Adhikarana kShudrarogapratiShedhAdhyAyaH ----- ajagallikAyAmapakvAyAM jalaukobhirvisrAvaH (2-1) · Śloka 1
अथैषां चिकित्सितं विवक्षुराह अथातः क्षुद्ररोगप्रतिषेधं व्याख्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः|
(गद्यसूत्रे)|२|
विस्रावयेज्जलौकाभिरपक्वामजगल्लिकाम्|
|१|
स० - अजगल्लिकामपक्वां जलजन्मभिर्विस्रावयेत्|
Adhikarana yavaprakhyAyAM svedo dArvAdibhiH pralepashca (1-2) · Śloka 2
|
स्वेदयित्वा यवप्रख्यां विलयाय प्रलेपयेत्||१||
दारुकुष्ठमनोह्वालैर्|
|२|
स०-यवप्रख्यां स्वेदयित्वा विलायनार्थं प्रलेपयेद्दार्वादिभिः|
Adhikarana alajIkacchapIpanasikApAShANagardabheShu eSha vidhiH, jagallikeShveteShu pakveShu vraNavat vidhiH (2) · Śloka 2
इत्यापाषाणगर्दभात्|
विधिस्तांश्चाचरेत्पक्वान् व्रणवत्साजगल्लिकान्||२||
स०- पाषाणगर्दभं यावदेष विधिः| तेन ग्रन्थि(अलजी)कच्छपशालूक(पनसिका)पाषाणगर्दभानां पूर्वोक्तं कार्यमित्यवतिष्ठते| तांश्च पक्वान् अजगल्लिकां च व्रणवदुपक्रमेत्|
Adhikarana mukhadUShike rodhrAdipralepaH, nArikelashuktipralepaH, ashAntau vamanaM nasyaM ca, ashAntau lalATe sirAvyadhaH (3-4) · Śloka 4
रोध्रकुस्तुम्बरुवचाः प्रलेपो मुखदूषिके|
वटपल्लवयुक्ता वा नारिकेलोत्थशुक्तयः||३||
अशान्तौ वमनं नस्यं ललाटे च सिराव्यधः|
|४|
स०- मुखदूषिके रोध्रादयः प्रलेपः, वटपल्लवयुक्ता नारिकेलशुक्तयो वा| एवमप्यनुपशमे वमनं नस्यं च हितम्| ललाटे च सिरामोक्षः|
Adhikarana padmakaNTake vamanaM nimbaghRutapAnaM, nimbAdilepashca (4-5) · Śloka 5
|
निम्बाम्बुवान्तो निम्बाम्बुसाधितं पद्मकण्टके||४||
पिबेत्क्षौद्रान्वितं सर्पिर्निम्बारग्वधलेपनम्|
|५|
स०- पद्मकण्टके निम्बाम्बुना कृतवमनो निम्बक्वाथपक्वं घृतं सक्षौद्रं पिबेत्| निम्बकर्णिकाराभ्यां लेपः|
Adhikarana vivRutAmasUrikAvisphoTaviddhAgardabhIkakShAgandhanAmArAjikAjAlagardabherivellikAsu pittavIsarpavat, agnirohiNyAM pratyAkhyAya pittavIsarpavat (5) · Śloka 5
विवृतादींस्तु जालान्तांश्चिकित्सेत्सेरिवेल्लिकान्|
पित्तवीसर्पवत्तद्वत् प्रत्याख्यायाग्निरोहिणीम्||५||
स०-विवृतादीन् जालान्तान्निरिवेल्लिकां च पित्तविसर्पमिव चिकित्सेत्| अग्निरोहिणीं च प्रत्याख्याय चिकित्सेत्|
Adhikarana jAlagardabhe la~gghanAdi sadAkuryAt (6) · Śloka 6
विलङ्घनं रक्तविमोक्षणं च विरूक्षणं कायविशोधनं च|
धात्रीप्रयोगान् शिशिरप्रदेहान् कुर्यात्सदा जालकगर्दभस्य||६||
स०- जालकगर्दभस्य लङ्घनादि यथावस्थं सदा कुर्यात्|
Adhikarana vidArikAyAM rakte hRute shleShmagranthivat (7) · Śloka 7
विदारिकां हृते रक्ते श्लेष्मग्रन्थिवदाचरेत्|
|७|
स०-विदारिकां रक्ते स्रुते कफग्रन्थिमिव चिकित्सेत्|
Adhikarana sharkarArbude medorbudakriyA (7) · Śloka 7
|
मेदोर्बुदक्रियां कुर्यात्सुतरां शर्करार्बुदे||७||
स०- शर्कराबुदे सुष्ठु मेदोर्बुदक्रियां कुर्यात्|
Adhikarana valmIke pravRuddhatvAdiyukte varjanIyatvam (8) · Śloka 8
प्रवृद्धं सुबहुच्छिद्रं सशोफं मर्मणि स्थितम्|
वल्मीकं हस्तपादे च वर्जयेद्|८|
स०- वल्मीकं प्रवृद्धादिगुणं हस्तपादे जातं च वर्जयेत्|
Adhikarana valmIke itarasmin raktastrAvaH shyAmAdibhirlepashca (8-9) · Śloka 9
|
इतरत्पुनः||८||
शुद्धस्यास्रे हृते लिम्पेत् सपट्वारेवतामृतैः|
श्यामाकुलत्थिकामूलदन्तीपललसक्तुभिः||९||
स०- इतरत् पुनर्वल्मीकं शुद्धस्य रक्ते हृते श्यामादिभिः सलवणकर्णिकारगुडूचीभिर्लिम्पेत्|
Adhikarana valmIke pakve duShTamAMsashodhanAdi (10) · Śloka 10
पक्वे तु दुष्टमांसानि गतीः सर्वाश्च शोधयेत्|
शस्त्रेण सम्यगनु च क्षारेण ज्वलनेन वा||१०||
स०- पक्वे तु [वल्मीके] दुष्टमांसानि सर्वाश्च गतीः शोधयेत्| केन ? शस्त्रेण| कथम् ? सम्यक्| पश्चात् क्षारेणाग्निना च (वा)|
Adhikarana kadare utkRutya dahanam (11) · Śloka 11
शस्त्रेणोत्कृत्य निःशेषं स्नेहेन कदरं दहेत्|
|११|
स०-कदरं शस्त्रेण निःशेषमुत्कृत्य स्नेहेन दहेत्|
Adhikarana ruddhagude niruddhamaNivat cikitsitam (11) · Śloka 11
|
निरुद्धमणिवत्कार्यं रुद्धपायोश्चिकित्सितम्||११||
स०-रुद्धगुदे चिकित्सितं निरुद्धमणिसदृशं कार्यम्|
Adhikarana cippe shuddhipUrvakaM shastrakarma (12) · Śloka 12
चिप्यं शुद्ध्या जितोष्माणं साधयेच्छस्त्रकर्मणा|
|१२|
स०-चिप्यं शुद्ध्या-विरेकादिकया, जितोष्माणं सन्तं शस्त्रकर्मणा साधयेत्|
Adhikarana kunakhe~apyevameva (12) · Śloka 12
|
दुष्टं कुनखमप्येवं|१२|
स०-कुनखं दुष्टमप्येवमेव साधयेत्|
Adhikarana alase caraNayoH kAsIsAdilepaH (12-13) · Śloka 13
|
चरणावलसे पुनः||१२||
धान्याम्लसिक्तौ कासीसपटोलीरोचनातिलैः|
सनिम्बपत्रैरालिम्पेद्|१३|
स०- अलसे तु चरणौ कञ्जिकसिक्तौ कासीसादिभिः सनिम्बपत्रैरालिम्पेत्|
Adhikarana tilakAlakeShu maSheShu ca sUryaMkAntAdinA dahanam (13-14) · Śloka 14
|
दहेत्तु तिलकालकान्||१३||
मषांश्च सूर्यकान्तेन क्षारेण यदि वाऽग्निना|
|१४|
स०-तिलकालकान् मषांश्च सूर्यकान्तदिभिर्दहेत्|
Adhikarana carmakIlajatUmaNyorutkRutya tadvaddahet (14) · Śloka 14
|
तद्वदुत्कृत्य शस्त्रेण चर्मकीलजतूमणी||१४||
स०-चर्मकीलजतूमणी शस्त्रेणोद्धृ(त्कृ)त्य तथैव सूर्यकान्तादिभिर्दहेत्|
Adhikarana lA~jchana vya~gganIlikAsu yathAsannaM sirAvyadho kShIrivRukShatvagAdilepashca (15) · Śloka 15
लाञ्छनादित्रये कुर्याद्यथासन्नं सिराव्यधम्|
लेपयेत्क्षीरपिष्टैश्च क्षीरिवृक्षत्वगङ्कुरैः||१५||
स०-लाञ्छनादिषु त्रिषु-लाञ्छनव्यङ्गनीलिकासु, यथासन्नं सिरां विध्येत्| क्षीरिवृक्षाणां त्वग्भिरङ्कुरैश्च क्षीरपिष्टैर्लेपयेत्|
Adhikarana vya~ggeShu arjunatvagAdilepAH (16) · Śloka 16
व्यङ्गेषु चार्जुनत्वग्वा मञ्जिष्ठा वा समाक्षिका|
लेपः सनवनीता वा श्वेताश्वखुरजा मषी||१६||
स०-व्यङ्गादिषु चायं लेपोऽर्जुनवल्कं क्षीरपिष्टं वा| मञ्जिष्ठा माक्षिकसहिता वा| श्वेताश्वखुरजा मषी सनवनीता वा|
Adhikarana vya~ggeShu raktacandanAdilepAH (17) · Śloka 17
रक्तचन्दनमञ्जिष्ठाकुष्ठरोध्रप्रियङ्गवः वटाङ्कुरा मसूराश्च व्यङ्गघ्ना मुखकान्तिदाः||१७||
स०-रक्तचन्दनादयो व्यङ्गहरा मुखकान्तिकराः 'लेपाः' इति प्रकृतत्वाद् गम्यते|
Adhikarana vya~ggeShu dvijIrakAdilepaH, masUrAdilepaH, kolamajjAdilepaH, kuShThAdilepaH, maushalIjaTAlepaH, gavyAsthilepaH (18-21) · Śloka 21
द्वे जीरके कृष्णतिलाः सर्षपाः पयसा सह|
पिष्टाः कुर्वन्ति वक्त्रेन्दुमपास्तव्यङ्गलाञ्छनम्||१८||
क्षीरपिष्टा घृतक्षौद्रयुक्ता वा भृष्टनिस्तुषाः|
मसूराः क्षीरपिष्टा वा तीक्ष्णाः शाल्मलिकण्टकाः||१९||
सगुडः कोलमज्जा वा शशासृक्षौद्रकल्कितः|
सप्ताहं मातुलुङ्गस्थं कुष्ठं वा मधुनाऽन्वितम्||२०||
पिष्टा वा छागपयसा सक्षौद्रा मौशली जटा|
गोरस्थि मुशलीमूलयुक्तं वा साज्यमाक्षिकम्||२१||
स०- जीरकद्वयादयो लेपे प्रयुक्ताः पयसा पिष्टा वक्त्रचन्द्रं निरस्तव्यङ्गलाञ्छनं विदधति| वक्त्रमेवेन्दुः, व्यङ्गमेव लाञ्छनमिति रूपकालङ्कारः| मसूरा भृष्टा निस्तुषाश्च क्षीरपिष्टाः सर्पिर्माक्षिकान्विता लेपः| शाल्मलीकण्टकास्तीक्ष्णाः क्षीरपिष्टा वा लेपः| कोलस्य-अम्लबदरस्य, मज्जा शशासृक्क्षौद्रपिष्टो गुडान्वितो लेपः| सप्ताहं बीजपूरस्यान्तरस्थितं कुष्ठं माक्षिकयुतं वा लेपः| मोउशली जटा-शाल्मलीमूलं, छगलीक्षीरपिष्टं सक्षौद्रं वा लेपः| गव्यमस्थि तालपत्रीमूलान्वितं सघृतमाक्षिकं वा लेपः
Adhikarana vya~ggeShu savarNakRut jambvAmrapallavAdiko lepaH (22) · Śloka 22
जम्ब्वाम्रपल्लवा मस्तु हरिद्रे द्वे नवो गुडः|
लेपः सवर्णकृत् पिष्टं स्वरसेन च तिन्दुकम्||२२||
स०-जम्ब्वाम्रपल्लवादिको लेपः सवर्णकरः| तिन्दुकं च स्वरसेन पिष्टं लेपः सवर्णकरः|
Adhikarana vya~ggeShu utpalAdikamudvartanam (23) · Śloka 23
उत्पलमुत्पलकुष्ठं प्रियङ्गुकालीयकं बदरमज्जा|
इदमुद्वर्तनमास्यं करोति शतपत्रसंकाशम्||२३||
स०-उत्पलादिकमेतदुद्वर्तनं पद्मसदृशं मुखं विधत्ते| आर्या|
Adhikarana vya~ggeShu ebhirevauShadhaiH siddhaH sneho mukhAbhya~ggAya (24) · Śloka 24
एभिरेवौषधैः पिष्टैर्मुखाभ्यङ्गाय साधयेत्|
यथादोषर्तुकान् स्नेहान् मधुकक्वाथसंयुतैः||२४||
स०- एभिरेव-पूर्वोदितैः, पिष्टैर्मधुकक्वाथान्वितैर्मुखाभ्यङ्गार्थं यथादोषं यथर्तु स्नेहान् पाचयेत्|
Adhikarana vya~ggeShu yavAdyabhya~ggaH (25-26) · Śloka 26
यवान् सर्जरसं रोध्रमुशीरं मदनं मधु|
घृतं गुडं च गोमूत्रे पचेदादर्विलेपनात्||२५||
तदभ्यङ्गान्निहन्त्याशु नीलिकाव्यङ्गदूषिकान्|
मुखं करोति पद्माभं पादौ पद्मदलोपमौ||२६||
स०- यवादीन् दर्वीलेपं यावद् गोमूत्रे पाचयेत्| एतदभ्यङ्गाद् द्रागेव नीलिकादीन् हन्ति| वक्त्रं शतपत्रसदृशं करोति| चरणौ पङ्कजपत्रतुल्यौ विदधाति|
Adhikarana vya~ggeShu ku~gkumAditailanasyaM nIlikAdighnam (27-30) · Śloka 30
कुङ्कुमोशीरकालीयलाक्षायष्ट्याह्वचन्दनम्|
न्यग्रोधपादांस्तरुणान् पद्मकं पद्मकेसरम्||२७||
सनीलोत्पलमञ्जिष्ठं पालिकं ससिलाढके|
पक्त्वा पादावशेषेण तेन पिष्टैश्च कार्षिकैः||२८||
लाक्षापत्तङ्गमञ्जिष्ठायष्टीमधुककुङ्कुमैः|
अजाक्षीरं द्विगुणितं तैलस्य कुडवं पचेत्||२९||
नीलिकापलितव्यङ्गवलीतिलकदूषिकान्|
हन्ति तन्नस्यमभ्यस्तं मुखोपचयवर्णकृत्||३०||
स०-कुङ्कुमादिकं सनीलोत्पलमञ्जिष्ठं पलप्रमाणं जलाढके पक्त्वा तेन पादावशेषेण लाक्षादिभिश्च पिष्टैः कार्षिकैस्तैलस्य कुडवं छागीक्षीरं द्विकुडवं पचेत्| तत्-तैलं, नस्यं शीलितं नीलिकादीन् हन्ति| मुखोपचयकरं वर्णकरं च|
Adhikarana vya~ggeShu ma~jjiShThAdikam (31-32) · Śloka 32
मञ्जिष्ठा शबरोद्भवस्तुवरिका लाक्षा हरिद्राद्वयं नेपाली हरितालकुङ्कुमगदा गोरोचना गैरिकम्|
पत्रं पाण्डु वटस्य चन्दनयुगं कालीयकं पारदं पतङ्गं कनकत्वचं कमलजं बीजं तथा केसरम्||३१||
सिक्थं तुत्थं पद्मकाद्यो वसाऽऽज्यं मज्जा क्षीरं क्षीरिवृक्षाम्बु चाग्नौ|
सिद्धं सिद्धं व्यङ्गनील्यादिनाशे वक्त्रे छायामैन्दवीं चाशु धत्ते||३२||
स०- कनकस्य त्वक्-कनकत्वक्, तां कनकत्वचम्| मञ्जिष्ठादीनि वसा घृतं मज्जा गोक्षीरं क्षीरिवृक्षक्वाथ एतदग्नौ पक्वं व्यङ्गादिनाशे सिद्धं-अव्याहतशक्ति| मुखस्य कान्तिं चान्द्रमसीं शीघ्रं करोति| शार्दूलविक्रीडितशालिन्यौ वृत्ते|
Adhikarana vya~ggeShu mArkavasvarasAdinAvanam (33) · Śloka 33
मार्कवस्वरसक्षीरतोयानीष्टानि नावने|
|३३|
स०- नावने-नस्ये, मार्कवस्वरसादीनि|
Adhikarana prasuptau vAtakuShThoktaM vahnidAhashca (33) · Śloka 33
|
प्रसुप्तौ वातकुष्ठोक्तं कुर्याद्दाहं च वह्निना||३३||
स०- प्रसुप्तौ वातकुष्ठविहितं कुर्यात्| वह्निना च दहेत्|
Adhikarana utkoThe kaphapittoktam (34) · Śloka 34
उत्कोठे कफपित्तोक्तं|
||३४||
स०- उत्कोठे कफपित्तविहितं कार्यम्|
Adhikarana koThe sarvaM kuShThoktam (32) · Śloka 32
कोठे सर्वं च कौष्ठिकम्|
३३ १/२|
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां षष्ठे उत्तरस्थाने क्षुद्ररोगप्रतिषेधो नाम द्वात्रिंशोऽध्यायः||३२||
स०- कोठे च सर्वं कुष्ठोक्तमिति| इति श्रीमृगाङ्कदत्तपुत्रश्रीमदरुणदत्तविरचितायामष्टाङ्गहृदयटीकायां सर्वाङ्गसुन्दराख्यायां षष्ठे उत्तरस्थाने क्षुद्ररोगप्रतिषेधो नाम द्वात्रिंशोऽध्यायः समाप्तः||३२||