयं-चत्वारि स्रोतांसि, तेषां सङ्गमः-सन्निपातः, तस्मिंस्तालुनि-यत्र जिह्वादीनां तर्पणानि स्रोतांसि सन्निपत्यावतिष्ठन्ते, जिह्वादिस्रोतसां चत्वार्यास्यानि शृङ्गाटकाख्यानि| तेषु मर्मसु विद्धः पुरुषः सद्यस्त्यजति जीवितं-विद्धमात्र एव प्राणैर्वियुज्यते|
Adhikarana sImantamarmaNAM sthAnaM karma ca (35-36) · Śloka 36
|
कपाले सन्धयः पञ्च सीमन्तास्तिर्यगूर्ध्वगाः||३५||
भ्रमोन्मादमनोनाशैस्तेषु विद्धेषु नश्यति|
|३६|
शिरः सम्बन्धिनः पञ्च सन्धयः| पञ्चानां कपालखण्डानां संश्लेषा ये शिरस्यवतिष्ठन्ते तिर्यगूर्ध्वगाः, त एव सीमन्ताख्या मर्मविशेषाः| तेषु-सीमन्ताख्येषु, विद्धेषु भ्रमेण तथोन्मादेन तथा मनोनाशेन-चित्तविस्मृत्या च, नश्यति|
Adhikarana AdhipamarmaNAM sthAnaM karma ca (36-37) · Śloka 37
|
आन्तरो मस्तकस्योर्ध्वं सिरासन्धिसमागमः||३६||
रोमावर्तोऽधिपो नाम मर्म सद्यो हरत्यसून्|
|३७|
मस्तकस्याभ्यन्तरतो यः स्थितः, तथोर्ध्वं-प्रकृतत्वान्मस्तकस्यैवोपरि, सिरासन्धिसमागमः-सिरासन्धीनां सन्निपातो, रोमावर्तलक्षणः सोऽधिपो नाम मर्मविशेषः| मर्मणामधिपो यथार्थनामा, तदायत्तानि हि सर्वाणि मर्माणीत्यर्थः| सोऽधिपो विद्धो नरस्य सद्योऽसून् हरति-पुरुषं मारयतीत्यर्थः|
Adhikarana sAmAnyaM marmalakShaNam (37) · Śloka 37
इति सप्तोत्तरस्य मर्मशतस्य लक्षणान्युक्त्वा, सामान्येन यन्मर्मलक्षणं तदाख्यातुमाह |
विषमं स्पन्दनं यत्र पीडिते रुक् च मर्म तत्||३७||
यत्र-यस्मिन् देहदेशे, विषमं स्पन्दनं-स्फुरणं, तन्मर्म| यत्र च देहदेशे पीडिते सति रुक् च विषमा भवति, तच्च मर्म| अत्रापि विषममिति सम्बध्यते| विषमं च विषमा च विषमम्, "नपुंसकमनपुंसकेनैकवच्च" इति नपुंसकशेषः| तदेवं मर्मलक्षणं द्विधा मन्तव्यम्,-कस्यचिन्मर्मणः सिराधमन्यादिकस्य विषमं स्पन्दनं प्रायो लक्षणम्, मांसास्थिजातीयस्य मर्मणः पीडनात् प्रायः पीडोत्पत्तिर्लक्षणमिति| सङ्ग्रहे च मर्मविद्धस्य लक्षणमुक्तम्| यथा (शा. अ. ७)- "देहप्रसुप्तिर्गुरुता सम्मोहः शीतकामिता| स्वेदो मूर्च्छा वमिः श्वासो मर्मविद्धस्य लक्षणम्||" इति| मरणकारित्वान्मर्म, मरणासदृशदुःखदायित्वाद्वा| इदानीं मर्मणां सुप्रभेदं लक्षणं षट्प्रकारमाह-
Adhikarana mAMsadInAM ShaNNAM samAgamo marma (38) · Śloka 38
मांसास्थिस्नायुधमनीसिरासन्धिसमागमः|
स्यान्मर्मेति च तेनात्र सुतरां जीवितं स्थितम्||३८||
मांसादीनां सन्ध्यन्तानां स्वजात्यपेक्षो यः समागमः-सन्निपातः, स मर्माख्यः, तन्मर्मेति तस्यैव नाम| तदेवं मांसपेशीसमागमो मांसमर्म, अस्थ्नां समागमोऽस्थिमर्म, स्नायूनां समागमः स्नायुमर्म, धमनीनां समागमो धमनीमर्म, सिराणां समागमः सिरामर्म, सन्धीनां समागमः सन्धिमर्मेति| यतो मांसादीनां यः समागमः स एव मर्मेत्युच्यते, तेन हेतुना, अत्र सुतरां जीवितं स्थितं-प्राणा व्यवस्थिताः| ननु, यदि मांसादीनां समागमो मर्मेत्यभिधीयते, तदानीमनेकसङ्ख्याकानि मर्माणि शरीरे सम्भव्येरन्| मांसपेश्यादिभावानामनेकसङ्ख्याश्रयत्वात्| तथा च,-मांसपेशीशतानि पञ्च पुंसामुक्तानि स्त्रीणां तु विशत्यधिकानि (हृ. शा. अ. ३/१७)| एवमस्थ्यादीन्यप्यनेकान्युक्तानि| ततश्च मर्मणामसङ्ख्येयत्वं प्राप्नोति| एवं च "सप्तोत्तरं मर्मशतम्" (श्लो १) इति विरुध्यत इत्याह-
Adhikarana evaM marmakalpanA ShoDhA,ekaiva vA marmakalpanA (39) · Śloka 39
बाहुल्येन तु निर्देशः षोढैवं मर्मकल्पना|
प्राणायतनसामान्यदैक्यं वा मर्मणां मतम्||३९||
सप्तोत्तरमेव मर्मणां शतमित्येव न| किं तर्हि ? पूर्वोक्तेन न्यायेन बहूनि मर्माणि| "सप्तोत्तरं मर्मशतम्" इत्ययं तु यो निर्देशः स बाहुल्येन-भूयसा, येषां मर्मणां मर्मत्वेन प्रसिद्धिस्तद्विषय एव| एवं-अनेन प्रकारेण मांसास्थ्यादीनां समागमो मर्मेति, मर्मणां-षोढा-षड्विधा, कल्पना भवति| कल्पनाशब्देनैतत्प्रति पादयति,-तदेवं मनुष्यस्य प्रसिद्धितो जीवितधामत्वेन मर्मणां कल्पना-निरूपणा| प्राणेत्यादि| अथवा न मर्मणां षोढा कल्पना| किं तर्हि ? प्राणायतनसामान्यात्-जीवितस्याधिष्ठानमित्येवंलक्षणात्, ऐक्यं-एकत्वं, मर्मणां मतं-न षट्त्वम्| एवमेकैव मर्मकल्पना| एवं सङ्क्षेपविस्तरकौशलं मर्मसु दर्शितम्| मांसादीनां सन्ध्यन्तानां यथास्वं प्रतिनियतनि मर्माणि सङ्ख़्ययाऽभिधातुमाह-
Adhikarana mAMsAdInAM marmaNAM saMKyayA~aBidhAnam ,mAMsajAni daSamarmANi asthnyaShTau (40) · Śloka 40
मांसादीनां सन्ध्यन्तानां यथास्वं प्रतिनियतनि मर्माणि सङ्ख्ययाऽभिधातुमाह मांसजानि दशेन्द्राख्यतलहृत्स्तनरोहिताः|
|४०|
जङ्घयोरिन्द्राख्ये द्वे मर्मणी, बाह्वोर्द्वे एव, तलहृदाख्यानि चत्वारि-पादयोर्द्वे हस्तयोर्द्वे इति, स्तनरोहिते द्वे-प्रत्येकं स्तने एकैकम्, एवं दश मंसजानि|
Adhikarana mAMsajAni daSamarmANi asthnyaShTau (40-41) · Śloka 41
|
शङ्खौ कटीकतरुणे नितम्बावंसयोः फले||४०||
अस्थ्न्यष्टौ|
|४१|
अस्थ्न्यष्टौ मर्माणि| शङ्खौ द्वे मर्मणी, कटीकतरुणे द्वे, नितम्बौ द्वे, अंसयोः फलके द्वे, इत्येवमष्टौ मर्माणि|
Adhikarana snAvamarmANi trayoviMSatiH (41) · Śloka 41
स्नावमर्माणि त्रयोविंशतिराणयः|
कूर्चकूर्चशिरोऽपाङ्गक्षिप्रोत्क्षेपांसबस्तयः||४१||
स्नावमर्माणि त्रयोविंशतिः| कथम् ? आणयश्चत्वारि-प्रत्येकमूरुमध्ये एकैकं बाह्वोः प्रत्येकमेकैकम्, एवं चत्वार्याणयः कूर्चाख्यानि चत्वारि-हस्तर्योद्वे पादयोर्द्वे| कूर्चशिरःसंज्ञानि चत्वारि-पादयोर्द्वे हस्तयोर्द्वे इति चत्वारि| अपाङ्गाख्ये द्वे-"नेत्रयोर्बाह्यतः (श्लो.३१) इत्यादिना निर्दिष्टे द्वे| क्षिप्राख्यानि चत्वारि-"अङ्गुष्ठाङ्गुलिमध्यस्थं क्षिप्रं" (श्लो.३) इति, तच्च पादद्वये द्विविधं हस्तद्वये च| उत्क्षोपौद्वौ-"केशान्ते शङ्खयोरूर्ध्वमुत्क्षेपौ" (श्लो.३२) इति| अंसाख्ये द्वे-"स्कन्धांसपीठसम्बन्धावंसौ" (श्लो २६) इति| बस्तिरेको-"मूत्राशयो" (श्लो.१०) इत्यादिनोक्तः| एवं स्नावमर्माणि त्रयोविंशतिः|
Adhikarana dhamanyASritAni nava (42) · Śloka 42
गुदापस्तम्भविधुरशृङ्गाटानि नवादिशेत्|
मर्माणि धमनीस्थानि|४२|
गुदः-स्थूलान्त्रबद्ध एकः| अपस्तम्भाख्ये द्वे-"अपस्तम्भावुरःपार्श्वे नाड्यावनिलवाहिनी|" (श्लो.१५)इति, विधुराख्ये द्वे-"अधस्तात्कर्णयोर्निम्ने विधुरे" (श्लो.२९) इति| शृङ्गाटकाख्यानि चत्वारि-"जिह्वाक्षिनासिका" (श्लो.३४) इत्यादिनोक्तानि| एवं धमनीस्थानि-धमन्याश्रितानि, नव मर्माणि|
Adhikarana sirASritAni saptatriMSat (42-44) · Śloka 44
|
सप्तत्रिंशत्सिराश्रयाः||४२||
बृहत्यौ मातृका नीले मन्ये कक्षाधरौ फणौ|
विटपे हृदयं नाभिः पार्श्वसन्धी स्तनाधरे||४३||
अपालापौ स्थपन्युर्व्यश्चतस्रो लोहितानि च|
|४४|
सिराश्रया मर्मविशेषाः सप्तत्रिंशत्| कथम् ? इत्याह-बृहत्यावित्यादि| बृहत्यौ द्वे-"स्तनमूलार्जवे भागे" (श्लो २३) इत्यादिनोक्ते| मातृकाख्यानि-"कण्ठनाडीमुभयतो जिह्वानासागताः" (श्लो.२८) इत्यादिनोक्तान्यष्टौ| नीलाख्ये द्वे सिरे मन्याख्ये [च] द्वे-"कण्ठनाडीमुभयतः सिराहनुसमाश्रिताः| चतस्रः (श्लो.२६) इत्यादिनोक्तानि| कक्षाधरौ द्वौ-यथोक्तम् (श्लो.९) "कक्षाक्षमध्ये कक्षाधृक्" इत्यादि| फणौ द्वौ-"फणावुभयतो" (श्लो.३०) इत्यादिना कृतलक्षणौ| विटपे द्वे-"मुष्कवङ्क्षणयोर्मध्ये (श्लो.८) प्रत्येकं सक्थ्न्येकम्, द्वितीयेऽप्येवम्| हृदयमेकमेव, तस्य लक्षणम् (श्लो.१३)-"द्वारमामाशयस्य च" इत्यादि| नाभिरेक एव, तल्लक्षणम् (श्लो.१२)- "देहामपक्वस्थानानां" इत्यादि| पार्श्वसन्धी द्बौ-"पार्श्वान्तरनिबद्धौ च" (श्लो.२२) इत्यादिनोक्तौ| स्तनाधरे-स्तनयोरधो, द्वे| अपालापौ द्वावेव-"पृष्ठवंशोरसोः (श्लो.१६) इत्यादिनोक्तौ| स्थपनी एकैव, तल्लक्षणम्, (श्लो.३३)-"भ्रुवोर्मध्ये" इति| उर्व्यश्चतस्रः-ऊर्वोर्द्वयोर्द्वे बाह्वोश्च, "उर्व्यूरुमध्ये" (श्लो.७) इति तस्या लक्षणम्, इति सक्थ्नोस्तथा बाह्वोः (श्लो.८) इति चातिदेशः| लोहितानीति लोहिताक्षनामानि चत्वारि, "ऊरुमूले लोहिताक्षं" सक्थिवद्बाह्वोः" (श्लो.७-८) इति तल्लक्षणम्| सम्प्रति सन्धिमर्माण्याह-
Adhikarana sandhimarmANi viMSati (44-45) · Śloka 45
|
सन्धौ विंशतिरावर्तौ मणिबन्धौ कुकुन्दरौ||४४||
सीमन्ताः कूर्परौ गुल्फौ कृकाट्यौ जानुनी पतिः|
|४५|
सन्धौ विंशतिर्मर्माणि| आवर्ताख्ये द्वे, तयोर्लक्षणम् (श्लो. ३१)-"तथोपरि भ्रुवोर्निम्नावावर्तौ" इति| मणिबन्धौ द्वौ, तल्लक्षणम् (श्लो.८)-मणिबन्धोऽत्र गुल्फवत्" इति| कुकुन्दरौ द्वौ, तल्लक्षणम् (श्लो.१९)-"जघनस्य बहिर्भागे मर्मणी तौ कुकुन्दरौ|" इति| सीमन्ताख्यानि पञ्च, तल्लक्षणम् (श्लो.३५)-"कपालसन्धयः पञ्च सीमन्ताः" इति| कूर्परौ द्वौ, तल्लक्षणम् (श्लो.९)-"कूर्परं जानुवत्" इति| कूर्परशब्द उभयलिङ्गः| गुल्फौ द्वे मर्मणी, तयोर्लक्षणम् (श्लो.५)-"जङ्घाचरणयोः सन्धौ गुल्फः" इति| कृकाट्यौ द्वे, तल्लक्षणम् (श्लो.२९)-"कृकाटिके शिरोग्रीवासन्धी" इति| जानुनी द्वे, तयोर्लक्षणम् (श्लो.६)-"जङ्घोर्वोः सङ्गमे जानु" इति| पतिः-अधिपतिर्मर्मणाम्, तच्चैकम्, तल्लक्षणम् (श्लो.३६)-"आन्तरो मस्तकस्योर्ध्वं" इत्यादिनोक्तम्| एवं सप्तोत्तरं मर्मशतं मांसादिपरिकल्पनया कल्पितम्|
Adhikarana gudakakShAdharAdau anyeShAM matam (45-46) · Śloka 46
|
मांसमर्म गुदोऽन्येषां,स्नाव्नि कक्षाधरौ तथा||४५||
विटपौ विधुराख्ये च, शृङ्गाटानि सिरासु तु|
अपस्तम्भावपाङ्गौ च, धमनीस्थं न तैः स्मृतम्||४६||
अन्येषामाचार्याणं मतेन गुदो मांसमर्म-न धमनीमर्म| स्नाव्नीत्यादि| तेषामेव मतेन कक्षाधरौ स्नावाश्रितौ न तु सिराश्रयौ| विटपौ विधुराख्ये च स्नावाश्रितौ| पूर्वमतेन तु विटपौ सिराश्रितौ, विधुरे च धमन्याश्रिते| शृङ्गाटकानि चत्वार्यपि सिरास्वेव, तुरवधारणे, न तु धमनीस्थानि, अपस्तम्भौ तथापाङ्गौ च| एतद्धमनीस्थमन्यैराचर्यैर्न स्मृतम्, अपि तु स्नावा[द्या]श्रितमभिहितम्|
Adhikarana mAMsAdijAnAM marmaNAM vyadhalakShaNam, mAMsaje marmaNi viddhe lakShaNAni (47) · Śloka 47
इदानीं मांसादिजानां मर्मणां व्यधलक्षणमाह विद्धेऽजस्रमसृक्स्रावो मांसधावनवत्तनुः|
पाण्डुत्वमिन्द्रियाज्ञानं मरणं चाशु मांसजे||४७||
मांसजे मर्मणि विद्धे सति,[अजस्रं] अनवरतं, असृक्स्रावो भवति मांसधावनवत्-मांसधावनोदकेन तुल्यः| तथा, तनुः-अच्छो भवति, न बहलः| पाण्डुत्वं-पीताभत्वं शरीरस्य| इन्द्रियैः-चक्षुरादिभिः, स्वविषयाज्ञानं-अनवबोधः| मरणंचाशु-शीघ्रं, भवति| तदेवमिन्द्रबस्त्यादिमांसजमर्मव्यधे निरन्तरस्रावादिसर्वलिङ्गदर्शनानुमानेन मरणमनुमीयमानं बुध्वा वैद्यः प्रत्याख्याय चिकित्सां प्रयोजयेत्| नियतायुषां क्वचिन्मरणस्य व्यभिचारादिति|
Adhikarana asthimarmaNi viddhe lakShaNAni (48) · Śloka 48
मज्जान्वितोऽच्छो विच्छिन्नः स्रावो रुक् चास्थिमर्मणी|
|४८|
अस्थिमर्मणि-शङ्खादिके, विद्धे मज्जान्वितः स्रावः तथाऽच्छो-न घनः, विच्छ्न्नो-न मांसमर्मव्यध इव निरन्तरो, भवति| रुक्चेत्यनेनात्यन्तं पीडा भवतीति प्रतिपादयति| रुङ्मात्रस्य सर्वमर्मस्वपि सद्भावात्|
Adhikarana snAvaje marmaNi viddhe lakShaNAni (48-49) · Śloka 49
|
आयामाक्षेपकस्तम्भाः स्नावजेऽभ्यधिकं रुजा||४८||
यानस्थानासनाशक्तिर्वैकल्यमथवाऽन्तकः|
|४९|
स्नावजे-कूर्चा(आण्या)दिके मर्मणि, विद्धे आयामादयो भवन्ति| आक्षेपकः-आक्षेपः, स्तम्भो-यथास्वमङ्गानाम्, अतिरुजा च| तथा, यानस्थानासनाशक्तिः-यातुं स्थातुमासितुं चासामर्थ्यम्| वैकल्यं चाङ्गानाम्| अथवाऽन्तको-मरणं, भवति|
Adhikarana dhamanIsthe viddhe lakShaNAni (49) · Śloka 49
|
रक्तं सशब्दफेनोष्णं धमनीस्थे विचेतसः||४९||
धमनीस्थे-[गुदा]पस्तम्भादौ मर्मणि, विद्धे सति विचेतसो-मूर्च्छितस्य सतो, रक्तं स्रवेत्| कीदृशम् ? सशब्दफेनोष्णम्| सशब्दस्यात्र प्रत्येकं सम्बन्धः|
Adhikarana sirAmarmavyadhe lakShaNAni (50) · Śloka 50
सिरामर्मव्यधे सान्द्रमजस्रं बह्वसृक्स्रवेत्|
तत्क्षयात्तृड्भ्रमश्वासमोहहिध्माभिरन्तकः||५०||
सिरामर्मणो-बृहत्यादेर्व्यधे सति, असृक् सान्द्रं-घनं, अजस्रं-निरन्तरं, बहु-प्रभूतं, स्रवति| तत्क्ष्यात्-तस्यासृजः क्षयात्, तृड्भ्रमादिभिरन्तको-जीवितनाशः|
Adhikarana sandhije viddhe lakShaNAni (51) · Śloka 51
वस्तु शूकैरिवाकीर्णं रूढे च कुणिखञ्जता|
बलचेष्टाक्षयः शोषः पर्वशोफश्च सन्धिजे||५१||
सन्धिजेमर्मणि-आवर्तादौ, विद्धे वस्तु शूकैरिवाकीर्णं भवति| वस्तुशब्देनाधिष्ठानं विद्धदेश उच्यते| तच्छूकैः-शालियवादिसम्बन्धिभिः किंशारुभिः, व्याप्तमिव भवति| रूढे च सति तस्मिन्मर्मव्यधे कुणिता खञ्जता वा भवति| तथा बलचेष्टयोः क्षयः, तथा शोषोऽङ्गस्य, पर्वसु शोफः-श्वयथुश्च, सन्धिजे भवति| इदानीमेषामेव मर्मणां व्यधे जीवितनाशे कालं नियनयति-
Adhikarana sadyaH prANaharANyekonaviMSatirmarmANi (52-53) · Śloka 53
नाभिशङ्खाधिपापानहृच्छृङ्गाटकबस्तयः|
आष्टौ च मातृकाः सद्यो निघ्नत्येकान्नविंशतिः||५२||
सप्ताहः परमस्तेषां कालः कालस्य कर्षणे|
|५३|
नाभिशङ्खादीनि मर्माण्येकान्नविंशतिः सद्यो घ्नन्ति| नाभिरेकः, शङ्खौ द्वौ, अधिप एकः, अपानोऽप्येकः, हृदेकम्, शृङ्गाटकानि चत्वारि, बस्तिरेकः, आष्टौ मातृकाः एकान्नविंशतिरेतानि सद्यःप्राणहराणि| तेषां-मर्मणां, कालस्य-मृत्योः कर्षणे-आकर्षणे, सप्ताहः परमः कालः-प्रकृष्टोऽवधिः| एकान्नविंशतिरिति न विंशतिरिति सुप्सुपेति समासः, तत एकेन न विंशतिरिति तृतीयेति योगविभागात्समासः, ततः "एकादिश्चैकस्य" इत्यादिना नञः प्रकृतिभाव एकस्यादुगागमश्च, ऊनार्थेऽत्र नञ्, एकोनविंशतिरित्यर्थः|
Adhikarana kAlAntaraprANaharANi trayastriMSat (53-55) · Śloka 55
|
त्रयस्त्रिंशदपस्तम्भतलहृत्पार्श्वसन्धयः||५३||
कटीतरुणसीमन्तस्तनमूलेन्द्रबस्तयः|
क्षिप्रापालापबृहतीनितम्बस्तनरोहिताः||५४||
कालान्तरप्राणहरा मासमासार्द्धजीविताः|
|५५|
त्रयस्त्रिंशदपस्तम्भादयः कालान्तरप्राणहराः| मासं मासार्द्धं वा जीवितं येषु विद्धेष्विति मासमासार्द्धजीविताः, मासेन प्राणान् हरन्ति मासार्द्धेन वेत्यर्थः| सङ्ग्रहे तूक्तम् (शा. अ. ७)-"सौम्याग्रेयत्वात्तेषां पक्षाभ्यन्तरं कालः|" इति| त्रयस्त्रिंशदिति "त्रेस्त्रयः" इति त्रयसादेशः| तत्र, अपस्तम्भौ दौ, तलहृन्ति चत्वारि, पार्श्वसन्धी द्बौ, कटीकतरुणे द्वे, सीमान्ताः पञ्च, स्तनमूले द्वे, इन्द्रवस्तयश्चत्वारो-जङ्घामध्ययोर्द्वेबाहुमध्ययोर्द्वे, क्षिप्राणि चत्वारि-हस्तयोर्द्वे पादयोर्द्वे, अपालापबृहतीनितम्बस्तनरोहिताः प्रत्येकं द्वौ द्वाविति|
Adhikarana viSalyaghnAni trINi ,tatra hetuH (55-56) · Śloka 56
|
उत्क्षेपौ स्थपनी त्रीणि विशल्यघ्नानि, तत्र हि||५५||
वायुर्मांसवसामज्जमस्तुलुङ्गानि शोषयन्|
शल्यापाये विनिर्गच्छन् श्वासात्कासाच्च हन्त्यसून्||५६||
उत्क्षेपौ द्वौ स्थपन्येका, इत्येतानि त्रीणि विशल्यघ्नानि| कोऽत्र हेतुः ? इत्याह-तत्र हीत्यादि| हि-यस्मात्, तत्र-व्यधे, शल्यापाये वायुर्विनिर्गच्छन्-निर्यान्, मांसादीन् शोषयन् श्वास कासाभ्यां प्राणान् हन्ति| तत्र च हेतौ शतृप्रत्य्याः| निर्गमेन हि हेतुना मांसादीनां शोषणं भवति|
Adhikarana vaikalyakarANi catuScatvAriMSat (57-59) · Śloka 59
फणावपाङ्गौ विधुरे नीले मन्ये कृकाटिके|
अंसांसफलकावर्तविटपोर्वीकुकुन्दराः||५७||
सजानुलोहिताक्षाणिकक्षाधृक्कूर्चकूर्पराः|
वैकल्यमिति चत्वारि चत्वारिंशच्च कुर्वते||५८||
हरन्ति तान्यपि प्राणान् कदाचिदभिघाततः|
|५९|
फणादीनि विटपान्तानि प्रत्येकं द्वौ द्वौ, उर्व्यश्चतस्रः, कुकुन्दरौ द्वौ, जानुनी द्वे, लोहिताक्षाणि चत्वारि, आणयश्चत्वारः, कक्षाधरौ द्वौ, कूर्चाश्चत्वारो-हस्तयोर्द्वौ पादयोर्द्वौ, कूर्परौ द्वौ, इत्येवं चत्वारि चत्वारिंशच्चेति चतुश्च्त्वारिंशन्मर्माणि वैकल्यमङ्गस्य कुर्वते| कदाचित्त्वभिघातात् तान्यपिचतुश्चत्वारिंशत्, प्राणान् हरन्ति|
Adhikarana rujAkarANyaShTau (59) · Śloka 59
|
अष्टौ कूर्चशिरोगुल्फमणिबन्धा रुजाकराः||५९||
अष्टौ कूर्चदयो मर्मविशेषा रुजाकराः| "अग्निवायुसोमगुणबाहुल्यात्| अग्निवायू हि विशेषेण शूलकरौ| सोमस्तु प्राणावलम्बकः (सं.शा. अ.७)|" इति नैतानि प्राणहन्तॄणि| तत्र कूर्चशिरांसि हस्तपादेषु चत्वारि, गुल्फौ द्वौ, मणिबन्धौ द्वौ, इत्यष्टौ| इदानीम् मर्मणां यथायथं प्रमाणमभिधातुमाह-
Adhikarana marmaNAM pramANenABidhAnam ,a~ggulamAnAni dvAdaSamarmANi (60) · Śloka 60
तेषां विटपकक्षाधृगुर्व्यः कूर्चशिरांसि च|
द्वादशाङ्गुलमानानि|६०|
तेषां-मर्मणां मध्ये, विटपादीनि द्वादश मर्माण्यङ्गुलमानानि-अङ्गुलप्रमाणानि|
Adhikarana dvya~ggulAni ShaT marmANi (60-61) · Śloka 61
|
द्व्यङ्गुले मणिबन्धने||६०||
गुल्फौ च स्तनमूले च|
|६१|
मणिबन्धने-मणिबन्धौ, द्व्यङ्गुलप्रमाणौ| गुल्फौ स्तनमूले च द्व्यङ्गुले प्रत्येकम्| एकश्चशब्दः समुच्चयार्थो द्वितीयः पादपूरणे|
Adhikarana trya~ggulAni catvAri marmANi (61) · Śloka 61
त्र्यङ्गुलं जानुकूर्परम्|
|६१|
त्र्यङ्गुलप्रमाणौ जानू कूर्परौ च|
Adhikarana hastatalamAnAnyekonatriMSat (61-62) · Śloka 62
|
अपानबस्तिहृन्नाभिनीलाः सीमन्तमातृकाः||६१||
कूर्चशृङ्गाटमन्याश्च त्रिंशदेकेन वर्जिताः|
आत्मपाणितलोन्मानाः|६२|
अपानबस्त्यादयस्त्रिंशदेकेन वर्जिताः एकोनत्रिंशत्, आत्मपाणितलोन्मानाः-स्वहस्ततलपरिमाणाः|
Adhikarana ardhA~ggulAni ShaT pa~jcASat ,anyeShAM mate tilavrIhimAnAni , (62-63) · Śloka 63
|
शेषाण्यर्द्धाङ्गुलं वदेत्||६२||
पञ्चाशत्षट् च मर्माणि, तिलव्रीहिसमान्यपि|
इष्टानि मर्माण्यन्येषाम्|६३|
शेषाणि षट्पञ्चाशन्मर्माणी स्वेनाङ्गुलप्रिमाणोनार्द्धङ्गुलप्रमाणान्यादिशेत्| अन्येषां तन्त्रकृतां तिलप्रमाणानि व्रीहिप्रमाणानि वा मर्माणीष्टानि-आभिमतानि| "परमतंमप्रतिषिद्धमनुमतमेव" इत्यस्यापि ग्रन्थकृत एतदेव मतमिति बोध्यम्|
Adhikarana marmABiGAtamaraNe kAraNam (63-66) · Śloka 66
इदानीं यथा मर्माभिघाते मरणं सम्पद्यते तथा दर्शयति |
चतुर्द्धोक्ताः सिरास्तु याः||६३||
तर्पयन्ति वपुः कृत्स्नं ता मर्माण्याश्रितास्ततः|
तत्क्षतात्क्षतजात्यर्थप्रवृत्तेर्धातुसङ्क्षये||६४||
वृद्धश्चलो रुजस्तीव्राः प्रतनोति समीरयन्|
तेजस्तदुद्धृतं धत्ते तृष्णाशोषमदभ्रमान्||६५||
स्विन्नस्रस्तश्लथतनुं हरत्येनं ततोऽन्तकः|
|६६|
याः सिराश्चतुर्द्धा उक्ताः-प्राङ्क्षिर्दिष्टा वातपित्तकफजुष्टशुद्धरक्तवाहिन्यः सप्तसङ्ख्याः, कृत्स्नं-अशेषं, शरीरं तर्पयन्ति प्रीणयन्ति, ता मर्माण्याश्रिताः-गताः प्राप्ताः| तत्क्षतादित्यादि| यत एवं सर्वाः सिरा मर्माणि प्राप्ताः, ततः कारणात्-मर्माश्रयलक्षणात्, तत्क्षतात्-तेषां मर्मणां क्षतं तत्क्षतं, तस्मान्मर्मक्षतात्कारणात्, क्षतजस्य-रक्तस्य, अतिप्रवृत्तिः| तस्मात्क्षतजात्यर्थप्रवृत्तेः कारणात्, यो धातुसङ्क्षयः-परम्पराक्रमायातो मांसादिधात्वपचयः, तस्मिन् धातुक्षये सति यो वृद्धश्चलो-वायुः, स तीव्राः-अत्यन्तदुःखदायिनीः, रुजः-शूलविशेषान्, प्रतनोति-करोति| किं कुर्वन् ? तेजः-पित्तं, समीरयन्-उदीरयन् वृद्धिं नयन्, तत्-तेजः, उद्धृतं- बृहत्सम्पन्नं, तृष्णादीन् धत्तेकरोति| ततः-अनन्तरं तृष्णादिभ्यः, एनं-पुरुषं मर्मविद्धं, अन्तको हरति| किम्भूतम् ? स्विन्ना स्रस्ता श्लथा तनुर्यस्य तम्| तदयमर्थः,-मर्माभिघते रक्तवाहिनीनां सिराणां मुखविकासो जायते| तद्विकासाज्जीविताधिष्ठानस्यासृजोऽत्यर्थं या निःसृतिर्यावत्तस्य क्षयः, तत्क्षयाच्च जीवितनाशः, अश्रयाभवात्|
Adhikarana marmABiGAte cikitsA (66-67) · Śloka 67
|
वर्धयेत्सन्धितो गात्रं मर्मण्यभिहते द्रुतम्||६६||
छेदनात्सन्धिदेशस्य सङ्कुचन्ति सिरा ह्यतः|
जीवितं प्राणिनां तत्र रक्ते तिष्ठति तिष्ठति||६७||
अधुना मर्माभिघाते चिकित्सामाह- मर्मण्यभिहते सति, गात्रं-शरीरं, आश्वेव चेदयेत्| कुतः ? सन्धितः,-सन्धिप्रदेशात्| हि-यस्मात्, सन्धिदेशस्य चेदनात्सिराः सङ्कुचन्ति-संवृतमुखा भवन्ति| वर्द्धयेदिति वर्द्धछेदनादाविति चौरादिकः| अतः-सिरासङ्कोचात्कारणात्, रक्तं न बहिर्निस्सरति| तत्र रक्ते तिष्ठति-बहिरवहति सति, जीवितं तिष्ठति|
Adhikarana amarmaNi viddhasya jIvanAdi ,marmasu kShArAdIn varjayet (68-69) · Śloka 69
तदनेन प्रकारेण मर्माभिघातक्षतान्मरणम्, न त्वमर्माभिघातक्षतात्|
अत इदमाह सुविक्षतोऽप्यतो जीवेदमर्मणि न मर्मणि|
प्राणघातिनि जीवेत्तु कश्चिद्वैद्यगुणेन चेत्||६८||
असमग्राभिघाताच्च सोऽपि वैकल्यमश्नुते|
तस्मत्क्षारविषाग्न्यादीन् यत्नान्मर्मसु वर्जयेत्||६९||
यतो मर्माभिघातक्षतात् प्राणी म्रियते, नान्यथा क्षतमात्रात्| अतः-अस्मात्कारणात्, सुष्ठु कृत्वा विशेषेण क्षतोऽपिपरशतैर्विद्धोऽपि, अमर्मणि विद्धो जीवेत्, न तु मर्मणी विद्धो जीवेत्| किम्भूते ? प्राणघातिनि| द्विविधं हि मर्म-प्राणघात्येकमपरं वैकल्यकरम्| तत्र प्राणघातिनि मर्मणि कुशाग्रेणापि विद्धो न जीवति| अथ पुण्यवान्नियतायुश्च प्राणघातिन्यपि मर्मणि विद्धो वैद्यगुणेनासमग्रस्य-असकलस्य, मर्मणोऽभिघाताश्च कश्चिद्यदि विद्धो जीवेत्, सोऽपि वैकल्यमश्नुते-विकलतां प्राप्य जीवतीत्यर्थः| वैद्यशब्दः प्राधान्याद्रव्यादिपादत्रयमुपलक्षयति| वैद्यगुणेन-पादत्रयसम्पत्त्येत्यर्थः| यतश्चैवं मर्माभिघातः सापायः प्राणोपरोधकृत्, तस्मात्कारणात् मर्मसु क्षारादीन् यत्नात्-तात्पर्येण, वर्जयेत्-परिहरेत् अग्न्यादीनत्रादिशब्देन भल्लातकरसकपिकच्छुशूकादीनां ग्रहणम्|
Adhikarana svalpo~api marmAghAto~ati pIDAkaraH ,marmAshrayA rogA api tadvat (4) · Śloka 4
मर्माभिघातः स्वल्पोऽपि प्रायशो बाधतेतराम्|
रोगा मर्माश्रयास्तद्वत्प्रक्रान्ता यत्नतोऽपि च||७०||
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचिता यामष्टाङ्गहृदयसंहितायां द्वितीये शारीरस्थाने मर्मविभागो नाम चतुर्थोऽध्यायः||४||
एवं मर्माभिघातो रक्ष्यः| यस्मान्मर्माभिघातः सुष्ट्वतिशयेनाल्पोऽपि प्रायशो-बाहुल्येन, बाधतेतरां-अतिशयेन पीडयति| न केवलं मर्माभिघातो बाधते यावद्रोगा अपि मर्माश्रयास्तद्वद्बाधन्ते| यत्नतोऽपि-आदरेणापि, प्रक्रान्ताः-उपक्रान्ताः, इति| इति श्रीमृगाङ्कदत्तपुत्रश्रीमदरुणदत्तविरचितायामष्टङ्गहृदय- टीकायां सर्वाङ्गसुन्दराख्यायां द्वितीये शारीरस्थाने मर्म- विभागो नाम चतुर्थोऽध्यायः समाप्तः|| ४||
Adhikarana atha garBavyApannAma caturtho~adhyAyaH --pratij~jA (1) · Śloka 1
अथातो गर्भव्यापदं व्याख्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः||१||
अथ प्रकरणायातगर्भव्यापच्चिकित्सितप्रदर्शनार्थमध्यायारम्भः|| १||
Adhikarana garBiNyAH sashUle puShpadarshane cikitsAkramaH (2) · Śloka 2
स्त्री चेदापन्नगर्भा परिहार्य्याण्यासेवेत|
ततश्च यस्याः बस्तिपार्श्वश्रोणियोनिमुख़ेषु शूलं पुष्पदर्शनं च स्यात् तां मृदुसुख़शिशिरास्तरणशयनस्थामीषदवनतशिरसं शीतप्रदेहपरिषेकादिभिरुपाचरेत्||२||
आपन्नगर्भा सम्प्राप्तगर्भा स्त्री परिहार्य्याण्यासेवेत चेत् ततश्च यद्यस्याः शूलं पुष्पदर्शनं च स्यात् ततस्तां मृदुत्वादिगुणयुक्तशयनस्थां शीतैः प्रदेहाभिरुपाचरेत्|| २||
Adhikarana cikitsAvisheShAH (3) · Śloka 3
तद्यथा-सहस्रधौतेन सर्पिषाऽधोनाभेः सर्वतः प्रदिह्यात्|
मधुकसिद्धसर्पिषा सुशीतेन पिचुमाप्लाव्य योनिसमीपे स्थापयेत्|
गव्येन पयसा मधुकाम्बुना न्यग्रोधादिकषायेण व परिषेचयेत्|
परिपीततत्स्वरसानि च तैलानि योनौ निधापयेत्|
तच्छृङ्गसिद्धस्य वा क्षीरसर्पिषः पिचुम्||३||
सहस्रधौतं सर्पिर्यदनेकशोऽग्नौ विलाप्य शीतोदके प्रक्षिप्य स्त्यानीक्रियते| मधुकेन सिद्धं सर्पिस्तथोक्तम्| तच्छृङ्गैर्न्यग्रोधादिशृङ्गैः सिद्धस्य क्षीरसर्पिषः पिचुं योनौ दद्यात्| क्षीरमेव प्रमथ्य सम्पादितं सर्पिः क्षीरग़ृतम्|| ३||
Adhikarana garBiNyAH raktAtisrAve cikitsA (4) · Śloka 4
अतिस्रवति तु रक्ते तत एव अक्षमात्रं प्राशयेत्|
केव- लादेव वा क्षीरसर्पिषः|
पद्मोत्पलकुमुदकिञ्जल्कं च समधुशर्करं लेहयेत्|
धातकीगैरिकिसर्जरसाञ्जनचूर्णं वा मधुना|
न्यग्रोधा- दित्वक्प्रवालकल्कं वा|
शशैणहरिणरुधिरं वा सक्षौद्रं पाययेत्|
ऋद्धिविदारीजीवन्तीर्वा पयसा|
नीलोत्पल- सितापक्वलोष्ठचन्दनादि वा|
तण्डुलाम्बुवासारसान्य- तरेण|
गन्धप्रियङ्गुसितोत्पलशालूकोदुम्बरशलाटुन्य- ग्रोधशृङ्गानि वाऽऽजेन पयसा|
कशेरुकमृणालकशृङ्गाटककाश्मर्यपरुषकद्राक्षासारि- वाप्रपौण्डरीकानन्तोत्पलकदम्बबीजक्वाथेन वा शर्क- रामधुमधुरेण शालिचूर्णम्|
जीवनीयशृतं वा क्षीरम्|
बलातिबलाशालिषष्टिकेक्षुमूलकाकोलीशृतेन पयसा समधुशर्करेण रक्तशाल्योदनं सुशीतं भोजयेत्|
शीत- वीर्य्यजाङ्गलरसेन वा|
रक्तपित्तक्रियाश्च शोधनवर्ज्याः प्रयुञ्जीत|
सौम्याश्च मनोऽनुकूलाः कथाः||४||
रक्ते त्वतिस्रवति तत एव न्यग्रोधादिसिद्धात् क्षीरसर्पिषोऽक्षमात्रं प्राशयेत्| केवलादेव वा क्षीरसर्पिषोऽक्षमात्रं न तु न्यग्रोधादिशृङ्गसिद्धात् क्षीरसर्पिषः| पद्मादिकिञ्जल्कं च मधुशर्कराभ्यां युक्तं लेहयेत्| मधुना वा धातक्यादिचूर्णम्| मधुनैव न्यग्रोधादित्वचां शृङ्गाणां च कल्कम्| सक्षौद्रं व शशाद्यन्यतमरुधिरम्| ऋद्ध्यादिकं च पयस नीलोत्पलादीनि तण्डलाम्बुवासारसयोरन्यतरेण| पक्वो मृल्लोष्ठस्तथोक्तः| आजेन पयस गन्धप्रियङ्वादीनि| कशेरुकादीनां कषायेण माधुर्य्यसम्पादनमात्राभ्यां शर्करामधुभ्यां मिश्रेण शालिचूर्णं पाययेत्| जीवनीयौषधशृतं क्षीरं वा पाययेत्| बलातिबलादिशृतक्षीरेण मधुशर्करासंयुक्तेन सुशीतं रक्तशाल्योदनं भोजयेत्| शीतवीर्य्याणां च जाङ्गलानां रसेन वा सुशीतं रक्तशाल्योदनं भोजयेत्| शोधनवर्ज्याश्च सर्वा रक्तपित्तोक्ताः क्रियाः यथावसरं कुर्वीत|| ४||
Adhikarana shoNitasrAvaM vinA bastyAdi- shUle cikitsA (5) · Śloka 5
अदृष्टशोणितां तु मधुकपयस्यासुरदारुभिः सिद्धं पयः पाययेत्|
ताम्रवल्यश्मन्तकशतावरीपयस्याभिर्वा|
विदार्य्यादिगणेन वा|
श्वदंष्ट्रास्वरसक्षीरसिद्धं वा सर्पिः|
पलाण्डुरससिद्धं वा सक्षौद्रम्||५||
यदा तु शोणितदर्शनं विनैव बस्त्यादौ शूलं केवलं भवति| गर्भिण्यास्तथा तां मधुकादिसिद्धं पयः पाययेत्| ताम्रवल्यादिसिद्धं वा पयः| विदार्य्यादिगणसिद्धं वा| श्वदंष्ट्रास्वरसक्षीराभ्यां वा सिद्धं सर्पिः पाययेत्| पलाण्डुरससिद्धं वा क्षौद्रयुक्तं सर्पिः|| ५||
Adhikarana trimAsaM yAvadasrasrutau garBasyAsAdhyatvam (6) · Śloka 6
असम्पूर्णत्रिमासायास्तु पुष्पदर्शने गर्भः प्रायो न तिष्ठ- त्यसञ्जातसारत्वात्||६||
प्रथमान्मासादारभ्य मासत्रयं पुष्पदर्शने सम्यक् चिकित्सितोऽपि गर्भः कोष्ठे न तिष्ठत्यसञ्जातसारत्वात्| स्रवत्येवेत्यर्थः| तेन प्रथममासत्रयं पुष्पदर्शने प्रायो गर्भश्चिकित्सयापि कोष्ठे न तिष्ठति| मासत्रयादूर्ध्वमपि चतुर्थादिष्वपि मासेष्वकाठिन्यात्|
Adhikarana AmAnvaye puShpadarshane cikitsopakramaH (7) · Śloka 7
आमान्वये चोर्ध्वमपि विरुद्धोपक्रमत्वात्|
तत्र रूक्षशी- तानि प्रयुञ्जीत||७||
आमान्वये पुष्पदर्शने विरुद्धोपक्रमत्वाद्गर्भः कोष्ठे न तिष्ठति| आमे ह्युष्णतीक्ष्णादिका क्रिया| सा तु गर्भे विपरीता| अतो विरुद्धोपक्रमत्वम्| यत्र चतुर्थादिष्वपि मासेष्वामान्वयो नास्ति, तत्र पुष्पदर्शनेऽपि गर्भो विधारयितुं सुशक्यते| तत्र त्वामान्वये रूक्षशीतान्यौषधानि प्रयुञ्जीत|| ७||
Adhikarana tatra cikitsAvidhiH (8) · Śloka 8
तद्यथा-प्रागुपवासं ततो दुरालभामृतोशीरपर्पटक- ग़नचन्दनातिविषाबलाकट्वङ्गधान्याकक्वाथपानम्|
तृणधान्यशालिषष्टिकपेयामशनं च मुद्गादियूषैः|
जिते त्वामे स्निग्धशीतानि पूर्ववत्||८||
तद्यथेत्यादिना तेषामेवोपयोगविशेषं दर्शयति| औषधात् पूर्वमुपवासः दुरालभादिक्वाथस्य पानम्| तृणधान्यादिपेया मुद्गादियूषैश्चाशनं प्रयुञ्जीतेति सम्बध्यते| एवमामे जिते प्रथमपुष्पदर्शनवत् स्निग्धादीन्युपयुञ्जीत|| ८||
Adhikarana AmagarBapAte cikitsA (9) · Śloka 9
आमगर्भे तु पतिते मद्यानामन्यतमं सामर्थ्यतः पाययेत्|
गर्भकोष्ठविशुद्ध्यर्थमर्तिविस्मरणार्थञ्च|
अमद्यपां पाच- नीयद्रव्योपहिताभिः स्नेहलवणवर्ज्याभिः सतिलाभि- रुद्दालकादियवागूभिरुपाचरेद् यावन्तो मासास्तावन्त्य- हानीति|
ततः प्रीणनैर्बलानुरक्षिभिरस्नेहैराहारैरादोषधातुक्लेद- शुद्धेः|
आमगर्भशेषेण हि पुनः पुनरकुशलमनुषज्येत|
तस्मात् तीक्ष्णैरनवशेषयन्नुपाचरेत्|
ततः परं स्नेहपानै- र्बस्तिभिराहारैश्च दीपनीयपाचनीयजीवनीयबृंहणीय- मधुरवातहरैरिति||९||
आमगर्भपाते मद्यानामन्यतमं गर्भिणीं पाययेत्| प्रयोजननिर्देशस्तद्गुणमन्यत् प्रदर्शयितुम्| अमद्यपा या केनचित् कारणेन मद्यं न पिबति तां पाचनीयद्रव्यसम्मिश्राभिरस्नेहलवणाभिः सतिलाभिः तुणधान्ययवागूभिरुपाचरेत्| यावत् सङ्ख़्ये मासि गर्भ पातस्तावत् सङ्ख़्यान्यहानि अयं क्रमः| ततोऽनन्तरमेवादोषादिशुद्धेः प्रीणनादिगुणैराहारैरुपाचरेत्| कुत इत्याह-आमगर्भशेषेणेत्यादि| तदनु च स्नेहपानैर्बस्तिभिस्तथा दीपनीयादियुक्तैराहारैरिति|| ९||
Adhikarana garBasyopaviShTakopashuShkakasamBavahetuH (10) · Śloka 10
यस्याः पुनर्महति जातसारे गर्भे वर्ज्यानामवर्जनात् पुष्प- दर्शनं स्यादन्यद्वा योनिस्रवणम्|
तस्यास्तन्निमित्तं वायुः प्रकुपितः पित्तश्लेष्माणौ परिगृह्य गर्भस्य रसवहां नाडीं प्रतिपीड्यावतिष्ठते|
ततो नाड्यां दोषैः कुल्यायामिव वहनाद्गर्भो वृद्धिमनाप्नुवन्नुपविशत्युपशुष्यति वा||१०||
महति जातसारे वर्ज्यावर्जनाद्योनिरार्त्तवमन्यद्वा किञ्चित् स्रवति| तस्या योनिस्रुतिनिमित्तं वायुः कुपितः सन् पित्तश्लेष्माणौ परिगृह्य या तु नाडी मातुराहारसारं रसं गर्भस्य वहति तां नाडीं प्रतिपीड्य तिष्ठति| ततस्तया तद्वृद्धया नाड्या कुल्ययेव तृणादिच्छन्नया केदारो गर्भो वृद्धिमप्राप्नुवन्नुपविशत्युपशुष्यति वा|| १०||
Adhikarana upaviShTakagarBalakShaNam (11) · Śloka 11
तत्र यस्याः कादाचित्कार्त्तवपरिस्रावावल्पौ च दृश्येते सततं च गर्भः प्राप्तात् परिमाणादपरिहीयमान एव स्फुरति|
न च कुक्षिर्विवर्धते, तमुपविष्टकमित्या- चक्षते||११||
तत्र द्वौ भेदौ| एको वृद्ध्यप्राप्तिः द्वितीय उपशोषः| प्रथमे कादाचित्केन स्रावेण गर्भो न परिहीयते| नापि वर्धते| स्फुरति च तमुपविष्टकमित्याचक्षत आचाऱ्य्याः|| ११||
Adhikarana upashuShkakagarBalakShaNam (12) · Śloka 12
यदा तु प्रतिमासमार्त्तवं प्रत्यहं वा परिस्रवणं नात्यल्पं च तथा परिहीयमाणो गर्भश्चिरात् किञ्चित् स्पन्दते|
कुक्षिश्च वृद्धोऽपि परिहीयते|
तदुपशुष्ककं नागोदरं च||१२||
द्वितीये त्वतिस्रावाद्दृद्धोऽपि परिहीयते| चिरात् स्तोकं च स्पन्दते| कुक्षिश्च वृद्धोऽपि परिहीयते| तं गर्भमुपशुष्ककनागोदरशब्दाभ्यामाचक्षते|| १२|
Adhikarana upaviShTakanAgodarayoH prasavakAlanishcayaH (13) · Śloka 13
तौ तु मातुराहारतेजसाऽल्पेनाप्याय्यमानौ यदा पुष्टौ स्यातां केशदशनादियुक्तौ|
तदा वर्षगणैरपि प्रमदा प्रसूयेत एव||१३||
तौ चोपविष्टकोपशुष्ककौ मातुराहारतेजस स्वल्पेनाप्याय्यमानौ क्रमेण यद पुष्टौ स्यातां तद केशदशनादियुक्तौ बहुभिरपि वर्षैः प्रमदा प्रसूयेत्|| १३||
Adhikarana vAtikopaviShTakanAgodarayorlakShaNAni (14) · Śloka 14
तत्र वातेनोपविष्टकोपशुष्ककयोर्वायुः प्रतिहन्यते|
सशब्दं फेनिलं विच्छिन्नं शकृदुपवेश्यते|
मूत्रमुपरुध्यते|
कटीपृष्ठहृदयेषु वेदना|
जृम्भा, निद्रानाशोऽभीक्ष्णं प्रतिश्यायः, शुष्ककासः, सादः, क्ष्वेडेते इव कर्णौ, तुद्येते इव शङ्ख़ौ|
पिपीलिकाभिरिव संसृज्यते शरीरं परिऋन्तन्निव वायुर्भ्रमति कुक्षौ तम इव प्रवेश्यते|
दुःख़ेनान्नस्य जरणम्|
अहरहः परिहानिः|
स्फुटितविवर्णपरुषत्वक्त्वं च भवति||१४||
तत्रेत्यादिना दोषविशेषेण तयोर्लक्षणमुच्यते| तत्रापथ्यविशेषसेवया यदोपविष्टकोपशुष्ककयोर्वायोराधिक्यं भवति तदा तत्र वातहेतुकयोरुपविष्टकोपशुष्ककयोः कोष्ठचरो वायुस्ताभ्यां प्रतिहन्यते| सशब्दतादियुक्तं च सकृत् गर्भिण्युपवेश्यते| सुबोधमन्यत्|| १४||
Adhikarana paittikopaviShTakanAgodararyorlakShaNAni (15) · Śloka 15
पित्तेन ताम्रहरितमुपवेश्यते|
धूमकोऽम्लकश्छर्दिमूर्च्छाक्षिहृदयदाहः|
पीतरक्तगोमूत्राभनेत्रमूत्रनख़त्वक्त्वं काली दुर्बला नित्यशूना च नारी भवति||१५||
पित्तेनोभयोर्गर्भिण्यास्ताम्रहरितशकृदुपवेशनादि सुबोधम्| गोमूत्रवत् पीतरक्तनेत्रादित्वम्|| १५||
Adhikarana shlaiShmikopaviShTakanAgodarayorlakShaNAni (16) · Śloka 16
श्लेष्मणा मधुरास्यत्वमुत्क्लेशः श्लेष्मोद्वमनं भक्तद्वेषः श्वेतहस्तपादनेत्रता कासः श्वासश्च||१६||
श्लेष्मणा तयोर्गर्भिण्या मधुरास्यत्वादिकं भवतीति दोषविशेषलक्षणम्|| १६||
Adhikarana upaviShTakanAgodarayoH sAmAnyA cikitsA (17) · Śloka 17
तयोर्जीवनीयबृंहणीयमधुरौषसिद्धानां सर्पिषामुपयोगः|
तथा पयसां रसानामामगर्भाणां च गर्भवृद्धिकरः|
तथा सम्भोजनमेतैरेव च ग़ृतादिभिः|
सुभिक्षाया अभीक्ष्णं यानवाहनापवर्ज्जनबृंहणैरुपपादनम्||१७||
चिकित्सा तूभयोः सामान्येन जीवनीयादिशृतसर्पिरादिका| एषामुपयोगो गर्भवृद्धिकर इत्यर्थः| तथा एतैरेव सर्पिरादिभिह् सम्भोजनं सह भोजनम्| तैरेव च सुभिक्षायास्तृप्ताया गर्भिण्या यानवाहनादिभिरपवर्जनम्| उपपादनमुपस्कारः दानम्| इति सामान्येनोपविष्टकोपशुष्ककयोर्विवद्धनार्थं चिकित्सितम्|| १७||
Adhikarana vAtikopaviShTakanAgodara- yoshcikitsA (18) · Śloka 18
अथ विशेषेण वाते पूर्वमेव सैन्धवोपहितं क्षीरबस्तिं दत्त्वा शीतोदकस्नातां मृदु शाल्योदनं भोजयेत्|
ततो विदार्य्यादिगणसाधितेन सर्पिषाऽनुवासयेत्|
निवातं च सेवेत||१८||
वातादिदोषे विशेषेण अथेत्यादिना कथयति-बस्तिदानादनुभोजनम्| ततोऽनुवासनम्| सुबोधम्|| १८||
Adhikarana paittikopaviShTakanAgodarayoshcikitsA (19) · Śloka 19
पित्ते मधुकविदारीनिर्य्यूहसिद्धं पयः पिबेत्|
तिस्रः स्थूलकुक्कुटीर्निस्तुषमाषाढकं च क्षीरोदकेनोलूख़ले संक्षुद्य तद्रसेन सर्पिषा च तित्तिरिकपिञ्जलान्यतररसं साधयित्वा पाययेदुपविष्टकविवर्धनार्थमुपशुष्ककबृंहणार्थं च|
अजासर्पिषा क्षीरेण जीवनीयैश्च संस्कृतां यवागूं पिबेत्|
पयस्या काकोलीद्वयसुनिषण्डककल्केन पयसा च सर्पिर्विपाचयेत्|
तत्काल्यं क्षीरानुपानमुपयुञ्जीत|
आम- गर्भरसेन चाश्नीयात्|
तानेव च तत्र भृष्टान् भक्षयेत्|
जलचरमांसानि च||१९||
स्थूलाश्च ताः कुक्कुट्यस्तथोक्ताः तेन माषकुक्कुटीरसेन सर्पिषा मिश्रितेन सह तित्तिरेः कपिञ्जलस्य वा रसं साधयित्वा उपविष्टकविवर्धनार्थमुपशुष्ककबृंहणार्थञ्च पाययेदिति सम्बन्धः | जीवनीयानां यथासंस्कारं मात्रा| पयस्यादीनां चतुर्णां कल्केन तच्चतुर्गुणं सर्पिः पयसा स्नेहसमेन विपचेत्| पयस्या क्षीरविदारी| काल्यं प्रातः| तस्मिन क्षीरानुपाने प्रयुक्ते भोजनकाले आमगर्भाणां त्वचिरकालजातानां प्राणिनां रसेनावमश्नीयात्| तानेवामगर्भांस्तत्रैव रसे भृष्टान्निस्तालितान् भक्षयेत् तत्तज्जलचारिणां हंसादीनां मांसानि च|
Adhikarana shlaiShmikopaviShTakanA- godarayoshcikitsA (20) · Śloka 20
कफे त्वानूपौदकपिशितोपदंशामच्छसुरां त्रिरात्रं पञ्चरात्रं सप्तरात्रं वा पिबेत्|
तिलमुद्गमाषलवणबिल्वपात्रैः|
पञ्चभिर्ग़ृतपात्रं संयोज्य स्वनुगुप्तं निधापयेत्|
ततः प्रातः पिण्डं बिल्वमात्रं शृतशीतच्छागदुग्धनुपानं वाऽश्नीयात्|
अत्रैव वा बदर- चूर्णपात्रमपि निदध्यात्||२०||
पिशितमुपदंशः पानोपायभोजनं यस्याः सुरायास्ताम्| तिलादीनां पञ्चानामेकीकृत्य चूर्णस्य पञ्चपात्रं ग़ृतस्य पात्रेण संयोज्य निधापयेत्| स्वनुगुप्तं कृत्वैष ततः प्रयोगः| अत्रैव बदरचूर्णपात्रप्रक्षेपो द्वितीयः| पात्रं शुष्कद्रव्यस्य चतुष्षष्टिपलानि| ग़ृतस्याष्टाविंशत्यधिकं पलशतम्||२०||
Adhikarana garBasya sarvathA avRuddhau tatpAtanam (21) · Śloka 21
एवमवृद्धौ तीक्ष्णैर्विरेचयेदपरापातनीयैश्च पातयेत्||२१||
एवं गर्भो न वर्धते तदा गर्भिणीं तीक्ष्णैर्द्रव्यैर्विरेचयेत् अपरापातनीयैर्वा प्रयोगैर्गभं पातयेत्|| २१||
Adhikarana lInagarBalakShaNam (22) · Śloka 22
यस्याः पुनर्वातोपसृष्टस्रोतसि लीनो गर्भः प्रसुप्तो न स्पन्दते तं लीनमित्याहुः||२२||
लीनो नाम गर्भो यो गर्भिण्या वातोपसृष्टस्रोतसि लीनो न स्पन्दते|| २२||
Adhikarana lInagarBacikitsA (23) · Śloka 23
तत्र श्येनोत्क्रोशगोमत्स्यगोधाशिख़िकुक्कुटतित्तिरीणामन्यतमस्य रसेन भूरिसर्पिष्केण माषयूषेण वा ग़ृताढ्येन रक्तशाल्योदनं भोजयेत्|
सक्तून् वा तिलमाषबिल्वशलाटुयुक्तान् पयस पाययेत् मेद्यमांसोपदंशं वा मार्द्वीकम्|
तैलेन चाभीक्ष्णमुदरवङ्क्षणोरुकटीपार्श्वपृष्ठान्यभ्यज्यात्|
मुहुर्मुहुश्चैनां हर्षयेत्|
पूर्वोक्तं चेक्षेत||२३||
तत्र लीने गर्भे श्येनादीनामन्यतमस्य रसेन बहुसर्पिष्केणाथवा माषयूषेण ग़ृताड्येन मूलकयूषेण वा ग़ृताढ्येन रक्तशाल्योदनं भोजयेत्| सक्तून् वा तिलादिसंयुक्तान् क्षीरेण पाययेत्| बिल्वशलाटु बालबिल्वम्| मेद्यं मेदुरम्| सुबोधम्| पूर्वोक्तं गर्भवृद्धिकरोक्तम्|| २३||
Adhikarana udAvartacikitsA (24) · Śloka 24
यस्याः पुनरुदावर्तविबन्धः स्यात्तां वातहरस्निग्धान्नपानैरुपाचरेत्|
अष्टमे तु मासे मधुकसिद्धेन तैलेनानुवासयेत्|
तदसिद्धौ वीरणशालिकुशकाशेक्षुबालिकावेतसपरिव्याधमूलानां भूतीकानन्ताकाश्मर्यपरूषकमधूकमधुकमृद्वीकानां च पयसाऽर्धोदकेनोद्गृह्य रसं तेन प्रियालबिभीतकमज्जतिलकल्कयुक्तेनेषल्लवणोष्णेन निरूहयेत्|
विगतविबन्धां च स्नाताशितां सायं तेनैव तैलेनानुवासयेत्||२४||
यस्या इत्यादि सुबोधम्| अष्टमे मासे त्वनुवासनं तेनानुवासनेनासिद्धौ वीरणादीनां सप्तानां मूलानां भूतीकादीनां यथासम्भवं मूलानां फलानां च क्षीरोदकाभ्यां अनुक्वाथनेन चूर्णमेलनेन रसमुद्गृह्य तेन रसेन प्रियालादिकल्कमिश्रेण ईषल्लवणेनेषदुष्णेन च निरूहयेत्| वीरणं तृणविशेषः| इक्षुबालिका करङ्कशालिरिक्षुः परिव्याधो जलवेतसः| विगतोदावर्तविबन्धां चानुवासयेत्| तेनैव मधुकसिद्धेन तैलेन|| २४||
Adhikarana udAvartepekShAyAM vyApat (25) · Śloka 25
उदावर्तो हि समुपेक्षितः सहसा सगर्भां गर्भिणीमतिपातयेत्||२५||
अवश्यं चोदावर्त्ते चिकित्सां कुर्यात्| यत् उदावर्त उपेक्षितः सहस शीग़्रमेव सगर्भां गर्भिणीं हन्यात्|| २५||
Adhikarana AmagarBasrAvahetavaH (26) · Śloka 26
यस्याः पुनरतिमात्रदोषोपचयाद्यथोक्तैर्वा व्यवायादिभिरन्यैर्वा व्याधिभिः पूर्वोपचितेन वा जनन्यपत्ययोः कर्मणा बन्धनान्मुच्यते गर्भः फलमिव वृन्तात्समुक्तबन्धनो गर्भशय्यामतिक्रम्य कृतप्लीहान्त्रविवरैरवस्रंसमानः कोष्ठसंक्षोभमापादयति|
ततः कोष्ठसंक्षोभाद्वायुरपानो मूढः कुक्षिबस्तिपार्श्वोदरयोनिशूलानाहविण्मूत्रसङ्गानापाद्य गर्भं च्यावयति तरुणं शोणितभावेन|
सोऽभिहितः प्राक्||२६||
यस्या इत्यादि सुबोधम्| गर्भस्य बन्धनं यत्र तत्र मातुरनुबन्धो भवति परिपोषार्थम्| वृन्ताद्येन शाख़ायां निबध्यते फलम्| स व्यापन्नो गर्भ आमः सन् शोणितभावेनापि प्रसूयते| तत्र च विधेयमुक्तम्|| २६||
Adhikarana mRutagarBAyA lakShaNam (27) · Śloka 27
विवृद्धे तु गर्भे स्तब्धं स्तिमितं शीतमश्मगर्भमिवोदरमाभाति|
शूलमधिकमुपजायते|
न च स्पन्दते गर्भो नाऽऽव्यः प्रादुर्भवन्ति|
न स्रवति योनिरक्षिणी चास्याः स्रंस्येते|
तथा भृशमरतिपरीता व्यथतेऽन्यथा चेष्टते ताम्यति भ्राम्यति रोदित्यहर्निशम्|
न स्वपिति|
पूत्युच्छ्वासा कृच्छ्राच्छ्वसित्यतिकष्टं प्राणिति|
जक्षितीत्येवंविधां स्त्रियं मृतगर्भां विद्यात्||२७||
यदा तु वृद्धो व्यापद्यते तदा गर्भिण्याः स्तब्धोदरत्वादिकं करोति| आव्यो गर्भप्रसववेदनाः| अक्ष्णोः स्रंसो बन्धः भ्रंशः| पूतिरुच्छ्वासो यस्याः सा तथोक्ता| अतिकष्टं प्राणिति| कथमपि चेष्टासु प्रभवति| जीवति वा कष्टं च जक्षितिभक्षयति| स्वपिति वा इत्येवंविधलक्षणयुक्तां स्त्रियं मृतगर्भां विद्यात्|
Adhikarana mUDhagarBalakShaNam (28) · Śloka 28
तं तु गर्भं कदाचिदसम्यगपत्यपथमनेकधा प्रतिपन्नं विगुणेनेव वायुना पीडितं मोहितं च मूढगर्भमित्याहुः|
विगुणानिलप्रतिपीडनवैचित्र्यादसङ्ख़्यगतिं च||२८||
तं गर्भं कदाचिद्वातवशादसम्यगनार्जवेनापत्यपथं योनिमार्गं प्रवृत्तं वायुना पीडितं मोहितमस्पन्दं मूढगर्भमित्याहुराचार्य्याः| वायुपीडनवैचित्र्याच्च तस्य गर्भस्यासङ्ख़्यगतित्वम्|| २८||
Adhikarana mUDhagarBagatayaH sthAnAni ca (29) · Śloka 29
समासतस्तु त्रिविधा गतिरुर्ध्वा, तिर्य्यङ्, न्युब्जा च|
संस्थानानि पुनरष्टौ|
तान्यत्रैवोत्तरत्र वक्ष्यन्ते||२९||
संक्षेपेण त्रिविधा गतिरूर्ध्वादिभेदेन| ऊर्ध्वा यस्यामुत्थितो गर्भ आयाति| तिरश्चीना गर्भिणीपार्श्वयोः कृतपादशिरसः| न्युब्जा अधश्शिरस ऊर्ध्वपादस्य| तस्य च गर्भस्याष्टौ संस्थानानि| तानि च वक्ष्यन्ते- १. सक्थिभ्यामागमनमेकम्| २. एकेन सक्थ्ना द्वितीयम्| ३. स्फिङ्मूलेन तृतीयम्| ४. तिर्य्यक् चतुर्थम्| ५. पार्श्ववृत्तशिरसः पञ्चमम्| ६. बाहुद्वयेन षष्ठम्| ७. वक्रेण पृष्ठेन पाणिपादशिरसा योनिमुख़ागमनं सप्तमम्| ८. एकेन पादेन योनिं द्वितीयेन गुदमित्यष्टमम्|| २९||
Adhikarana asAdhyamUDhagarBAlakShaNam (30) · Śloka 30
तेषु सर्वेष्वपि विपरीतेन्द्रियार्थामाक्षेपयोनिभ्रंशसंवरणमक्कलश्वासभ्रमाभिपन्नां शीतगात्रां पूत्युद्गारां च वर्जयेत्||३०||
तेषु सर्वेष्वपि मूढगर्भेषु विपरीतेन्द्रियार्थत्वादियुक्तां गर्भिणीं वर्जयेत्| न चिकित्सेदित्यर्थः|| ३०||
Adhikarana mRutagarBashalyopekShAyAM vyApat (31) · Śloka 31
न तु क्षणमप्युपेक्षेत गर्भशल्यम्|
तद्विनिरुच्छवासीकृत्याऽऽशु जननीं हन्यात्||३१||
शल्यभूतं गर्भं मृतं सन्तं क्षणमपि भिषङ्नोपेक्षेत| तद्धि गर्भशल्यं जनन्या उच्छ्वासरोधं कृत्व तां हन्यात्|| ३१||
Adhikarana sacetanamUDhagarBasya Cedane vyApattatrAnuShTheya~jca (32) · Śloka 32
सचेतनश्च गर्भः शस्त्रेण विदार्य्यमाणो विषयमङ्गानि विक्षिपेत्|
तस्मात् तत्सङ्गे सूत्यः प्रयतेरन् पुर्वोक्तानि च मन्त्रौषधानि प्रयुञ्जीत||३२||
अविज्ञानाच्च सचेतनोऽपि गर्भः शस्त्रेण विदार्य्यमाणो विषमं कृत्वाङ्गानि विक्षिपन् निरुच्छ्वासीकृत्य जननीं हन्यादिति सम्बन्धः| तस्मात्तस्य जिवतो गर्भस्य सङ्गे अप्रसवे सूत्यो या अनुभूतानेकप्रसवास्ताः| प्रसवाय नानाविधैरुपायैः प्रयतेरन्|| ३२||
Adhikarana garBasa~ggasya traividhyam (33) · Śloka 33
त्रिविधस्तु सङ्गो भवति|
शिरस्यंसे जग़ने वा|
तस्य हि सङ्गस्त्रिविधो भवति|
मूढगर्भनिर्हरणन्तत्र मतान्तराणि मूढगर्भस्य तु जरायुपातनसामान्यं कर्मेत्येके|
मन्त्रादिक- र्माथर्ववेदविहितमित्येके|
दृष्टकर्मणा शल्यहर्त्रा शल्या- हरणमित्येके||३३||
यः पुनर्मूढगर्भस्तस्यैके आचार्य्याः अचेतनसामान्याज्जरायुपातनसदृशं कर्मेति कथयन्ति| अन्ये मन्त्रादिकं दैवेहेतोः| केचिदाऽऽहरणमाशुकारित्वात्प्रत्यक्षोपायत्वाच्च|
Adhikarana garBashastrakarmaNaH kaShTatamatvam (34) · Śloka 34
न त्वतः कष्टतममस्ति शस्त्रकर्म|
यतो योनियकृत्प्लीहान्त्रगर्भाशयादीनां मध्ये ताननुपहिंसताऽस्पर्शवता शस्त्रमवचार्य्यमुत्कर्षणव्यावर्तनोत्कर्तनच्छेदनभेदनपीडनर्जूकरणानि चैकेन पाणिना कार्य्याणि||३४||
अतो गर्भशस्त्रकर्मणोऽन्यच्छस्त्रकर्म कष्टतमं नास्ति| यतो योन्यादीनि रक्ष्याणि स्पर्शनेनैव शस्त्रमवचार्य्यमदृष्टिगोचरत्वात्| एकेनैव पाणिनोत्कर्षणादीनि कार्य्याणीत्यतिकष्टम्|| ३४||
Adhikarana mUDhagarBe prANasaMshayerAshu shastramavacAryam (35) · Śloka 35
तस्मादीश्वरमापृच्छ्य परं च यत्नमास्थाय तद्विद्यसहितस्तमुपक्रमेत्|
अक्रियायां ध्रुवं मरणम्|
उपक्रमे संशयः|
तथोदराऽश्मरीप्रभृतीनपि||३५||
तस्माद्भिषगीश्वरमापृच्छ्य यथा मृतायामयशसा योगो न भवतीति| परं च यत्नमास्थाय कृताभ्यासैश्च भिषग्भिः शस्त्रेणोपक्रमेत| यस्मादनाहरणे गर्भस्य गर्भिण्याश्च ध्रुवमवश्यं मृत्युर्भवति| उपक्रमे तु संशयः| प्रसङ्गादुदरादीनामप्येवं विज्ञेयम्|
Adhikarana mUDhagarBAharaNavidhiH (36) · Śloka 36
अथोत्तानाया व्याभुग्नसक्थ्या वस्त्रचुम्बलान्नमितकटिप्रदेशायाश्च धन्वनागवृन्तिकाशाल्मलीपिच्छाग़ृतैरभ्यज्य हस्तं योनिं च गर्भमाहरेत्||३६||
व्याभुग्ने सङ्कुचिते सक्थिनी| वस्त्रचुम्बलं पट्टमयः कोमलपिण्डः| नागवृन्तिका सल्लकी स्वनामिका| वा नागमृत्तिकेति पाठः| हस्तं भिषजः| इत्युत्तानाया गर्भमाहरेत्|| ३६||
Adhikarana tatra prakArAntaranirdeshaH (37) · Śloka 37
तत्र सक्थिभ्यामागतस्यानुलोममाञ्छनमेव|
एकसक्थिप्रपन्नस्येतरं सक्थिं प्रसार्य्य|
स्फिग्देशागतस्य स्फिग्देशं प्रतिषिध्योर्ध्वमुत्क्षिप्य सक्थिनी प्रसार्य्य|
तिर्य्यगागतस्य परिग़स्येवापरार्धमुत्क्षिप्य पूर्वार्धमपत्यपथं प्रत्यार्जवमानीय|
पार्श्वापवृत्तशिरसोंऽसं प्रतिपीड्योर्ध्वमुत्क्षिप्य शिरोऽपत्यपथमानीय|
बाहुद्वयप्रपन्नस्योर्ध्वमुत्पीड्याऽसौ शिरोमूलमानीय निर्हरेत्||३७||
तत्रेत्यादि आच्छानमात्मदिक्कर्षणम्| सक्थिनी प्रसार्य्य तन्निर्हरेदिति सम्बन्धः| स्फिग्देशं योनिमुख़ादन्तैर्नीत्वा पादौ योनिमुख़मानीय| सक्थिनी प्रसार्य गर्भस्य| परिग़ो दण्डाकार आयुधो योनिमध्ये हि तत्परिवर्तने छिनत्तीति| पूर्वार्धं शिरोभागः| पार्श्वे वक्रं शिरो यस्य| तस्यां सम्प्रतिपीड्य शिर अपत्यपथमानीय निर्हरेत्|| ३७||
Adhikarana shastradAraNArhamUDhagarBalakShaNam (38) · Śloka 38
यस्त्वाभुग्नमध्यः पाणिपादशिरोभिर्योनिं प्रतिपद्यते|
यश्चाभुग्न एकेन पादेन योनिं द्वितीयेन पायुम्|
तौ मूढौ हस्तेनाहर्तुमशक्याविति शस्त्रमवचारयेत्||३८||
यौ वा ताभ्यां संस्थानाभ्यां मूढगर्भौ तौ द्वावेव हस्तेनाहर्त्तुमशक्यत्वात् शस्त्रदारणमर्हतः|| ३८||
Adhikarana tatra shastrAvadAraNavidhiH (39) · Śloka 39
अथ स्त्रियमाश्वास्य मण्डलाग्रेणाङ्गुलिशस्त्रेण वा (शिरो) विदार्य्य शिराः कपालान्याहृत्य गर्भशङ्कुना गृहीत्वा चिबुके तालुन्युरसि कक्ष्यायां वाऽपहरेत्|
अभिन्नशिरसं चाक्षिकूटे गण्डे वा|
तथासंसक्तस्यांसदेशे बाहुं छित्वा|
दृतेरिवाध्मातस्य वातपूर्णमुदरमवदार्य्य निरस्यान्त्राणि शिथिलीभूतमाहरेत्|
जग़नसक्तस्य जग़नकपालानि दारयित्वेति||३९||
अथेत्यादि सुबोधम्| गर्भशङ्कुः पूर्वोक्तं वक्रवक्त्रं यन्त्रम्| गर्भस्य हि कक्ष्याद्यासज्जने बडिशवत्| यस्य तु युक्तिवशात् कपालान्यविदारितानि तस्याक्षिकूटे गण्डे वा शङ्क्वा बडिशवत् सक्थिः|| ३९||
Adhikarana api ca- (40) · Śloka 40
यद्यद्वायुवशादङ्गं सज्जेद्गर्भस्य ख़ण्डशः|
तत्तच्छित्वा हरेत्सम्यग्रक्षेत्रारीं च यत्नतः||४०||
अपि चेति समुच्चये| यदित्यादि सुबोधम्|| ४०||
Adhikarana vyapagatagarBashalyAyA upacArAH (41) · Śloka 41
अथापतन्तीमपरां पातयेत्पूर्ववद्भिषक्|
एवं निर्हृतशल्यान्तु सिञ्चेदुष्णेन वारिणा|
दद्यादभ्यक्तदेहायै योनौ स्नेहपिचुं ततः|
योनिर्मृदुर्भवत्तेन शूलं चास्याः प्रशाम्यति|
दीप्यकातिविषारास्नाहिंग्वेलापञ्चकोलकात्|
चूर्णं स्नेहेन कल्कं वा क्वाथं वा पाययेत्तः|
कटुकातिविषापाठाशाकत्वघिङ्गुतैजनीः|
तद्वच्च दोषस्यन्दार्थं वेदनोपशमाय च|
त्रिरात्रमेवं सप्ताहं स्नेहमेव ततः पिबेत्|
सायं पिबेदरिष्टं च तथा सुकृतमासवम्|
शिरीषककुभक्वाथपिचून्योनौ च निक्षिपेत्|
उपद्रवाश्च येऽन्ये स्युस्तान्यथास्वमुपाचरेत्|
पयो वातहरैः सिद्धं दशाहं भोजने हितम्|
रसो दशाहं च परं लग़ुपथ्याल्पभोजना|
स्नेहाभ्यङ्गपरा स्नेहान् बलातैलादिकान् भजेत्|
ऊर्ध्वञ्चतुर्भ्यो मासेभ्यः स क्रमेण सुख़ानि च||४१||
मृतगर्भ आहते याऽवशिष्टऽपरा स पूर्वोक्ता| दीप्यकादीनां समानां चूर्णं स्नेहेन ग़ृताद्यन्यतमेन यथायोग्यं पाययेत्| तेषामेव कल्कं व| कल्को जलपिष्टद्रव्यम्| दीप्यकादिवत् कटुकादीनि| एवमेवौषधेन त्रिरात्रमासीत दोषस्रावाय वेदनोपशमाय च| दोषो न वातादिः| अपितु रक्तपिच्छादिः| त्र्यहादूर्ध्वं स्नेहमेव सप्तरात्रं पिबेत्| औषधप्रतिषेधार्थमेवकारः| एवं सायमरिष्टं प्रातः स्नेहे पीते| उपद्रवा ज्वरादयो व्याधयः| एवं त्र्यहमौषधम्| स्नेहः सप्तरात्रम्| दशाहं पयः| दशाहं मांसरस इति क्रमः| ततोऽनन्तरं स्नेहाभ्यङ्गपरा सती वातव्याधिनिर्दिष्टान् बलातैलादिकान् भजेत्| आदिशब्देन तत्स्वरूपाणामन्येषां ग्रहणम्| ततश्चतुर्थमासान्तं यावल्लग़ुभोजनत्वादियुक्ता, पञ्चमान्मासादारभ्य क्रमेण न सहस यथेष्टानि सुख़ानि भजेत्|| ४१||
Adhikarana balAtailam (42) · Śloka 42
अथ बलातैलमुपदेक्ष्यामः|
बलामूलाकषायस्य भागाः षट्|
तावन्त एव पयसो यवकोलकुलत्थदशमूलक- षायस्य भागो भागश्चतुर्दशस्तैलस्य|
तत्सर्वमैकध्यं कृत्व श्लक्ष्णपिष्टानि चावाप्य काकोलीक्षीरकाकोली- जीवकर्षभकमुद्गपर्णीमाषपर्णीमेदाक्षीरशुक्लामधु- कदेवदारुमञ्जिष्ठाचन्दनशारिवातगरकुष्ठशतावर्य्यश्व- गन्धापुनर्नवाशतपुष्पावरापत्ररससरलशैलेयैलावचा- ऽगरुकालानुसारिसैन्धवानि शनैर्मृद्वग्निना साधयित्वा सुभाजनेऽनुगुप्तं निदध्यात्|
एष भगवतो धन्वन्तरे- रभिमतस्तैलराजो राज्ञां राजमात्राणां सूतिकानां कृशानां शिशूनामतीतवयसां सुकुमाराणां शूलिनां महाग्रह- गृहीतानां दीर्ग़रोगक्षपितवपुषां मर्मविद्धपतिताभिहत- भग्नविश्लिष्टदेहानां दैवोपग़ातातभिशप्तमनोज्वरपरी- तानां पाननावनाभ्यङ्गबस्तिषु प्रयोज्यः|
तेन बल- पौरुषस्मृतिमतिमेधाग्निवीर्य्यौजांसि विवर्धन्ते|
पक्षा- ग़ाताक्षेपकार्द्दितादिविविधवातविकारगुल्महिक्काश्वास- कासा निवर्तन्ते|
अहरहश्चोपयुज्यमाने षण्मासादन्त्र- वृद्धिः प्रशाम्यति च|
वन्ध्या च पुत्रं गुणवन्तमिच्छया लभत इति||४२||
स्नेहान् भजेदित्युक्तिप्रसङ्गेन बलातैलमेकमुच्यते| द्वितीयं तु बलाशतं छिन्नरुहापादमित्यादिशब्दयुक्तं वक्ष्यते| अथेति मङ्गलार्थः| बलामूलक्वाथस्य षड् भागाः| क्षीरस्य षडेवं द्वादश| यवादीनां त्रयाणां चतुर्थस्य दशमूलस्य चैकीकृत्य क्वाथस्यैको भागः| एवं त्रयोदश भागाः क्वाथस्य| चतुर्दशो भागस्तैलस्य| तैलाच्चतुर्थभागेनावापनम्| क्वाथ्यद्रव्याणां जलात् षोडशांशं मानम्| क्वाथद्रव्याच्चतुर्गुणः क्वाथशेषः| दशमूलसमुदायस्य यवाद्यन्यतमसमत्वम्| काकोल्यादीनां परस्परसमत्वम्| क्षीरशुक्ला क्षीरकाकोली| पत्रं गन्धपत्रम्| रसो बोलः| कालानुसार्य्यमुशीरम्| एवं द्वात्रिंशदावापनद्रव्याणि|| सुबोधम्|| ४२||
Adhikarana mRutagarBiNyA jIvadgarBaniShkAsanam (43) · Śloka 43
भवन्ति चात्र- बस्तिद्वारे विपन्नायाः कुक्षिः प्रस्पन्दते यदि|
जन्मकाले ततः शीग़्रं पाटयित्वोद्धरेच्छिशुम्||४३||
भवन्ति चात्रेति तन्त्ररीतिः| गर्भस्य जन्मकाले जीवतो यदि माता विपन्ना स्यात्ततः कुक्षिप्रस्पन्दनेन जीवन्तं गर्भं विदित्वा ततो बस्तिद्वारे विपाट्य तमुद्धरेत्|| ४३||
Adhikarana garBasrAve mAsAnusAraM garBasthA- pakAH yogAH (44) · Śloka 44
मधुकं शाकबीजं च पयस्या सुरदारु च|
अश्मन्तकः कृष्णतिलास्ताम्रवल्ली शतावरी|
वृक्षादनी पयस्या च लता चोत्पलशारिवा|
अनन्ता शारिवा रास्ना पद्मा च मधुयष्टिका|
बृहतीद्वयकाश्मर्य्यक्षीरिशृङ्गत्वचो ग़ृतम्|
पृश्निपर्णीबलाशिग्रुः श्वदंष्ट्रामधुपर्णिका|
शृङ्गाटकं बिसं द्राक्षा कशेरुमधुकं बला|
सप्तैतान् पयस योगानर्धश्लोकसमापनान्|
क्रमात् सप्तसु मासेषु गर्भे स्रवति योजयेत्||४४||
मधुकादीनि चत्वारि प्रथमे मासे गर्भं स्रवति योजयेद्यथायोग्यकल्पनया अश्मन्तकादीनि द्वितीये| अश्मन्तको भालुकपर्णः| ताम्रवल्ली रामतरुणी मञ्जिष्ठा वा| वृक्षादन्यादीनि पञ्च तृतीये| वृक्षादनी द्रुमव्याधिः| सैव वन्दाकः| लता प्रियङ्गुः| अनन्तादीनि पञ्च चतुर्थे मासि योजयेत्| अनन्ता दूर्वा| पद्मा पद्मचारिणी| ग़ृतं यथोपयोगम्| क्षीरिवृक्षाणां शृङ्गत्वचो यथालाभं पञ्चमे| शृङ्गमङ्कुरम्| पृश्निपर्ण्यादीनि षड् षष्ठे| श्वदंष्ट्रा गोक्षुरकः| मधुपर्णिका जीवन्ती| शृङ्गाटकादीनि सप्तमे|| ४४||
Adhikarana aShTamamAsAtpraBRutigarBasyApyAyanAyogAH (45) · Śloka 45
कपित्थबिल्वबृहतीपटोलेक्षुनिदिग्धकात्|
मूलैः शृतं प्रयुञ्जीत क्षीरं मासे तथाऽष्टमे|
नवमे सारिवानन्तापयस्यामधुयष्टिभिः|
योजयेद्दशमे मासि सिद्धं क्षीरं पयस्यया|
अथवा यष्टिमधुकनागरामरदारुभिः||४५||
इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतौ अष्टाङ्गसंग्रहसंहितायां शारीरस्थाने गर्भ- व्यापन्नाम चतुर्थोऽध्यायः कपित्थादीनां षण्णां मूलैः शृतं क्षीरमष्टमे| शारिवादिचतुष्टयेन नवमे| पयस्यया दशमे| अथवा यष्टिमधुकादित्रयेण दशमे| सर्वं बृंहणमामान्वयं विना ज्ञेयम्|| ४५|| इति श्रीमन्महामहोपाध्यायेन्दुविरचिताया- मष्टाङ्गसंग्रहव्याख़्यायां शशिलेख़ायां शरीरस्थाने चतुर्थोऽध्यायः