Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

6. kr̥tavēdhanakalpaḥ

Adhikarana 1 (1-2) · Śloka 2

अथातः कृतवेधनकल्पं व्याख्यास्यामः||१|| इति ह स्माह भगवानात्रेयः||२||

🔊 Audio coming soon

वमनकल्पपारिशेष्यात् कृतवेधनकल्पोऽभिधीयते||१-२||

Adhikarana 2 (3-4) · Śloka 4

कृतवेधननामानि कल्पं चास्य निबोधत| क्ष्वेडः कोशातकी चोक्तं मृदङ्गफलमेव च||३|| अत्यर्थकटुतीक्ष्णोष्णं गाढेष्विष्टं गदेषु च| कुष्ठपाण्ड्वामयप्लीहशोफगुल्मगरादिषु||४||

🔊 Audio coming soon

गाढेष्विति अत्यर्थगाढेषु कुष्ठादिषु||३-४||

Adhikarana 3 (5) · Śloka 5

क्षीरादि कुसुमादीनां सुरा चैतेषु पूर्ववत्|५|

🔊 Audio coming soon

क्षीरादीत्यादिना क्षीरयोगा उच्यन्ते| क्षीरयोगचतुष्टयं मदिरायोगं च जीमूतककल्पविधानातिदेशेनाह| क्षीरादिशब्देन क्षीरकृतपेया-क्षीरसन्तानिका-दध्युत्तराणां ग्रहणम्| एते च सङ्ग्रहेऽक्षीररूपा अपि क्षीरविकारतया क्षीरशब्देनैव गृहीताः ‘क्षीरे द्वौ द्वौ’ इति वचनेन| कुसुमादीनामिति कृतवेधनस्य पुष्पादीनां “पयः पुष्पेऽस्य निर्वृत्ते फले पेया पयस्कृता| लोमशे क्षीरसन्तानं दध्युत्तरमलोमशे” (क.अ.२) इति जीमूतकविधानोक्तानाम्| सुरा चैतेषु पूर्ववदिति यथा जीमूतककल्पविधानेन क्षीरादयः कर्तव्यास्तथा सुरा च कर्तव्या|५|

Adhikarana 4 (5-7) · Śloka 7

सुशुष्काणां तु जीर्णानामेकं द्वे वा यथाबलम्||५|| कषायैर्मधुकादीनां नवभिः फलवत् पिबेत्| क्वाथयित्वा फलं तस्य पूत्वा लेहं निधापयेत्||६|| कृतवेधनकल्कांशं फलाद्यर्धांशसंयुतम् | पृथक् चारग्वधादीनां त्रयोदशभिरासुतम्||७||

🔊 Audio coming soon

सुशुष्काणामित्यादिना नव कषाययोगानाह| फलवदिति मदनफलं यथा यष्टीमधुकादिभिः पीयते, तथैतदपि पातव्यमित्यर्थः| एके नवकषायप्रयोगेषु शेषविधिप्रत्यायकं लेहं पठन्ति- “क्वाथयित्वा रसं तस्य पूत्वा लेहं निधापयेत्” इत्यादि, तच्च सङ्गतार्थम्| उक्तं च जतूकर्णे- “अत्र जीर्णबीजानां मदनफलवत् कषायैर्लेहा भवन्ति नव” इति| पृथगित्यादिना त्रयोदश कषाययोगानाह| एवं द्वाविंशतिः कषाययोगा भवन्ति| आरग्वधादयस्त्रयोदश मदनकल्पे “आरग्वधवृक्षक ...” (क.अ.१) इत्यादिना गुडूच्यन्तेनोक्ता ज्ञेयाः||५-७||

Adhikarana 5 (8) · Śloka 8

शाल्मलीमूलचूर्णानां पिच्छाभिर्दशभिस्तथा|८|

🔊 Audio coming soon

शाल्मलीत्यादिना दश पिच्छायोगानाह| शाल्मलीमूलमादिः येषां ते शाल्मलीमूलाः शाल्मल्यादयो विमानपठिता दश शाल्मलीशाल्मलकभद्रपर्ण्येलापर्ण्युपोदिकोद्दालधन्वनराजादनोपचित्रागोप्यन्ताः (वि.अ.८); एषां चूर्णानां पिच्छाभिर्युक्त्या कृतत्वेनैव दश योगा ज्ञेयाः| शाल्मलकः शाल्मलीभेदः, रोहितको वा; भद्रपर्णी गम्भारी; एलापर्णी नागबला, अहिंस्रेत्यन्ये; राजादनां क्षीरिका, उपचित्रा दन्ती, गोपी सारिवा|८|

Adhikarana 6 (8) · Śloka 8

वर्तिक्रियाः षट् फलवत्, फलादीनां घृतं तथा||८||

🔊 Audio coming soon

वर्तिक्रियाः षट् फलवदिति “फलपिप्पलीचूर्णानि पूर्ववत्” (क.अ.१) इत्यादिना ग्रन्थेन या वर्तिक्रिया उक्ता मदनकल्पे, तद्वदिहापि कृतवेधनचूर्णानां षड्वर्तिक्रियाः कर्तव्याः| फलादीनां घृतं तथेत्यनेन कृतवेधनसाधितक्षीरादुत्थितं नवनीतं फलादिकषायेण साधनीयं मदनफलघृतवदित्यर्थः||८||

Adhikarana 7 (9-10) · Śloka 10

कोशातकानि पञ्चाशत् कोविदाररसे पचेत्| तं कषायं फलादीनां कल्कैर्लेहं पुनः पचेत्||९|| क्ष्वेडस्य तत्र भागः स्याच्छेषाण्यर्धांशिकानि तु| कषायैः कोविदाराद्यैरेवं तत् कल्पयेत् पृथक्||१०||

🔊 Audio coming soon

कोशातकानीत्यादि| अत्रैव क्वाथपादिके कल्के कर्तव्ये क्ष्वेडस्य पूर्णो भागो देयः, फलादीनां च प्रत्येकं क्ष्वेडादर्धभागिकत्वम्||९-१०||

Adhikarana 8 (11) · Śloka 12

कषायेषु फलादीनामानूपं पिशितं पृथक्| कोशातक्या समं पक्त्वा रसं सलवणं पिबेत्||११|| फलादिपिप्पलीतुल्यं तद्वत् क्ष्वेडरसं पिबेत्|१२|

🔊 Audio coming soon

कषायेष्वित्यादिना सप्त मांसयोगानाह| सममिति कोशातकीतुल्यं मांसम्| अत्र पिबेदित्यन्तेन षण्मांसरसाः, फलादीत्यनेन चैकः| फलादिपिप्पलीतुल्यं तद्वदित्यनेन फलादिभिः समं मांसम्| तद्वदिति वचनात् कोशातक्याः कषायेण साधनीयम्||११||-

Adhikarana 9 (12) · Śloka 12

क्ष्वेडं कासी पिबेत् सिद्धं मिश्रमिक्षुरसेन च||१२||

🔊 Audio coming soon

इक्षुरसयोगमेकमाह- क्ष्वेडमित्यादि| सिद्धमिति इक्षुरसेन मिश्रितं सत् साधितं पिबेदित्यर्थः उक्तं हि जतूकर्णे- “क्ष्वेडमिक्षुरसे शृतम्” इति||१२||

Adhikarana 10 (13-14) · Śloka 14

तत्र श्लोकौ- क्षीरे द्वौ द्वौ सुरा चैका क्वाथा द्वाविंशतिस्तथा| दश पिच्छा घृतं चैकं षट् च वर्तिक्रियाः शुभाः||१३|| लेहेऽष्टौ सप्त मांसे च योग इक्षुरसेऽपरः| कृतवेधनकल्पेऽस्मिन् षष्टिर्योगाः प्रकीर्तिताः||१४||

🔊 Audio coming soon

क्षीरे द्वौ द्वावित्यादिसङ्ग्रहः| द्वौ द्वाविति चत्वारः||१३-१४||

Adhikarana puShpikA · Śloka 6

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसम्पूरिते कल्पस्थाने कृतवेधनकल्पो नाम षष्ठोऽध्यायः||६||

🔊 Audio coming soon

इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यटीकायामायुर्वेददीपिकायां कल्पस्थाने कृतवेधनकल्पो नाम षष्ठोऽध्यायः||६||