Adhikarana atha vikRutavyAdhivij~jAnIyo nAmaikAdasho~adhyAyaH pratij~jA (1) · Śloka 1
अथातो विकृतिव्याधिविज्ञानीयमध्यायं व्याख्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः|१|
चेष्टादीनां स्वरूपं दर्शयित्वा व्याधीनां मारणात्मकानां लक्षणपरिज्ञानार्थमध्यायारम्भः|| १||
Adhikarana hetvAdibhiratimAtrairvyAdhyudbhave riShTam (1) · Śloka 1
सर्वैर्यथास्वं हेतुप्राग्रूरूपैरैमात्रैर्यस्य व्याधिरुत्पद्यते||१||
Adhikarana vyAdhitamukhakarajaradanodarA- shrayANi riShTAni (2) · Śloka 2
व्याधितस्य वा यस्याशु मुखे पिप्लुव्यङ्गलेखातिल- कालकाः|
करजरदनेषु वा पुष्पाण्युदरे वा नानावर्णाः सिराः||२||
Adhikarana cakShurnIsikAshrayANi riShTAni (1) · Śloka 1
यस्य शुष्यतो नेत्रोपदेहो वर्त्मनासिकान्यतरश्वयथुर्वर्त्म स्रंसो वा|१|
Adhikarana kShuttRuShNayorbahubhirannapAnaira- pyashAntaye riShTam (1) · Śloka 1
यस्य क्षीणस्य क्षुत्तृष्णा वा हृद्यैर्बहुभिरप्यन्नपानैर्न शा म्यति||१||
Adhikarana mukhAtsaphenaraktasrutau kukShyu- rasoH shUle ca riShTam (3) · Śloka 3
यस्य सफेनमसृक्प्रसिच्येते|
कुक्षिशूलञ्च|
उरसो वा||३||
Adhikarana mukhAnnIlapItalohitashleShmanirgame riShTam (1) · Śloka 1
यस्य श्लेष्मा नीलपीतलोहितो बहुशश्च|१|
Adhikarana grIvAvamarddajihvAshoShakaNThAsya- gudapAkarUpANi riShTani (1) · Śloka 1
यस्य बलवान् ग्रीवावमर्द्दो जिह्वाशोषः कण्ठास्यगुद पाकश्च|१|
Adhikarana pakvAshayotthaparikartikAtRuShNA~ati mAtragudagrahAshrayANi riShTani (1) · Śloka 1
यस्य पक्वाशयोत्था परिकर्तिकाऽतितृष्णातिमात्रश्च गुद ग्रहः|१|
Adhikarana saMj~jAnAshapUrvakaM kaNThe ghurghurakashabde riShTam (1) · Śloka 1
यस्यामपक्वाशयान्यतरमाश्रित्य संज्ञां च हत्वा वायुः कण्ठे घुर्घुरकं करोति||१||
Adhikarana tRuShNAbhivRuddhihRucchUlayo riShTam (2) · Śloka 2
यस्य क्षीणस्य तृष्णाभिवृद्धिर्हृदि शूलञ्च|
तथा हिध्मा रक्तातिसारौ वाऽऽध्मानातिसारौ वा|
भृशं सतृष्णौ स परासुरिति||२||
यस्य सर्वैरित्यादेः स परासुरित्यनेन सम्बन्धः| यथास्वं हेत्वादिभिरतिमात्रैरिति| ज्वरो हेत्वादिभिः परिपूर्णस्तथा रक्तपित्तादिष्वपि वाच्यम्| क्षीणस्य सतः क्षुत् बहुनाप्यन्नेन न शाम्यति| तृड्वा बहुना पानेन| सफेनमसृक्ष्ठीवनवत् मुखात् प्रसिच्यते| उरसो वा शूलमित्यनुवर्त्तते| श्लेष्मा प्रसिच्यत इत्यनेन च सम्बध्यते| ग्रीवावमर्द्दादिगुदपाकान्तं युगपद् वर्त्तते| शकृद्भेदान्तं वस्तुयुगपत्| परिकार्तिकाद्यतिमात्रगुदग्रहान्तं वस्तु पक्वाशयस्य छेदनमिव या वेदना स परिकर्तिका| संज्ञां हत्वा अचेतनं कृत्व| घुर्घुरकमव्यक्तशब्दविशेषम्|| २||
Adhikarana jvarariShTAni (5) · Śloka 5
ज्वरो निहन्ति बलवान् गम्भीरो दैर्घरात्रिकः|
सप्रलापभ्रमश्वासः क्षीणं शूनं हतानलम्|
अक्षामं सक्तवचनां रक्तांक्षं हृदि शूलिनम्|
सशुष्ककासः पूर्वाह्णे योऽपराह्णेऽपि वा भवेत्|
बलमांसविहीनस्य श्लेष्मकाससमन्वितः|५|
Adhikarana raktapittariShTAni (5) · Śloka 5
रक्तपित्तं भृशं रक्तं कृष्णमिन्द्रधनुष्प्रभम्|
ताम्रहारिद्रहरितं रूपं रक्तं प्रदर्शयेत्|
रोमकूपप्रविसृतं कण्ठास्यहृदये सजत्|
वाससोऽरञ्जनं पूति वेगवच्चातिभूति च|
वृद्धं पाण्डुज्वरच्छर्दि कासशोफातिसारिणम्||५||
Adhikarana kAsashvAsariShTAni (1) · Śloka 1
कासश्वासौ ज्वरच्छर्दितृष्णातिसारशोफिनम्||१||
Adhikarana rAjarakShmariShTAni (7) · Śloka 7
यक्ष्मा पार्श्वरुजाऽऽनाहरक्तच्छर्द्यसतापिनम्|
छर्दिर्वेगवती मूत्रशकृद्गन्धिः सचन्द्रिका|
सास्रविट्पूयरुक्कासश्वासवत्यनुषङ्गिणी|
तृष्णान्यरोगक्षपितं बहिर्जिह्वं विचेतनम्|
मदात्ययोऽतिशीतार्तं क्षीणं तैलप्रभाननम्|
अर्शांसि पाणिपन्नाभिगुदमुष्कास्यशोफिनम्|
हृत्पार्श्वाङ्गरुजाच्छर्दि पायुपाकज्वरातुरम्||७||
Adhikarana atIsArariShTani (9) · Śloka 9
अतीसारो यकृत्पिण्डमांसधावनमेचकैः|
तुल्यस्तैलघृतक्षीरदधिमज्जवसासवैः|
मस्तुलुङ्गमषीपूयवेशवाराम्बुमाक्षिकैः|
अतिरक्तासितस्निग्धपूत्यच्छघनवेदनः|
कर्बूरं प्रस्रवन् धातून् निष्पुरीषोत्थवातिविट्|
तन्तुमान् मक्षिकाक्रान्तो राजीमांश्चन्द्रकैर्युतः|
शीर्णपायुं बलिं मुक्तनालं पर्वास्थिशूलिनम्|
स्रस्तपायुः बलक्षीनमन्नमेवोपवेशयेत्|
सतृट्कासज्वरच्छर्दिदाहाऽऽनाहप्रवाहिकः||९||
Adhikarana ashmarIriShTAni (3) · Śloka 3
अश्मरी शूनवृषणं बद्धमुत्रं रुजार्दितम्||३||
ज्वर इत्यादि सुबोधम्| गम्भीरोऽन्तर्वेगः| दीर्घरात्रिको बहुकालप्ररूढः| अपराह्ने श्लेष्मकाससमन्वित इत्यनेन सम्बन्धः| सजन् सङ्गच्छन्| वाससोऽरञ्जनं धौतस्यापि व्रुद्धं गतवयस्कं कर्म| रक्तपित्तं कर्त्तृ निहन्ति तथा पाण्ड्वादियुक्तं कर्म| कासश्वासौ ज्वरादियुक्तम्| सहाऽस्रविड्भ्यां वर्त्तत इति साऽस्रविट्| तथा पूयादिमती| अनुषङ्गिणी चिरप्रसक्ता| अन्येनक् रोगेण ज्वरादिना क्षपितम्| मेचकमनेकवर्णम्| मस्तुलुङ्गं कपालमज्जा| वेश्वारः कुट्टितं मांसम्| कर्बुतो वर्णविशेषः| शीर्णपायुबलित्वादियुक्तमतीसारो निहन्ति| शीर्णाः पायुर्वलयश्च यस्य तम्| मुक्तनालं स्रस्तगुदबन्धम्| सह तृडादिभिर्वर्त्तत इति स तथोक्तोऽतिसारः| प्रवाहिका निस्तानिका|| ३||
Adhikarana pramehariShTAni (1) · Śloka 1
मेहस्तृड्दाहपिटका मांसकोथातिसारिणम्||१||
Adhikarana pramehapiTakAriShTAni (4) · Śloka 4
पिटका मर्महृत्पृष्ठस्तनांसगुदमूर्द्धगा|
पर्वपादकरस्था वा मन्दोत्साहं प्रमेहिणम्|
सर्वं च मांससङ्कोथदाहतृष्णामदज्वरैः|
विसर्पमर्मसंरोधहिध्माश्वासभ्रमक्लमैः||४||
Adhikarana gulmariShTAni (3) · Śloka 3
गुल्मः पृथुपरिणाहो घनः कूर्म इवोन्नतः|
सिरानद्धो ज्वरच्छर्दिहिध्माऽऽध्मानरुजान्वितः|
कासपीनसहृत्ल्लासश्वासातीसारशोफवान्||३||
Adhikarana udarariShTAni (4) · Śloka 4
विण्मूत्रसंग्रहश्वासशोफहिध्माज्वरभ्रमैः|
मूर्च्छाच्छर्द्यतिसारैश्च जठरं हन्ति दुर्बलम्|
शूनाक्षं कुटिलोपस्थमुपक्लिन्नतनुत्वचम्|
विरेचनहृतानाहमाऽऽनह्यन्तं पुनः पुनः||४||
Adhikarana pANDurogariShTani (1) · Śloka 1
पाण्डुरोगः श्वयथुमान् पीताक्षिनखदर्शनम्||१||
Adhikarana shophariShTAni (4) · Śloka 4
तन्द्रादाहारुचिच्छर्दिमूर्च्छाध्मानातिसारवान्|
अनेकोपद्रवयुतः पादाभ्यां प्रसृतो नरम्|
नारीं शोफोमुखाद्धन्ति कुक्षिगुह्यादुभावपि|
राजीचितः स्रवंश्छर्दिज्वरश्वासातिसारणिम्|
ज्वरातिसारौ शोफान्तेश्वयथुर्वा तयोः क्षये|
दुर्बलस्य विशेषेण जायन्तेऽन्ताय देहिनः|
श्वयथुर्यस्य पादस्थः परिस्रस्ते च पिण्डिके|
सीदतः सक्थिनी चैव तं भिषक् परिवर्जयेत्|४|
तृडादिभिर्युक्तं मेहो हन्ति| मांसकोथो मांसक्लेदः| पिटकाः शराविकाद्या मर्मादिगाः| हृद्गुदस्य प्राधान्यात्पृथग्ग्रहणम्| मन्दोत्साहं प्रमेहिणं च ताः ग़्नन्ति| ताश्च पिटकाः मांसकोथादिभिः कारणैः सर्वं विशेषानपेक्षया ग़्नन्ति| मर्मणां हृदयकण्ठादीनां समन्ततो यास्तास्तथोक्ताः| जठरमुदरमपि मूत्रसङ्ग़ादिभिः कारणभूतैर्हन्ति| दुर्बलत्वादियुक्तं च पुरुषं हन्ति| उपस्थं मेढ्रम्| विरेचनहृताऽनाहं सन्तं पुनः पुनरानह्यन्तम्| पादाभ्यां प्रथमं प्रसृतः श्वयथुः पुमांसं हन्ति| मुख़ात् प्रसृतो नारीं हन्ति, न तु पुरुषम्| कुक्षिगुह्याभ्यां प्रसृतेः उभयं हन्ति, पुरुषमपि नारीमपि| राजीभिश्चितः श्वयथुस्तथास्रवन् छार्द्यादियुक्तं हन्ति| शोफस्यान्ते शोफे निवृत्ते ज्वरातिसारौ| ज्वरातिसारयोर्वा क्षये शोफः| एवं विधा ज्वरातिसारशोफाः सर्वस्यान्ताय जायन्ते| दुर्बलस्य पुंसो विशेषेणान्ताय जायन्ते| अन्तो मरणम्|| ४||
Adhikarana atishayitodarashophayoH riShTam (4) · Śloka 4
आननं हस्तपादौ च विशेषाद्यस्य शुष्यतः|
शूयेते वा विना देहात्स मासाद्याति पञ्चताम्|
उदरी यश्च शोफी वा स्वं न पश्यति मेहनम्|
यस्य वा जठरोन्नामात् परिधानं न तिष्ठति||४||
Adhikarana visarpariShTAni (2) · Śloka 2
विसर्पः कासवैवर्ण्यज्वरमूर्च्छाङ्गभङ्गवान्|
भ्रमास्यशोफहृल्लासदेहसादातिसापवान्|२|
Adhikarana kuShThariShTAni (2) · Śloka 2
कुष्ठं विशीर्यमाणाङ्गं रक्तनेत्रं हतस्वरम्|
मन्दाग्निं जन्तुभिर्जुष्टं हन्ति तृष्णातिसारिणम्||२||
Adhikarana vAtarogariShTAni (1) · Śloka 1
वायुः सुप्तत्वचं भुग्नं कम्पशोफरुजातुरम्||१||
Adhikarana vAtaraktariShTAni (2) · Śloka 2
वातास्रं मोहमूर्च्छायमदास्वप्नज्वरान्वितम्|
शिरोग्रहारुचिश्वाससङ्कोचस्फोटकोथवत्|२|
Adhikarana sadyojIvitaharA vikArAH (2) · Śloka 2
शोरिरोगारुचिश्वासमोहविड्भेदतृडभ्रमैः|
घ्नन्ति सर्वामयाः क्षीणस्वरधातुबलानलम्|२|
Adhikarana kShINasya vAtavyAdhyAdiShu riShTalakShaNam (2) · Śloka 2
वातव्याधिरपस्मारी कुष्ठी रक्त्युदरी क्षयी|
गुल्मी मेही च तान्क्षीणान्विकारेऽल्पेऽपि वर्जयेत्|२|
Adhikarana pakShatrayAnmaraNasUcakaM riShTam (2) · Śloka 2
बलमांसक्षयस्तीव्रो रोगवृद्धिररोचकः|
यस्यातुरस्य लक्ष्यन्ते त्रीन् पक्षान्न स जीवति||२||
Adhikarana vAtAShThIlAriShTAni (5) · Śloka 5
वाताष्ठीलाऽतिसंवृद्धा तिष्ठन्ति दारुणा हृदि|
तृष्णयाऽनुपरीतस्य सद्यो मुष्णाति जीवितम्||५||
यस्य देहो न तथा शुष्यति यथा हस्तपादं स पञ्चतां मरणाख्यां मासाद्याति| पञ्चभूतानां पृथग्भावः पञ्चता| उदरीत्यादौ मासात् स न जीवति इत्यनुवर्त्तते| विसर्प इत्यादौ हन्तीति स्थितम्| तृड्वन्तमतीसारिणञ्च कुष्ठं हन्ति| मदमूर्छाये वक्ष्येते| शिरोग्रहादिमत् वातास्रं हन्ति| सर्वामयाश्च ज्वरादयः शिरोरोगादिभिः कारणभुतैर्हन्ति| क्षीणस्वरधातुत्वादियुक्तं वातव्याधिराक्षिपकादिः| वातव्याधिना अपस्मारादिभिश्चाऽऽर्त्तान् स्वल्पेऽपि विकारे क्षीणदेहान् सतो वर्जयेत्| सुबोधम्| तृष्णया परि समन्तादितो व्याप्तः परीतः तस्य मुष्णातीति वाताष्ठीलेत्यनेन सम्बध्यते| अष्ठीलेव प्रस्तरमयी वायुना वाताष्ठीला|| ५||
Adhikarana mumUrShulakShaNAni (6) · Śloka 6
शैथिल्यं पिण्डिके वायुर्नीत्वा नासाञ्च जिह्यताम्|
क्षीणस्याऽऽयम्य मन्ये वा सद्यो मुष्णाति जीवितम्|
नाभीगुदान्तरं गत्वा वंक्षणौ वा समाश्रयन्|
गृहीत्वा पायुहृदये क्षीणदेहस्य वा बली|
मलान् वस्तिशिरोनाभिं विबध्य जनयनुजम्|
कुर्वन् वंक्षणयोः शूलं तृष्णां भिन्नपुरीषताम्|
श्वासं वा जनयन् वायुर्गृहीत्वा गुदवंक्षणौ|
वितत्य पर्शुकाग्राणि गृहीत्वोरश्च मारुतः|
स्तिमितस्यातताक्षस्य सद्यो मुष्णाति जीवितम्|
सहसा ज्वरसन्तापस्तृष्णामूर्च्छबलक्षयः|
विश्लेषणञ्च सन्धीनां मुमूर्शोरुपजायते||६||
नासा जिह्या सङ्कुचितेव| नाभीत्यादौ वायुरिदमिदं कृत्वा सद्योजीवितं मुष्णाति| नाभीगुदस्यान्तरं मध्यं गत्वा रुजां जनयन्| अथवा वंक्षणौ समाश्रयन्| अथवा बली क्षीणदेहस्य पायुहृदये गृहीत्वा मलादीन् विबध्य रुजां जनयन् सद्यो मुष्णाति जीवितम्| मलादोषाः शकृदादयश्च| अथवा गुदवंक्षणं गृहीत्वा पायुवंक्षणयोः शूलं तृष्णां भिन्नपुरीषतां च कुर्वन्| श्वासं वा जनयन्| अथवा मारुतः पार्श्वकास्थीनामग्राणि वितत्य व्याप्योरश्च गृहीत्वा स्तिमितस्यातताक्षस्य पुरुषस्य सद्यो मुष्णाति जीवितम्| ज्वरसन्तापादि सहसा मुमूर्षोरेवोपजायते नाऽन्यस्य|| ६||
Adhikarana lepajvarariShTam (7) · Śloka 7
गोसर्गे वदनाद्यस्य स्वेदः प्रच्यवते भृशम्|
लेपज्वरोपतप्तस्य दुर्लभं तस्य जिवितम्||७||
गोसर्गे यस्मिन् काले गावो भवनान्निस्सरन्ति| रात्र्यन्त इति यावत्| लेपो मुखस्योपलेपः|| ७||
Adhikarana masUrikAriShTam (8) · Śloka 8
प्रवालगुलिकाभासा यस्य गात्रे मसूरिकाः|
उत्पद्याशु विनश्यन्ति न चिरात्स विनश्यति||८||
प्रवालगुलिका विद्रुमगुलिकास्ता इव भासन्ते| मसूरिका मसूराकृतिसङ्घाताः|| ८||
Adhikarana visphoTakariShTam (9) · Śloka 9
मसूरविदलप्रख्यास्तथा विद्रुमसन्निभाः|
अन्तर्वक्राः किणाभाश्च विस्फोटा देहनाशनाः||९||
मसूरविदलं मसूरदलम्| अन्तर्वक्राः मध्यनिम्नां किणाः करादौ व्रणग्रन्थिः| विस्फोटो ग्रन्थिः|| ९||
Adhikarana kAmalAriShTam (10) · Śloka 10
कामिलाक्ष्णोर्मुखं पुर्णं शङ्खयोर्मुक्तमांसता|
सन्त्रासश्चोष्णताङ्गे च यस्य तं परिवर्जयेत्||१०||
अक्ष्णोः कामिलेत्यादिकं यस्य तं परिवर्जयेत्|| १०||
Adhikarana vraNariShTam (11) · Śloka 11
अकस्मादनुधावच्च विघृष्टं त्वक्समाश्रयम्|
चन्दनोशीरमदिराकुणपध्वाङ्क्षगन्धयः|
शैवालकुक्कुटशिखाकुङ्कुमालमषीप्रभाः|
अन्तर्दाहानिरूष्माणः प्राणनाशकरा व्रणाः|
यो वातजो न शूलाय स्यान्न दाहाय पित्तजः|
कफजो न च पूयाय मर्मजश्च रुजे न यः|
अचूर्णश्चुर्णकीर्णाभो यत्राकस्माच्च दृश्यते|
रूपं शक्तिध्वजादीनां सर्वास्तान् वर्जयेद् व्रणान्||११||
तथा त्वक्समाश्रयं विघृष्टं नाम्ना सद्योव्रणमकस्मात् झटिति अनुधावत् विसर्प्रवद्यस्य तं परिवर्जयेदिति सम्बन्धः| चन्दनादिगन्धाः शैवालादि प्रभा अन्तर्दाहादियुक्ता व्रणाः प्राणनाशकराः| यो वातज इत्यादिना व्रणो विज्ञेयः| यत्र यस्मिन् व्रणे शक्तिध्वजखड्गचक्रादिसम्बन्धिरूपमकस्माद् दृष्यत इत्येवं सर्वान् व्रणान् वर्जयेत्|| ११||
Adhikarana bhagandarariShTam (12) · Śloka 12
विण्मूत्रमारुतवहं कृमिणंच भगन्दरम्||१२||
विडादिवहं कृमिणं भगन्दरं च वर्जयेत्|| १२||
Adhikarana aparANi mumUrShulakShaNAni (13) · Śloka 13
घट्टयन् जानुना जानु पादावुद्यम्य पातयन्|
योऽपास्यति मुहुर्वक्त्रमाऽऽतुरो न स जिवति|
दन्तैश्छिन्दन्नखाग्राणि तैश्च केशांस्तृणानि वा|
भूमिं काष्ठेन विलिखन् लोष्ठं लोष्ठेन ताडयन्|
हृष्टरोमा सान्द्रमूत्रः शुष्ककासी ज्वरी च यः|
मुहुर्हसन् मुहुः क्ष्वेलन् शय्यां पादेन हन्ति यः|
मुहुश्छिद्राणि विमृशन्नाऽऽतुरो न स जीवति|
ऊर्ध्वश्वासं तगोष्माणं शूलोपहतवंक्षणम्|
शर्म चाऽऽनधिगच्छन्तं बुद्धिमान् परिवर्जयेत्|
विकारा यस्य वर्द्धन्ते प्रकृतिः परिहीयते|
सहसा-सहसा तस्य मृत्युर्हरति जीवितम्|
यमुद्दिश्यातुरं वैद्यः सम्पादयितुमौषधम्|
यतमानो न शक्नोति दुर्लभं तस्य जीवितम्|
विज्ञातं बहुशः सिद्धं विधिवच्छावचारितम्|
न सिद्ध्यत्यौषधं यस्य नास्ति तस्य चिकित्सितम्|
भवेद्यस्यौषधेऽन्ने वा कल्प्यमाने विपर्य्ययः|
अकस्माद्वर्णगन्धादेः स्वस्थोऽपि न स जीवति|
निवाते सेन्धनं यस्य ज्योतिश्चाप्युपशाम्यति|
आतुरस्य गृहे यस्य भिद्यन्ते वा पतन्ति वा|
अतिमात्रममत्राणि दुर्लभं तस्य जीवितम्||१३||
य आतुरो मुहुर्वक्त्रमपास्यत्यपक्षिपति| जानुं जानुना घट्टयन्| पादावुद्यम्य च पातयन्| तैरिति नखाग्रैः| क्ष्वेलन् व्याहरन्| छिद्राणि कर्णनासादीनि स्रोतांसि विमृशन्| विकाराः शारिरमानसा व्याधयः| प्रकृतिः स्वभावः| सहसा युगपत् झटिति यमातुरमुद्दिश्य वैद्यः औषधं सम्पादयितुं यतमानः सन् न शक्नोति| तस्यातुरस्य दुर्लभं जीवितम्| वर्णादिविपर्य्ययोऽकस्मादौषधेऽन्ने वा| ज्योतिरग्निः अमत्रं भाजनम्||१३||
Adhikarana Atreyamatena riShTalakShaNam (14-11) · Śloka 11
यन्नरं सहसा रोगो दुर्बलं परिमुञ्चति|
संशयप्राप्तमात्रेयो जीवितं तस्य मन्यते||१४||
इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतौ अष्टाङ्गसंग्रहसंहितायां शारीरस्थाने विकृत व्याधिविज्ञानीयो नामैकादशोऽध्यायः||११||
यं दुबलं नरं सहसा रोगः परिमुञ्चति| तस्य नरस्यात्रेयो धन्वन्तरिः संशयप्राप्तं जीवितं मन्यते| संशयप्राप्तमिति कदाचित् जीवितमपि तस्य सम्भाव्यत इति प्रदर्शनार्थम्|| १४|| इति श्रीमन्महामहोपाध्यायेन्दुविरचितायाम् अष्टङ्गसंग्रहव्याख्यायां शशिलेखायां शारीरस्थाने एकादशोऽध्यायः