Adhikarana adhyAyopakramaH · Śloka
🔊 Audio coming soon
अतोऽनन्तरं क्षाराग्निकर्मविधिरारभ्यते| यथैव हि शस्त्रेण पाटनादीनि कृत्वा तत्साध्य आमय उपक्रम्यते, तथैव क्षाराग्निभ्यामित्याह-
Adhikarana adhyAyopakramaH · Śloka
🔊 Audio coming soon
अतोऽनन्तरं क्षाराग्निकर्मविधिरारभ्यते| यथैव हि शस्त्रेण पाटनादीनि कृत्वा तत्साध्य आमय उपक्रम्यते, तथैव क्षाराग्निभ्यामित्याह-
Adhikarana kShArAgnikarmavidhiradhyAyaH (2) · Śloka 2
अथातः क्षाराग्निकर्मविधिमध्यायं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः| (गद्यसूत्रे|२|
🔊 Audio coming soon
सं-क्षारश्चाग्निश्च क्षाराग्नी, तयोः कर्म क्षाराग्निकर्म, तस्य विधिः| शेषं पूर्ववत्| क्षारस्य बाह्याभ्यन्तरोपयोगित्वेन पूर्वमुपन्यासः|
Adhikarana kShAraprashaMsA (1-2) · Śloka 2
सर्वशस्त्रानुशस्त्राणां क्षारः श्रेष्ठो बहूनि यत्| छेद्यभेद्यादिकर्माणि कुरुते विषमेष्वपि||१|| दुःखावचार्यशस्त्रेषु तेन सिद्धिमयात्सु च| अतिकृच्छ्रेषु रोगेषु यच्च पानेऽपि युज्यते||२||
🔊 Audio coming soon
स ० -सर्वाणि च तानि शस्त्राण्यनुशस्त्राणि च तान्येवम्, तेषां सर्वशस्त्रानुशस्त्राणां मध्ये क्षारः श्रेष्ठो ज्यायान्| कुतोऽस्य श्रेष्ठता ? इत्याह-यत्-यस्मात्, बहूनि छेद्यभेद्यादीनि कर्माण्यसौ करोति| आदिशब्देन लेखनपाटनादिपरिग्रहः| विषमेष्वपि-देहदेशेषु| दुःखावचार्यशस्त्रेषु-नासार्शोर्बुदादिषु, दुःखेनावचारयितुं शक्यं शस्त्रं येषु तेषु| अपिशब्दात् समेष्वपि देहदेशेषु युज्यते| तेन च-शस्त्रेण च, सिद्धिमयात्सु-असिध्यत्सु दुष्टव्रणेषु बहुशः प्रकोपिषु| किम्भूतेषु ? अतिकृच्छ्रेषु-अतिदुःखसाध्येषु दुष्टव्रणादिषु| चशब्दादन्येष्वपि रोगोष्वसौ क्षारौ युज्यते-योग्यः सम्पद्यते, ततोऽपि हेतोः क्षारः श्रेष्ठः| यच्चेति| यस्माच्च क्षारः पानविषयेऽपि युज्यते शरीरान्तःस्थितरोगशान्त्यै| अपिशब्दाद्बाह्येऽपि बाह्यस्थितरोगशान्त्यै लेपे स युज्यते|
Adhikarana antaH parimArjanasya viShayaH (3) · Śloka 3
अधुना क्षारस्य पेयलेपविषयविभागं दर्शयति- स पेयोऽर्शोग्निसादाश्मगुल्मोदरगरादिषु| |३|
🔊 Audio coming soon
स०-सः-क्षारः, अर्शःसु विषये पेयः| तथाऽग्निसादे, तथाश्मर्यां, गुल्मादिषु च| आदिग्रहणादानाहशूलादिषु च|
Adhikarana bahiH parimArjanasya viShayaH (3-4) · Śloka 4
| योज्यः साक्षान्मषश्वित्रबाह्यार्शःकुष्ठसुप्तिषु||३|| भगन्दरार्बुदग्रन्थिदुष्टनाडीव्रणादिषु| |४|
🔊 Audio coming soon
सं-स क्षारो योज्यः साक्षात्-लेपनेन, मषादिषु| आदिग्रहणात् चर्मकीलवर्त्मतिलकादिपरिग्रहः|
Adhikarana dvayorapi kShArayorniShedhaH (4-8) · Śloka 8
| न तूभयोऽपि योक्तव्यः पित्ते रक्ते चलेऽबले||४|| ज्वरेऽतिसारे हन्मूर्धरोगे पाण्ड्वामयेऽरुचौ| तिमिरे कृतसंशुद्द्धौ श्वयथौ सर्वगात्रगे||५|| भीरुगर्भिण्यृतुमतीप्रोद्वृत्तफलयोनिषु| अजीर्णेऽन्ने शिशौ वृद्धे धमनीसन्धिमर्मसु||६|| तरुणास्थिसिरास्नायुसेवनीगलनाभिषु| देशेऽल्पमांसे वृषणमेढ्रस्रोतोनखान्तरे||७|| वर्त्मरोगादृतेऽक्ष्णोश्च शीतवर्षोष्णदुर्दिने| |८|
🔊 Audio coming soon
सं-पानलेपनभेदेन द्विधोऽपि क्षारः पित्तादौ न योक्तव्यः| चले-वाते| अबले-प्राणाहीने| { ज्वरे, अतिसारे, हृद्रोगे, मूर्धरोगे, पाण्ड्वामये-पाण्डुरोगे, अरुचौ-अरोचके, कृतसंशुद्धौ-कृतवमनविरेके, श्वयथौ सर्वगात्रगे-सर्वाङ्गे शूने, तथा भीरौ, गर्भिण्याम्, ऋतुमत्याम्, } प्रोद्वृत्तफलयोनिः-वक्ष्यमाणा उत्तरतन्त्रे गुह्यरोगविज्ञाने| प्रकर्षेणोद्वृत्तं फलं-रजोरूपं, यस्या योनेः सा प्रोद्वृत्तफलयोनिः| रज एव फलं गर्भाख्यफलसाधनोपायत्वात्| प्रोद्वृत्तफलयोनेर्लक्षणमुक्तम्, यथा (हृ. उ. अ. ३३|३३)-"वेगोदावर्तनाद्योनिं प्रपीडयति मारुतः| सा फेनिलं रजः कृच्छ्रादुदावृत्तं विमुञ्चति|| इयं व्यापदुदावृत्ता" इत्यादि| तथा शिशौ-बाले, वृद्धे-गतवयसि| तथा धमन्यादिषु शरीरदेशेषु, देशेऽल्पमांसे-खल्पपिशिते| तथा, वृषणादिषु शरीरदेशेषु| तथा, अक्ष्णोः-नेत्रयोः वर्त्मरोगं वर्जयित्वाऽन्यत्र क्षारो न प्रयोज्यः| वर्त्मरोगे तु क्षारो योज्य एव| शीतवर्षोष्णा इति हेमन्तशिशिरप्रावृड्ग्रीष्माः, दुर्दिनं-मेघाद्याकुलदिवसम्, एषु क्षारो न योज्यः|
Adhikarana bahiH parimArjanasya dahanavidhiH galanavidhiH pAkavidhiH (8-20) · Śloka 20
अधुना क्षारक्रियामाह | कालमुष्ककशम्याककदलीपारिभद्रकान्||८|| अश्वकर्णमहावृक्षपलाशास्फोतवृक्षकान्| इन्द्रवृक्षार्कपूतीकनक्तमालाश्वमारकान्||९|| काकजङ्घामपामार्गमग्निमन्थाग्नितिल्वकान्| सार्द्रान् समूलशाखादीन् खण्डशः पतिकल्पितान्||१०|| कोशातकीश्चतस्रश्च शूकं नालं यवस्य च| निवाते निचयीकृत्य पृथक् तानि शिलातले||११|| प्रक्षिप्य मुष्ककचये सुधाश्मानि च दीपयेत्| ततस्तिलानां कुतलैर्दग्ध्वाऽग्नौ विगते पृथक्||१२|| कृत्वा सुधाश्मनां भस्म द्रोणं त्वितरभस्मनः| मुष्ककोत्तरमादाय प्रत्येकं जलमूत्रयोः||१३|| गालयेदर्धभारेण महता वाससा च तत्| यावत्पिच्छिलरक्ताच्छस्तीक्ष्णो जातस्तदा च तम्||१४|| गृहीत्वा क्षारनिष्यन्दं पचेल्लौह्यां विघट्टयन्| पच्यमाने ततस्तस्मिंस्ताः सुधाभस्मशर्कराः||१५|| शुक्तीः क्षीरपकं शङ्खानाभीश्चायसभाजने| कृत्वाऽग्निवर्णान्बहुशः क्षारोत्थे कुडवोन्मिते||१६|| निर्वाप्य पिष्ट्वा तेनैव प्रतीवापं विनिक्षिपेत्| श्लक्ष्णं शकृद्दृक्षशिखिगृध्रकङ्ककपोतजम्||१७|| चतुष्पात्पक्षिपित्तालमनोह्वालवणानि च| परितः सुतरां चातो दर्व्या तमवघट्टयेत्||१८|| सबाष्पैश्च यदोत्तिष्ठेद्बुद्बुदैर्लेहवद्धनः| अवतार्य तदा शीतो यवराशावयोमये||१९|| स्थाप्योऽयं मध्यमः क्षारो| |२०|
🔊 Audio coming soon
सं-कालमुष्कको-मोक्षः| अश्वकर्णः-कुशिकः| महावृक्षः-स्नुही| आस्फोतो-गिरिकर्णिका| वृक्षको-नन्दीवृक्षः| इन्द्रवृक्षः-कुटजः| पूतीकः-पूतीकरञ्जः| नक्तमालः-करञ्जः| अश्वमारः-करवीरः| कालमुष्ककादीन् मूलादिसहितान् खण्डं खण्डं कल्पितान्-परश्वादिना छिन्नान्| तथा कोशातकीश्चतस्रो, यवस्य च शूकं नालं-यवस्य शूको नालोऽवयवो भवति, तांश्च निवाते देशे शिलातले-शिलापृष्ठे, पृथक् मुष्ककादीन्निचयीकृत्य, मुष्ककचये च सुधाश्मानि-सुधाशर्कराः, प्रक्षिप्य दीपयेत्-ज्वालयेत्| कैः ? तिलानां कुतलैः-काण्डैः| सुधाश्मानि चेति नपुंसकत्वं चिन्त्यम्| पृथग्दीपने चैषामचिन्त्यप्रभावः| एवं तानि दग्ध्वाऽनन्तरमग्नौ विगते सुधाश्मनां भस्म द्रोणं पृथक्कृत्वा-व्यस्तं संस्थाप्य, इतरभस्मनः-शम्याकादिद्रव्यभस्मनो, द्रोणमादाय-गृहीत्वा| किम्भूतं द्रोणम् ? मुष्कक उत्तरः-अधिको, यस्य तमादाय, जलमूत्रयोः प्रत्येकमर्धभारेण तत्-भस्म, गालयेत्| कथं गालयेत् ? महता-विस्तीर्णेन, वाससा| कियन्तं कालम् ? यावत् क्षारनिष्यन्दः-क्षारस्रावः, पिच्छिलरक्ताच्छस्तथा तीक्ष्णो जातः-सम्पन्नः, तदा-तस्मिम्काले, तं-क्षारनिष्यन्दं, गृहीत्वा लौह्यां स्नेहपाकविधिना पचेत्| किं कुर्वन् ? दर्व्या-खजकसंज्ञया, विघट्टयन्-आलोडयन्| ततः-अनन्तरं, तस्मिन्-क्षारनिष्यन्दे, पच्यमाने ताः-प्राक् स्थापिताः सुधाभस्मशर्कराः, { या मुष्ककमध्ये प्रक्षिप्य दत्ताः,} तथा शुक्तीः-प्राणिविशेषास्थीनि, तथा क्षीरपकं-प्रलेपकं (?) खटिकासंज्ञम्, तथा शङ्खनाभीश्चाग्निवर्णान् कृत्वा, क्षारोत्थे-क्षारनिष्यन्दे, कुडवोन्मिते-पलाष्टकपरिमाणे क्वथितक्षारोत्थे, आयसभाजने- तीक्ष्णलोहपात्रगते, बहुशः-बहून् वारान्, निर्वाप्य-शीतीकृत्य, तेनैव-क्षारनिष्यन्देन, दृषदि पिष्ट्वा तस्मिन्पच्यमाने क्षारनिष्यन्दे, प्रतीवापं विनिक्षिपेत्| द्रवद्रव्ये द्रव्यान्तरं श्लक्ष्णपिष्टं दीयते स प्रतीवाप उच्यते| न च केवलमेष एव प्रतीवापत्वेन क्षेप्तव्यो यावत् दक्षादीनामपि शकृत् श्लक्ष्णं कृत्वा विनिक्षिपेत्| दक्षः-कुक्कुटः| (शिखी-मयूरः| गृध्रः-श्येनः| कङ्ककपोतकौ-पक्षिणौ| } तथा चतुष्पदां-गवादीनां, तथा पक्षिणां पित्तं, तथा हरितालमनोह्वालवणानि च { अलं-हरितालम्| मनोह्वा-मनःशिला| लवणं-सैन्धवादि| एतानि } श्लक्ष्णानि कृत्वा प्रतीवापं विनिक्षिपेत्| अतः-प्रतीवापादनन्तरं, परितः-समन्तात्, दर्व्या तमवघट्टयेत्| सबाष्पैरित्यादि| यदा-यस्मिन् काले, स क्षारनिष्यन्दः सबाष्पैः-सोष्मभिः, बुद्बुदैर्घनो लेह इवोत्तिष्ठेत्-उद्गच्छेत्, यदा {सान्द्रतया पच्यमानः सन् लेहतुल्यो } दर्वीप्रलेपी स्यादित्यर्थः| तदा-तस्मिन् काले अयोमये-लोहभाण्डे, स्थितो यवराशौ स्थाप्यः| किं कृत्वा ? अवतार्य चुल्लीतः, तथा शीतः सन्| अयं मध्यमः क्षारः|
Adhikarana mRudutIkShNakShArayorvisheShaH (20-22) · Śloka 22
न तु पिष्ट्वा क्षिपेन्मृदौ| निर्वाप्यापनयेत्तीक्ष्णे पूर्ववत् प्रतिवापनम्||२०|| तथा लाङ्गलिकादन्तिचित्रकातिविषावचाः| स्वर्जिकाकनकक्षीरिहिङ्गुपूतीकपल्लवाः||२१|| तालपत्री बिडं चेति, सप्तरात्रात्परं तु सः| योज्यः|२२|
🔊 Audio coming soon
स० -मृदौ क्षारे सुधादीनि निर्वाप्य-तस्मिन्निष्यन्दे प्रक्षिप्यैव, अपनयेत्-विसर्जयेत्, न तु पिष्ट्वा विनिक्षिपेत्| तीक्ष्णे क्षारे पूर्ववत्-मध्यमक्षारतुल्यं, प्रतिवापनं-निर्वाप्य पिष्ट्वा विनिक्षिपेदिति| न चैतावदेवात्र प्रतिवापनमित्याह-तथेत्यादि| लाङ्गलिकादीनि बिडपर्यन्तानि च तत्र प्रतिवापं विनिक्षिपेत्| सप्तरात्रात् परं-अनन्तरं, सः-क्षारो, योज्यः|
Adhikarana kShAratraye viShayatrayam (22-23) · Śloka 23
इति क्षारत्रैविध्यमुक्त्वा तद्विषयं निर्दिदिक्षुराह- | तीक्ष्णोऽनिलश्लेष्ममेदोजेष्वर्बुदादिषु||२२|| मध्येष्वेष्वेव मध्योऽन्यः पित्तास्रगुदजन्मसु| बलार्थं क्षीणपानीये क्षाराम्बु पुनरावपेत्||२३||
🔊 Audio coming soon
स०-तीक्ष्णः क्षारो वातश्लेष्ममेदःसमुत्थेष्वर्बुदादिषु योज्यः| महत्स्वेव योज्यः, मध्येषु, क्षारान्तरविधानात्| आदिग्रहणादन्येष्वपि तत्साध्येषु रोगेष्वयं क्षारो योज्यः| मध्येष्वेष्वेवेति| एष्वेव-अनिलकफमेदोजेषु विकारेष्वर्बुदादिषु, मध्येषु-नोत्कृष्टेषु नापि हीनेषु, मध्यः क्षारो योज्यः| अन्य इति| अन्यो- मृदः क्षारः, पित्तरक्तसमुत्थेष्वर्शःसु योज्यो, न तीक्ष्णमध्यौ क्षारौ| बलार्थमित्यादि| क्षीणपानीये-घनीभूते क्षारे, बलार्थं-बलाधानार्थं, पुनः-भूयः, क्षाराम्बु-क्षारविधिस्रुतं जलम् , आवपेत्-दद्यात्|
Adhikarana kShAraguNAH (24-26) · Śloka 26
अधुना क्षारगुणानाह नातितीक्ष्णमृदुः श्लक्ष्णः पिच्छिलः शीघ्रगः सितः| शिखरी सुखनिर्वाप्यो न विष्यन्दी न चातिरुक्||२४|| क्षारो दशगुणः शस्त्रतेजसोरपि कर्मकृत्| आचूषन्निव संरम्भाद्गात्रमापीडयन्निव||२५|| सर्वतोऽनुसरन् दोषानुन्मूलयति मूलतः| कर्म कृत्वा गतरुजः स्वयमेवोपशाम्यति||२६||
🔊 Audio coming soon
स०-[ क्षारे नातितीक्ष्णादयो दश गुणा भवन्ति|] शीघ्रं गच्छति-आशु व्याप्नोतीति शीघ्रगः| शिखरी-उपरिष्टात्पिटिकावान्| मुखेन-काञ्जिकादिना, निर्वाप्यते-शीतीक्रियते, इति सुखनिर्वाप्यः| विष्यन्दोऽस्यास्तीति विष्यन्दी-स्रुतिमान्, न विष्यन्दी-न स्रुतिमान्| न चातिरुक्-न चार्तिमान्| नातितीक्ष्णादयो दश गुणा यस्य स दशगुणः क्षारः| सङ्ग्रहे चास्य दशैव दोषा गदिताः| तद्यथा (सू. अ. ३९)- "अत्युष्णोऽतिशीतोऽतितीक्ष्णोऽतिमृदुरतितनुरतिघनोऽतिपिच्छिलोऽतिवसर्पी हीनौषधो हीनपाकश्चेति|" इति| शस्त्रस्य यत्कर्म-छेदनपाटनलेखनादिकं, तथा तेजसो-वह्नेरपि, यत्कर्म-व्याध्युपशमलक्षणं, तत्करोति| अधुना त्वन्तरानुभवद्वारेण क्षारस्य गुणान्निर्दिशति-आचूषन्निवेत्यादि| संरम्भात्-क्षोभात्, गात्रमाचूषन्निव, तथाऽऽपीडयन्निव, तथा सर्वतः-सर्वस्मिन्, अनुसरन्-गच्छन्, दोषान्-तत्साध्यान्, मूलत उन्मूलयति-उद्धरति| तथा, कर्म-स्वीयं दाहादिकं, कृत्वा गतरुजः-पुरुषस्य, स्वयमेव-यत्नं विनैव, उपशाम्यति|
Adhikarana kShAraprayogaH (27-28) · Śloka 28
क्षारसाध्ये गदे छिन्ने लिखिते स्रावितेऽथवा| क्षारं शलाकया दत्त्वा प्लोतप्रावृतदेहया||२७|| मात्राशतमुपेक्षेत| |२८|
🔊 Audio coming soon
स ० -क्षरसाध्ये व्याधावर्शोर्बुदादौ छेदादौ [ छिन्ने-द्विधाकृते, लिखिते-शस्त्रेण विघृष्टे, स्राविते-प्रच्छाद्य निर्हृतशोणिते, ] कर्मणि कृते क्षारो योज्यो, नाकृते छेदादौ, इति क्षारस्य विषयो दर्शितः| क्षारं शलाकया दत्त्वा मात्राशतमुपेक्षेत, न काञ्जिकादिना निर्वापणं कार्यमित्यर्थः| किम्भूतया शलाकया ? प्लोतेन-चैलखण्डेन, प्रावृतः-स्थगितो, देहः विग्रहो यस्याः|
Adhikarana arshaHsu visheShaH (28) · Śloka 28
तत्रार्शःस्वावृताननम्| हस्तेन यन्त्रं कुर्वीत|२८|
🔊 Audio coming soon
स०-तत्र क्षारसाध्येष्वर्शःसु क्षारपातनं कृत्वा मात्राशतं यावत्तावद्धस्तेन यन्त्रमावृताननं-छादितमुखं, कुर्यात्|
Adhikarana vartmarogeShu visheShaH (28-29) · Śloka 29
| वर्त्मरोगेषु वर्त्मनी||२८|| निर्भुज्य पिचुनाऽऽच्छाद्य कृष्णभागं विनिक्षिपेत्| पद्मपत्रतनुः क्षारलेपो, घ्राणार्बुदेषु च||२९||
🔊 Audio coming soon
स०-क्षारसाध्येषु वर्त्मरोगेषु वर्त्मनी निर्भुज्य-कुटिलीकृत्य, ततः क्षारस्पर्शपरिहाराय पिचुना-कार्पासादिमयेन, कृष्णभागं-तारकप्रदेशं, आच्छाद्य क्षारं विनिक्षिपेत्| तत्र च पद्मपत्रतनुः क्षारलेपो देयः, न गुदार्शःस्विव घनः| पद्मपत्रमिव तनुरिति "उपमानानि सामान्यवचनैः" इति समासः| घ्राणार्बुदेषु च पद्मपत्रतनुः क्षारलोपो योज्यः| कथं तत्र लेपो देयः ? इत्याह-
Adhikarana GrANArbudeShu visheShaH (30) · Śloka 30
प्रत्यादित्यं निषण्णस्य समुन्नम्याग्रनासिकाम्| मात्रा विधार्यः पञ्चाशत्|३०|
🔊 Audio coming soon
स०-प्रत्यादित्यं-रविसम्मुखं, निषण्णस्य-संस्थितस्य| तथा, अग्रे नासिका-अग्रनासिका, तामुन्नम्य-उत्क्षिप्य| कियन्तं कालं लेपो धार्यः ? इत्याह| मात्राः पञ्चाशद्विधार्यः| वर्त्मसु चाल्पतरा मात्राः स्थानस्य सुकुमारत्वात्|
Adhikarana karNArshaHsu visheShaH (30) · Śloka 30
| तद्वदर्शसि कर्णजे||३०||
🔊 Audio coming soon
स०-कर्णजेऽर्शसि तद्वत्-तेन घ्राणार्बुदेन तुल्यम्, स एव पद्मपत्रतनुः क्षारलेपस्ता एव पञ्चाशन्मात्रा धार्यः|
Adhikarana kShAraprayogAnantaraM kRutyam (31-32) · Śloka 32
क्षारं प्रमार्जनेनानु परिमृज्यावगम्य च| सुदग्धं घृतमध्वक्तं तत्पयोमस्तुकाञ्जिकैः||३१|| निर्वापयेत्ततः साज्यैः स्वादुशीतैः प्रदेहयेत्| अभिष्यन्दीनि भोज्यानि क्लेदनाय च||३२||
🔊 Audio coming soon
स०-अनु-पश्चात् क्षारलेपदाननियमितात्कालादनन्तरं, क्षारं प्रमार्जनेन-चैलादिना, परिमृज्य-शोधयित्वा, सुदग्धं क्षारस्थानमर्शोर्बुदाद्यधिष्ठानमवगम्य-सम्यग्दाहलक्षणेन ज्ञात्वा, तत्-क्षारदग्धं स्थानं, घृतमधुलेपितं कृत्वा पयःप्रभृतिभिर्निवापयेत्-शीतीकुर्यात्| ततः-अनन्तरं, स्वादुशीतैर्द्रव्यैः-मधुयष्टिकादिभिः, साज्यैः-सघृतैः, लेपयेत्| अभिष्यन्दीनि-स्रुतिरूपश्लेष्मकारीणि, भोज्यानि-अन्नपानानि माषदध्यादीनि, भोज्यानि-भक्षयितव्यानि| किमर्थम् ? क्लेदनाय-क्षारदग्धस्थानविशरणाय| यतः क्षारदग्धं क्लिन्नं सच्छीर्यते|
Adhikarana sudagdhe~apyashIrNe kRutyam (33-34) · Śloka 34
यदि च स्थिरमूलत्वात्क्षारदग्धं न शीर्यते| धान्याम्लबीजयष्ट्याह्वतिलैरालेपयेत्ततः||३३|| तिलकल्कः समधुको घृताक्तो व्रणरोपणः| |३४|
🔊 Audio coming soon
स०-यदि च क्षारदग्धमिभिष्यन्दिभिरपि भोज्यैरुपयुक्तैः स्थिरमूलत्वात्-दृढमूलत्वात्, तद्रोगाधिष्ठानं न शीर्यते, ततो धान्याम्लस्य बीजं-अवयवविशेषः, तेन तथा मधुकतिलाभ्यां चालेपयेत्| तिलकल्को मधुयष्टियुक्तो घृतान्वितो व्रणस्य रोपणः|
Adhikarana sudagdhalakShaNam (34) · Śloka 34
| पक्वजम्ब्वसितं सन्नं सम्यग्दग्धम्|३४|
🔊 Audio coming soon
स०-पक्वजम्बूफलवदसितं-कृष्णं, तथा सन्नं-निम्रं, सम्यग्दग्धं स्थानं विद्यात्|
Adhikarana durdagdhalakShaNam (34-35) · Śloka 35
| विपर्यये||३४|| ताम्रतातोदकण्ड्वाद्यैर्दुर्दग्धम्| |३५|
🔊 Audio coming soon
स०-विपर्यये-पक्वजम्ब्वसितादिलक्षणविपर्यये, तथा ताम्रतातोदकण्ड्वाद्यैः, आदिग्रहणात् शोफविस्फोटादिभिः, दुर्दग्धं स्थानं विद्यात्|
Adhikarana durdagdhe punardAhaH (35) · Śloka 35
तं पुनर्दहेत्| |३५|
🔊 Audio coming soon
स०-तं-तथाभूतं ज्ञात्वा, पुनर्दहेत्-भूयस्तत्र क्षारं पातयेत्, दाहाय|
Adhikarana atidagdhalakShaNam (35) · Śloka 35
| अतिदग्धे स्रवेद्रक्तं मूर्च्छादाहज्वरादयः||३५||
🔊 Audio coming soon
स०-अतिदग्धे सति रक्तं स्रवेत्| तथा, मूर्च्छादयो जायन्ते| आदिग्रहणाद्विसर्पशोफौषविस्फोटादयोऽपि|
Adhikarana gudAtidagdhalakShaNam (36) · Śloka 36
गुदे विशेषाद्विण्मूत्रसंरोधोऽतिप्रवर्तनम्| पुंस्त्वोपघातो मृत्युर्वा गुदस्य शातनाद्ध्रुवम्||३६||
🔊 Audio coming soon
स०-गुदेऽतिदग्धे विशेषेण विण्मूत्रयोः संरोधः, तथा तयोरेवातिप्रवर्तनं कदाचिद्भवति| विशेषग्रहणात् पूर्वोक्ता रक्तस्रावादयोऽपि| तथा, पुंस्त्वोपघातः-शुक्रक्षयात्कान्तागमनासामर्थ्यम्| अथवा, गुदस्य शातनात्-विदारणात्, निश्चयेन मृत्युर्भवेत्
Adhikarana nAsAtidagdhalakShaNam (37) · Śloka 37
नासायां नासिकावंशदरणाकुञ्चनोद्भावः| भवेच्च विषयाज्ञानम्|३७|
🔊 Audio coming soon
स०-नासायां क्षारातिदग्धायां नासिकावंशस्य दरणाकुञ्चने उद्भवतः| तथा, विषयाज्ञानं-गन्धस्यावेदनं च भवेत्|
Adhikarana shrotrAdyatidagdhalakShaNam (37) · Śloka 37
| तद्वच्छ्रोत्रादिकेष्वपि||३७||
🔊 Audio coming soon
स०-तद्वत्-तेन क्षारातिदग्धनासिकाविषयाज्ञानेन तुल्यं, क्षारातिदग्धेषु श्रोत्रादिकेषु-श्रोत्रचक्षूरसनेषु स्थानेषु, विषयाज्ञानं स्यात्|
Adhikarana atidagdhe pratIkAraH (38-1) · Śloka 1
विशेषादत्र सेकोऽम्लैर्लेपो मधु घृतं तिलाः| वातपित्तहरा चेष्टा सर्वैव शिशिरा क्रिया||३८|| अम्लो हि शीतः स्पर्शेन क्षारस्तेनोपसंहितः| यात्याशु स्वादुतां तस्मादम्लैर्निर्वापयेत्तराम्||३९|| (विषग्निशस्त्राशनिमृत्युतुल्यः क्षारो भवेदल्पमतिप्रयुक्तः| स धीमता सम्यगनुप्रयुक्तो रोगान्निहन्यादिचिरेण घोरान्)||१||
🔊 Audio coming soon
स०-तस्मिन्नतिक्षारदग्धे विशेषेणाम्लैः-काञ्चिकादिभिः, सेको हितः| मधुघृततिलाश्च लेप इष्टः| तथा सर्वैव च शिशिरा क्रिया वातपित्तहरा चेष्टा| सङ्ग्रहे चोक्तम् (सू. अ.३९)- "पाययेतातियोगेऽत्र तं शीघ्रं सघृतं दधि| सगुडं वा दधिसरं तैलं वा ससितोपलम्||" इति| अम्ल इत्यादि| तस्माद्धेतोः क्षारदग्धमम्लैः-काञ्जिकादिभिः, निर्वापयेत्तराम्| यस्मादम्लः शीतः स्पर्शेन| तेन च-अम्लेन, क्षार उपसंहितो-युक्तः, आश्वेव कटुकलवणभूयिष्ठताम् त्यक्त्वा स्वादुतां याति| तरांग्रहणमतिशयेनाम्लैर्निर्वापयेत् देशसात्य्मानुरोधात् कदाचित् क्षीरादिभिरपीति गमयति| इति क्षारविधिः| अग्निकर्मविधिमाह-
Adhikarana agniprashaMsA (40) · Śloka 40
अग्निः क्षारादपि श्रेष्ठस्तद्दग्धानामसम्भवात्| भेषजक्षारशस्त्रैश्च न सिद्धानां प्रसाधनात्||४०||
🔊 Audio coming soon
स०-क्षारादप्यग्नेः प्रशस्यतरत्वम्| कुतः ? तेन-अग्निना, दग्धानां रोगाणामर्शःप्रभृतिनामसम्भवात्| भूयोऽग्निदग्धो रोगः प्ररोहं न याति, मूलादुन्मूलनादित्यर्थः| भेषजक्षारशस्त्रैश्च ये रोगा न शान्तास्तेषां वह्निना साधनात् ज्वलनो ज्यायान्|
Adhikarana agnidAhyAnya~ggAni (41) · Śloka 41
त्वचि मांसे सिरास्नायुसन्ध्यस्थिषु स युज्यते| |४१|
🔊 Audio coming soon
स०-सः-अग्निदाहः त्वगादिषु युज्यते|
Adhikarana tvagdAha viShayaH tvagdAhasAdhanAni (41-42) · Śloka 42
| मषाङ्गग्लानिमूर्धार्तिमन्थकीलतिलादिषु||४१|| त्वग्दाहो वर्तिगोदन्तसूर्यकान्तशरादिभिः| |४२|
🔊 Audio coming soon
स०-तत्र मषादिषु रोगेषु त्वग्दाहः कार्यो वर्त्यादिभिः| वर्तिः-पिचुवर्तिः| आदिग्रहणादन्येष्वपि क्षुद्रोगाध्यायोक्तेषु त्वग्दाहो योज्यः| शरादिभिरित्यादिग्रहणादन्यैरपि देशान्तरप्रसिद्धैस्त्वग्दाहः कार्यः|
Adhikarana mAMsadAhaviShayaH mAMsadAhasAdhanAni (42-43) · Śloka 43
| अर्शोभगन्दरग्रन्थिनाडीदुष्टव्रणादिषु||४२|| मांसदाहो मधुस्नेहजाम्बवौष्ठगुडादिभिः| |४३|
🔊 Audio coming soon
स०-अर्शःप्रभृतिषु रोगेषु मधुस्नेहादिभिर्मांसदाहः कार्यः| आदिग्रहणेनार्बुदगण्डमालादयो गृह्यन्ते| तत्र कदाचिन्मधुना, कदाचित्पृथक्स्नेहैः, कदाचिज्जाम्बवौष्ठेन, जाम्बवौष्ठः-शलाकाविशेषो यन्त्रविधावुक्तः (हृ. सू. अ. २५|२६) येन क्षारो दीयते, कदाचिद्गुडेन, कदाचिदेवंप्रायेणान्येनापि देशविशेषप्रसिद्धेन|
Adhikarana sirAdidAhaviShayaH sirAdidAhasAdhanAniss (43-44) · Śloka 44
| श्लिष्टवर्त्मन्यसृक्स्रावनील्यसम्यग्व्यधादिषु||४३|| सिरादिदाहस्तैरेव| |४४|
🔊 Audio coming soon
स०-श्लिष्टवर्त्मादिषु सिरादिदाहः कार्यः| तैरेव-मधुस्नेहादिभिः|
Adhikarana agnidAhaniShedhaH (44) · Śloka 44
न दहेत्क्षारवारितान्| अन्तःशल्यासृजो भिन्नकोष्ठान् भूरिव्रणातुरान्||४४||
🔊 Audio coming soon
स०-क्षारवारितान् न दहेत्| न केवलं येषु क्षारो वारितस्तान् न दहेत्, यावदन्तःशल्यं तथाऽन्तर्लोहितं येषां तान्, तथा भिन्नः-शस्त्रादिना, कोष्ठः-शरीरमध्यो, येषां तान्, तथा भूरिभिर्व्रणैरार्तान् [ च न दहेत् ]|०
Adhikarana dAhAnantaraM kRutyam (45) · Śloka 45
सुदग्धं घृतमध्वक्तं स्निग्धशीतैः प्रदेहयेत्| |४५|
🔊 Audio coming soon
स०-सुदग्धं-अग्निना रोगाधिष्ठानं ज्ञात्वा, घृतमधुभ्यामभ्यक्तं कृत्वा, स्निग्धशीतैः- मधुयष्टिशालिमूलादिभिः, प्रलेपयेत्|
Adhikarana sudagdhalakShaNam (45-46) · Śloka 46
| तस्य लिङ्गं स्थिते रक्ते शब्दवल्लसिकान्वितम्||४५|| पक्वतालकपोताभं सुरोहं नातिवेदनम्| |४६|
🔊 Audio coming soon
स०-तस्येत्यनेन सुदग्धं स्थानं परामृश्यते| तस्य-सुदग्धस्य स्थानस्य, लिङ्गं-लक्षणं, स्थिते रक्ते-दह्यमानावस्थाप्रवृत्तासृजि निवृत्ते सति, शब्दवत्-बुद्बुदशब्दवत्, तत्स्थानं भवेत्| तथा, लसिकान्वितम्| लसिका-कुशशस्त्रादिविक्षते प्रथमं या दृश्यते जललवाकृतिः| तथा, पक्वतालफलसदृशम्, कदाचित्कपोतसदृशम्| सुखेन रोहति-सुरोहम्| तथा, नातिवेदनं-न तीव्ररुक्|
Adhikarana durdagdhAtidagdhayorlakShaNam (46) · Śloka 46
| प्रमाददग्धवत्सर्वं दुर्दग्धात्यर्थदग्धयोः||४६||
🔊 Audio coming soon
स०-दुर्दग्धात्यर्थदग्धयोः प्रमाददग्धेन तुल्यं सर्वं लक्षणं बोध्यम्| न च लक्षणमन्तरेणैतत्सम्यग्ज्ञायत इति तल्लक्षणार्थं भेदान्तरदर्शनार्थं वाऽऽह-
Adhikarana pramAdadagdhaBedAH (47) · Śloka 47
चतुर्धा तत्तु तुच्छेन सह| |४७|
🔊 Audio coming soon
स०-तत्-प्रमाददग्धं, चतुष्प्रकारम्| कथम् ? तुच्छेन-तुच्छदग्धलक्षणेन, सह| अविमृश्यदग्धं हि कदाचित् सम्यग्दग्धलक्षणं, कदाचिद्दुर्दग्धलक्षणम्, कदाचिदतिदग्धलक्षणम्, कदाचिच्च तुच्छदग्धलक्षणं स्यात्|
Adhikarana tucCalakShaNam (47) · Śloka 47
तुछस्य लक्षणम्| त्वग्विवर्णाष्यतेऽत्यर्थं न च स्फोटसमुद्भवः||४७||
🔊 Audio coming soon
स०-तुच्छस्य-तुच्छदग्धस्य लक्षणमिति कार्ये कारणोपचारादेवमुक्तम्| त्वगित्यादि| त्वग्विवर्णा| सत्यत्यर्थमुष्यते-रुज्यते, न च स्फोटानां समुद्भूतिरिति तुच्छदग्धस्थानस्य लक्षणम्| यत्किञ्चिन्मात्रमेवाग्निना स्पृष्टं तत्तुच्छदग्धमित्युच्यते|
Adhikarana durdagdhalakShaNam (48) · Śloka 48
सस्फोटदाहतीव्रोषं दुर्दग्धम्| |४८|
🔊 Audio coming soon
स०-यत्र प्रदेशे स्फोटानामुद्भवो दाहयुक्ता तीव्रा ऊषारुजा, जायते, तद्दुर्दग्धं रोगाधिष्ठानं विद्यात्|
Adhikarana atidagdhalakShaNam (48-49) · Śloka 49
अतिदाहतः| मांसलम्बनसङ्कोचदाहधूपनवेदनाः||४८|| सिरादिनाशस्तृण्मूर्च्छाव्रणगाम्भीर्यमृत्यवः| |४९|
🔊 Audio coming soon
स०-अतिदाहाद्रोगाधिष्ठानस्य मांसलम्बनादयः स्युः| [ सङ्कोचः-सिरादीनाम्| धूपनं-धूमायनम्| वेदना-रुजा| सिरादीनां नाशो-व्यापत्| व्रणगाम्भीर्यं-गम्भीरव्रणता| मृत्युः-मरणं च| ]सम्यग्दग्धलिङ्गं तूक्तमेव "तस्य लिङ्गं स्थिते रक्ते" (श्लो.४५) इत्यादिना| तस्मात्तत्पुनर्न निर्दिष्टम्| अधुना चतुर्विधस्यास्य चिकित्सितमाह-
Adhikarana tucCasyauShadham (49-50) · Śloka 50
| तुच्छस्याग्निप्रतपनं कार्यमुष्णं च भेषजम्||४९|| स्त्यानेऽस्त्रे वेदनाऽत्यर्थं विलीने मन्दता रुजः| |५०|
🔊 Audio coming soon
स०-तुच्छदग्धस्याग्निना प्रतपनं कार्यम्| तथा, उष्णम् भेषजं-औषधम्| रक्तस्य विलयनार्थमेतत्| यतस्तुच्छदग्धेऽवश्यं स्त्यानमसृग्भवतीति युक्त्या प्रतिपादयन्नाह-स्त्यानेऽस्त्र इत्यादि| लोहिते स्त्याने सत्यतिशयेन रुग्भवति| विलीने रक्ते पीडाया मन्दता-मन्दत्वं भवति| अतस्तुच्छदग्धेऽग्नि प्रतपनं योज्यम्|
Adhikarana durdagdhasyauShadham (50) · Śloka 50
| दुर्दग्धे शीतमुष्णं च युञ्ज्यादादौ ततो हिमम्||५०||
🔊 Audio coming soon
स०-दुर्दग्धे शीतमुष्णं च पर्यायेणौषधम्| तत्रादौ-प्रथमं, हिमं भेषजं युञ्ज्यात्|
Adhikarana samyagdagdhasyauShadham (51) · Śloka 51
सम्यग्दग्धे तवक्षीरिप्लक्षचन्दनगैरिकैः| लिम्पेत्साज्यामृतैरूर्ध्वं पित्तविद्रधिवत्क्रिया||५१||
🔊 Audio coming soon
स०-सम्यग्दग्धे तवक्षीर्यादिभिलेपयत्| किम्भूतैः ? साज्यामृतैः-घृतगुडूचीयुक्तैः| आदावित्यत्रापि योज्यम्| आदौ तैर्लेपयेत्, ऊर्ध्वं-अनन्तरं, पित्तविद्रधिवत् क्रिया कार्येति शेषः|
Adhikarana atidagdhasyauShadham (52) · Śloka 52
अतिदग्धे द्रुतं कुर्यात्सर्वं पित्तविसर्पवत्| |५२|
🔊 Audio coming soon
स०-अतिदग्धे द्रुतं-शीघ्रमेव, सर्वं-बहिरन्तश्च भेषजं, पित्तविसर्प इव कुर्यात्|
Adhikarana snehadagdhasyauShadham (52-1) · Śloka 1
| स्नेहदग्धे भृशतरं रूक्षं तत्र तु योजयेत्||५२|| (शस्त्रक्षाराग्नयो यस्मान्मृत्योः परममायुधम्| अप्रमत्तो भिषक् तस्मात्तान् सम्यगवचारयेत्)||१||
🔊 Audio coming soon
स०-स्नेहदग्धेऽतितरां रूक्षं योजयेत्| [भृशतरं रूक्षं चात्र भेषजं तत्र तु योजयेत्| तुशब्दान्न केवलं ] भृशतरग्रहणाच्च बाहुल्येन रूक्षं [ प्रलेपादि तत्र योजयेत् किन्तु ] देहदेशादिसात्म्यवशात्स्निग्धमपि यथावस्थं यथायोगं योजयेत्|
Adhikarana sUtrasthanasyopasaMhAraH (30) · Śloka 30
समाप्यते स्थानमिदं हृदयस्य रहस्यवत्| अत्रार्थाः सूत्रिताः सूक्ष्माः प्रतन्यन्ते हि सर्वतः||५३|| इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचिता- यामष्टाङ्गहृदयसंहितायां सूत्रस्थाने क्षाराग्निकर्म- विधिर्नाम त्रिंशत्तमोऽध्यायः||३०||
🔊 Audio coming soon
स०-वक्तव्यं यद्वस्तु तस्य सर्वस्यैवोक्तत्वादिदं स्थानं समाप्यते-निष्पाद्यते| किम्भूतं स्थानम् ? रहस्यवत्, रहस्यं-अत्यर्थं गुह्यरूपं, तद्यस्यास्ति तद्रहस्यवत्| कस्य स्थानम् ? हृदयस्य| हृदयशब्देनाष्टाङ्गहृदयमुपलक्ष्यते, यथा-सत्यभामा भामेति| कुत एतत्स्थानं रहस्यवत् ? इत्याह- सं-यस्मादत्र-स्थाने, अर्थाः सूत्रिताः-सूचिताः| किम्भूताः ? सूक्ष्माः,-तीक्ष्णतरमतिसमधिगम्याः| यतस्ते एवार्थाः सर्वस्मिंस्तन्त्रे प्रतन्यन्ते-विस्तार्यन्ते| तस्मादिदं स्थानं तन्त्रसम्बन्धिनामन्यस्थानानां रहस्यवदित्युक्तमिति| इति श्रीमृगाङ्कदत्तपुत्रश्रीमदरुणदत्तविरचितायामष्टाङ्गहृदयटी- कायां सर्वाङ्गसुन्दराख्यायां सूत्रस्थाने क्षाराग्निकर्मविधि- र्नाम त्रिंशत्तमोऽध्यायः समाप्तः|| ३०||