Adhikarana 1 (1-2) · Śloka 2
अथातोऽपस्मारनिदानं व्याख्यास्यामः||१|| इति ह स्माह भगवानात्रेयः||२||
🔊 Audio coming soon
उन्मादानन्तरं प्रागुत्पत्तावपस्मारोत्पादादपस्मारनिदानमुच्यते||१-२||
Adhikarana 1 (1-2) · Śloka 2
अथातोऽपस्मारनिदानं व्याख्यास्यामः||१|| इति ह स्माह भगवानात्रेयः||२||
🔊 Audio coming soon
उन्मादानन्तरं प्रागुत्पत्तावपस्मारोत्पादादपस्मारनिदानमुच्यते||१-२||
Adhikarana 2 (3) · Śloka 3
इह खलु चत्वारोऽपस्मारा भवन्ति वातपित्तकफसन्निपातनिमित्ताः||३||
🔊 Audio coming soon
चत्वार इति वचनमागन्तुसम्बन्धेऽप्यपस्माराणां चतुष्कप्रतिपादनार्थम्; अपस्मारो हि नोन्मादवत् स्वतन्त्रेणागन्तुना क्रियते||३||
Adhikarana 3 (4) · Śloka 4
त एवंविधानां प्राणभृतां क्षिप्रमभिनिर्वर्तन्ते; तद्यथा- रजस्तमोभ्यामुपहतचेतसामुद्भ्रान्तविषमबहुदोषाणां समलविकृतोपहितान्यशुचीन्यभ्यवहारजातानि वैषम्ययुक्तेनोपयोगविधिनोपयुञ्जानानां तन्त्रप्रयोगमपि च विषममाचरतामन्याश्च शरीरचेष्टा विषमाः समाचरतामत्युपक्षयाद्वा दोषाः प्रकुपिता रजस्तमोभ्यामुपहतचेतसामन्तरात्मनः श्रेष्ठतममायतनं हृदयमुपसृत्योपरि तिष्ठन्ते, तथेन्द्रियायतनानि च| तत्र चावस्थिताः सन्तो यदा हृदयमिन्द्रियायतनानि चेरिताः कामक्रोधभयलोभमोहहर्षशोकचिन्तोद्वेगादिभिः सहसाऽभिपूरयन्ति, तदा जन्तुरपस्मरति||४||
🔊 Audio coming soon
उद्भ्रान्तविषमबहुदोषाणामिति अत्रोद्भ्रान्तत्वेनोन्मार्गित्वं, विषमत्वेन कदाचिदपस्मारवेगकर्तृत्वं दर्श्यते| समलेत्यादि उन्मादव्याख्यानतुल्यम्| अत्युपक्षयाद्वेति अत्युपक्षीणदेहत्वादित्यर्थः; उन्मादनिदानेऽपि समलविकृतेत्यादिग्रन्थे ‘अत्युपक्षीणदेहानां’ (नि.अ.७) इत्युक्तम्| श्रेष्ठतमायतनमिति अनेनान्योऽपि शरीरदेशोऽन्तरात्मनः स्थानं, हृदयं तु श्रेष्ठतमं, तत्रैव चेतनाविशेषनिबन्धनादिति दर्शयति| उपसृत्येति व्याप्य| उपरि तिष्ठन्ते इति हृदयस्योपरि इन्द्रियायतनानि चोपसृत्य तिष्ठन्ते इति योजना| ‘पर्यवतिष्ठन्ते’ इति पाठो व्यक्त एव| तत्रावस्थिता इति हृदये इन्द्रियायतनेषु च लीनत्वेनावस्थिताः| ते च लीनाः सन्तः कामादिभिरीरिताः पुनर्हृदयमिन्द्रियायतनानि च विशेषेण पूरयन्ति यदा, तदा अपस्मरति अपस्मारवेगयुक्तो भवतीति वाक्यार्थः||४||
Adhikarana 4 (5) · Śloka 5
अपस्मारं पुनः स्मृतिबुद्धिसत्त्वसम्प्लवाद्बीभत्सचेष्टमावस्थिकं तमः प्रवेशमाचक्षते||५||
🔊 Audio coming soon
अपस्मारप्रत्यात्मलक्षणमाह- अपस्मारं पुनरित्यादि| सम्प्लवादिति विकृतिगमनात्| बीभत्सा फेनवमनाङ्गभङ्गादिरूपा चेष्टा यस्मिन् तद्बीभत्सचेष्टम्| आवस्थिकं तमःप्रवेशमिति कादाचित्कं तमःप्रवेशं; तमःप्रवेशोऽज्ञानसाधर्म्यात्, अपस्मारवेगवान् हि तमःप्रवेशे इव न किञ्चिद्बुध्यते||५||
Adhikarana 5 (6-7) · Śloka 7
तस्येमानि पूर्वरूपाणि भवन्ति; तद्यथा- भ्रूव्युदासः सततमक्ष्णोर्वैकृतमशब्दश्रवणं लालासिङ्घाणप्रस्रवणमनन्नाभिलषणमरोचकाविपाकौ हृदयग्रहः कुक्षेराटोपो दौर्बल्यमस्थिभेदोऽङ्गमर्दो मोहस्तमसो दर्शनं मूर्च्छा भ्रमश्चाभीक्ष्णं स्वप्ने च मदनर्तनव्यधनव्यथनवेपनपतनादीनीति||६|| ततोऽनन्तरमपस्माराभिनिर्वृत्तिरेव||७||
🔊 Audio coming soon
अशब्दश्रवणमिति अविद्यमानशब्दश्रवणशब्दम्| आटोपः गुडगुडाशब्दविशेषो वातजन्यः श्रूयत इत्यर्थः||६-७||
Adhikarana 6 (8) · Śloka 8
तत्रेदमपस्मारविशेषविज्ञानं भवति; तद्यथा- अभीक्ष्णमपस्मरन्तं, क्षणेन सञ्ज्ञां प्रतिलभमानम्, उत्पिण्डिताक्षम्, असाम्ना विलपन्तम्, उद्वमन्तं फेनम्, अतीवाध्मातग्रीवम्, आविद्धशिरस्कं, विषमविनताङ्गुलिम्, अनवस्थितपाणिपादम्, अरुणपरुषश्यावनखनयनवदनत्वचम्, अनवस्थितचपलपरुषरूक्षरूपदर्शिनं, वातलानुपशयं, विपरीतोपशयं च वातेनापस्मरन्तं विद्यात् (१)||८|| अभीक्ष्णमपस्मरन्तं क्षणेन सञ्ज्ञां प्रतिलभमानम्, अवकूजन्तम्, आस्फालयन्तं भूमिं, हरितहारिद्रताम्रनखनयनवदनत्वचं, रुधिरोक्षितोग्रभैरवादीप्तरुषितरूपदर्शिनं, पित्तलानुपशयं,विपरीतोपशयं च पित्तेनापस्मरन्तं विद्यात् (२)||८|| चिरादपस्मरन्तं, चिराच्च सञ्ज्ञां प्रतिलभमानं, पतन्तम्, अनतिविकृतचेष्टं, लालामुद्वमन्तं, शुक्लनखनयनवदनत्वचं, शुक्लगुरुस्निग्धरूपदर्शिनं, श्लेष्मलानुपशयं, विपरीतोपशयं च श्लेष्मणाऽपस्मरन्तं विद्यात् (३)||८|| समवेतसर्वलिङ्गमपस्मारं सान्निपातिकं विद्यात्, तमसाध्यमाचक्षते (४)||८|| इति चत्वारोऽपस्मारा व्याख्याताः||८||
🔊 Audio coming soon
तत्रेदमित्यादि| विशेषविज्ञानं वाताद्यपस्मारलिङ्गमित्यर्थः| क्षणेन सञ्ज्ञां प्रतिलभमानमिति वातापस्मारे शीघ्रं प्रबोधो भवतीति दर्शयति| आध्मातग्रीवमिति पूरितस्तब्धग्रीवम्| आविद्धशिरस्कमिति वक्रशिरस्कम्| अनवस्थितचपलरूपदर्शनं पतनकाले ज्ञेयं, पतितस्तु न बुध्यत एव| एवमन्यत्रापि रूपदर्शनं बोद्धव्यम्| सुश्रुतेऽपि पतनकाल एव रूपदर्शनमुक्तं; यथा- “यो ब्रूयाद्विकृतं सत्त्वं कृष्णं मामनुधावति| ततो मे चित्तनाशः स्यात् सोऽपस्मारोऽनिलात्मकः” (सु.उ.अ.६१) इत्यादि| पित्तापस्मारे यद्यपि विशेषलक्षणे क्षणेन सञ्ज्ञां प्रतिलभमानमित्युक्तं, तथाऽपि वातिकापेक्षया कालप्रकर्षोऽत्र ज्ञेयः; पित्तादपि हि वायुः शीघ्रकारी भवति| उग्रं हिंसकमिव, भैरवं तु अहिंसकमपि भयजनकं श्मशानादि, आदीप्तं ज्वलितम्| चिरादपस्मरन्तमिति भूयसा कालेनापस्मारवेगवन्तम्||८||
Adhikarana 7 (9) · Śloka 9
तेषामागन्तुरनुबन्धो भवत्येव कदाचित्, तमुत्तरकालमुपदेक्ष्यामः| तस्य विशेषविज्ञानं यथोक्तलिङ्गैर्लिङ्गाधिक्यमदोषलिङ्गानुरूपं च किञ्चित्||९||
🔊 Audio coming soon
भवत्येवेत्यत्र एवकारोऽत्यन्तायोगव्यवच्छेदे; यथा- नीलं सरोजं भवत्येव, न च न भवति| कदाचिदिति पदं त्वत्यन्तायोगव्यवच्छेदार्थतामेव द्योतयति| एतेन, सर्वापस्मारे भूतसम्बन्धो भवति, न च स्वतन्त्रोऽपस्मारो भौतिको भवतीति दर्शयति| उत्तरकालमिति चिकित्सिते, यद्यपि चापस्मारचिकित्सितेऽपि प्रपञ्चो न वक्तव्यः, तथाऽपि तत्रोन्मादविध्यतिदेशादुन्मादोक्तविस्तार एवेति कृत्वा इहोक्तं- ‘तमुत्तरकालमुपदेक्ष्यामः’ इति; उक्तं हि- “यस्यानुबन्धं त्वागन्तुं दोषलिङ्गाधिकाकृतिम्| पश्येत्तस्य भिषक्कुर्यादागन्तून्मादभेषजम्” (चि.अ.१०) इति| यथोक्तलिङ्गैरिति पञ्चमीस्थाने तृतीया, तेन यथोक्तापस्मारलिङ्गेभ्यो लिङ्गाधिक्यं लिङ्गातिरिक्तत्वं; तच्चादोषलिङ्गानुरूपं दोषलिङ्गासदृशमित्यर्थः| किञ्चिदिति न सर्वं, किन्तु स्तोकं दोषलिङ्गविलक्षणं लिङ्गमागन्त्वनुबन्धे भवति| एतेन च स्वातन्त्र्येणागन्त्वपस्मारसम्भवो न भवतीति दर्शयति; यदि हि स्वतन्त्र एवागन्तुः स्यात्तदा न स्तोकमागन्तुलिङ्गं स्यात्, किन्तु सर्वमेव||९||
Adhikarana 8 (10) · Śloka 10
हितान्यपस्मारिभ्यस्तीक्ष्णानि संशोधनान्युपशमनानि च यथास्वं, मन्त्रादीनि चागन्तुसंयोगे||१०||
🔊 Audio coming soon
हितानीत्यादिना चिकित्सासूत्रमाह| उपशमनानि च हितानीति योजना||१०||
Adhikarana 9 (11-14) · Śloka 14
तस्मिन् हि दक्षाध्वरध्वंसे देहिनां नानादिक्षु विद्रवतामभिद्रवणतरणधावनप्लवनलङ्घनाद्यैर्देहविक्षोभणैः पुरा गुल्मोत्पत्तिरभूत्, हविष्प्राशात् प्रमेहकुष्ठानां, भयत्रासशोकैरुन्मादानां, विविधभूताशुचिसंस्पर्शादपस्माराणां, ज्वरस्तु खलु महेश्वरललाटप्रभवः , तत्सन्तापाद्रक्तपित्तम्, अतिव्यवायात् पुनर्नक्षत्रराजस्य राजयक्ष्मेति||११|| भवन्ति चात्र- अपस्मारो हि वातेन पित्तेन च कफेन च| चतुर्थः सन्निपातेन प्रत्याख्येयस्तथाविधः||१२|| साध्यांस्तु भिषजः प्राज्ञाः साधयन्ति समाहिताः| तीक्ष्णैः संशोधनैश्चैव यथास्वं शमनैरपि||१३|| यदा दोषनिमित्तस्य भवत्यागन्तुरन्वयः| तदा साधारणं कर्म प्रवदन्ति भिषग्विदः||१४||
🔊 Audio coming soon
सम्प्रत्युक्तानां गदानामुत्पत्तिमाह- तस्मिन्नित्यादि| यद्यपि च ज्वर एव तत्र प्रथम उत्पन्नस्तथाऽप्यसौ पृथगेव रुद्रक्रोधरूप उत्पन्न इति कृत्वा पश्चादुच्यते, गुल्मादयस्तु यज्ञध्वंसानन्तरकालभूता एकसामग्रीजातत्वेन प्रथममुच्यन्ते; ज्वरस्य तु सर्वप्रथमोत्पत्तिर्ज्वरनिदान एवोक्तेति भावः| पुरा इति आद्युत्पत्तौ| ललाटप्रभव इति ललाटभवक्रोधाग्निप्रभव इत्यर्थः| अन्वयः अनुबन्धः| साधारणमिति दोषप्रत्यनीकं वमनादि, देवादिप्रत्यनीकं च बलिमङ्गलादि||११-१४||
Adhikarana 10 (15) · Śloka 15
सर्वरोगविशेषज्ञः सर्वौषधविशारदः| भिषक् सर्वामयान् हन्ति न च मोहं निगच्छति ||१५||
🔊 Audio coming soon
निदानस्थानोक्तसर्वरोगज्ञानफलमाह- सर्वेत्यादि| न च मोहं निगच्छतीति निदानस्थानाद्यनुक्तेऽपि प्रमेये सूक्ष्मेऽपि बहुदृष्टत्वेन न मोहं गच्छति, किन्न्तु तदप्यूह्यत इत्यर्थः||१५||
Adhikarana 11 (16) · Śloka 16
इत्येतदखिलेनोक्तं निदानस्थानमुत्तमम्|१६|
🔊 Audio coming soon
अखिलेनेति यावन्निदानस्थानतया व्याध्यष्टकं प्रतिज्ञातं तावदखिलेनोक्तम्| तेन चिकित्सास्थानवक्तव्यनिदानाभिधानान्न न्यूनत्वं; यच्च ज्वरादिनिदानमपि पुनर्वक्तव्यं तदस्यैव प्रपञ्च इति भावः|१६|-
Adhikarana 12 (16-19) · Śloka 19
निदानार्थकरो रोगो रोगस्याप्युपलभ्यते||१६|| तद्यथा- ज्वरसन्तापाद्रक्तपित्तमुदीर्यते| रक्तपित्ताज्ज्वरस्ताभ्यां शोषश्चाप्युपजायते ||१७|| प्लीहाभिवृद्ध्या जठरं जठराच्छोथ एव च| अर्शोभ्यो जठरं दुःखं गुल्मश्चाप्युपजायते||१८|| प्रतिश्यायाद्भवेत् कासः कासात् सञ्जायते क्षयः| क्षयो रोगस्य हेतुत्वे शोषस्याप्युपलभ्यते||१९||
🔊 Audio coming soon
सम्प्रति निदानप्रकरणाद्रोगाणामपि केषाञ्चिद्व्याधिं प्रति कारणत्वं यत् सम्भवति, तद्वक्तुमाह- निदानार्थेत्यादि| निदानस्यार्थः प्रयोजनं व्याधिजननं, तत् करोतीति निदानार्थकरः; व्याधिजनक इत्यर्थः| निदानरूप इति वक्तव्ये यन्निदानार्थकर इति ब्रूते, तेन व्याधिना व्याध्यन्ते क्रियमाणेऽपि मूलभूतव्याधिजनक एव हेतुर्व्याधिजन्येऽपि व्याधौ मूलव्याधिजननावान्तरव्यापारो निदानमिति दर्शयति| तेन, रोगजन्येऽपि रोगे मूलभूतासात्म्येन्द्रियार्थादि कारणत्रयमेव कारणं भवतीति न चतुर्थकारणान्तरापत्तिरित्यतिप्रसङ्गो वाच्यः; ज्वरकारणान्येव हि उष्णादीन्यतिमात्राणि ज्वरमभिनिर्वर्त्य रक्तपित्तमपि कारणान्तरवर्धितशक्तीनि जनयन्तीत्याद्यनुसरणीयम्| गुल्मश्चाप्युपजायते इति अर्शोभ्य एव| कासात् सञ्जायते क्षय इति कासाद्धातुक्षयो जायते, स च धातुक्षयो रोगस्य शोषाभिधानस्य हेतुरुपलभ्यत इति योजना||१६-१९||
Adhikarana 13 (20) · Śloka 20
ते पूर्वं केवला रोगाः पश्चाद्धेत्वर्थकारिणः| उभयार्थकरा दृष्टास्तथैवैकार्थकारिणः ||२०||
🔊 Audio coming soon
ननु यत्र रोगस्य कारणं रोगो भवति, तत्र किं कारणभूतरोगोऽप्रधानमेवेत्याशङ्क्याह- ते पूर्वमित्यादि|- ते ज्वरादयो रक्तपित्ताद्युत्पादात् पूर्वं केवलाः सन्तो रोगा एव रुजाकर्तृत्वेन स्वयमेव प्रधाना इति; पश्चाद्धेत्वर्थकारिण इति पश्चाद्रक्तपित्ताद्युत्पादका भवन्तीत्यर्थः| अथैवमपि रक्तपित्तादिकं जनयित्वा ज्वरादयो हेतुवदरोगरूपा भवन्ति न वेत्याह- उभयेत्यादि| उभयार्थकरा इति हेत्वर्थं रक्तपित्तादिजननरूपं, रोगार्थं च पीडालक्षणं कुर्वन्ति; न व्याध्यन्तरजननमात्रं कृत्वा निवर्तन्त इत्यर्थः| प्रकारान्तरमाह- तथैवैकार्थकारिण इति| एकस्यैव हेतोरर्थं कुर्वन्तीति एकार्थकारिणः||२०||
Adhikarana 14 (21) · Śloka 21
कश्चिद्धि रोगो रोगस्य हेतुर्भूत्वा प्रशाम्यति| न प्रशाम्यति चाप्यन्यो हेत्वर्थं कुरुतेऽपि च||२१||
🔊 Audio coming soon
एतदेव पक्षद्वयं प्रातिलोम्येन विवृणोति- कश्चिद्धीत्यादि| अत्र यो हेत्वर्थं व्याधिजननं कृत्वा प्रशाम्यति, स एकार्थकारी; यस्तु हेत्वर्थं व्याध्यन्तरजननं कृत्वा स्वयमप्यनुवर्तते, स उभयार्थकारी; यदा कासं समारभ्यापि स्वयमनुवर्तते, तदा प्रतिश्यायः स्वयं च रुजाकर्तृत्वेन रोगार्थकरः, कासजनकत्वेन हेत्वर्थकरश्च भवति; यदा तु कासं जनयित्वा स्वयं निवर्तते, तदा कासकाले निवृत्तत्वात् हेत्वर्थमात्रं करोतीत्युदाहार्यम्||२१||
Adhikarana 15 (22) · Śloka 22
एवं कृच्छ्रतमा नॄणां दृश्यन्ते व्याधिसङ्कराः| प्रयोगापरिशुद्धत्वात्तथा चान्योन्यसम्भवात्||२२||
🔊 Audio coming soon
व्याधिसङ्करा व्याधिमेलकाः| कुतः पुनरेवं भवतीत्याह- प्रयोगेत्यादि|- प्रयोगापरिशुद्धत्वं यथा- आमातीसारे स्तम्भनं कृतं दोषं संस्तभ्य शूलानाहाध्मानादि जनयति| हेत्वन्तरमाह- अन्योन्यसम्भवादिति; परस्परकारणरूपत्वादित्यर्थः| प्रतिश्यायो हि स्वरूपेणैव कासस्य कारणं, स च राजयक्ष्मण इत्यादि||२२||
Adhikarana 16 (23) · Śloka 23
प्रयोगः शमयेद्व्याधिं योऽन्यमन्यमुदीरयेत्| नासौ विशुद्धः, शुद्धस्तु शमयेद्यो न कोपयेत्||२३||
🔊 Audio coming soon
प्रयोगापरिशुद्धिं विवृणोति- प्रयोग इत्यादि| न कोपयेदिति व्याध्यन्तरं न कुर्यादित्यर्थः| अन्योन्यसम्भवश्च ज्वरसन्तापाद्रक्तपित्तमुदीर्यत इत्यादिनैवोक्त इति न पुनर्विव्रियते||२३||
Adhikarana 17 (24-26) · Śloka 26
एको हेतुरनेकस्य तथैकस्यैक एव हि| व्याधेरेकस्य चानेको बहूनां बहवोऽपि च||२४|| ज्वरभ्रमप्रलापाद्या दृश्यन्ते रूक्षहेतुजाः| रूक्षेणैकेन चाप्येको ज्वर एवोपजायते||२५|| हेतुभिर्बहुभिश्चैको ज्वरो रूक्षादिभिर्भवेत्| रूक्षादिभिर्ज्वराद्याश्च व्याधयः सम्भवन्ति हि||२६||
🔊 Audio coming soon
हेतुप्रकरणाद्धेतुधर्मान्तरमाह- एको हेतुरित्यादि| एतत्पक्षचतुष्टयोदाहरणान्याह- ज्वरेत्यादि| यद्यपि रूक्षं बहूनां कारणं, तथाऽपि देशकालादिवशात् कदाचिदेकस्यैव ज्वरस्य कारणं भवतीति ज्ञेयम्| रूक्षादिभिरिति रूक्षोष्णलवणादिभिः | ज्वराद्या इति ज्वररक्तपित्तगुल्माद्याः||२४-२६||
Adhikarana 18 (27-29) · Śloka 29
लिङ्गं चैकमनेकस्य तथैवैकस्य लक्ष्यते| बहून्येकस्य च व्याधेर्बहूनां स्युर्बहूनि च||२७|| विषमारम्भमूलानां लिङ्गमेकं ज्वरो मतः| ज्वरस्यैकस्य चाप्येकः सन्तापो लिङ्गमुच्यते||२८|| विषमारम्भमूलैश्च ज्वर एको निरुच्यते| लिङ्गैरेतैर्ज्वरश्वासहिक्काद्याः सन्ति चामयाः||२९||
🔊 Audio coming soon
लिङ्गस्यापि हेतोरिव चातुर्विध्यमाह- लिङ्गमित्यादि| तथैवैकस्य लक्ष्यत इति एकं लिङ्गमिति सम्बन्धः| विषमारम्भमूलानामिति विषमारम्भप्रथमानां; विषमारम्भविसर्गित्वमूष्मणो वैषम्यमित्याद्युक्तज्वरलिङ्गानामित्यर्थः| ज्वरं ह्येकं (सन्तापात्मकं ) दृष्ट्वा विषमारम्भविसर्गित्वादयोऽस्य भूता भविष्यन्ति वर्तन्त इति वा लिङ्ग्यते| ज्वर एको निरुच्यत इति ज्ञायत इत्यर्थः| लिङ्गैरेतैरित्यादि| एतैर्विषमारम्भविसर्गित्वाद्यैर्ज्वरादयः सन्ति ‘युक्ता’ इति शेषः| विषमारम्भादयो हि वातज्वरे तथा वातश्वासे वातहिक्कायां वा यथासम्भवं दृश्यन्त एव||२७-२९||
Adhikarana 19 (30-32) · Śloka 32
एका शान्तिरनेकस्य तथैवैकस्य लक्ष्यते| व्याधेरेकस्य चानेका बहूनां बह्व्य एव च||३०|| शान्तिरामाशयोत्थानां व्याधीनां लङ्घनक्रिया| ज्वरस्यैकस्य चाप्येका शान्तिर्लङ्घनमुच्यते||३१|| तथा लघ्वशनाद्याश्च ज्वरस्यैकस्य शान्तयः| एताश्चैव ज्वरश्वासहिक्कादीनां प्रशान्तयः||३२||
🔊 Audio coming soon
एतच्चातुर्विध्यं चिकित्सायामपि ब्रूते- एकेत्यादि||३०-३२||
Adhikarana 20 (33-35) · Śloka 35
सुखसाध्यः सुखोपायः कालेनाल्पेन साध्यते| साध्यते कृच्छ्रसाध्यस्तु यत्नेन महता चिरात्||३३|| याति नाशेषतां व्याधिरसाध्यो याप्यसञ्ज्ञितः| परोऽसाध्यः क्रियाः सर्वाः प्रत्याख्येयोऽतिवर्तते||३४|| नासाध्यः साध्यतां याति साध्यो याति त्वसाध्यताम्| पादापचाराद्दैवाद्वा यान्ति भावान्तरं गदाः||३५||
🔊 Audio coming soon
चिकित्साभिधानप्रसङ्गेन चिकित्साप्रवृत्तिविषयं साध्यभेदं तथा चिकित्सानिवृत्तिविषयं चासाध्यभेदमाह- सुखेत्यादि|- सुखोपाय इति सुखलभ्यवैद्याद्युपायः ; किंवा, सुखोपायः सन् साध्यते अल्पेनैव यत्नेन साध्यत इत्यर्थः| याति नाशेषतामिति न सर्वथा निवर्तते| परोऽसाध्य इति याप्यापेक्षया उत्कृष्टोऽसाध्यः| अस्यैव विवरणं- प्रत्याख्येय इति| क्रियाः चिकित्साः| भावान्तरमिति सुखसाध्यः कृच्छ्रसाध्यो भवति, कृच्छ्रश्च याप्यः, याप्यश्च प्रत्याख्येय इति||३३-३५||
Adhikarana 21 (36-37) · Śloka 37
वृद्धिस्थानक्षयावस्थां रोगाणामुपलक्षयेत् | सुसूक्ष्मामपि च प्राज्ञो देहाग्निबलचेतसाम्||३६|| व्याध्यवस्थाविशेषान् हि ज्ञात्वा ज्ञात्वा विचक्षणः| तस्यां तस्यामवस्थायां चतुःश्रेयः प्रपद्यते||३७||
🔊 Audio coming soon
व्याधेः सुखसाध्यत्वाभिधानप्रसङ्गेन वृद्ध्याद्यवस्थान्तरमाह- वृद्धीत्यादि| न केवलं रोगाणां किन्तु देहाग्निबलचेतसामपिवृद्धिस्थानक्षयावस्थामुपलक्षयेदिति योजना| एतद्व्याध्यवस्थाज्ञानप्रयोजनमाह- व्याध्यवस्थेत्यादि| चतुःश्रेय इति चतुश्रेयःकारकं चिकित्सितं, प्रपद्यते बुध्यत इत्यर्थः||३६-३७||
Adhikarana 22 (38-39) · Śloka 39
प्रायस्तिर्यग्गता दोषाः क्लेशयन्त्यातुरांश्चिरम्| तेषु न त्वरया कुर्याद्देहाग्निबलवित् क्रियाम्||३८|| प्रयोगैः क्षपयेद्वा तान् सुखं वा कोष्ठमानयेत्| ज्ञात्वा कोष्ठप्रपन्नांस्तान् यथासन्नं हरेद्बुधः||३९||
🔊 Audio coming soon
व्याधिप्रकारानभिधाय चिकित्सोपयुक्तान् दोषप्रकारानाह- प्राय इत्यादि| तिर्यग्गताश्च दोषा उन्मार्गगतत्वेन न सम्यक् शीघ्रं वा भेषजेन योजयितुं पार्यन्ते, तेन चिरं क्लेशयन्तीति युक्तम्| देहाग्निबलविदित्यनेन तिर्यग्गतदोषे त्वरया भूरि भेषजप्रयोगेण क्रियमाणा चिकित्सा देहमग्निबलं च हन्तीति सूचयति| प्रयोगैरिति अल्पमात्रदीर्घकालप्रयोगैः| सुखं वेति सुखं यथा भवति तथा आसन्नं हरेदित्यर्थः; यच्छोधनं वमनादि यत्रामाशयादिगते दोषे आसन्नं हरणयोग्यतया भवति, तेन हरेदित्यर्थः||३८-३९||
Adhikarana 23 (40) · Śloka 40
ज्ञानार्थं यानि चोक्तानि व्याधिलिङ्गानि सङ्ग्रहे| व्याधयस्ते तदात्वे तु लिङ्गानीष्टानि नामयाः||४०||
🔊 Audio coming soon
सम्प्रति निदाने लिङ्गत्वेनोक्तानां व्याधीनां पृथग्व्याधित्वमपि भवतीत्याह- ज्ञानार्थमित्यादि| सङ्ग्रह इति व्याधिनिदानादिसङ्ग्रहे| ये निदानस्थाने ज्ञानार्थं प्रधानभूतज्वरादिज्ञानार्थं व्याधयः सन्ति, तेऽविपाकारुच्यादयः स्वातन्त्र्येणोत्पद्यमाना व्याधय एव व्याधित्वेनैव व्यपदेष्टव्या इत्यर्थः| तदात्वे तु लिङ्गानीति यदा ज्वरादिपरतन्त्रा जायन्तेऽरुच्यादयः, तदा पारतन्त्र्याल्लिङ्गान्येव ते, नामयाः; आमयो हि स्वतन्त्रः स्वचिकित्साप्रशमनीयो भवतीत्यायुर्वेदस्थितिः, ज्वरलिङ्गरूपास्त्वरुच्यादयो ज्वरचिकित्साप्रशमनीया एवेति भावः||४०||
Adhikarana 24 (41) · Śloka 41
विकारः प्रकृतिश्चैव द्वयं सर्वं समासतः| तद्धेतुवशगं हेतोरभावान्नानुवर्तते||४१||
🔊 Audio coming soon
सम्प्रति निदानाधिकृतस्य हेतोर्विभवमाह- विकार इत्यादि| विकारः वैषम्यम्| प्रकृतिः साम्यम्| सर्वमिति अनेन शारीरं तथाऽऽध्यात्मिकं चोपसङ्गृह्णाति| हेतुवशगमिति हेत्वधीनोत्पादम्| एतेन, आरोग्यरूपप्रकृत्यर्थिना साम्यहेतुः सेवनीयः, तथा विकाररूपरोगपरिहारार्थिना च विकारहेतुर्वर्जनीयः| न च वाच्यं- यद्- दध्यादिशोथजननहेतोरुपरमेऽपि तज्जनितशोथानुवृत्तिदर्शनान्मृषैतद्वचनं- ‘हेतोरभावान्नानुवर्तते’ इति, यत उपरतेऽपि दध्यादौ दध्यादिजनितो दोषसन्तानः शोथादिजनकस्तत्रानुवर्तत एव||४१||
Adhikarana 25 (42-44) · Śloka 44
तत्र श्लोकाः- हेतवः पूर्वरूपाणि रूपाण्युपशयस्तथा| सम्प्राप्तिः पूर्वमुत्पत्तिः सूत्रमात्रं चिकित्सितात्||४२|| ज्वरादीनां विकाराणामष्टानां साध्यता न च| पृथगेकैकशश्चोक्ता हेतुलिङ्गोपशान्तयः||४३|| हेतुपर्यायनामानि व्याधीनां लक्षणस्य च| निदानस्थानमेतावत् सङ्ग्रहेणोपदिश्यते||४४||
🔊 Audio coming soon
सङ्ग्रहे ‘सूत्रमात्रं चिकित्सितात्’ इत्यन्तेनापस्माराध्यायार्थसङ्ग्रह उक्त इति बोद्धव्यम्| ‘ज्वरादीनां’ इत्यादिग्रन्थेन तु निदानस्थानोक्तार्थसङ्ग्रहं करोति| यद्यपि ज्वरस्य ज्वरनिदानेऽसाध्यता नोक्ता, तथाऽपि ‘अष्टानां’ इतिपदं ‘छत्रिणो गच्छन्ति’ इति न्यायेन बोद्धव्यम्| किंवा, अष्टानां हेतुलिङ्गोपशान्तय इति योजनीयम्; असाध्यता यथायोग्यतयैव बोद्धव्या| पृथक्त्वेन चैकैकशश्चेति पृथगेकैकशः| तेन, पृथक्त्वेन सर्वसाधारणहेत्वादयो निदानस्थानादावुक्ताः, तथैकैकशश्च ज्वरादीनां हेतुलिङ्गोपशान्तयः स्वे स्वे अध्याये उक्ताः| अत्र च लिङ्गग्रहणेन पूर्वलिङ्गग्रहणम्, उपशान्तिग्रहणेन चोपशयग्रहणं, सम्प्राप्तेस्तु प्रतिरोगमभिधानादग्रहणं व्याख्येयम्| हेतुपर्यायनामानीति ‘हेतुर्निमित्तं’ (नि.अ.१) इत्यादिना, व्याधिपर्यायनामानीति तथा लक्षणपर्यायनामानीति चाद्याध्यायोक्तान्येव ज्ञेयानि; सम्प्राप्तेस्तु ‘सम्प्राप्तिर्जातिरागतिः’ (नि.अ.१) इति नामकथनं लक्षणप्रयोजकमेव प्रायः, तेनेह न सङ्गृहीतम्| किंवा हेतव इत्यादिस्थानसङ्ग्रह एव, अपस्माराध्यायार्थसङ्ग्रहस्तु स्थानसङ्ग्रहेणैवाव्यवहितेन कृतत्वान्न पुनः पृथक्कृतः| तत्र हेतव इत्यादि सर्वरोगहेत्वादिसङ्ग्रहणम्| अस्मिन् पक्षे पृथक्त्वेनेति ज्वरादीनामित्यनेन सम्बध्यते, एकैकशश्चेति हेतुलिङ्गोपशयशान्तिभिः सम्बध्यते| सङ्ग्रहेणेति वचनाच्चिकित्सितप्रपञ्चनीयं निदानं सूचयति| केचिदत्र निदीयते निबध्यते हेत्वादिपञ्चकमनेनेति निदानमिति निदानशब्दव्युत्पत्तिं कुर्वन्ति, निदानशब्देन च गवां दोहनकालनिबन्धनरज्जुरुच्यते इति ब्रुवते| ज्वरनिदाने च निदानशब्दो व्याकृत एव||४२-४४||
Adhikarana puShpikA · Śloka 8
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते निदानस्थाने अपस्मारनिदानं नामाष्टमोऽध्यायः||८|| इति चरकसंहितायां द्वितीयं निदानस्थानं समाप्तम्|
🔊 Audio coming soon
इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यटीकायामायुर्वेददीपिकायां निदानस्थानेऽपस्मारनिदानं नामाष्टमोऽध्यायः||८||