Adhikarana athodaranidAnaM nAma dvAdasho~adhyAyaH | pratij~jA (1) · Śloka 1
अथात उदरनिदानं नामाध्यायं व्याख्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः||१||
शोफानाहजठरविकृतिसामान्याद्विद्रध्याद्यनन्तरमुदर-निर्णयायाऽध्यायारम्भः|| १||
Adhikarana udarasya nidAnaM samprAptishca (2) · Śloka 2
रोगाः सर्वेऽपि मन्देऽग्नौ सुतरमुदराणि तु|
अजीर्णान्मलिनिश्चान्नैर्जायन्ते मलसञ्चयात्|
ऊर्ध्वाधो धातवो रुध्वा वाहिनीरम्बुवाहिनीः|
प्राणाग्न्यपानान्सन्दूष्य कुर्य्युस्त्वङ्मांससन्धिगाः|
आध्माप्य कुक्षिमुदरम्.............................||२||
सर्वेषामपि ज्वरादीनामग्निमान्द्यसम्भवादुदराणामतिशयः| अतोऽजीर्णहेतुकान् मलिनान्नहेतुकाच्च वातादिसञ्चयादुदराणि जायन्ते| ऊर्ध्वाध इत्यादिकया सम्प्राप्त्या मला उदरं कुर्य्युरिति सम्बन्धः| धावतो वातादयः| अम्बुवाहिनीः सिरा ऊर्ध्वाधो देहे रुध्वा प्राणादींश्च सन्दूष्य त्वङ्मांसस्य मध्यमाश्रिताः|| २||
Adhikarana udaraprabhedAH (3) · Śloka 3
...................... अष्टधा तच्च भिद्यते|
पृथग्दोषैः समस्तैश्च प्लीहबद्धक्षतोदकैः||३||
तच्चोदरं वातादिभिः सन्निपातेन प्लीहादिभिश्चाष्टधा|| ३||
Adhikarana udararogisAmAnyalakShaNam (4) · Śloka 4
तेनार्त्ताः शुष्कताल्वोष्ठाः शूनपादकरोदराः|
नष्टचेष्टाबलाहारः कृशाः प्रध्मातकुक्षयः|
स्युः प्रेतरूपाः पुरुषाः .........................||४||
सुबोधम्|| ४||
Adhikarana udarapUrvarUpANi (5) · Śloka 5
..................................भाविनस्तस्य लक्षणम्|
क्षुन्नाशोऽन्नं चिरात्सर्वं सविदाहं च पच्यते|
जीर्णाजीर्णं न जानाति सौहित्यं सहते न च|
क्षीयते बलतः शश्वत् श्वसित्यल्पेऽपि चेष्टिते|
वृद्धिर्विशोऽप्रवृत्तिश्च किञ्चिच्छोफश्च पादयोः|
रुग्बस्तिसन्धौ तततालध्वल्पा भोजनैरपि|
राजीजन्मवलीनाशो जठरे.............................||५||
लघुभोजनादिभिरपि जठरे ततता राजीजन्मवलीणां नाशश्च भवतीति पूर्वरूपम्|| ५||
Adhikarana udarasAmAnyalakShaNam (6) · Śloka 6
......................................जठरेषु तु|
सर्वेषु तन्द्रा सदनं मलसङ्गोऽल्पवह्निता|
दाहः श्वयथुराध्मानमन्त्रे सलिलसम्भवः||६||
सर्वेषु जठरेषु तन्द्रादि साधारणं लिङ्गम्|| ६||
Adhikarana asa~jjAtajalasyodarasya lakShaNam (7) · Śloka 7
सर्वं त्वतोयमरुणमशोफं नातिभारिकम्|
गवाक्षितं सिराजालैः सदा गुडुगुडायते|
नाभिमन्त्रं च विष्टभ्य वेगं कृत्वा प्रणश्यति|
मारुतो हृत्कटीनाभिपायुवंक्षणवेदनः|
सशब्दो निश्चरेद्वायुर्विड्बद्धा मूत्रमल्पकम्|
नाऽतिमन्धोऽनलो लौल्यन्न च स्याद्विरसं मखम्||७||
अरुणताद्यतोयसम्भवलिङ्गम्| भारिकं गुरु| गुडुगुडुरित्यव्यक्तः शब्दः| मारुतो वेगं कृत्वा नश्यतीति सम्बध्यते| नश्यति नोपलभ्यत इत्यर्थः| नातिमन्द इत्यादिना सलिलसम्भवेऽतिमन्दत्वं दर्शितम्| न च लौल्यं स्यात्| विरसं च मुखं न स्यात्| यथा सलिल इत्यर्थात्|| ७||
Adhikarana vAtodaralakShaNam (8) · Śloka 8
तत्र वातोदरे शोफः पाणिपन्मुष्कसन्धिषु|
कुक्षिपार्श्वोदरकटी पृष्ठरुक्पर्वभेदनम्|
शुष्ककासोऽङ्गमर्दोऽधो गुरुता मलसंग्रहः|
श्यावारुणत्वगादित्वमकस्माद् ह्नासवृद्धिमत्|
सतोदभेदमुदरं तनुकृष्णसिराततम्|
आध्मातदृतिवच्छब्दमाहतं प्रकरोति च|
वायुश्चात्र सरुक्शब्दो विचरेत्सर्वतो गतिः||८||
पाणिशोफादिवातोदरलिङ्गम्|| ८||
Adhikarana pittodaralakShaNam (9) · Śloka 9
पित्तोदरे ज्वरो मूर्च्छा दाहस्तृट्कटुकास्यता|
भ्रमोऽतीसारः पीतत्वं त्वगादावुदरं हरित्|
पीतताम्रसिरानद्धं सस्वेदं सोष्म दह्यते|
धूमायति मृदुस्पर्शं क्षिप्रपाकं प्रदूयते||९||
ज्वरादिकं पित्तोदरे|| ९||
Adhikarana shleShmodaralakShaNam (10) · Śloka 10
श्लेष्मोदरेऽङ्गसदनं स्वापः श्वयथुगौरवम्|
निद्रोत्क्लेशाऽरुचिश्वासकासशुक्लत्वगादिताः|
उदरं स्तिमितं स्निग्धं शुक्लराजीततं महत्|
चिराभिवृद्धिकठिनं शीतस्पर्शं गुरु स्थिरम्||१०||
अङ्गसदनादिकं श्लेष्मोदरे|| १०||
Adhikarana sannipAtodarasya nidAnAdi (11) · Śloka 11
त्रिदोषकोपनैस्तैस्तैः स्त्रीदत्तैश्च रजोमलैः|
गरदूषीविषाद्यैश्च सरक्ताः सञ्चिता मलाः|
कोष्ठं प्राप्य विकुर्वाणाः शोफमूर्च्छाभ्रमान्वितम्|
कुर्य्युस्त्रिलिङ्गमुदरं शीघ्रपाकं सुदारुणम्|
बाधते तच्च सुतरां शीतवाताभ्रदर्शने||११||
त्रिदोषकोपनैरित्यादिना सन्निपातोदरस्य निदानादिकमुच्यते| तैस्तैरित्यादि सर्वरोगनिदानोक्तैः (अ. सं. नि. -३०)| तच्च सन्निपातोदरं शीतादिकाले सुतरां बाधते|| ११||
Adhikarana plIhodarasya nidAnAdi (12) · Śloka 12
अत्याशितस्य संक्षोभाद्यानपानादिचेष्टितैः|
अतिव्यवायभाराध्वगमनव्याधिकर्शनैः|
वामपार्श्वाश्रितः प्लीहाच्युतः स्थानाद्विवर्धते|
शोणितं वा रसादिभ्यो विवृद्धं तं विवर्द्धयेत्||१२||
अत्याशितस्येत्यादिना प्लीहोदरमुच्यते| अतिभुक्तवतो यानादिचेष्टतैः संक्षोभादितव्यवायादिकर्शनैश्च स्थानाच्च्युतः प्लीहा विवर्धते| अथवा रसादिभ्यो धातुभ्यो रक्तं विवृद्धं वृद्धिं प्राप्तमाश्रयत्वात्तं प्लीहानं विवर्धयेत्|| १२||
Adhikarana plIhodarasya saMsthAnaM lakShaNa~jca (13) · Śloka 13
सोऽष्ठीलेवातिकठिनः प्रोन्नतः कूर्मपृष्ठवत्|
क्रमेण वर्द्धमानश्च कुक्षावुदरमावहेत्|
श्वासकासपिपासास्यवैरस्याध्मानरुग्ज्वरैः|
पाण्डुत्वमूर्च्छर्ज्ञच्छर्दीभिर्दाहमोहैश्च संयुतम्|
अरुणाभं विवर्णं वा नीलहारिद्रराजिमत्||१३||
श्वासादिभिः संयुतमुदरमावहेदिति सम्बन्धः|| १३||
Adhikarana plIhodare doShAdhikyaj~jAnopAyaH (14) · Śloka 14
उदावर्तरुगाऽऽनाहैर्मोहतृड्दहनज्वरैः|
गौरवारुचिकाठिन्यैर्विद्यात्तत्र मलान् क्रमात्||१४||
तत्र प्लीहोदरे उदावर्त्तादिभिर्लिङ्गैः क्रमाद्वातादीन् मलान् विद्यात्तेनोदावर्तादिभिर्लिङ्गैर्वाताधिकं प्लीहोदरं भवति| मोहादिभिः पित्ताधिकं भवति| गौरवादिभिः कफाधिक्यम्|| १४||
Adhikarana yakRududaram (15) · Śloka 15
प्लीहवद्दक्षिणात्पार्श्वात्कुर्याद्यकृदपि च्युतम्||१५||
प्लीहसमानत्वाद्यकृतस्तदुदरस्यापि निदानादिभिरनधिकता||१५||
Adhikarana baddhodarasya samprAptiH (16) · Śloka 16
पक्ष्मबालसहान्नेन भुक्तैर्बद्धायने गुदे|
दुर्नामभिरुदावर्त्तैरेन्नैर्वान्त्रोपलेपिभिः|
वर्चः पित्तकफान्रुध्वा करोति कुपितोऽनिलः|
अपानो जठरं ...............................||१६||
पक्ष्मबालैरित्यादिना बद्धोदरमाह| पक्ष्मादिभिर्गुदे बद्धमार्गे कुपितोऽनिलाऽपानाख्यो वर्चः प्रभृतीन् रुध्वा जठरं कुरुत इति सम्बन्धः|| १६||
Adhikarana baddhodarasya lakShaNam (17) · Śloka 17
............................... तेन स्युर्दाहज्वरतृट्क्षवाः|
कासश्वासोरुसदनं शिरोहृन्नाभिपायुरुक्|
मलसङ्गोऽरुचिश्छर्दिरुदरं मूढमारुतम्|
स्थिरं नीलारुणसिराराजीनद्धमराजि वा|
नाभेरुपरि च प्रायो गोपुच्छाकृति जायते||१७||
तेन जठरेण पुरुषस्य दाहादयः स्युः| सुबोधम्|| १७||
Adhikarana chidrodaranidAnasamprAptilakShaNam (18) · Śloka 18
अस्थ्यादिशल्यैः सान्नैश्च भुक्तैरत्यशनेन वा|
भिद्यते पच्यते चान्त्रं तच्छिद्रैश्च स्रवन् बहिः|
आम एव गुदादेति ततोऽल्पाल्पं सविड्रसः|
तुल्यः कुणपगन्धेन पिच्छिलः पीतलोहितः|
शेषश्चापूर्य्य जठरं घोरमावहेत्|
वर्धते तदधो नाभेराशु चैति जलात्मताम्|
उद्रिक्तदोषरूपञ्च व्याप्तञ्च श्वासतृड्भ्रमैः|
छिद्रोदरमिदं प्राहुः परिस्रावीति चापरे||१८||
अस्थ्यादिशल्यैरित्यादिना छिद्रोदरस्य निदानादिकमाह| तच्छिद्रैश्छिन्नपक्वान्त्रच्छिद्रैः| स्रवन् किञ्चित् गुदात् बहिरेति| किञ्चिज्जठरमापूर्य्य तिष्ठति| वातादिदोषान्वयेन यानि रूपाणि तत्र तान्युद्रिक्तानि भवन्ति| व्याप्तमतिशयेन युतम्| आचार्याः (चरकाचार्याः) इदं छिद्रोदरं नाम्ना आहुः| अपरे आचार्याः (सुश्रुताचार्याः) छिद्रोदरस्यैव परिस्रावीति नाम मन्यते|| १८||
Adhikarana jalodaranidAnasamprAptilakShaNAni (19) · Śloka 19
प्रवृत्तस्नेहपानादेः सहसाऽऽमाम्बुपायिनः|
अत्यम्बुपानान्मन्दाग्नेः क्षीणस्यातिकृशस्य वा|
रुध्वाम्बुमार्गाननिलः कफश्च जलमूर्च्छितः|
वर्द्धयेतां तदेवाम्बु तत्स्थानादुदराश्रितौ|
ततः स्यादुदरं तृष्णागुदस्रुतिरुजान्वितम्|
कासश्वासारुचियुतं नानावर्णसिराततम्|
तोयपूर्णदृतिस्पर्शशब्दप्रक्षोभवेपथुः|
दकोदरं महत्स्निग्धं स्थिरमावृत्तनाभितत्||१९||
प्रवृत्तस्नेहपानादेरित्यादिना दकोदरमाह| तदम्बु कफानिलावुदराश्रयौ वर्धयेतम्| ततस्तृष्णान्वितत्वादियुक्तमुदरं स्यात्| आवृत्ता नाभिर्यत्र|| १९||
Adhikarana upekShAyAM sarvodarANAM jalodaratvaprAptiH (20) · Śloka 20
उपेक्षया च सर्वेषु दोषाः स्वस्थानतश्च्युताः|
पाकाद् द्रवा द्रवीकुर्य्यः सन्धीन् स्रोतोमुखान्यपि|
स्वेदश्च बाह्यस्रोतस्सु विहतस्तिर्य्यगाऽऽस्थितः|
तदेवोदकमाप्याय्य पिच्छां कुर्यात्तदा भवेत्|
गुरूदरं स्थिरं वृत्तमाहतं च न शब्दवत्|
मृदु व्यपेतराजीकं नाभ्यां स्पृष्टं च सर्पति|
तदनूदकजन्मास्मिन् कुक्षिवृद्धिस्ततोऽधिकम्|
सिरान्तर्धानमुदकं जठरोक्तं च लक्षणम्||२०||
उपेक्षयेत्यादिना सर्वोदरेषूदकरूपापतौ हेतुरुच्यते| उपेक्षया वातादयः स्थानाच्च्युताः पाकेन च स्वयं द्रवाः सन्ध्यादिकं द्रवेयुः| स्वेदश्च बाह्यविहतस्तदुदकमाप्याय्य पिच्छां कुर्य्यात्| तदा भवेदित्यादि सुबोधम्|| २०||
Adhikarana vAtAdyudarANAM yathottaraM kRucchratvam (21) · Śloka 21
वातपित्तकफप्लीहसन्निपातदकोदरम्|
कृच्छ्रं यथोत्तरं..................||२१||
वातोदरात् पित्तोदरं कृच्छ्रम्| ततः कफोदरम्| ततः प्लीहोदरम्| ततः सन्निपातेन| तत उदकेनेति यथोत्तरार्थः|| २१||
Adhikarana asAdhyodaram (22) · Śloka 22
................................पक्षात्परं प्रायोऽपरे हतः|
सर्वञ्च जातसलिलं रिष्टोक्तोपद्रवान्वितम्||२२||
अपरे बद्धच्छिद्रोदरे प्रायः पक्षादूर्ध्वं हतो मारयतः| प्रायोग्रहणं पक्षादधरेऽपीति प्रतिपत्त्यर्थम्| जातसलिलत्वादियुक्तं सर्वमुदरं हन्ति|| २२||
Adhikarana sarvasyaivodarasya kRucchratamatvAdi (23) · Śloka 23
जन्मनैवोदरं सर्वं प्रायः कृच्छ्रतमं मतम्||२३||
जातसलिलत्वादियुक्तं सर्वमुदरं हन्ति|| २३||
Adhikarana sAdhyodaralakShaNam (24-12) · Śloka 12
बलिनस्तदजाताम्बुयत्नसाध्यं नवोत्थितम्||२४||
इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतौ अष्टाङ्गसंग्रहसंहितायां निदानस्थाने उदरनिदानंनाम द्वादशोऽध्यायः||१२||
बलिनः पुरुषस्याजाताम्बु चाऽभिनवोत्थितं सद्यत्नेन साध्यं भवति|| २४|| इति श्रीमन्महामहोपाध्यायेन्दुविरचितायाम् अष्टाङ्गसंग्रहव्याख्यायां शशिलेखायां निदानस्थाने द्वादशोऽध्यायः