Adhikarana अथ विषोपद्रवप्रतिषेधो नाम सप्तचत्वारिंशोऽध्यायः, अध्यायप्रतिज्ञा (१) · Śloka १
अथातो विषोपद्रवप्रतिषेधं नामाध्यायं व्याख्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः||१||
Hide commentary शशिलेक व्याख्या (इन्दु कृत)
विषाणां तद्रोगाणाञ्च निर्णयं कृत्वा विषे य उपद्रवास्तांस्तच्चिकित्साञ्च प्रदर्शयितुमध्याय आरभ्यते|| १||
Adhikarana विषोपद्रवाः (२) · Śloka २
ज्वरकासवमिश्वासहिध्मातृष्णाऽतिमूर्च्छनम्|
विशो भेदोऽतिकाठिन्यमानाहो बस्तिमूर्द्धरुक्|
श्वयथुः पूतदंशत्वं रक्तस्रावो विषानिलः|
इति षोडश निर्दिष्टाः विषार्त्तानामुपद्रवाः|
गच्छन्त्युपेक्षिता नाशं यैर्जुष्टा विषरोगिणः||२||
Hide commentary शशिलेक व्याख्या (इन्दु कृत)
ज्वरादयः षोडश विषार्त्तानामुपद्रवा निर्दिष्टाः| उपेक्षिता अचिकित्सिताः सन्तो विषरोगिणो यैरुपद्रवैर्जुष्टा नाशं गच्छन्ति|| २||
Adhikarana राजवृक्षादिक्वाथः ज्वरे (३) · Śloka ३
राजवृक्षफलोशीरकाश्मर्यघनपद्मकात्|
क्वाथः सशर्कराक्षौद्रो विषज्वरहरः परम्||३||
Hide commentary शशिलेक व्याख्या (इन्दु कृत)
राजवृक्ष इत्यादिना ज्वरादीनां क्रमेण चिकित्सा राजवृक्षफलादिक्वाथः सुबोधः|| ३||
Adhikarana ज्वरादौ योगान्तराणि (४) · Śloka ४
पीता तण्डुलतोयेन कटुका ससितोपला|
विषज्वरहराऽजाजी जीवकर्षभकोत्पलम्|
कोलमज्जसिताधान्यभार्ङ्गी यष्ट्याह्वकेसरम्|
विषज्वरवमिश्वासकासतृष्णानिबर्हणम्|
त्रिफलारग्वधव्याघ्रीक्वाथो ज्वरविबन्धजित्|
बालबिल्ववचामुस्ताकषायः सपुनर्नवः|
ज्वराग्निसादश्वयथून्निहन्ति विषसम्भवान्||४||
Hide commentary शशिलेक व्याख्या (इन्दु कृत)
सशर्करा कटुका तण्डुलतोयेन पीता विषज्वरहरा भवति| अजाज्यादिकेसरान्तं विषज्वरादिनिबर्हणम्| त्रिफलादिक्वाथे ज्वरविबन्धजित्| बालबिल्वादिकषायः पुनर्नवायुक्तो विषसम्भवान् ज्वरादीन् निहन्ति|| ४||
Adhikarana वैदेहिकादि श्वासकासज्वरे (५) · Śloka ५
वैदेहिकारामठकं कपित्थरससैन्धवम्|
ससितामाक्षिकं लीढं श्वासकासज्वरापहम्||५||
Hide commentary शशिलेक व्याख्या (इन्दु कृत)
वैदेहिकादिकं श्वासाद्यपहरम्| वैदेहिका पिप्पली| रामठकं हिङ्गु| इति ज्वरे|| ५||
Adhikarana विषकासचिकित्सा (६) · Śloka ६
सद्राक्षानागरां कृष्णामथवा सवराघनाम्|
लीड्वाज्यमधुना कासान्मुच्यते विषसम्भवात्|
सपाठाञ्जनमञ्जिष्ठाद्विनिशामधुकं तथा|
यष्ट्याह्वमम्भसा पीत्वा||६||
Hide commentary शशिलेक व्याख्या (इन्दु कृत)
कृष्णां पिप्पलीं द्राक्षानागराभ्यां युक्तां मधुसर्पिषा लीढ्वा विषसम्भवान् कासान् मुच्यते| अथवा सवराघनां कृष्णां मध्वाज्येन लीढ्वा| अथवा पाठादियुक्तां कृष्णाम्| तथा यष्ट्याह्वमम्भसा पीत्वा विषसम्भवात् कासाद्विमुच्यते| इति कासे|| ६||
Adhikarana विषवमीचिकित्सा (७) · Śloka ७
ंअरिचैरवचूर्णितम्|
विषवम्यां पिबेत्क्वाथं बिल्वमूलाद्रजोऽथवा|
धात्रीपरुषकद्राक्षामधुकं पयसा द्रुतम्|
वेल्लाग्र्याञ्जनसोशीरयष्ट्यैलाकणकेसरम्|
लिह्यान्मरिचकुम्भीं वा घृतपुष्परसद्रुताम्|
क्षीरिवृक्षाङ्कुरक्षौद्रसितास्तृड्वमथुच्छिदः|
जीर्णशाल्योदनं क्षौद्रं क्षीरं चन्दनसाधितम्|
शीताम्भोऽनुपिबेद् भुक्त्वा विषच्छर्दिमपोहति||७||
Hide commentary शशिलेक व्याख्या (इन्दु कृत)
बिल्वमूलात् क्वाथं मरिचैरवचूर्णितं विषवम्यां पिबेत्| अथवा बिल्वमूलाद्रजश्चूर्णं धात्र्यादिकं च पयसा क्षीरेण द्रुतं गृहीतद्रवत्वं पिबेत्| वेल्लादिकं केसरान्तं घृतपुष्परसद्रुतं लिह्यात्| पुष्परसो माक्षिकम्| मरिचकुम्भीं वा घृतादिद्रुताम्| कुम्भी द्रवन्ती| क्षीरिवृक्षाङ्कुरादीनि तृषं वमथुं च छिन्दन्ति| जीर्णशाल्योदनादिकं भुक्त्वा शीताम्भोऽनु पिबेत् विषजां छर्दिमपोहति| इति विषजवम्याम्|| ७||
Adhikarana विषजश्वासे चिकित्सा (८) · Śloka ८
तैलगोविड्रसक्षौद्रैर्लिह्यात् कृष्णाप्रियङ्गुके|
श्वासी क्षौद्रेण वा द्राक्षाशृङ्गीमागधिकासिताः|
गुडनागरवैदेहीविजयामलकानि वा||८||
Hide commentary शशिलेक व्याख्या (इन्दु कृत)
विषश्वासी पिप्पलीप्रियङ्गुके तैलादिभिर्लिह्यात्| अथवा द्राक्षादिसितान्तं क्षौद्रेण लिह्यात्| अथवा गुडादिकमामलकान्तं क्षौद्रेण| इति विषजे श्वासे|| ८||
Adhikarana विषजहिध्मायां चिकित्सा (९) · Śloka ९
हिध्मायां शङ्खकनककटुकास्वर्णगैरिकम्|
वेल्लशुण्ठीकणोशीररजनीद्वितयानि वा|
लिह्याद्वा व्योषमृद्वीकां बीजपूररसेन वा|
सक्षौद्रं वालकरजः क्वाथं वा सगुडं पिबेत्|
विश्वभेषजगायत्रीहरिद्रामरदारुजम्|
दन्तीन्द्रवारुणीद्वीपीकल्कं सौवीरकेण वा||९||
Hide commentary शशिलेक व्याख्या (इन्दु कृत)
हिध्मायां शङ्खादिकं स्वर्णगैरिकान्तं क्षौद्रेण लिह्यात्| अथवा वेल्लादिकं रजनीद्वयान्तम्| तथा व्योषं मृद्वीकां च क्षौद्रेण बीजपूररसेन वा लिह्यात्| सक्षौद्रं च वालकस्य रजश्चूर्णं लिह्यात्| अथवा विश्वभेषजादिकं क्वाथं सगुडं पिबेत्| अथवा दन्त्यादीनां कल्कं सौवीरकेण काञ्जिकेन पिबेत्| इति हिध्मायाम्|| ९||
Adhikarana विषजतृण्मूर्च्छयोः चिकित्सा (१०) · Śloka १०
तृण्मूर्च्छयोराशिरसो लेपसेका हिमा हिताः|
अम्भोजनालकुसुमचन्दनोशीरमौक्तिकैः|
वैहायससितातोयक्षीराज्येक्षुरसाप्लुतैः|
वीजनं तालवृन्तेन शीते सिकतिले स्थितिः|
कमलोत्पलकिञ्जल्कपटलावृतवारिषु|
विषतृड्दाहमूर्च्छाघ्नं सरसीष्ववगाहनम्||१०||
Hide commentary शशिलेक व्याख्या (इन्दु कृत)
तृषि मूर्च्छायां चाशिरसः सर्वाङ्गे हिमा लेपसेका हिताः| कैरित्याह-अम्भोजनालादिभिर्वैहायससितातोयादिप्लुतैः| वैहायसमान्तरिक्षं तोयं सितातोयं च| तालवृन्तेनोत्क्षेपकेण वीजनं हितम्| शीते सिकतावति च देशे स्थितिः| कमलादिपटलेन तत्समूहेनावृतं वारि यासु तासु सरसीसु महत्सु सरस्ववगाहनं विषतृडादिघ्नम्| इति तृण्मूर्च्छयोः|| १०||
Adhikarana तृष्णायां विशेषेण चिकित्सा (११) · Śloka ११
विषवेगसमुत्थायां तृष्णायां लाजतर्पणम्|
शर्करादाडिमक्षौद्रसलिलाप्लावितं पिबेत्|
वटवेतसजम्ब्वाम्रसेव्यतोयं च शीतलम्||११||
Hide commentary शशिलेक व्याख्या (इन्दु कृत)
तृष्णायां विशेषमाह-विष वेगेत्यादि|सुबोधम्| वटादिभिः सिद्धं च शीतलं पिबेत्|| ११||
Adhikarana विषजातिसारे चिकित्सा (१२) · Śloka १२
भूनिम्बमुस्तकटुकात्रायन्तीन्द्रयवान् समान्|
द्वौ भागौ चित्रकादष्टौ कुटजाद्वारिणा पिबेत्|
विषातिसारोदावर्तकासश्वासज्वरापहम्|
लोध्रमोचरसाम्बष्ठाधातकीस्तण्डुलाम्बुना|
समाक्षिका पिबेत्तद्वन्नागरातिविषाभयाः|
सधातकीः सकुटजाः साञ्जनाः श्लक्ष्णचूर्णिताः|
पाठानागरचूर्णं वा दध्ना युक्तं समाक्षिकम्||१२||
Hide commentary शशिलेक व्याख्या (इन्दु कृत)
अतिसारस्य चिकित्सामाह-भूनिम्बेत्यादि| भूनिम्बादीनि पञ्च समानि चित्रकस्य द्वौ भागावयवद्रव्यापेक्षया| तथैव कुटजादष्टौ भागाः| एतद्वारिणा पिबेद्विषहेत्वतीसाराद्यपहम्| लोध्रादिकं समाक्षिकं तण्डुलाम्बुना पिबेत्| नागराद्यञ्जनान्तं तद्वदिति समाक्षिकं तण्डुलाम्बुना पिबेत्| अथवा पाठादिचूर्णं समाक्षिकं दध्ना युक्तं पिबेत्| इति विषजातिसारे|| १२||
Adhikarana बस्तिरुगादिषु चिकित्सा (१३) · Śloka १३
बस्तिरुग्वर्तनाहेषु फलवर्तिं प्रयोजयेत्|
सारग्वधां सत्रिवृतां सोपकुल्यां हरीतकीम्|
पिबेद् घृतेन सक्षौद्रां बस्तिशूलादिनाशिनीम्|
गृहधूमनतश्यामानीलिनीतण्डुलीयकैः|
सिद्धं वाज्यं तथाऽसिद्धं वराक्वाथत्रिवृद्युतम्||१३||
Hide commentary शशिलेक व्याख्या (इन्दु कृत)
बस्तिरुगादिषु उदावर्तचिकित्सितोक्तां फलवर्तिं प्रयोजयेत्| वर्त उदावर्तः (विशोऽतिकाठिन्यम्) नाह आनाहः| आरग्वधादित्रयेण पृथग्युक्तां हरीतकीं सक्षौद्रां घृतेन पिबेद् बस्तिशूलादिनाशिनीम्| गृहधूमादिभिः सिद्धमाज्यं पिबेत्| असिद्धमेव वा घृतं त्रिफलाक्वाथेन त्रिवृता च संयुक्तं पिबेत्| इति बस्तिरुगादिषु|| १३||
Adhikarana मूर्द्धरुजि चिकित्सा (१४) · Śloka १४
काकोलीक्षीरिवृद्वात्वग्द्राक्षायष्ट्याह्वशर्कराः|
नस्यं विषशिरोरुग्घ्नं संयोज्यं शीतवारिणा||१४||
Hide commentary शशिलेक व्याख्या (इन्दु कृत)
काकोल्यादिनस्यं विषशिरोरुग्घ्नम्| सुबोधम्| इति मूर्द्धरुजि||
Adhikarana विषजश्वयथौ चिकित्सा (१५) · Śloka १५
श्वयथौ शुद्धकोष्ठस्य पयःपाने हितं शृतम्|
विश्वभेषजवैदेहीकटुकादेवदारुभिः|
सुरसामूलकल्कैर्वा छागं वा पिप्पलीशृतम्|
त्रिफलायाः कषायेण त्रिवृता भाविता त्र्यहम्|
आलोड्य सर्पिषा पीता विषश्वयथुनाशिनी|
मधुवेल्लवराव्योषसुराह्वोशीरपद्मकैः|
विषश्वयथुजिल्लेपस्तथा स्वादुकषायकैः|
शिरीषपुष्पाऽहिशिरोनतकुष्ठैर्घृतान्वितः|
धूपोऽगदः श्वयथुजित्समस्तविषनाशनः||१५||
Hide commentary शशिलेक व्याख्या (इन्दु कृत)
विषजे श्वयथौ वमनविरेचनाभ्यां शुद्धकोष्ठस्य विश्वभेषजादिभिः शृतं पयः क्षीरं पाने हितम्| अथवा सुरसामूलकल्कैः शृतं पयः पाने हितम्| अथवा पिप्पलीशृतं छागं पयः| त्रिफलाक्वाथेन त्र्यहं भाविता या त्रिवृता सा घृतेनालोड्य पीता श्वयथुनाशिनी| मध्वादिभिः पद्मकान्तैर्लेपो विषश्वयथुजित्| तथा मधुरैः कषायैश्च द्रव्यैः| शिरीषपुष्पादिभिर्घृतान्वितो धूपः श्वयथुजिदगदः सर्वविषाणां नाशनः| अहिशिरः सर्पोत्तमाङ्गम्| इति श्वयथौ|| १५||
Adhikarana पूतिदंशे चिकित्सा (१६) · Śloka १६
अल्पेनाप्यपचारेण दंशः पूतित्वमश्नुते|
प्रायो न सहते तीक्ष्णमुष्णं वा भेषजं विषम्|
मधुरस्निग्धशीतानि युञ्ज्यात्तस्माद्विषव्रणे|
सेकालेपांश्च सक्षीरैः कषायैः क्षीरिवृक्षजैः|
न्यग्रोधशृङ्गमधुकतिलसर्षपसैन्धवम्|
साभया निम्बपत्राज्यं दंशपूतित्वनाशनम्|
कर्णिकापातनं श्रेष्ठं विषव्रणविनाशनम्||१६||
Hide commentary शशिलेक व्याख्या (इन्दु कृत)
विषव्रणे मधुरादिप्रयोगाय अल्पेनेत्यादिहेतुः| क्षीरिवृक्षाणां कषायैर्द्रवैः क्षीरसंयुक्तैः सेकानालेपांश्च युञ्ज्यात्| न्यग्रोधशृङ्गादिकं दंशपूतित्वनाशनादिगुणत्रययुक्तम्| इति पूतिदंशत्वे|| १६||
Adhikarana रक्तस्रावे चिकित्सा (१७) · Śloka १७
रक्ते स्रवत्यतिभृशं घृतं समरिचं पिबेत्|
तण्डुलीयकमूलेन सितया वा समन्वितम्|
दंशं प्रलेपयेच्चास्य दार्व्यासु श्लक्ष्णपिष्टया|
सितोपलाक्षौद्रकृतच्छागदुग्धानि नावनम्|
शमीकल्कं पिबेच्छ्लक्ष्णमङ्गं लिम्पेद्विशालया|
नावने हेमशुक्ला च ततः शाम्यति शोणितम्||१७||
Hide commentary शशिलेक व्याख्या (इन्दु कृत)
व्रणाच्चातिभृशं रक्ते स्रवति समरिचं घृतं पिबेत्| अथवा घृतं तण्डुलीयकस्य मूलेन समन्वितं पिबेत्| शर्करया वा| अस्य चास्रस्रुतौ सुश्लक्ष्णपिष्टया दार्व्या दंशव्रणं लिम्पेत्| सितोपलेत्यादि सुबोधम्| विशाला गवाक्षी| शुक्ला क्षीरविदारी| क्षीरककोली वा| इति रक्तस्रावे|| १७||
Adhikarana विषानिले चिकित्सा (१८) · Śloka १८
कृशस्यातिस्रुते रक्ते रूक्षैरत्यर्थसेवितैः|
विषस्य च स्वभावेन मातरिश्वा प्रकुप्यति|
उन्मादाक्षेपकमनोभ्रंशापस्मृतयस्ततः|
तत्रेष्टं स्नेहनं बस्तिनस्यप्रधमनाञ्जनम्|
नागदन्त्यभयाकुष्ठपिप्पलीवृषकट्फलम्|
भल्लातकास्थित्रिकटुकाबिल्वप्रतिविषाग्निकाः|
सक्षीरं तैर्घृतं सिद्धं विषवातविकारजित्|
पिबेदेरण्डतैलं वा छागमांसरसान्वितम्|
ऐकध्यं घृततैलं वा मेध्यमासरसाशनणः|
कार्पासमूलं मरिचं हरिद्रे नलदं नलम्|
पिप्पलीं स्वर्जिकां कुष्ठं जलेनालोड्य पाययेत्|
उन्मत्तं विषवातेन तथाऽपस्मारिणं नरम्|
वचाहंसपदीव्योषदधित्थं हस्तिपिप्पलीम्|
देवदारुबलाबिल्वकृमिजित्कुष्ठटुण्टुकम्|
लोध्राखुकर्ण्यतिविषाः क्षीरं सर्पिश्च पाययेत्|
निहन्ति पानाभ्यङ्गाभ्यां घृतं सर्वविषाणि तत्||१८||
Hide commentary शशिलेक व्याख्या (इन्दु कृत)
कृशस्य रक्तेऽतिस्रुते रूक्षसेवनाद्विषस्वभावाच्च वायुः प्रकुप्यति| ततो हेतोरुन्मादादयो भवन्ति| तत्र स्नेहनं बस्त्यादिकमिष्टम्| नागदन्त्यादिभिः सक्षीरं सिद्धं घृतं विषहेतून् वातविकारानुन्मादादीन् जयति| छागमांसरसेनान्वितमेरण्डतैलं वा अथवा मेध्यमांसरसाशनः सन्नैकध्यं घृततैलं वा पिबेत्| कार्पासमूलादिकं सुबोधम्| विषवातेनेति विषहेतुना वातेन उन्मत्तमुन्मादयुक्तम्| वचादिभिः सर्पिर्विपाचयेत्| तत्पानेनाभ्यङ्गेन च सर्वविषाणि निहन्ति| हंसपदी मधुस्रवा| दधित्थं कपित्थम्| टुण्टुकः स्योनाकः| आखुकर्णी द्रवन्ती| इति विषानिले|| १८||
Adhikarana शेषरोगेषु चिकित्सा (१९) · Śloka १९
प्रतिकुर्याद्यथास्वं च रोगेष्वेनं परेषु च|
दोषानुबन्धमालोच्य विषतन्त्राविरोधतः||१९||
Hide commentary शशिलेक व्याख्या (इन्दु कृत)
एवं परेषु चानुक्तेष्वपि विषहेतुषु रोगेषु यथास्वमात्मीयचिकित्सया प्रतिकुर्यात्| कथमित्याह-दोषाणां वातादीनामनुबन्धमालोच्य यथा च विषतन्त्रे तीक्ष्णादिरूपेण विरोधो न भवति||१९||
Adhikarana विषशेषे चिकित्सा (२०) · Śloka २०
दृश्यशब्दागदैरस्य विषशेषं निवर्तयेत्|
अल्पमप्यवशिष्टं हि व्याधये मरणाय वा||२०||
Hide commentary शशिलेक व्याख्या (इन्दु कृत)
अस्य चातुरस्य दृश्यशब्दागदैर्विषशेषं शमयेत्| दृश्यागदा ये दर्शनमात्रेण विषघ्नाः| शब्दागदा ये शब्देन| अल्पमित्यादि निश्शेषनिवर्तनत्वे हेतुः|| २०||
Adhikarana क्षारागदः (२१) · Śloka २१
धवाश्वकर्णतिनिशकरघाटकपीतनान्|
पलाशाम्रातककुभपारिभद्रकतिल्वकान्|
कपित्थकुटजाङ्कोलप्रग्रहामलकीभुजान्|
शमीश्लेष्मातकानन्तगोजीयमलकण्टकान्|
गोपघोण्टाहिमारौ च भस्मीकृत्याम्भसा गवाम्|
क्षारकल्पेन विस्राव्य पचेत्क्षिप्त्वाऽवचूर्णितान्|
पिप्पलीद्वयकोशाम्रसप्तपर्णैलवालुकान्|
वराङ्गचोचमञ्जिष्ठाकुष्ठवञ्जुलटुण्टुकान्|
विडङ्गातिविषानन्तासर्षपातण्डुलीयकान्|
सुराह्वसरलप्लक्षगृहधूमकरञ्जकान्|
नागदन्ती सुतश्रेणी निचुलं वरुणं वचाम्|
वर्द्धमानमयो बिल्वं क्षारवत्पाकमागतम्|
तल्लोहकुम्भे निहितं कार्यं सन्निहितं सदा|
तेन दुन्दुभिमालिम्पेत् पताकास्तरणानि च|
दर्शनश्रवणस्पर्शैर्निर्विषं तानि कुर्वते|
पानात्क्षारागदश्चैष विषं स्थावरजङ्गमम्|
शूलगुल्मोदराजीर्णश्वासकासाश्मशर्कराः|
शोफार्शोग्रहणीदोषानरुचिं च नियच्छति|
अपि तक्षकतुल्यानां सर्पाणां दर्पनाशनः||२१||
Hide commentary शशिलेक व्याख्या (इन्दु कृत)
धवादिकमहिमारान्तं दग्ध्वा भस्म कार्यम्| तत् गोमूत्रेण क्षारकल्पेन सूत्रोक्तविधानेन परिस्राव्याच्छं पचेत्| पच्यमाने पिप्पल्यादिकं चूर्णितं क्षिपेत्| ततः क्षारलवणैः पक्वं पाकमागतं लोहकुम्भे निहितं कुर्यात्| तेनाऽऽलिप्तानि दुन्दुभ्यादीनि शब्दादिभिर्निर्विषं कुर्वते| दुन्दुभयः काहलाः, पताका वैजयन्त्यः, करघाटो मदनः, कपीतनः प्लक्षसंज्ञः, आम्रातकं कपिचूडम्, पारिभद्रको निम्बः, तिल्वको लोध्रः, कुटजो वत्सकः, अङ्कोलं तत्संज्ञम्, प्रग्रहो नक्तमालः, भुजो भूर्जः, अश्मन्तको मालुकापर्णः, गोजी गोजिह्वा, यमलकण्टको युग्मकण्टकः, चिरिबिल्वः, करञ्ह्जः, कट्वङ्गः स्योनाकः, गोपघोण्टा घोण्टा, अहिमारः अरिमेदः;-एतानि सर्वाणि समूलशाखादीनि, कुशाम्रं क्षुद्रामम्, वराङ्गं त्वक्, चोचं नालिकेरं, वञ्जुलो जलवेतसः, टुण्टुकः स्योनाकः, अनन्ता यवासकः, सुराह्वं देवदारु, करञ्जको नक्तमालः, सुतश्रेणी द्रवन्ती, निचुलं वेतसम्, वर्द्धमान एरण्डः, एष च नाम्ना क्षारागदः पानात् स्थावरं जङ्गमं च विषं गुल्मादींश्च नियच्छति नाशयति| एष तक्षकतुल्यानामपि सर्पाणां दर्पं नाशयति|| २१||
Adhikarana सुगन्धाख्योऽगदः (२२) · Śloka २२
श्रीवेष्टकमनोह्वालं ससर्जरसवालकम्|
कर्षांशं नागपुष्पस्य प्रकुञ्चं त्रुटि विंशकम्|
हरेणवः चतुःषष्टिः कुटन्नटचतुष्टयम्|
शताह्वां षोडशैतानि पुष्ये सम्भृत्य पेषयेत्|
आश्लेषासु गवां मध्ये शस्त्रमन्त्राभिरक्षितम्|
कुमार्या स्नातया तत्र मन्त्रोऽयं विष्णुनिर्मितः|
माता मे विजया नाम जयो नाम पिता मम|
अजय्यस्य च पुत्रोऽसौ जये च विजयामि च|
सुगन्धाख्योऽयमगदो नित्यं देहविलेपनात्|
अभङ्गकरणो युद्धे विवादे च जयावहः|
अनेन लेपिताश्छत्रदुन्दुभिध्वजतोरणाः|
दृष्टस्पृष्टश्रुता घ्नन्ति विषं स्थावरजङ्गमम्|
भूतबालग्रहोन्मादान् गेहस्थोऽपि निवारयेत्||२२||
Hide commentary शशिलेक व्याख्या (इन्दु कृत)
श्रीवेष्टकादीनि पञ्च प्रत्येकं कर्षांशानि| नागपुष्पस्य प्रकुञ्चं पलम्| त्रुटिर्विंशकं सूक्ष्मैलापलानि विंशतिः| हरेणुपलानि चतुःषष्टिः| कुटन्नटपलानि चत्वारि| शतपुष्पापलानि षोडश| इत्येतत् पुष्ये सम्भृत्याश्लेषासु पेषयेत्| गवां मध्ये शस्त्रैर्मन्त्रैश्चाभिरक्षितं कृत्वा पेषयेत्| स्नातया च कुमार्या कन्यकया| तत्र च पेषणे माता मेत्यादि विष्णुनिर्मितो मन्त्रः| अयमगदो नाम्ना सुगन्धः| एतेनागदेन नित्यं लिप्ताङ्गो युद्धान्न भज्यते अवाङमुखो न भवति| विवादे च जयं प्राप्नोति| अमुनागदेन छत्रादयो लेपिता दर्शनादिभिः स्थावरजङ्गमं विषं घ्नन्ति| गेहस्थोऽप्यमगदो भूतादीन् निवारयेत्| 'जयो नाम पितामहः' इति च पाठः|| २२||
Adhikarana महासुगन्धोऽगदः (२३) · Śloka २३
प्रपौण्डरीकसरलदेवदारुकुटन्नटम्|
जटाशताह्वातिविषातिलपर्णी सुगन्धिका|
नीलीयवपुलाभार्ङ्गीमधुयष्ट्यैलवालुकम्|
तोयतोयदकालीयतगरध्यामकत्वचः|
नखपद्मकपुन्नागपत्रकालानुसारिकाः|
तालीसपत्रं मरिचं जोङ्गकं चन्दनद्वयम्|
द्व्येला द्विसेव्या द्विश्वेता द्विनिशा नलदद्वयम्|
लाक्षाशीतशिवव्योषफलिनीधान्यगैरिकम्|
शैलेयकशिलापुष्पग्रन्थिलाचोरकाभयाः|
अर्कस्थैणेयपृथ्वीकाकटुकाचन्द्रराजयः|
कलिङ्गकः सर्जरसः कुष्ठं लवणपञ्चकम्|
श्रीपर्णिकाश्मरीशेलुशिंशपासिन्दुवारजाः|
चम्पकाशोकसुरससुमनास्तिल्वकोद्भवाः|
पाटल्यास्तृणशूल्याश्च प्रसवाः कुमुदोत्पलम्|
तिनिशार्जुनशम्याकधवपुष्पं सपङ्कजम्|
पञ्चाशीतेरिदं चूर्णं समूत्रघृतमाक्षिकम्|
निधापयेत् गवां शृङ्गे मनुष्ये पुनराहरेत्|
भग्नस्कन्धं विवृताक्षं मृत्योर्दंष्ट्रान्तरं गतम्|
महासुगन्धो नाम्नाऽयमतिवीर्योऽतितेजसा|
वारयत्यतिदुर्वारं विषाग्निं वासुकेरपि|
नृपोऽनेनानुलिप्ताङ्गो भवेत् सर्वजनप्रियः|
तेजस्वितां च लभते राजकस्यापि मध्यगः||२३||
Hide commentary शशिलेक व्याख्या (इन्दु कृत)
प्रपौण्डरीकादीनामौषधानां पञ्चाशीतेश्चूर्णं मूत्रादियुक्तं गवां शृङ्गे निधापयेत्| विषेण भग्नस्कन्धत्वादियुक्तं मनुष्यं पुनराहरेत्| अयं च नाम्ना महासुगन्धः| अतिवीर्येत्यादिनास्य प्रभावकीर्तनम्| सुबोधम्| कुटन्नटं परिपेलवम्, जटा मांसी, तिलपर्णी बदरकः, सुगन्धिका गन्धनाकुली, यवफलो वंशः कुटजश्च, तोयं वालकम्, तोयदो मुस्तः, कालीयकं रक्तचन्दनम्, पत्रं गन्धपत्रम्, जोङ्गकमगरु, चन्दनद्वयं पीतं सितं च| एलाद्वयं सूक्ष्मैला पत्रैला च| सेव्यद्वयमुशीरं लामज्जकं च| श्वेताद्वयं वचा गिरिकर्णिका च| नलद्वयं मांसी गन्धमांसी च| शीतशिवो मिश्रेयकः, शैलेयकं शिलापुष्पम्, ग्रन्थिलं ग्रन्थिपर्णं, स्थौणेयकं शुकबर्हाख्यम्, पृथ्वीका हिङ्गुपत्री, चन्द्रराजी सोमराजी, काश्मरी काश्मर्यः, शेलुः श्लेष्मातकः, प्रसवशब्दस्य श्रीपर्ण्यादिभिः सम्बन्धः| पुष्पशब्दस्य तिनिशादिभिः| राज्ञां समूहो राजकम्||२३||
Adhikarana शीतोष्णविषये सामान्यनियमः (२४) · Śloka २४
शीतमेव च कुर्वीत विधानं विषरोगिणाम्|
मुक्त्वा कीटविषं तद्धि शीतेनाभिप्रवर्द्धते||२४||
Hide commentary शशिलेक व्याख्या (इन्दु कृत)
एकं कीटविषं मुक्त्वा वर्जयित्वा सर्वेषु विषेषु विषरोगिणां सर्वमन्तर्बहिः प्रयोज्यं साधनौषधं शीतमेव कुर्यात्| हि यस्मात्तत् कीटविषं शीतेनातिवर्द्धते|| २४||
Adhikarana विषे पथ्यम् (२५) · Śloka २५
शालयः षष्टिका जीर्णाः कोरदूषाः प्रियङ्गवः|
मुद्गो हरेणुस्तुवरी पटोलं वेत्रपल्लवाः|
तण्डुलीयकजीवन्ती वार्ताकं सुनिषण्णकः|
जाङ्गलं दाडिमं धात्री कपित्थं सैन्धवं सिता|
अविदाहि यदन्यच्च विज्ञायान्नस्वरूपतः|
तत्तद्दद्याद्विषार्त्तेभ्यः कार्या व्यञ्जनसंस्कृतिः|
कषायैर्विषहन्तृणां घृतैः कल्याणकादिभिः|
दिव्यसारसकूपोत्थमन्यद्वा शृतशीतलम्|
मध्वामलकयुक्तं वा विषार्त्तः सलिलं पिबेत्|
नदीतटाकजं त्याज्यं विशेषेण घनागमे|
शुक्लवस्त्रोदरायातैः सुकृताः सक्तवो यवैः|
तक्रेण सघृताः पीताः परमं विषनाशनाः||२५||
Hide commentary शशिलेक व्याख्या (इन्दु कृत)
विषार्त्तेभ्यः शाल्यादिकं दद्यात्| अन्यच्चाविदाहि यद्यत्तत्तदन्नस्वरूपाध्यायाद्विज्ञाय दद्यात्| तत्र व्यञ्जनानां संस्कृतिर्विषहराणामौषधानां कषायैः कार्या| तथा घृतैश्च कल्याणकादिभिः| आदिग्रहणेन तत्स्वरूपाणामान्येषां ग्रहणम्| वर्षार्त्तश्च तृषितो दिव्यादिकं सलिलं पिबेत्| तेन च नदीतटाकजं सलिलं त्याज्यम्| घनागमे वर्षासु विशेषेण त्याज्यम्| शुक्लवस्त्रायाः श्वेतकम्बलाया उदरायातैर्यवैः सुकृताः सक्तवः सघृतास्तक्रेण पीताः परं विषनाशनाः|| २५||
Adhikarana विषे अपथ्यम् (२६) · Śloka २६
तिलमद्यकुलत्थक्षुत्क्रुद्भयायासमैथुनम्|
वर्जयेद्विषमुक्तोऽपि दिवास्वप्नं विशेषतः||२६||
Hide commentary शशिलेक व्याख्या (इन्दु कृत)
तिलादिकं सविषं वर्जयेत्| अचिरकालं विषमुक्तोऽपि| दिवास्वप्नं तु विशेषतो वर्जयेत्|| २६||
Adhikarana अविषनरलक्षणम् (२७-४७) · Śloka ४७
प्रशान्तदोषं प्रकृतिस्थधातु माहारकामं सममूत्रविट्कम्|
प्रसन्नवर्णेन्द्रियचित्तचेष्टं वैद्योऽवगच्छेदविषं मनुष्यम्||२७||
इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृता- वष्टाङ्गसंग्रहसंहितायामुत्तरतन्त्रे विषोपद्रव- प्रतिषेधो नाम सप्तचत्वारिंशोऽध्यायः||४७||
Hide commentary शशिलेक व्याख्या (इन्दु कृत)
प्रशान्तदोषत्वादियुक्तं मनुष्यमविष इति वैद्योऽवगच्छेत्| इति श्रीमन्महामहोपाध्यायेन्दुविरचिताया मष्टाङ्गसंग्रहव्याख्यायां शशिलेखाया मुत्तरतन्त्रे सप्तचत्वारिंशोऽध्यायः