Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

1. rasāyanādhyāyaḥ - abhayāmalakīyarasāyanapādaḥ

Adhikarana 1 (1-2) · Śloka 2

अथातोऽभयामलकीयं रसायनपादं व्याख्यास्यामः||१|| इति ह स्माह भगवानात्रेयः||२||

🔊 Audio coming soon

पूर्वस्थानोक्तलक्षणाभावेनावधारितायुष्मद्भावेन चिकित्सा धर्मार्थयशस्करी कर्तव्येत्यनन्तरं चिकित्साभिधायकं स्थानमुच्यते| रसायनवाजीकरणसाधनमपि यथा चिकित्सोच्यते, तथाऽनन्तरमेव वक्ष्यति| तत्रापि ज्वरादिचिकित्सायाः प्राग्रसायनवाजीकरणयोर्महाफलत्वेनादावभिधानम्| तयोरपि च रसायनमेव वर्षसहस्रायुष्ट्वादिकारणतया महाफलमिति तदभिधीयते, तत्रापि चाभयामलकीयश्चिकित्सास्थानार्थसूत्राभिधायकतयाऽग्रेऽभिधीयते||१-२||

Adhikarana 2 (3) · Śloka 4

चिकित्सितं व्याधिहरं पथ्यं साधनमौषधम्| प्रायश्चित्तं प्रशमनं प्रकृतिस्थापनं हितम्||३|| विद्याद्भेषजनामानि, ...|४|

🔊 Audio coming soon

तत्रादौ व्यवहारार्थं स्थानाभिधेयस्य भेषजस्य पर्यायानाह- चिकित्सितमित्यादि| करोति चैवमादौ प्रधानाभिधेयपर्यायाभिधानं, यथा- निदाने हेतुरूपादिपर्यायकथनम्| एतच्च पर्यायाभिधानं प्राधान्येन चतुष्पादस्यैव भेषजस्य, यदुक्तं- “चतुष्पादं षोडशकलं भेषजमिति भिषजो भाषन्ते” (सू.अ.१०) इति| एवम्भूतभेषजाङ्गरूपतया तु स्थावरजङ्गमद्रव्यरूपस्य भेषजस्य भेषजत्वमेवान्तरव्यवहारकृतं ज्ञेयम्| प्रायश्चित्तमिति भेषजसञ्ज्ञा प्रायश्चित्तवद्भेषजस्याधर्मकार्यव्याधिहरत्वेन||३||-

Adhikarana 3 (4) · Śloka 4

... भेषजं द्विविधं च तत्| स्वस्थस्योर्जस्करं किञ्चित् किञ्चिदार्तस्य रोगनुत्||४||

🔊 Audio coming soon

द्वैविध्यं विवृणोति- स्वस्थस्येत्यादि| किञ्चिदिति न सर्वम्| स्वस्थत्वेन व्यवह्रियमाणस्य पुंसो जरादिस्वाभाविकव्याधिहरत्वेन तथाऽप्रहर्षव्ययायक्षयित्वानुपचितशुक्रत्वाद्यप्रशस्तशारीरभावहरत्वेन ऊर्जः प्रशस्तं भावमादधातीति स्वस्थस्योर्जस्करम्| आर्तस्य रोगनुदिति विशेषणेन ज्वरादिनाऽऽर्तस्य ज्वरादिहरम्| रोगनुदिति वचनेनैवार्तविशेषतायां लब्धायां यत् ‘आर्तस्य’ इति करोति, तेन सहजजरादिकृतां पीडामनुद्वेजिकां परित्यज्य ज्वरादिनाऽस्वाभाविकेन रोगेण पीडितस्येति दर्शयति||४||

Adhikarana 4 (5) · Śloka 5

अभेषजं च द्विविधं बाधनं सानुबाधनम्|५|

🔊 Audio coming soon

भेषजप्रसङ्गादभेषजद्वैविध्यमाह- अभेषजमित्यादि| बाधनमिह तदात्वमात्रबाधकं, यथा- स्वल्पमपथ्यम्| सानुबाधनं च दीर्घकालावस्थायिकुष्ठादिविकारकारि||-

Adhikarana 5 (5-6) · Śloka 6

स्वस्थस्योर्जस्करं यत्तु तद्वृष्यं तद्रसायनम्||५|| प्रायः, प्रायेण रोगाणां द्वितीयं प्रशमे मतम्| प्रायःशब्दो विशेषार्थो ह्युभयं ह्युभयार्थकृत्||६||

🔊 Audio coming soon

द्विविधं भेषजमुक्तं विभजते- स्वस्थस्येत्यादि| तद्वृष्यं तद्रसायनं प्राय इति च्छेदः| यद्वृष्यं प्रायो भवति, तथा रसायनं यत् प्रायो भवति, आर्तस्य रोगहरं यद्बाहुल्येन, तत् स्वस्थोर्जस्करमुच्यते; यत्तु द्वितीयमार्तरोगहरं, तत् प्रायेण ज्वरादिशमनं रसायनं वाजीकरणं च भवति; यथा- क्षतक्षीणोक्तं सर्पिर्गुडादि रसायनं वृष्यं च भवति, तथा पाण्डुरोगोक्तो योगराजो रसायनत्वेनोक्तः, तथा कासाधिकारेऽगस्त्यहरीतकी रसायनत्वेनोक्तेत्याद्यनुसरणीयम्| रसायनोक्तानां च ज्वरादिहरत्वमत्र सुव्यक्तमेव रसायनग्रन्थेषु| अन्ये तु ब्रुवते- यद्व्याधिमात्रहरं न तद्रसायनं, किन्तु शरीरसंयोगदार्ढ्याद्दीर्घायुःकर्तृत्वसाधारणधर्मयोगादुपचरितव्याधिहरं रसायनमिहोच्यत इति| ननु यदि स्वस्थोर्जस्करमपि व्याधिहरं, व्याधिहरं च स्वस्थोर्जस्करं तत् किं किञ्चिदिति पदेन भेषजकर्मव्यवस्थादर्शकेन क्रियते? ब्रूमः- बाहुल्येन स्वस्थोर्जस्करत्वं व्याधिहरत्वं च व्यवस्थाप्यते, न चेह सर्वार्तरोगहरस्य स्वस्थोर्जस्करत्वमिति प्रतिज्ञायते, येन पाठासप्तपर्णादीनामपि रसायनत्वं साधनीयशक्तित्वादार्त्तरोगहरत्वेन यदुच्यते तदपि रसायनं वाजीकरणं च भवतीति लवमात्रोपदर्शनं क्रियते, तत् स्वस्थार्तयोरुभयार्थकर्तृत्वम्| प्रायःशब्दतात्पर्यं विवृणोति- प्राय इत्यादि| विशेषार्थ इति बाहुल्यार्थ इत्यर्थः||५-६||

Adhikarana 6 (7-8) · Śloka 8

दीर्घमायुः स्मृतिं मेधामारोग्यं तरुणं वयः| प्रभावर्णस्वरौदार्यं देहेन्द्रियबलं परम्||७|| वाक्सिद्धिं प्रणतिं कान्तिं लभते ना रसायनात्| लाभोपायो हि शस्तानां रसादीनां रसायनम्||८||

🔊 Audio coming soon

रसायनकार्यमाह- दीर्घमित्यादि| प्रभादीनां त्रयाणामौदार्यं योजनीयम्| वाक्सिद्धिः यदुच्यते तदवश्यं भवतीत्यर्थः| प्रणतिः लोकवन्द्यता| कथमेतद्रसायनेन क्रियत इत्याह- लाभेत्यादि| रसादिग्रहणेन स्मृत्यादयोऽपि गृह्यन्ते||७-८||

Adhikarana 7 (9-12) · Śloka 12

अपत्यसन्तानकरं यत् सद्यः सम्प्रहर्षणम्| वाजीवातिबलो येन यात्यप्रतिहतः स्त्रियः||९|| भवत्यतिप्रियः स्त्रीणां येन येनोपचीयते| जीर्यतोऽप्यक्षयं शुक्रं फलवद्येन दृश्यते||१०|| प्रभूतशाखः शाखीव येन चैत्यो यथा महान्| भवत्यर्च्यो बहुमतः प्रजानां सुबहुप्रजः||११|| सन्तानमूलं येनेह प्रेत्य चानन्त्यमश्नुते| यशः श्रियं बलं पुष्टिं वाजीकरणमेव तत्||१२||

🔊 Audio coming soon

वाजीकरणकार्यमाह- अपत्येत्यादि| अपत्यसन्तानः अपत्यपरम्परा, तेन पुत्रपौत्रकरमित्यर्थः; वाजीकरणजनिताच्छुक्राज्जातः पुत्रः पुत्रजननसमर्थो भवतीत्यर्थः| अतिप्रियत्वं चेहोपचितशुक्रतया निरन्तरव्यवायकर्तृत्वात्; यदुक्तं- “विरूपमपि योद्धारं भृत्यमिच्छन्ति पार्थिवाः| व्यवायव्यायतं मूर्खं धृष्टं पतिमिव स्त्रियः” इति| उपचीयत इति पुष्टिं प्राप्नोति| अक्षयमिवाक्षयम्| फलवदिति गर्भजनकम्| चैत्यो देवतायतनम्| अर्च्यः अर्चनीयः | आनन्त्यमिवानन्त्यं; दीर्घसन्तानतामित्यर्थः||९-१२||

Adhikarana 8 (13-14) · Śloka 14

स्वस्थस्योर्जस्करं त्वेतद्द्विविधं प्रोक्तमौषधम्| यद्व्याधिनिर्घातकरं वक्ष्यते तच्चिकित्सिते||१३|| चिकित्सितार्थ एतावान् विकाराणां यदौषधम्| रसायनविधिश्चाग्रे वाजीकरणमेव च||१४||

🔊 Audio coming soon

चिकित्सित इति ज्वरादिचिकित्सिते| ननु रसायनवाजीकरणे अपि ज्वरादिचिकित्सिते एव, तत् किं विशिष्योच्यते- ‘वक्ष्यते तच्चिकित्सिते’ इत्याह- चिकित्सितार्थ इत्यादि| सत्यं, रसायनं वाजीकरणं च ज्वरादिव्याधिहरत्वाच्चिकित्सितशब्देनोच्यत इत्यर्थः| अथ व्याधिहरत्वाच्चिकित्सिते वक्तव्यत्वाच्च रसायनवाजीकरणे क्व नु वक्तव्ये इत्याह- रसायनेत्यादि| विधिः विधानं रसायनाभिधानमित्यर्थः | अग्रे इति अनन्तरम्| वाजीकरणं चाग्रे ‘अभिधास्यते’ इति शेषः||१३-१४||

Adhikarana 9 (15) · Śloka 15

अभेषजमिति ज्ञेयं विपरीतं यदौषधात्| तदसेव्यं निषेव्यं तु प्रवक्ष्यामि यदौषधम्||१५||

🔊 Audio coming soon

अभेषजमपि पूर्वोद्दिष्टं विवृणोति- अभेषजमित्यादि| विपरीतं रोगजननलक्षणार्थकारि||१५||

Adhikarana 10 (16-24) · Śloka 24

रसायनानां द्विविधं प्रयोगमृषयो विदुः| कुटीप्रावेशिकं चैव वातातपिकमेव च||१६|| कुटीप्रावेशिकस्यादौ विधिः समुपदेक्ष्यते| नृपवैद्यद्विजातीनां साधूनां पुण्यकर्मणाम्||१७|| निवासे निर्भये शस्ते प्राप्योपकरणे पुरे| दिशि पूर्वोत्तरस्यां च सुभूमौ कारयेत् कुटीम्||१८|| विस्तारोत्सेधसम्पन्नां त्रिगर्भां सूक्ष्मलोचनाम्| घनभित्तिमृतुसुखां सुस्पष्टां मनसः प्रियाम्||१९|| शब्दादीनामशस्तानामगम्यं स्त्रीविवर्जिताम्| इष्टोपकरणोपेतां सज्जवैद्यौषधद्विजाम् ||२०|| अथोदगयने शुक्ले तिथिनक्षत्रपूजिते| मुहूर्तकरणोपेते प्रशस्ते कृतवापनः||२१|| धृतिस्मृतिबलं कृत्वा श्रद्दधानः समाहितः| विधूय मानसान् दोषान् मैत्रीं भूतेषु चिन्तयन्||२२|| देवताः पूजयित्वाऽग्रे द्विजातींश्च प्रदक्षिणम्| देवगोब्राह्मणान् कृत्वा ततस्तां प्रविशेत् कुटीम्||२३|| तस्यां संशोधनैः शुद्धः सुखी जातबलः पुनः| रसायनं प्रयुञ्जीत तत्प्रवक्ष्यामि शोधनम्||२४||

🔊 Audio coming soon

कुटीप्रवेशेन यत् क्रियते तत् कुटीप्रावेशिकम्| वातातपसेवयाऽपि यत् क्रियते तद् वातातपिकम्| त्रिगर्भां प्रथममेकं गृहं, तस्याभ्यन्तरे द्वितीयम्, एवं त्रिगर्भास्त्रयो गर्भा अन्तराणि यस्यां सा; त्रिगर्भामिति अन्तस्त्रिप्रकोष्ठाम्| सूक्ष्मलोचनामिति अल्पद्वारजालकाम्| शुक्ले शुक्लपक्षे| सज्जा वैद्यादयो यस्यां सा तथा| तिथिनक्षत्रपूजित इति शुभतिथिनक्षत्रयोगात् पूजिते| कृतवापन इति कृतक्षौरः| मानसान् दोषानिति कामक्रोधादीन्| संशोधनैरिति वमनविरेचनास्थापनशिरोविरेचनैः| सुखीति अरोगः| जातबल इति संशोधनापहृतमलतया संसर्जनादिक्रमेण पुनर्जातबलः| यद्यपीह संशोधनैरिति बहुवचनप्रयोगात् सर्वाण्येव संशोधनानि सम्मतानि, तथाऽपीह रसायने विशेषेण यौगिकत्वाद्धरीतक्यादिप्रयोग एवोक्तः; अन्ये तु हरीतक्यादिप्रयोगेणैव परं संशोधनं कर्तव्यमित्याहुः, संशोधनैरिति बहुवचनं पुनर्यावच्छुद्धेर्हरीतक्यादिप्रयोगस्यैव करणं दर्शयति||१६-२४||

Adhikarana 11 (25-28) · Śloka 28

हरीतकीनां चूर्णानि सैन्धवामलके गुडम्| वचां विडङ्गं रजनीं पिप्पलीं विश्वभेषजम्||२५|| पिबेदुष्णाम्बुना जन्तुः स्नेहस्वेदोपपादितः| तेन शुद्धशरीराय कृतसंसर्जनाय च||२६|| त्रिरात्रं यावकं दद्यात् पञ्चाहं वाऽपि सर्पिषा| सप्ताहं वा पुराणस्य यावच्छुद्धेस्तु वर्चसः||२७|| शुद्धकोष्ठं तु तं ज्ञात्वा रसायनमुपाचरेत्| वयःप्रकृतिसात्म्यज्ञो यौगिकं यस्य यद्भवेत्||२८||

🔊 Audio coming soon

यावकमिति यवान्नम्| त्रिरात्रादिविकल्पत्रयं हीनमध्योत्तमशुद्धिविषयम्||२५-२८||

Adhikarana 12 (29-37) · Śloka 37

हरीतकीं पञ्चरसामुष्णामलवणां शिवाम्| दोषानुलोमनीं लघ्वीं विद्याद्दीपनपाचनीम्||२९|| आयुष्यां पौष्टिकीं धन्यां वयसः स्थापनीं पराम्| सर्वरोगप्रशमनीं बुद्धीन्द्रियबलप्रदाम्||३०|| कुष्ठं गुल्ममुदावर्तं शोषं पाण्ड्वामयं मदम्| अर्शांसि ग्रहणीदोषं पुराणं विषमज्वरम्||३१|| हृद्रोगं सशिरोरोगमतीसारमरोचकम्| कासं प्रमेहमानाहं प्लीहानमुदरं नवम्||३२|| कफप्रसेकं वैस्वर्यं वैवर्ण्यं कामलां क्रिमीन्| श्वयथुं तमकं छर्दिं क्लैब्यमङ्गावसादनम्||३३|| स्रोतोविबन्धान् विविधान् प्रलेपं हृदयोरसोः| स्मृतिबुद्धिप्रमोहं च जयेच्छीघ्रं हरीतकी||३४|| (अजीर्णिनो रूक्षभुजः स्त्रीमद्यविषकर्शिताः| सेवेरन्नाभयामेते क्षुत्तृष्णोष्णार्दिताश्च ये)||३५|| तान् गुणांस्तानि कर्माणि विद्यादामलकीष्वपि| यान्युक्तानि हरीतक्या वीर्यस्य तु विपर्ययः||३६|| अतश्चामृतकल्पानि विद्यात् कर्मभिरीदृशैः| हरीतकीनां शस्यानि भिषगामलकस्य च||३७||

🔊 Audio coming soon

यद्यपि द्रव्यान्तराणि दशवर्षशतायुष्कररसायनाधिकृतानि सन्ति, तथाऽपि हरीतक्यामलके एव रोगहरत्वायुष्करत्वरूपोभयधर्मयोगादध्यायादौ गुणकर्मभ्यामुच्येते; तत्रापि यद्यपि “आमलकं वयःस्थापनानाम्” (सू.अ.२५) इत्युक्तम्, तथाऽपि रोगहरत्वे हरीतकी प्रकर्षवतीति कृत्वा हरीतक्यग्रेऽभिहिता| हरीतक्यादिषु पञ्चरसत्वाद्युत्पादोऽदृष्टवशाद्भूतसन्निवेशविशेषप्रभावकृतः; तेन नात्रोपपत्तयः क्रमन्ते| शिवामिति कल्याणकारिणीं, प्रशस्तगुणयुक्तत्वात्| सर्वरोगप्रशमनीमिति संयोगसंस्कारादिना| सर्वरोगहरत्वमभिधायापि कुष्ठादिहन्तृत्वाभिधानं विशेषेण कुष्ठादिहन्तृत्वोपदर्शनार्थम्| प्रवर्तकत्वेऽप्यतीसारग्रहणीहरत्वं विबद्धदोषप्रवर्तकतया ज्ञेयं; यदुक्तं- “स्तोकं स्तोकं विबद्धं वा सशूलं योऽतिसार्यते| अभयापिप्पलीकल्कैः सुखोष्णैस्तं विरेचयेत्” इति| बुद्धिस्मृतिप्रदत्वमभिधायापि स्मृतिबुद्धिप्रमोहहरत्वाभिधानं तत्र विशिष्टशक्त्युपदर्शनार्थम्| वीर्यस्य तु विपर्यय इत्यनेनामलकस्य शीतवीर्यत्वमुक्तम्| शस्यानीति अस्थिरहितानि फलानि||२९-३७||

Adhikarana 13 (38-40) · Śloka 40

ओषधीनां परा भूमिर्हिमवाञ् शैलसत्तमः| तस्मात्फलानि तज्जानि ग्राहयेत्कालजानि तु||३८|| आपूर्णरसवीर्याणि काले काले यथाविधि| आदित्यपवनच्छायासलिलप्रीणितानि च||३९|| यान्यजग्धान्यपूतीनि निर्व्रणान्यगदानि च| तेषां प्रयोगं वक्ष्यामि फलानां कर्म चोत्तमम्||४०||

🔊 Audio coming soon

यद्यपि “हिमवानौषधभूमीनाम्” (सू.अ.२५) इत्युक्तं, तथाऽपि रसायने हिमवत्प्रभवाण्येव भेषजानि ग्राह्याणीति दर्शयितुमौषधीनामित्याद्यभिधानम्| काले काले इति फलपाककाले इत्यर्थः| यथाविधीति यथा भेषजग्रहणं मङ्गलदेवतार्चनादिपूर्वकं स्यात्तथाऽवश्यं रसायने कर्त्तव्यम्| अगदानीत्यनेन पवनदहनाद्यदोषं फलस्य दर्शयति||३८-४०||

Adhikarana 14 (41-57) · Śloka 57

पञ्चानां पञ्चमूलानां भागान् दशपलोन्मितान्| हरीतकीसहस्रं च त्रिगुणामलकं नवम्||४१|| विदारिगन्धां बृहतीं पृश्निपर्णीं निदिग्धिकाम्| विद्याद्विदारिगन्धाद्यं श्वदंष्ट्रापञ्चमं गणम्||४२|| बिल्वाग्निमन्थश्योनाकं काश्मर्यमथ पाटलाम्| पुनर्नवां शूर्पपर्ण्यौ बलामेरण्डमेव च||४३|| जीवकर्षभकौ मेदां जीवन्तीं सशतावरीम्| शरेक्षुदर्भकाशानां शालीनां मूलमेव च||४४|| इत्येषां पञ्चमूलानां पञ्चानामुपकल्पयेत्| भागान् यथोक्तांस्तत्सर्वं साध्यं दशगुणेऽम्भसि||४५|| दशभागावशेषं तु पूतं तं ग्राहयेद्रसम्| हरीतकीश्च ताः सर्वाः सर्वाण्यामलकानि च||४६|| तानि सर्वाण्यनस्थीनि फलान्यापोथ्य कूर्चनैः| विनीय तस्मिन्निर्यूहे चूर्णानीमानि दापयेत्||४७|| मण्डूकपर्ण्याः पिप्पल्याः शङ्खपुष्प्याः प्लवस्य च| मुस्तानां सविडङ्गानां चन्दनागुरुणोस्तथा||४८|| मधुकस्य हरिद्राया वचायाः कनकस्य च| भागांश्चतुष्पलान् कृत्वा सूक्ष्मैलायास्त्वचस्तथा||४९|| सितोपलासहस्रं च चूर्णितं तुलयाऽधिकम्| तैलस्य द्व्याढकं तत्र दद्यात्त्रीणि च सर्पिषः||५०|| साध्यमौदुम्बरे पात्रे तत् सर्वं मृदुनाऽग्निना| ज्ञात्वा लेह्यमदग्धं च शीतं क्षौद्रेण संसृजेत्||५१|| क्षौद्रप्रमाणं स्नेहार्धं तत् सर्वं घृतभाजने| तिष्ठेत्सम्मूर्च्छितं तस्य मात्रां काले प्रयोजयेत्||५२|| या नोपरुन्ध्यादाहारमेकं मात्रा जरां प्रति| षष्टिकः पयसा चात्र जीर्णे भोजनमिष्यते||५३|| वैखानसा वालखिल्यास्तथा चान्ये तपोधनाः| रसायनमिदं प्राश्य बभूवुरमितायुषः||५४|| मुक्त्वा जीर्णं वपुश्चाग्र्यमवापुस्तरुणं वयः| वीततन्द्राक्लमश्वासा निरातङ्काः समाहिताः||५५|| मेधास्मृतिबलोपेताश्चिररात्रं तपोधनाः| ब्राह्मं तपो ब्रह्मचर्यं चेरुश्चात्यन्तनिष्ठया||५६|| रसायनमिदं ब्राह्ममायुष्कामः प्रयोजयेत्| दीर्घमायुर्वयश्चाग्र्यं कामांश्चेष्टान् समश्नुते||५७|| (इति ब्राह्मरसायनम्)|

🔊 Audio coming soon

पञ्चानामित्यादौ प्रतिद्रव्यं दशपलभागग्रहणम् , उक्तं हि जतूकर्णे- “इति पञ्च पञ्चमूलानि, तेषां प्रतिद्रव्यं दशपलानि” इति| हरीतकीसहस्रमिति हरीतकीफलसहस्रम्| शूर्पपर्ण्यौ मुद्गमाषपर्ण्यौ| वीरा जालन्धरं शाकम्| कूर्चनं जर्जरीकरणसाधनं शिलापुत्रकमुसलादि| विनीयेति प्रक्षिप्य| प्लवः कैवर्तमुस्तकम्| कनकं नागकेशरम्| त्वक् गुडत्वक्| औदुम्बरे इति ताम्रमये| स्नेहार्धमिति सर्पिस्तैलार्धम्| एकम् अनपराह्णिकमाहारम्||४१-५७||

Adhikarana 15 (58-61) · Śloka 61

यथोक्तगुणानामामलकानां सहस्रं पिष्टस्वेदनविधिना पयस ऊष्मणा सुस्विन्नमनातपशुष्कमनस्थि चूर्णयेत्| तदामलकसहस्रस्वरसपरिपीतं स्थिरापुनर्नवाजीवन्तीनागबलाब्रह्मसुवर्चलामण्डूकपर्णीशतावरीशङ्खपुष्पीपिप्पलीवचाविडङ्गस्वयङ्गुप्तामृता- चन्दनागुरुमधुकमधूकपुष्पोत्पलपद्ममालतीयुवतीयूथिकाचूर्णाष्टभागसंयुक्तं पुनर्नागबलासहस्रपलस्वरसपरिपीतमनातपशुष्कं द्विगुणितसर्पिषा क्षौद्रसर्पिषा वा क्षुद्रगुडाकृतिं कृत्वा शुचौ दृढे घृतभाविते कुम्भे भस्मराशेरधः स्थापयेदन्तर्भूमेः पक्षं कृतरक्षाविधानमथर्ववेदविदा, पक्षात्यये चोद्धृत्य कनकरजतताम्रप्रवालकालायसचूर्णाष्टभागसंयुक्तमर्धकर्षवृद्ध्या यथोक्तेन विधिना प्रातः प्रातः प्रयुञ्जानोऽग्निबलमभिसमीक्ष्य, जीर्णे च षष्टिकं पयसा ससर्पिष्कमुपसेवमानो यथोक्तान् गुणान् समश्नुत इति||५८|| भवन्ति चात्र- इदं रसायनं ब्राह्मं महर्षिगणसेवितम्| भवत्यरोगो दीर्घायुः प्रयुञ्जानो महाबलः||५९|| कान्तः प्रजानां सिद्धार्थश्चन्द्रादित्यसमद्युतिः| श्रुतं धारयते सत्त्वमार्षं चास्य प्रवर्तते||६०|| धरणीधरसारश्च वायुना समविक्रमः| स भवत्यविषं चास्य गात्रे सम्पद्यते विषम्||६१|| (इति द्वितीयं ब्राह्मरसायनम्)|

🔊 Audio coming soon

पिष्टस्वेदनविधिनेति यथा पिष्टकं तोयपरिपूरितपात्रोपरिदत्ततृणादिसंस्थितं स्वेद्यते, तथा तत् स्वेदनीयमित्यर्थः| स्वरसपरिपीतमिति स्वरसभावितम्| ब्रह्मसुवर्चलाद्यौषधान्यायुर्वेदसमुत्थानीये वक्ष्यमाणानि| युवतिः नवमालिका| अष्टमो भागोऽष्टभागः| क्षुद्रगुडाकृतिमिति फाणिताकृतिम्| अर्धकर्षवृद्ध्येति अर्धकर्षात्प्रभृति वर्धयेत्| यथोक्तविधिनेति कुटीप्रावेशिकेन विधिना| यथोक्तान् गुणानिति पूर्वप्रयोगफलश्रुतिपठितान्| धरणीधरसार इति उष्ट्रमुखवत्; तेन धरणीधराः पर्वताः, तेषां सारो लौहं, तद्वत्सार इत्यर्थः| अविषमिति विषमविकारि||५८-६१||

Adhikarana 16 (62-74) · Śloka 74

बिल्वोऽग्निमन्थः श्योनाकः काश्मर्यः पाटलिर्बला| पर्ण्यश्चतस्रः पिप्पल्यः श्वदंष्ट्रा बृहतीद्वयम्||६२|| शृङ्गी तामलकी द्राक्षा जीवन्ती पुष्करागुरु| अभया चामृता ऋद्धिर्जीवकर्षभकौ शटी||६३|| मुस्तं पुनर्नवा मेदा सैला चन्दनमुत्पलम्| विदारी वृषमूलानि काकोली काकनासिका||६४|| एषां पलोन्मितान् भागाञ्छतान्यामलकस्य च| पञ्च दद्यात्तदैकध्यं जलद्रोणे विपाचयेत्||६५|| ज्ञात्वा गतरसान्येतान्यौषधान्यथ तं रसम्| तच्चामलकमुद्धृत्य निष्कुलं तैलसर्पिषोः||६६|| पलद्वादशके भृष्ट्वा दत्त्वा चार्धतुलां भिषक्| मत्स्यण्डिकायाः पूताया लेहवत्साधु साधयेत्||६७|| षट्पलं मधुनश्चात्र सिद्धशीते प्रदापयेत्| चतुष्पलं तुगाक्षीर्याः पिप्पलीद्विपलं तथा||६८|| पलमेकं निदध्याच्च त्वगेलापत्रकेशरात्| इत्ययं च्यवनप्राशः परमुक्तो रसायनः||६९|| कासश्वासहरश्चैव विशेषेणोपदिश्यते| क्षीणक्षतानां वृद्धानां बालानां चाङ्गवर्धनः||७०|| स्वरक्षयमुरोरोगं हृद्रोगं वातशोणितम्| पिपासां मूत्रशुक्रस्थान् दोषांश्चाप्यपकर्षति||७१|| अस्य मात्रां प्रयुञ्जीत योपरुन्ध्यान्न भोजनम्| अस्य प्रयोगाच्च्यवनः सुवृद्धोऽभूत् पुनर्युवा||७२|| मेधां स्मृतिं कान्तिमनामयत्वमायुःप्रकर्षं बलमिन्द्रियाणाम्| स्त्रीषु प्रहर्षं परमग्निवृद्धिं वर्णप्रसादं पवनानुलोम्यम्||७३|| रसायनस्यास्य नरः प्रयोगाल्लभेत जीर्णोऽपि कुटीप्रवेशात्| जराकृतं रूपमपास्य सर्वं बिभर्ति रूपं नवयौवनस्य||७४|| (इति च्यवनप्राशः)|

🔊 Audio coming soon

पर्ण्यश्चतस्र इति शालपर्णी, पृश्निपर्णी, मुद्गपर्णी, माषपर्णी च| तामलकी भूम्यामलकी| काकनासा नासाफला, ‘काकतुण्डक’ इत्यन्ये| गतरसत्वमिह द्रव्याणां चतुर्भागस्थितजले भवति| निष्कुलमिति निरस्थि| तैलसर्पिषोरिति समासनिर्देशादुभाभ्यामेव द्वादशपलानि, न पृथक् पृथक्| मत्स्यण्डिका खण्डसंहतिः| अत्र षट्पलत्वेन समयोरपि मधुसर्पिषोर्द्रव्यान्तरयुक्तत्वेनाविरुद्धत्वम्||६२-७४||

Adhikarana 17 (75) · Śloka 75

अथामलकहरीतकीनामामलकबिभीतकानां हरीतकीबिभीतकानामामलकहरीतकीबिभीतकानां वा पलाशत्वगवनद्धानां मृदाऽवलिप्तानां कुकूलस्विन्नानामकुलकानां पलसहस्रमुलूखले सम्पोथ्य दधिघृतमधुपललतैलशर्करासंयुक्तं भक्षयेदनन्नभुग्यथोक्तेन विधिना; तस्यान्ते यवाग्वादिभिः प्रत्यवस्थापनम् , अभ्यङ्गोत्सादनं सर्पिषा यवचूर्णैश्च, अयं च रसायनप्रयोगप्रकर्षो द्विस्तावदग्निबलमभिसमीक्ष्य , प्रतिभोजनं यूषेण पयसा वा षष्टिकः ससर्पिष्कः, अतः परं यथासुखविहारः कामभक्ष्यः स्यात्| अनेन प्रयोगेणर्षयः पुनर्युवत्वमवापुर्बभूवुश्चानेकवर्षशतजीविनो निर्विकाराः परं शरीरबुद्धीन्द्रियबलसमुदिताश्चेरुश्चात्यन्तनिष्ठया तपः||७५|| (इति चतुर्थामलकरसायनम्)|

🔊 Audio coming soon

कुकूलकः करीषाग्निः| अकुलकानामिति अनस्थ्नाम्| द्रव्यादीनामत्र मानं नोक्तं, तेन प्रधानस्य चूर्णस्य दध्यादिभिर्मिलितैः समानमानत्वं; किंवा प्रत्येकमेव दध्यादीनां चूर्णसमत्वम्| पललं तिलचूर्णम्| भक्षयेदिति वचनं लेह्येऽपि अल्पाभ्यवहरणमात्रार्थत्वादुपपन्नम्| अनन्नभुगिति सर्वथाऽऽहारान्तराभुक्| तस्यान्त इति एतत्प्रयोगपरित्यागकाले| प्रत्यवस्थापनमिति यवाग्वादिक्रमविशेषणं; तेन प्रयोगान्ते यदा अन्नसंसर्जनं कर्तव्यं, तदा यवाग्वादिक्रमेणेत्युक्तस्यार्थस्य प्रत्यवस्थापनं क्रियत इत्यर्थः| यूषेण पयसा वेति विकल्पोऽग्निबलापेक्षया||७५||

Adhikarana 18 (76) · Śloka 76

हरीतक्यामलकबिभीतकपञ्चपञ्चमूलनिर्यूहे पिप्पलीमधुकमधूककाकोलीक्षीरकाकोल्यात्मगुप्ताजीवकर्षभकक्षीरशुक्लाकल्कसम्प्रयुक्तेन विदारीस्वरसेन क्षीराष्टगुणसम्प्रयुक्तेन च सर्पिषः कुम्भं साधयित्वा प्रयुञ्जानोऽग्निबलसमां मात्रां जीर्णे च क्षीरसर्पिर्भ्यां शालिषष्टिकमुष्णोदकानुपानमश्नञ्जराव्याधिपापाभिचारव्यपगतभयः शरीरेन्द्रियबुद्धिबलमतुलमुपलभ्याप्रतिहतसर्वारम्भः परमायुरनवाप्नुयात्||७६|| (इति पञ्चमो हरीतकीयोगः)|

🔊 Audio coming soon

अत्र हरीतक्यादौ क्षीरशुक्ला क्षीरविदारिका| अत्र हरीतक्यादिक्वाथस्य त्वेको भागः, क्षीरस्याष्टौ भागाः, सर्पिष एको भागः| कुम्भो द्रोणद्वयम्| वचनं हि- “द्रोणस्तु द्विगुणः सूर्पो विज्ञेयः कुम्भ एव च” इति||७६||

Adhikarana 19 (77-80) · Śloka 80

हरीतक्यामलकबिभीतकहरिद्रास्थिराबलाविडङ्गामृतवल्लीविश्वभेषजमधुकपिप्पलीसोमवल्कसिद्धेन क्षीरसर्पिषा मधुशर्कराभ्यामपि च सन्नीयामलकस्वरसशतपरिपीतमामलकचूर्णमयश्चूर्णचतुर्भागसम्प्रयुक्तं पाणितलमात्रं प्रातः प्रातः प्राश्य यथोक्तेन विधिना सायं मुद्गयूषेण पयसा वा ससर्पिष्कं शालिषष्टिकान्नमश्नीयात्, त्रिवर्षप्रयोगादस्य वर्षशतमजरं वयस्तिष्ठति, श्रुतमवतिष्ठते, सर्वामयाः प्रशाम्यन्ति, विषमविषं भवति गात्रे, गात्रमश्मवत् स्थिरीभवति, अधृष्यो भूतानां भवति||७७|| भवन्ति चात्र- यथाऽमराणाममृतं यथा भोगवतां सुधा| तथाऽभवन्महर्षीणां रसायनविधिः पुरा||७८|| न जरां न च दौर्बल्यं नातुर्यं निधनं न च| जग्मुर्वर्षसहस्राणि रसायनपराः पुरा||७९|| न केवलं दीर्घमिहायुरश्नुते रसायनं यो विधिवन्निषेवते| गतिं स देवर्षिनिषेवितां शुभां प्रपद्यते ब्रह्म तथेति चाक्षयम् ||८०||

🔊 Audio coming soon

अमृतवल्ली गुडूची| सोमवल्कः विट्खदिरः| क्षीरसर्पिः क्षीरसमुत्थितसर्पिः| अयश्चूर्णस्य चतुर्थो भागः, यत एतदयश्चूर्णं चतुर्थभागमत एवास्मिन् प्रयोगे जतूकर्णेन “अयश्चूर्णपादयुक्तम्” इति कृतम्| अमराणाममृतं जरादिहरं, नागानां च सुधा जरामरणहरी, इत्युभयोपादानं दृष्टान्ते| ब्रह्म मोक्षः| मोक्षसाधनत्वं चेह रसायनस्य विशुद्धसत्त्वकर्तृतयोच्यते|| ७७-८०||

Adhikarana 20 (81) · Śloka 81

तत्र श्लोकः- अभयामलकीयेऽस्मिन् षड्योगाः परिकीर्तिताः| रसायनानां सिद्धानामायुर्यैरनुवर्तते||८१||

🔊 Audio coming soon

अभयेत्यादिना सन्देहनिरासार्थमुक्तप्रयोगसङ्ख्यां दर्शयति| एवमन्यत्रापि सङ्ख्याप्रणयनमन्ते ज्ञेयम्|| ८१||

Adhikarana puShpikA · Śloka 1

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सास्थाने रसायनाध्यायेऽभयामलकीयो नाम रसायनपादः प्रथमः||१||

🔊 Audio coming soon

इति श्रीचक्रपाणिदत्तविरचितायामायुर्वेददीपिकायां चरकतात्पर्यटीकायां चिकित्सास्थाने रसायनाध्यायेऽभयामलकीयो नाम रसायनपादः प्रथमः|| १||