Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

4. garbhavyākaraṇaśārīram

Adhikarana 1 (1-2) · Śloka 2

अथातो गर्भव्याकरणं शारीरं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||

🔊 Audio coming soon

गर्भावक्रान्तिशारीरानन्तरमवक्रान्तस्य गर्भस्य व्याकरणार्हत्वाद्गर्भव्याकरणं वक्तुं युज्यत इत्याह- अथेत्यादि| गर्भव्याकरणं गर्भविवरणमित्यर्थः||१-२||

Adhikarana 2 (3) · Śloka 3

अग्निः सोमो वायुः सत्त्वं रजस्तमः पञ्चेन्द्रियाणि भूतात्मेति प्राणाः ||३||

🔊 Audio coming soon

तत्र प्राणास्त्वक्कलादयश्च विवरणीयाः; तेषु प्राणानामतीव देहस्थितिहेतुत्वात् प्रागुपादानमाह- अग्निरित्यादि| अग्निरत्र पाचकभ्राजकालोचकरञ्जकसाधकानां पाञ्चभौतिकानां सर्वधात्वनुगानां चोष्मणां शक्तिरूपतयाऽवस्थितो वाचोऽधिदैवत्वमापन्नो बोद्धव्यः| श्लेष्मरसशुक्रादीनां तोयात्मकानां भावानां रसनेन्द्रियस्य च शक्तिरूपतयाऽवस्थितो मनसोऽधिदैवत्वमापन्नः सोम इति| वायुः पञ्चात्मकः प्राणादिभेदेन| सत्त्वरजस्तमांसि तु प्रकृतेरष्टरूपाया गुणाः| इन्द्रियाणि श्रवणदर्शनस्पर्शनरसनघ्राणानीति पञ्च| भूतात्मा शुभाशुभकर्मभिः परिगृहीतः कर्मपुरुषः| एते चाग्नीषोमादयः प्राणयन्ति जीवयन्तीति प्राणाः| तत्राग्निस्तावदाहारपाकादिकर्मणा प्राणयति, सोमश्च सौम्यधातोरोजःप्रभृतेः पोषणेन, वायुश्च दोषधातुमलादीनां सञ्चारणेनोच्छ्वासनिःश्वासाभ्यां च, सत्त्वं रजस्तमश्च मनोरूपतया परिणतं भूतात्मनः शरीरान्तरग्रहणमोक्षणे हेतुरिति तदपि प्राणयति, पञ्चेन्द्रियाणि चक्षुरादीनि रूपादिग्रहणकर्मणा प्राणयन्ति, एवं भूतात्मा कर्मपुरुषोऽप्यशेषस्यैव कर्मराशेश्चेतनाहेतुरिति प्राणयति||३||

Adhikarana 3 (4) · Śloka 4

तस्य खल्वेवम्प्रवृत्तस्य शुक्रशोणितस्याभिपच्यमानस्य क्षीरस्येव सन्तानिकाः सप्त त्वचो भवन्ति | तासां प्रथमाऽवभासिनी नाम, या सर्वान् वर्णानवभासयति पञ्चविधां च छायां प्रकाशयति, सा व्रीहेरष्टादशभागप्रमाणा, सिध्मपद्मकण्टकाधिष्ठाना; द्वितीया लोहिता नाम, षोडशभागप्रमाणा, तिलकालकन्यच्छव्यङ्गाधिष्ठाना; तृतीया श्वेता नाम, द्वादशभागप्रमाणा, चर्मदलाजगल्लीमषकाधिष्ठाना; चतुर्थी ताम्रा नामाष्टभागप्रमाणा, विविधकिलासकुष्ठाधिष्ठाना; पञ्चमी वेदिनी नाम पञ्चभागप्रमाणा, कुष्ठविसर्पाधिष्ठाना; षष्ठी रोहिणी नाम व्रीहिप्रमाणा, ग्रन्थ्यपच्यर्बुदश्लीपदगलगण्डाधिष्ठाना; सप्तमी मांसधरा नाम व्रीहिद्वयप्रमाणा, भगन्दरविद्रध्यर्शोऽधिष्ठाना | यदेतत् प्रमाणं निर्दिष्टं तन्मांसलेष्ववकाशेषु, न ललाटे सूक्ष्माङ्गुल्यादिषु च; यतो वक्ष्यत्युदरेषु- ‘व्रीहिमुखेनाङ्गुष्ठोदरप्रमाणमवगाढं विध्येत्’ (चि.१४) इति ||४||

🔊 Audio coming soon

प्राणसद्भाव एव शुक्रशोणितस्य परिणामेन त्वगादिसम्भव इत्यनन्तरं त्वगादिव्याकरणं कुर्वन्नाह- तस्येत्यादि| तस्य शुक्रशोणितस्य| एवम्प्रवृत्तस्य भूतात्माधिष्ठितस्य| तासामित्यादि| सर्ववर्णान् गौरादिकान्| अवभासयतीति ‘भ्राजकेनाग्निना’ इति शेषः| पञ्चविधां पञ्चात्मिकां, पञ्चमहाभूतकृतत्वात्| चशब्दात् प्रभाऽपि ग्राह्या| “आसन्ना लक्ष्यते च्छाया प्रभा दूरात् प्रकाशते” (च.इ.७) इति तयोर्भेदः| तस्यास्त्वचः प्रमाणं निर्दिशन्नाह- सेत्यादि| व्रीहिरत्र यवः, प्रत्येकं व्रीहिविस्तारस्य विंशतिर्भागाः परिकल्पनीयाः, ते चाष्टादश भागा अवभासिन्याः प्रमाणम्, एवं वक्ष्यमाणेष्वपि विंशतिभागेषु षोडशप्रभृतयो भागा बोद्धव्याः| अङ्गुष्ठोदरप्रमाणमिति एतेनैतदुक्तं भवति- सप्तानां त्वचां समुदायेनाङ्गुष्ठोदरप्रमाणमस्ति; अङ्गुष्ठोदरं तु विंशतितमभागोनषड्यवप्रमाणम्||४||

Adhikarana 4 (5) · Śloka 5

कलाः खल्वपि सप्त भवन्ति धात्वाशयान्तरमर्यादाः ||५||

🔊 Audio coming soon

कला इत्यादि| दधतीति धातवो रसरक्तमांसादयः, कफपित्तपुरीषाण्यपि प्राकृतानि स्वकर्मणा दधतीति धातवः, तेषामाशया अवस्थानप्रदेशा धात्वाशयाः, तेषामन्तरेषु मर्यादाः सीमाभूता इत्यर्थः||५||

Adhikarana 5 (6-7) · Śloka 7

भवतश्चात्र- यथा हि सारः काष्ठेषु छिद्यमानेषु दृश्यते | तथाहि धातुर्मांसेषु छिद्यमानेषु दृश्यते ||६|| स्नायुभिश्च प्रतिच्छन्नान् सन्ततांश्च जरायुणा | श्लेष्मणा वेष्टितांश्चापि कलाभागांस्तु तान् विदुः ||७||

🔊 Audio coming soon

तासामन्तःस्थितत्वेनाप्रत्यक्षाणामस्तित्वं प्रत्युपमानं प्रमाणं निर्दिशन्नाह- भवत इत्यादि| एतेन कलासाधिष्ठानपृथग्धातूपलम्भकार्येणाव्यक्तमेव कलानामस्तित्वं साधितं भवेत्| तासामुपष्टम्भकं निर्दिशन्नाह- स्नायुभिरित्यादि| कलाभागान् कलाविभागविशेषान्| सन्ततान् सम्यक्प्रकारेण व्याप्तान्| जरायुरुल्बाकारो येन वेष्टिताः प्राणिनो जायन्ते; कलावेष्टकोऽपि तद्वदेव| वृद्धवाग्भटेन कलास्वरूपमभिहितम्| यथा- “यस्तु धात्वाशयान्तरेषु क्लेदोऽवतिष्ठते स यथास्वमूष्मभिर्विपक्वः स्नायुश्लेष्मजरायुच्छन्नः काष्ठ इव सारो धातुरसशेषोऽल्पत्वात् कलासञ्ज्ञः” (अ.सं.शा.५) इति||६-७||

Adhikarana 6 (8) · Śloka 8

तासां प्रथमा मांसधरा, यस्यां मांसे सिरास्नायुधमनीस्रोतसां प्रताना भवन्ति ||८||

🔊 Audio coming soon

तासामित्यादि| यस्यां कलायामधिष्ठिते मांसे सिरादीनां प्रताना विस्तारा भवन्ति||८||

Adhikarana 7 (9) · Śloka 9

यथा बिसमृणालानि विवर्धन्ते समन्ततः | भूमौ पङ्कोदकस्थानि तथा मांसे सिरादयः ||९||

🔊 Audio coming soon

अमुमेवार्थं दृष्टान्तेन द्रढयन्नाह- यथा बिसमृणालानीत्यादि| तथा मांसे इत्यादि| तथा प्रथमकलायां मांसस्थाः सिरादयो भवन्ति| ननु, रसानन्तरं रक्तं, ततो मांसं, तत् कथं प्रागेव मांसधरा पठिता, ततो रक्तधरेति? उच्यते, पोषणे क्रमोऽयं नतु धारणे; अत एव यस्यामित्याधारत्वेन कला निर्दिष्टा||९||

Adhikarana 8 (10) · Śloka 10

द्वितीया रक्तधरा मांसस्याभ्यन्तरतः, तस्यां शोणितं विशेषतश्च सिरासु यकृत्प्लीह्नोश्च भवति ||१०||

🔊 Audio coming soon

द्वितीयेत्यादि||१०||

Adhikarana 9 (11) · Śloka 11

वृक्षाद्यथाभिप्रहतात् क्षीरिणः क्षीरिमावहेत् | मांसादेवं क्षतात् क्षिप्रं शोणितं सम्प्रसिच्यते ||११||

🔊 Audio coming soon

अत्र दृष्टान्तेन दार्ष्टान्तिकं द्रढयन्नाह- वृक्षादित्यादि| सम्प्रसिच्यते प्रस्रवतीत्यर्थः||११||

Adhikarana 10 (12) · Śloka 12

तृतीया मेदोधरा; मेदो हि सर्वभूतानामुदरस्थमण्वस्थिषु च, महत्सु च मज्जा भवति ||१२||

🔊 Audio coming soon

तृतीयेत्यादि| अण्वस्थिषु अल्पास्थिषु| ननु, मज्जा अस्थ्नामन्तर्भवति कथं मेदस्तदन्तरित्याह- महत्स्वित्यादि| अण्वस्थिषु मेदः, महत्सु मज्जेति||१२||

Adhikarana 11 (13) · Śloka 13

स्थूलास्थिषु विशेषेण मज्जा त्वभ्यन्तराश्रितः | अथेतरेषु सर्वेषु सरक्तं मेद उच्यते | शुद्धमांसस्य यः स्नेहः सा वसा परिकीर्तिता ||१३||

🔊 Audio coming soon

गद्योक्तमर्थं श्लोकेन स्पष्टीकुर्वन्नाह- स्थूलेत्यादि| इतरेष्वल्पास्थिषु सर्वेषु| ननु, मेदोमज्जानुकारी उपधातुर्वसाख्यः क इत्याह- शुद्धेत्यादि||१३||

Adhikarana 12 (14-15) · Śloka 15

चतुर्थी श्लेष्मधरा सर्वसन्धिषु प्राणभृतां भवति ||१४|| स्नेहाभ्यक्ते यथा ह्यक्षे चक्रं साधु प्रवर्तते | सन्धयः साधु वर्तन्ते संश्लिष्टाः श्लेष्मणा तथा ||१५||

🔊 Audio coming soon

तया धृतस्य श्लेष्मणो गुणकर्माणि दर्शयन्नाह- स्नेहेत्यादि| अक्ष इति चक्रच्छिद्रान्तर्गतकाष्ठमित्यर्थः||१४-१५||

Adhikarana 13 (16-17) · Śloka 17

पञ्चमी पुरीषधरा नाम; याऽन्तःकोष्ठे मलमभिविभजते पक्वाशयस्था ||१६|| यकृत्समन्तात् कोष्ठं च तथाऽन्त्राणि समाश्रिता | उण्डु(न्दु)कस्थं विभजते मलं मलधरा कला ||१७||

🔊 Audio coming soon

पञ्चमीत्यादि| अन्तःकोष्ठ इति कोष्ठस्यान्तर्मध्यमन्तःकोष्ठं, पुनस्तस्मिन्मलं मूत्रपुरीषरूपतया विभजति| गयी तु ‘अन्तःकोष्ठे कोष्ठमध्ये, तत्रापि रसविभागे किट्टस्य पुरीषत्वात् तत् पुरीषं कोष्ठे विभजति कोष्ठात् पृथक्करोति; स चात्र पुरीषविभागोऽग्निमारुतकृतोऽपि; तत्राग्निकृतो यथा- ‘विवेचयति च रसमूत्रपुरीषाणि’ (सू.२१), मारुतकृतो यथा- ‘सोऽन्नं पचति तज्जांश्च विशेषान्विविनक्ति हि’ (नि.१) इति व्याख्याति| पक्वाशयस्थेति पुरीषस्य पक्वाशयस्थितत्वात्| कोष्ठः पुनरामपक्वाशयाश्रयः; तथा च कोष्ठलक्षणं- “स्थानान्यामाग्निपक्वानां मूत्रस्य रुधिरस्य च| हृदुण्डुकं(कः) फुप्फुसश्च कोष्ठ इत्यभिधीयते” (चि.२) इति| तेन कोष्ठस्थिताऽपि पुरीषस्य पक्वाशयस्थितत्वाद्बाहुल्येन पक्वाशयस्था कथ्यन्ते| एतदेव समस्तकोष्ठस्थितत्वं श्लोकेन स्पष्टीकुर्वन्नाह- यकृदित्यादि| समन्तात् सर्वतो यकृतादिकं समाश्रिता, उण्डु(न्दु)कस्थं मलं विभजते| तत्र यकृद्ग्रहणं रक्ताधारसाम्येन प्लीह्न उपलक्षणं यकृत्समीपानां हृदयादीनां च, उण्डुकग्रहणेन सान्निध्याद्गुदो गृह्यते, तेनोर्ध्वं यकृदादि व्यवस्थितं , अधस्ताद्गुदपर्यन्तं कोष्ठं समन्तात् समाश्रिता| वृद्धवाग्भटेनाप्युक्तं- “पञ्चमी पुरीषधरा, सा ह्यन्त्रामपक्वाशयाश्रया, तत्रोण्डुकस्थं मलं विभजति” (अ.सं.शा.५) इति| उण्डुकः ‘पोट्टलक’ इति लोके| चरके च पुरीषाधारशब्देनोण्डुकः प्रतिपादितः, अत एव पुरीषधरेति नामास्याः| मलं विभजते मूत्रपुरीषरूपतया विभागं करोति| गयी तु, विभजते तस्मात् कोष्ठात् पृथक्करोतीति व्याख्याति||१६-१७||

Adhikarana 14 (18) · Śloka 18

षष्ठी पित्तधरा ; या चतुर्विधमन्नपानमामाशयात् प्रच्युतं पक्वाशयोपस्थितं धारयति ||१८||

🔊 Audio coming soon

षष्ठीत्यादि| पित्तमत्रान्तरग्निसञ्ज्ञकम्| आमाशयात् प्रच्युतं कफाशयाद्भ्रष्टं, पक्वाशयोपस्थितं पक्वाशयगमनायोपस्थितं पित्तस्थानं सम्प्राप्तं, धारयति ‘पाकार्थं’ इति शेषः| तथा च सङ्ग्रहः- “षष्ठी पित्तधरा नाम पक्वामाशयमध्यस्था, सा ह्यन्तरग्न्यधिष्ठानतयाऽऽमपक्वाशययोर्मध्ये चतुर्विधमन्नं बलेन विधार्य पित्ततेजसा शोषयन्ती पचति” (अ.सं.शा.५) इति||१८||

Adhikarana 15 (19) · Śloka 19

अशितं खादितं पीतं लीढं कोष्ठगतं नृणाम् | तज्जीर्यति यथाकालं शोषितं पित्ततेजसा ||१९||

🔊 Audio coming soon

एतमेवार्थं श्लोकेन दर्शयन्नाह- अशितमित्यादि| अश भोजने, खादृ भक्षणे, धेट् पा पाने, लिह आस्वादने| तदन्नमशितादिविशेषणाक्रान्तमन्नं जीर्यति| यथाकालं कालानतिक्रमेण तीक्ष्णमध्यमन्दाग्निषु मात्राद्रव्यगुरुलघूचितकालानतिक्रमेण||१९||

Adhikarana 16 (20-21) · Śloka 21

सप्तमी शुक्रधरा, या सर्वप्राणिनां सर्वशरीरव्यापिनी ||२०|| यथा पयसि सर्पिस्तु गूढश्चेक्षौ रसो यथा | शरीरेषु तथा शुक्रं नृणां विद्याद्भिषग्वरः ||२१||

🔊 Audio coming soon

शुक्रस्य सर्वाङ्गव्याप्तित्वे उपमानं प्रमाणं दर्शयन्नाह- यथेत्यादि| पयोदृष्टान्तोऽल्पमैथुनत्वाद्बहुशुक्रे, इक्षुदृष्टान्तस्त्वतिपीडनशुक्रक्षरणत्वान्मन्दशुक्रे पुंसि||२०-२१||

Adhikarana 17 (22) · Śloka 22

द्व्यङ्गुले दक्षिणे पार्श्वे बस्तिद्वारस्य चाप्यधः | मूत्रस्रोतःपथाच्छुक्रं पुरुषस्य प्रवर्तते ||२२||

🔊 Audio coming soon

तस्यैवेदानीं सर्वाङ्गव्यापिनोऽपि क्षरणमार्गमाह- द्व्यङ्गुले इत्यादि| वृद्धवाग्भटेनोक्तम्- “सप्तमी शुक्रधरा द्व्यङ्गुले दक्षिणे पार्श्वे बस्तिद्वारस्य चाधो मूत्रमार्गमाश्रिता सकलशरीरव्यापिनी शुक्रं प्रवर्तयति” (अ. सं. शा. ५) इति||२२||

Adhikarana 18 (23) · Śloka 23

कृत्स्नदेहाश्रितं शुक्रं प्रसन्नमनसस्तथा | स्त्रीषु व्यायच्छतश्चापि हर्षात्तत् सम्प्रवर्तते ||२३||

🔊 Audio coming soon

ननु, यथा पयसि संलीनं सर्पिरेवं शरीरसंलीनं शुक्रं कथं पृथग्भूय मूत्रमार्गेण क्षरतीत्याह- कृत्स्नेत्यादि| प्रसन्नमनसः क्रोधादिरहितचित्तस्य, तथा स्त्रीषु व्यायच्छतो व्यायामं कुर्वतो रतं कुर्वत इत्यर्थः||२३||

Adhikarana 19 (24) · Śloka 24

गृहीतगर्भाणामार्तववहानां स्रोतसां वर्त्मान्यवरुध्यन्ते गर्भेण, तस्माद्गृहीतगर्भाणामार्तवं न दृश्यते; ततस्तदधः प्रतिहतमूर्ध्वमागतमपरं चोपचीयमानमपरेत्यभिधीयते; शेषं चोर्ध्वतरमागतं पयोधरावभिप्रतिपद्यते, तस्माद्गर्भिण्यः पीनोन्नतपयोधरा भवन्ति ||२४||

🔊 Audio coming soon

कस्माद्गृहीतगर्भाणां गर्भग्रहणकालादूर्ध्वमाप्रजननादार्तवं न दृश्यते? इत्याह- गृहीतेत्यादि| वर्त्मान्यवरुध्यन्ते मुखान्यवरुध्यन्ते| अपराममलामित्याहुः स्त्रियः||२४||

Adhikarana 20 (25) · Śloka 25

गर्भस्य यकृत्प्लीहानौ शोणितजौ, शोणितफेनप्रभवः फुप्फुसः , शोणितकिट्टप्रभव उण्डुकः ||२५||

🔊 Audio coming soon

गर्भस्येत्यादि| यकृत् कालखण्डं दक्षिणपार्श्वस्थं, प्लीहा अनेनैव नाम्ना प्रसिद्धो वामपार्श्वस्थितः, यकृत्प्लीहानावित्युपलक्षणं, तेन क्लोमापि शोणितजम्, तथा च वृद्धवाग्भटः- “रक्तादनिलयुक्तात् कालीयकम्” (अ.सं.शा.५) इति| शोणितेत्यादि| फुप्फुसो हृदयनाडिकालग्नः स्वनामख्यातः| शोणितकिट्टेत्यादि| उण्डुकः पोट्टलकः||२५||

Adhikarana 21 (26-30) · Śloka 30

असृजः श्लेष्मणश्चापि यः प्रसादः परो मतः | तं पच्यमानं पित्तेन वायुश्चाप्यनुधावति ||२६|| ततोऽस्यान्त्राणि जायन्ते गुदं बस्तिश्च देहिनः | उदरे पच्यमानानामाध्मानाद्रुक्मसारवत् ||२७|| कफशोणितमांसानां साराज्जिह्वा प्रजायते | यथार्थमूष्मणा युक्तो वायुः स्रोतांसि दारयेत् ||२८|| अनुप्रविश्य पिशितं पेशीर्विभजते तथा | मेदसः स्नेहमादाय सिरास्नायुत्वमाप्नुयात् ||२९|| सिराणां तु मृदुः पाकः स्नायूनां च ततः खरः | आशय्याभ्यासयोगेन करोत्याशयसम्भवम् ||३०||

🔊 Audio coming soon

अन्त्रादिकोत्पत्तिं दर्शयन्नाह- असृज इत्यादि| आध्मानात् पच्यमानानां वायुनाऽग्नेः समिन्धनात् पच्यमानानामित्यर्थः| गयी तु, ‘हृदये पच्यमानानाम्’ इति पाठं पठति| यथार्थमित्यादि| ऊष्मणा पित्तेन सह युक्तो वायुः नवैव स्रोतांसि दारयेत् कुर्यात्| कथं? यथार्थं; यथाप्रयोजनमित्यर्थः| अनुप्रविश्येत्यादि| वायुः पिशितं मांसमनुप्रविश्य पेशीर्विभजते, पेशी मांसखण्डः | मेदस इत्यादि| सिरास्नायुत्वमाप्नुयादिति सिराः स्नायूंश्च वायुः कुर्यादित्यर्थः| आशय्येत्यादि| आशय्य अभ्यासयोगेन वायुः स्थितिं कृत्वेत्यर्थः||२६-३०||

Adhikarana 22 (31-32) · Śloka 32

रक्तमेदःप्रसादाद्वृक्कौ; मांसासृक्कफमेदःप्रसादाद्वृषणौ; शोणितकफप्रसादजं हृदयं, यदाश्रया हि धमन्यः प्राणवहाः; तस्याधो वामतः प्लीहा फुप्फुसश्च, दक्षिणतो यकृत् क्लोम च; तद्विशेषेण चेतनास्थानम्, अतस्तस्मिंस्तमसाऽऽवृते सर्वप्राणिनः स्वपन्ति ||३१|| भवति चात्र- पुण्डरीकेण सदृशं हृदयं स्यादधोमुखम् | जाग्रतस्तद्विकसति स्वपतश्च निमीलति ||३२||

🔊 Audio coming soon

रक्तेत्यादि| प्रसादः सारः| वृक्कौ कुक्षिगोलकौ| मांसेत्यादि| वृषणावण्डौ| शोणितेत्यादि| तस्य हृदयस्य अधो वामतः प्लीहा फुप्फुसश्च; दक्षिणतो यकृत् क्लोम चेति क्लोम तिलकम्| तद् हृदयं विशेषेण चेतनास्थानं चैतन्यास्पदं, सामान्येन तु सकलशरीरमेव चेतनास्थानम्| तदुक्तं चरके-“वेदनानामधिष्ठानं मनो देहश्च सेन्द्रियः| केशलोमनखाग्रान्तर्मलद्रवगुणैर्विना” (च.शा.१) इति| चेतनासहचरितं मनोऽपि विशेषेण हृदयाधिष्ठानं मतम्| अतस्तस्मिन् हृदये तमसा तमोगुणेनोच्छ्रितेन आवृते निरुद्धे सति, सर्वप्राणिनः स्वपन्ति| तस्याकारं दर्शयन्नाह- पुण्डरीकेणेत्यादि| हृदयं कमलमुकुलाकारमधोमुखम्||३१-३२||

Adhikarana 23 (33) · Śloka 33

निद्रां तु वैष्णवीं पाप्मानमुपदिशन्ति, सा स्वभावत एव सर्वप्राणिनोऽभिस्पृशति | तत्र यदा सञ्ज्ञावहानि स्रोतांसि तमोभूयिष्ठः श्लेष्मा प्रतिपद्यते तदा तामसी नाम निद्रा सम्भवत्यनवबोधिनी, सा प्रलयकाले; तमोभूयिष्ठानामहःसु निशासु च भवति, रजोभूयिष्ठानामनिमित्तं, सत्त्वभूयिष्ठानामर्धरात्रे; क्षीणश्लेष्मणामनिलबहुलानां मनःशरीराभितापवतां च नैव, सा वैकारिकी भवति ||३३||

🔊 Audio coming soon

अथ केयं निद्रा? तामाह- निद्रामित्यादि| विष्णोरियं वैष्णवी मायैव| पाप्मानं कस्मादामनन्ति? कृत्स्नशुभव्यापारनिरोधात्| यद्यपि तन्त्रान्तरीयैः सप्तविधा निद्रा पठिता तथाऽपि त्रिविधैव- तामसी, स्वाभाविकी, वैकारिकी चेति भेदेन; ताः क्रमेण दर्शयन्नाह- तत्र यदेत्यादि| यद्यपि सर्वासामपि निद्राणां तमो हेतुस्तथाऽपि प्रकृष्टतमस्त्वात् तामसीयं निद्रा कथ्यते| स्वाभाविकीमाह- तम इत्यादि| अनिमित्तमनियतकालं, चलत्वाद्रजसः कदाचिद्दिवा कदाचिद्रात्रावित्यर्थः| सत्त्वभूयिष्ठानामर्धरात्र इति तस्मिन् काले किञ्चिदल्पीभूतं सत्त्वमुत्कटं च तमो भवति, तस्मादर्धरात्रे सात्त्विकाः स्वपन्ति| वैकारिकीमाह- क्षीणेत्यादि| एवम्भूतानां पुरुषाणां निद्रा नैव भवति, यदि च भवति तदा वैकारिकी नाम निद्रा भवति| ननु, यदा लङ्घनश्रमादिभिर्वायुर्वर्धते श्लेष्मा च क्षीयते तदा कथं निद्रोदेति? उच्यते- मनसः क्लान्तत्वाद्भूतात्मनो विषयनिवृत्तौ प्राणिनः स्वपन्ति| तदुक्तं चरके- “यदा तु मनसि क्लान्ते कर्मात्मानः क्लमान्विताः| विषयेभ्यो निवर्तन्ते तदा स्वपिति मानवः” (च.सू.२१) इति||३३||

Adhikarana 24 (34-35) · Śloka 35

भवतश्चात्र- हृदयं चेतनास्थानमुक्तं सुश्रुत ! देहिनाम् | तमोभिभूते तस्मिंस्तु निद्रा विशति देहिनम् ||३४|| निद्राहेतुस्तमः, सत्त्वं बोधने हेतुरुच्यते | स्वभाव एव वा हेतुर्गरीयान् परिकीर्त्यते ||३५||

🔊 Audio coming soon

इदानीं गद्योक्तस्यार्थस्य सुखबोधनार्थं श्लोकावाह- भवतश्चात्रेत्यादि| सत्त्वादीनां सदा सान्निध्यात् परस्परविरोधिनोः स्वापबोधयोरनुपपत्तिं मन्यमान आह- स्वभाव एव वेत्यादि||३४-३५||

Adhikarana 25 (36) · Śloka 36

पूर्वदेहानुभूतांस्तु भूतात्मा स्वपतः प्रभुः | रजोयुक्तेन मनसा गृह्णात्यर्थाञ् शुभाशुभान् ||३६||

🔊 Audio coming soon

ननु, बोधाभावः स्वापः, स्वापाभावो बोधः, तत् कथं स्वपतः स्वप्नदर्शनं भवतीत्याह- पूर्वेत्यादि| ननु च, यः कश्चिदर्थावबोधः स सर्वोऽपि बाह्यार्थावलम्बनो दृष्टः, न च स्वप्ने बाह्यार्थस्य सत्त्वं विद्यते, तत् कथं तत्रार्थावबोध इति? उच्यते- स्मृतिरेवेयं पूर्वानुभूतेऽर्थे, न चाननुभूतविषया परिस्फुरति| ननु, तादृग्विधस्यार्थस्यादृष्टाश्रुताननुभूतत्वात् कथं स्मृतित्वमित्याह- पूर्वदेहानुभूतांस्त्वित्यादि| एतच्चोपलक्षणम्, अतोऽनेनापि देहेनानुभूतान्| भूतात्मेति किम्भूतैर्घटित आत्मा शरीरलक्षणः? उत भूतैरुपलक्षित आत्मा भूतात्मा क्षेत्रज्ञः? इत्याह- स्वपतः प्रभुरिति|- स्वपतः स्वापयुक्तस्य शरीरस्य प्रभुः स्वामी क्षेत्रज्ञ इत्यर्थः, तद्वशेन सर्वक्रियाप्रवृत्तेः| कथं पुनरर्थानिन्द्रियग्राह्यान् निद्राणेष्विन्द्रियेषु गृह्णातीत्याह- मनसेति| मनसः सर्वदैव सम्भवात् सदा स्वप्नदर्शनप्रसङ्ग इत्याह- रजोयुक्तेनेति; रजःप्रेरितेनेत्यर्थः, रजसः प्रवर्तकत्वात्; तमोयुक्तेन च मनसा न किमपि सुप्तः पश्यति, तमस आवरणात्मकत्वात्||३६||

Adhikarana 26 (37) · Śloka 37

करणानां तु वैकल्ये तमसाऽभिप्रवर्धिते | अस्वपन्नपि भूतात्मा प्रसुप्त इव चोच्यते ||३७||

🔊 Audio coming soon

इन्द्रियग्रामस्य तमसा वैकल्ये आपादिते आत्मा निर्विकारोऽपि सुप्त इव भवतीति प्रतिपादयन्नाह- करणानामित्यादि| अभिप्रवर्धित इति अभि सर्वतो बहिरन्तश्च प्रवर्धिते| तत्र बहिरिन्द्रियाणां विषयभूतेऽर्थे, अन्तर्मनोर्थेऽपि सुखदुःखादौ||३७||

Adhikarana 27 (38) · Śloka 38

सर्वर्तुषु दिवास्वापः प्रतिषिद्धोऽन्यत्र ग्रीष्मात्, प्रतिषिद्धेष्वपि तु बालवृद्धस्त्रीकर्शितक्षतक्षीणमद्यनित्ययानवाहनाध्वकर्मपरिश्रान्तानामभुक्तवतां मेदःस्वेदकफरसरक्तक्षीणानामजीर्णिनां च मुहूर्तं दिवास्वपनमप्रतिषिद्धम् | रात्रावपि जागरितवतां जागरितकालादर्धमिष्यते दिवास्वपनम् | विकृतिर्हि दिवास्वप्नो नाम; तत्र स्वपतामधर्मः सर्वदोषप्रकोपश्च, तत्प्रकोपाच्च कासश्वासप्रतिश्यायशिरोगौरवाङ्गमर्दारोचकज्वराग्निदौर्बल्यानि भवन्ति; रात्रावपि जागरितवतां वातपित्तनिमित्तास्त एवोपद्रवा भवन्ति ||३८||

🔊 Audio coming soon

दिवास्वप्नस्य प्रवृत्तिनिवृत्ती आह- सर्वेत्यादि| अन्यत्र ग्रीष्मादिति ग्रीष्मं वर्जयित्वा| प्रतिषिद्धेष्वपीत्यादि प्रतिषिद्धेष्वपि ऋतुषु| मुहूर्तं घटिकाद्वयम्| रात्रावित्यादि| कस्मादर्धमेव स्वप्यान्नाधिकमिति दर्शयन्नाह- विकृतिरित्यादि| सर्वशब्देन रक्तमपि गृह्यते| यद्यपि दिवास्वप्नेऽधर्मस्तथाऽपि शरीररक्षार्थं ग्रीष्मे दिवास्वप्न उक्तः| रात्रावित्यादि| त एव कासश्वासादय एव||३८||

Adhikarana 28 (39-40) · Śloka 40

भवन्ति चात्र- तस्मान्न जागृयाद्रात्रौ दिवास्वप्नं च वर्जयेत् | ज्ञात्वा दोषकरावेतौ बुधः स्वप्नं मितं चरेत् ||३९|| अरोगः सुमना ह्येवं बलवर्णान्वितो वृषः | नातिस्थूलकृशः श्रीमान् नरो जीवेत् समाः शतम् ||४०||

🔊 Audio coming soon

भवन्तीत्यादि| एवमुक्तेन प्रकारेण वर्तमानः| वृषः स्त्रीरमणशक्तियुक्तः| श्रीमान् शरीरशोभायुक्तः||३९-४०||

Adhikarana 29 (41) · Śloka 41

(निद्रा सात्म्यीकृता यैस्तु रात्रौ च यदि वा दिवा|) दिवारात्रौ च ये नित्यं स्वप्नजागरणोचिताः | न तेषां स्वपतां दोषो जाग्रतां वाऽपि जायते ||४१||

🔊 Audio coming soon

ये पुनर्निद्रासात्म्यास्तेषामदोष एव दिवास्वाप इत्यत आह- दिवेत्यादि||४१||

Adhikarana 30 (42-46) · Śloka 46

निद्रानाशोऽनिलात् पित्तान्मनस्तापात् क्षयादपि | सम्भवत्यभिघाताच्च प्रत्यनीकैः प्रशाम्यति ||४२|| निद्रानाशेऽभ्यङ्गयोगो मूर्ध्नि तैलनिषेवणम् | गात्रस्योद्वर्तनं चैव हितं संवाहनानि च ||४३|| शालिगोधूमपिष्टान्नभक्ष्यैरैक्षवसंस्कृतैः | भोजनं मधुरं स्निग्धं क्षीरमांसरसादिभिः ||४४|| रसैर्बिलेशयानां च विष्किराणां तथैव च | द्राक्षासितेक्षुद्रव्याणामुपयोगो भवेन्निशि ||४५|| शयनासनयानानि मनोज्ञानि मृदूनि च | निद्रानाशे तु कुर्वीत तथाऽन्यान्यपि बुद्धिमान् ||४६||

🔊 Audio coming soon

के पुनर्निद्रानाशहेतवस्तानाह- निद्रानाश इत्यादि| अनिलादिभ्यो निद्रानाशः सम्भवतीति सम्बन्धः; स निद्रानाशः प्रत्यनीकैरभ्यङ्गादिभिः प्रशाम्यत्युपशमं याति| कानि पुनः प्रत्यनीकानि? तान्याह- निद्रानाशेऽभ्यङ्गेत्यादि| निद्रानाशेऽभ्यङ्गयोगादिर्हितो भवेत्| संवाहनं मृदुमर्दनम्| ऐक्षवसंस्कृतैरिति खण्डादिसंस्कृतैः| शयनादीनि च मनोज्ञानि निद्रानाशे कुर्वीत| तथाऽन्यान्यपीति प्रावरणादीनि||४२-४६||

Adhikarana 31 (47) · Śloka 47

निद्रातियोगे वमनं हितं संशोधनानि च | लङ्घनं रक्तमोक्षश्च मनोव्याकुलनानि च ||४७||

🔊 Audio coming soon

निद्रातियोगे प्रतीकारमाह- निद्रातियोगे इत्यादि| संशोधनादेव वमने लब्धे यद्वमनस्य पृथगुपादानं तद्विशेषेण निद्रानाशहेत्वर्थम्||४७||

Adhikarana 32 (48) · Śloka 48

कफमेदोविषार्तानां रात्रौ जागरणं हितम् |४८|

🔊 Audio coming soon

रात्रौ विहितः स्वप्नः केषाञ्चिन्निषिध्यत इत्याह- कफेत्यादि|४८|-

Adhikarana 33 (48) · Śloka 48

दिवास्वप्नश्च तृट्शूलहिक्काजीर्णातिसारिणाम् ||४८||

🔊 Audio coming soon

निषिद्धोऽपि दिवास्वप्नः केषाञ्चित् प्रशस्यत इत्याह- दिवेत्यादि| हित इत्यत्रापि सम्बन्धनीयम्||४८||

Adhikarana 34 (49) · Śloka 49

इन्द्रियार्थेष्वसम्प्राप्तिर्गौरवं जृम्भणं क्लमः | निद्रार्तस्येव यस्येहा तस्य तन्द्रां विनिर्दिशेत् ||४९||

🔊 Audio coming soon

निद्रायास्तमोभवाया मोहरूपाया अनुषङ्गात्तत्सदृशीं तन्द्रामप्याह- इन्द्रियेत्यादि| इन्द्रियार्थाः शब्दादयः, तेषामसम्प्राप्तिरग्रहणम्| निद्रार्तस्येव निद्रायुक्तस्येव| परं निद्रायां प्रबोधितस्य क्लमाभावः, तन्द्रायां तु प्रबोधितोऽपि क्लाम्यति, अत एवात्र क्लमग्रहणम्||४९||

Adhikarana 35 (50) · Śloka 50

पीत्वैकमनिलोच्छ्वासमुद्वेष्टन् विवृताननः | यं मुञ्चति सनेत्रास्रं स जृम्भ इति सञ्ज्ञितः ||५०||

🔊 Audio coming soon

इदानीं तन्द्रालक्षणे प्रतिपादितानां जृम्भणादीनां लक्षणमाह- पीत्वेत्यादि| अत्र जृम्भाप्रसङ्गेन केचिच्छिक्कालक्षणं पठन्ति| यथा- “प्राणोदानौ समौ स्यातां मूर्ध्नि स्रोतःपथि स्थितौ| नस्तः प्रवर्तते शब्दः क्षवथुं तं विनिर्दिशेत्”- इति| तच्च टीकाकारैरपठितत्वान्न पठनीयम्||५०||

Adhikarana 36 (51) · Śloka 51

योऽनायासः श्रमो देहे प्रवृद्धः श्वासवर्जितः | क्लमः स इति विज्ञेय इन्द्रियार्थप्रबाधकः ||५१||

🔊 Audio coming soon

क्लममाह- य इत्यादि||५१||

Adhikarana 37 (52) · Śloka 52

सुखस्पर्शप्रसङ्गित्वं दुःखद्वेषणलोलता | शक्तस्य चाप्यनुत्साहः कर्मस्वालस्यमुच्यते ||५२||

🔊 Audio coming soon

क्लमानन्तरं कर्माप्रवृत्तिसाम्यादसूत्रितमप्यालस्यमाह- सुखेत्यादि||५२||

Adhikarana 38 (53-54) · Śloka 54

उत्क्लिश्यान्नं न निर्गच्छेत् प्रसेकष्ठीवनेरितम् | हृदयं पीड्यते चास्य तमुत्क्लेशं विनिर्दिशेत् ||५३|| वक्त्रे मधुरता तन्द्रा हृदयोद्वेष्टनं भ्रमः | न चान्नमभिकाङ्क्षेत ग्लानिं तस्य विनिर्दिशेत् ||५४||

🔊 Audio coming soon

केचिदत्रोत्क्लेशग्लान्योर्लक्षणमाहुः- उत्क्लिश्येत्यादि| एतदपि टीकाकारैरपठितत्वान्न पठनीयम्||५३-५४||

Adhikarana 39 (55) · Śloka 55

आर्द्रचर्मावनद्धं वा यो गात्रं मन्यते नरः | तथा गुरु शिरोऽत्यर्थं गौरवं तद्विनिर्दिशेत् ||५५||

🔊 Audio coming soon

आर्द्रेत्यादि| आर्द्रचर्मावनद्धं वेत्यत्र वाशब्द इवार्थे, तेनार्द्रचर्मावनद्धमिवेत्यर्थः| तद्विनिर्देशेदिति ‘तस्य’ इति शेषः||५५||

Adhikarana 40 (56) · Śloka 56

मूर्च्छा पित्ततमःप्राया, रजःपित्तानिलाद्भ्रमः | तमोवातकफात्तन्द्रा, निद्रा श्लेष्मतमोभवा ||५६||

🔊 Audio coming soon

मोहरूपाया निद्रायाः प्रसङ्गेन तन्द्रादिकं मोहरूपं निर्दिश्य मूर्च्छादिकमपि दर्शयन्नाह- मूर्च्छेत्यादि| भ्रमश्चक्रारूढस्येव भ्रमणम्| लक्षणत उक्तायास्तन्द्राया हेतुतोऽपि निर्देशं कुर्वन्नाह- तम इत्यादि| उक्ताऽपि निद्रा तमसा मनोदोषेण मूर्च्छादिप्रसङ्गेन शरीरदोषेणापि पुनरभिहिता| गयी तु क्लमालस्यादीनां लक्षणं न पठति, असूत्रितत्वेन हेतुना||५६||

Adhikarana 41 (57) · Śloka 57

गर्भस्य खलु रसनिमित्ता मारुताध्माननिमित्ता च परिवृद्धिर्भवति ||५७||

🔊 Audio coming soon

गर्भस्य वृद्धौ पूर्वोक्तं हेतुमनूद्य द्वितीयमपि हेतुं दर्शयन्नाह- गर्भस्येत्यादि| रसनिमित्तेति मातुरिति शेषः| तदुक्तं प्राक्- “मातुस्तु खलु रसवहायां नाड्यां गर्भनाभिनाडी प्रतिबद्धा”- इत्यादिना| मारुताध्माननिमित्ता चेति मारुतेन आध्मानं स्रोतसां पूरणं मारुताध्मानं, तदेव निमित्तं यस्यां सा मारुताध्माननिमित्ता; वक्ष्यमाणेनानलानिलकृतेन गर्भस्रोतसामाध्मानेनाभितो विशालभूतत्वाद्गर्भपरिवृद्धिः||५७||

Adhikarana 42 (58-59) · Śloka 59

भवन्ति चात्र- तस्यान्तरेण नाभेस्तु ज्योतिःस्थानं ध्रुवं स्मृतम् | तदाधमति वातस्तु देहस्तेनास्य वर्धते ||५८|| ऊष्मणा सहितश्चापि दारयत्यस्य मारुतः | ऊर्ध्वं तिर्यगधस्ताच्च स्रोतांस्यपि यथा तथा ||५९||

🔊 Audio coming soon

तत्र स्रोतसामेवाध्मानसम्प्राप्तिं दर्शयन्नाह- भवन्तीत्यादि| तस्य गर्भस्य, नाभेरन्तरेण मध्ये, ज्योतिःस्थानमग्निस्थानं, ध्रुवं निश्चितं स्मृतम्| तच्च वायुराधमति| तेन चाध्मातेन वह्निना समारुतेन स्रोतसामाध्मापनेऽस्य गर्भस्य देहो वर्धते| ज्योतिःस्थानाध्मानेन मध्यस्रोतोवृद्धौ कथं सर्वतो वृद्धिरित्याह- ऊष्मणेत्यादि| यथातथाशब्दावत्रान्तर्भूतवीप्सार्थौ ज्ञातव्यौ, तेनोष्मणा सहितोऽनिलो यथा यथोर्ध्वं तिर्यगधस्ताच्च स्रोतांसि दारयति विवृतानि करोति तथा तथा देहो वर्धत इति पूर्ववाक्यात् सम्बन्धनीयम्||५८-५९||

Adhikarana 43 (60) · Śloka 60

दृष्टिश्च रोमकूपाश्च न वर्धन्ते कदाचन | ध्रुवाण्येतानि मर्त्यानामिति धन्वन्तरेर्मतम् ||६०||

🔊 Audio coming soon

यथा शरीरं वर्धते तथा दृष्ट्यादयोऽपि कथं न वर्धन्ते? इत्याह- दृष्टिरित्यादि| यस्मादेतानि दृष्टिरोमकूपानि ध्रुवाणि निश्चलानि | मर्त्यानां पुरुषाणाम्||६०||

Adhikarana 44 (61) · Śloka 61

शरीरे क्षीयमाणेऽपि वर्धेते द्वाविमौ सदा | स्वभावं प्रकृतिं कृत्वा नखकेशाविति स्थितिः ||६१||

🔊 Audio coming soon

शरीरवृद्धावपि कस्यचिदवयवस्यावृद्धिं प्रतिपाद्य शरीरक्षयेऽपि कस्यचिदभिवृद्धिं दर्शयन्नाह- शरीरे इत्यादि| स्वभावं प्रकृतिं कृत्वा स्वभावं कारणं कृत्वेत्यर्थः||६१||

Adhikarana 45 (62) · Śloka 62

सप्त प्रकृतयो भवन्ति- दोषैः पृथक्, द्विशः, समस्तैश्च ||६२||

🔊 Audio coming soon

प्रकृतिकृतप्रसङ्गेनान्यदपि प्राकृतं रूपं प्रतिपादयितुकामो यादृग्द्विधा प्रकृतिर्यद्धेतुकी यच्चास्याः स्वलक्षणं तत् क्रमेणाह- सप्तेत्यादि| पृथक् तिस्रः, द्विशस्तिस्रः, समस्तैश्चैका, इत्येवं सप्त||६२||

Adhikarana 46 (63) · Śloka 63

शुक्रशोणितसंयोगे यो भवेद्दोष उत्कटः | प्रकृतिर्जायते तेन तस्या मे लक्षणं शृणु ||६३||

🔊 Audio coming soon

सप्तविधत्वं प्रतिपाद्य तस्या उत्पत्तौ हेतुमाह- शुक्रेत्यादि| यो भवेद्दोष उत्कट इति स्वभावस्थितो न प्रकुपितः| द्विविधा ह्युत्कटा वातादयः प्राकृता वैकृताश्च; तत्र प्राकृताः सप्तविधायाः प्रक्रृतेर्हेतुभूताः शरीरैकजन्मानः, वैकृताश्च गर्भव्याघातकाः| गयी त्वन्यथैवाशङ्क्य समादधाति; यथा- “ननु, स्वभावतः शुद्धं बीजं कर्मणा वा समधातुं गर्भं निष्पादयति, अनिलादिदोषदुष्टं तु गर्भजननाय न समर्थमिति शुक्रशोणितशुद्धावुक्तं, तत् कथमुत्कटेन दोषेण प्रकृतिरिति? उच्यते- न हि सर्वमेव बीजं दूषितं किं तर्हि बीजावयवो दूषितः, न चावयवगतदोषेण गर्भप्रतिबन्धो जात्यन्धमूकादेर्गर्भस्य दर्शनात्, तस्माद्य एवांशोबीजस्य दुष्टो भवति तत्कार्यस्यैव गर्भावयवस्य विकृतिरभावो वा भवति; यथा- दृष्ट्यारम्भके बीजभागे दुष्टे जात्यन्धो गर्भो भवति न तु गर्भ एव न भवति, तथा दोषाख्ये बीजभागे दुष्टे तत्कार्यस्यैव गर्भशरीरभावस्य समधातोरपेक्षया विकृतिः स्फुटितकरचरणादिलक्षणा भवति न तु गर्भव्याघातः | तदुक्तं- “शुद्धं स्वभावकर्मभ्यां वाताद्यैर्दुष्टमंशतः| दृष्टं बीजार्थकृद् बीजं तत्र प्रकृतिरुत्तरम्”- इति||६३||

Adhikarana 47 (64-67) · Śloka 67

तत्र वातप्रकृतिः प्रजागरूकः शीतद्वेषी दुर्भगः स्तेनो मत्सर्यनार्यो गन्धर्वचित्तः स्फुटितकरचरणोऽल्परूक्षश्मश्रुनखकेशः क्राथी दन्तखादी च भवति ||६४|| अधृतिरदृढसौहृदः कृतघ्नः कृशपरुषो धमनीततः प्रलापी | द्रुतगतिरटनोऽनवस्थितात्मा वियति च गच्छति सम्भ्रमेण सुप्तः ||६५|| अव्यवस्थितमतिश्चलदृष्टिर्मन्दरत्नधनसञ्चयमित्रः | किञ्चिदेव विलपत्यनिबद्धं मारुतप्रकृतिरेष मनुष्यः ||६६|| (वातिकाश्चाजगोमायुशशाखूष्ट्रशुनां तथा | गृध्रकाकखरादीनामनूकैः कीर्तिता नराः) ||६७||

🔊 Audio coming soon

दोषाणां हि वातस्य प्राधान्यमतस्तत्प्रकृतिलक्षणमाह- तत्रेत्यादि| प्रजागरूकः अतिशयेन जागरणशीलः| दुर्भगः अमनोरमाकारः| स्तेनः चौरः| मत्सरी परगुणासहनशीलः| अनार्यः असत्पुरुषः| गन्धर्वचित्तः गीतादिनिरतः| क्राथी हिंसाशीलः| दन्तखादी सुप्तः सन् दन्तान् किटिकिटायते| अधृतिः अधैर्ययुक्तः| द्रुतगतिरटनः शीघ्रगामी शीघ्रभाषी च भवतीत्यर्थः| अनवस्थितात्मा चञ्चलचित्तः| अव्यवस्थितमतिरनवस्थितबुद्धिनिश्चयः| (अनूकैः शीलैः )||६४-६७||

Adhikarana 48 (68-71) · Śloka 71

पित्तप्रकृतिस्तु स्वेदनो दुर्गन्धः पीतशिथिलाङ्गस्ताम्रनखनयनतालुजिह्वौष्ठपाणिपादतलो दुर्भगो वलीपलितखालित्यजुष्टो बहुभुगुष्णद्वेषी क्षिप्रकोपप्रसादो मध्यबलो मध्यायुश्च भवति ||६८|| मेधावी निपुणमतिर्विगृह्य वक्ता तेजस्वी समितिषु दुर्निवारवीर्यः | सुप्तः सन् कनकपलाशकर्णिकारान् सम्पश्येदपि च हुताशविद्युदुल्काः ||६९|| न भयात् प्रणमेदनतेष्वमृदुः प्रणतेष्वपि सान्त्वनदानरुचिः | भवतीह सदा व्यथितास्यगतिः स भवेदिह पित्तकृतप्रकृतिः ||७०|| (भुजङ्गोलूकगन्धर्वयक्षमार्जारवानरैः | व्याघ्रर्क्षनकुलानूकैः पैत्तिकास्तु नराःस्मृताः ) ||७१||

🔊 Audio coming soon

मेधावीत्यादि| विगृह्य वक्तेति परवाक्यमुच्छिद्य वदितुं शीलः| समितिषु सङ्ग्रामेषु| पलाशः किंशुकः| सान्त्वनम् उपशमः| व्यथितास्यगतिः व्यथितमुखः, मुखपाकत्वात्; धावनक्लेशासहत्वात् पीडावहगमनः||६८-७१||

Adhikarana 49 (72-76) · Śloka 76

श्लेष्मप्रकृतिस्तु दूर्वेन्दीवरनिस्त्रिंशार्द्रारिष्टकशरकाण्डानामन्यतमवर्णः सुभगः प्रियदर्शनो मधुरप्रियः कृतज्ञो धृतिमान् सहिष्णुरलोलुपो बलवांश्चिरग्राही दृढवैरश्च भवति ||७२|| शुक्लाक्षः स्थिरकुटिलालिनीलकेशो लक्ष्मीवान् जलदमृदङ्गसिंहघोषः | सुप्तः सन् सकमलहंसचक्रवाकान् सम्पश्येदपि च जलाशयान् मनोज्ञान् ||७३|| रक्तान्तनेत्रः सुविभक्तगात्रः स्निग्धच्छविः सत्त्वगुणोपपन्नः | क्लेशक्षमो मानयिता गुरूणां ज्ञेयो बलासप्रकृतिर्मनुष्यः ||७४|| (दृढशास्त्रमतिः स्थिरमित्रधनः परिगण्य चिरात् प्रददाति बहु | परिनिश्चितवाक्यपदः सततं गुरुमानकरश्च भवेत् स सदा ||७५|| ब्रह्मरुद्रेन्द्रवरुणैः सिंहाश्वगजगोवृषैः | तार्क्ष्यहंससमानूकाः श्लेष्मप्रकृतयो नराः ) ||७६||

🔊 Audio coming soon

दूर्वेत्यादि| इन्दीवरं नीलोत्पलम्| निस्त्रिंशः खङ्गः| अरिष्टः कृष्णवर्तुलफलो ‘अरीठा’ इति लोके प्रसिद्धः, स चार्द्रः| धृतिमान् धैर्ययुक्तः| सुविभक्तगात्रः सुष्ठु पृथग्भूतसकलावयवः| केचिद्वातादिप्रकृतिषु- “वातिकाश्चाजगोमायुशशाखूष्ट्रशुनां तथा| गृध्रकाकखरादीनामनूकैः कीर्तिता नराः”- इति, तथा- “भुजगोलूकगन्धर्वयक्षमार्जारवानरैः| व्याघ्रर्क्षनकुलानूकाः पैत्तिकास्तु नराः स्मृताः”- इति, तथा- “दृढशास्त्रमतिः स्थिरमित्रधनः परिगण्य चिरात् प्रददाति बहु| परिनिश्चितवाक्यवदः सततं गुरुमानकरश्च भवेत् स सदा-” इति, तथा- “ब्रह्मेन्द्ररुद्रवरुणैः सिंहाश्वगजगोवृषैः| तार्क्ष्यहंससमानूकाः श्लेष्मप्रकृतयो नराः”- इत्येतान् चतुःसङ्ख्याकान् श्लोकान् पठन्ति| ते तु श्लोका निबन्धकारैरपठितत्वान्न पठनीयाः||७२-७६||

Adhikarana 50 (77) · Śloka 77

द्वयोर्वा तिसृणां वाऽपि प्रकृतीनां तु लक्षणैः | ज्ञात्वा संसर्गजा वैद्यः प्रकृतीरभिनिर्दिशेत् ||७७||

🔊 Audio coming soon

संसर्गजाः प्रकृतीराह- द्वयोरित्यादि||७७||

Adhikarana 51 (78) · Śloka 78

प्रकोपो वाऽन्यथाभावो क्षयो वा नोपजायते | प्रकृतीनां स्वभावेन जायते तु गतायुषः ||७८||

🔊 Audio coming soon

ते च प्राकृता भावा अन्यथा न भवन्तीति दर्शयन्नाह- प्रकोप इत्यादि||७८||

Adhikarana 52 (79) · Śloka 79

विषजातो यथा कीटो न विषेण विपद्यते | तद्वत्प्रकृतयो मर्त्यं शक्नुवन्ति न बाधितुम् ||७९||

🔊 Audio coming soon

वातादिप्रकृतीनां ये दोषास्ते कस्मान्न रुजन्तीत्याह- विषेत्यादि| एतदारम्भकदोषमधिकृत्योक्तं, तस्य च बाधकत्वं प्रागेव व्याख्यातम्| शक्नुवन्ति न बाधितुमिति नञयमीषदर्थे, तेन किञ्चिद्बाधितुं शक्नुवन्ति नतु भृशम्| यथा हि विषकीटो विषस्वभावजनितदाहादिना किञ्चिदेव बाध्यते न तु भृशम्, एवं वातादिहेतुजः प्राणिकायो वातादिजेन स्फुटितकरचरणादिकेन दोषेण तथा स्वेददौर्गन्ध्यादिना च किञ्चिदेव बाध्यते| अत एव- “वातलाद्याः सदाऽऽतुराः” (च.सू.७) इति वातादिप्रकृतिषु नित्यातुरत्वमभिहितम्||७९||

Adhikarana 53 (80) · Śloka 80

प्रकृतिमिह नराणां भौतिकीं केचिदाहुः पवनदहनतोयैः कीर्तितास्तास्तु तिस्रः | स्थिरविपुलशरीरः पार्थिवश्च क्षमावाञ् शुचिरथ चिरजीवी नाभसः खैर्महद्भिः ||८०||

🔊 Audio coming soon

एकीयमतमाह- प्रकृतिमित्यादि| पवनदहनतोयैः कीर्तिता इति वातपित्तश्लेष्मलक्षणैः कथिता इत्यर्थः| शेषे द्वे प्रकृती आह- स्थिरेत्यादि| खैर्महद्भिरिति नासाकर्णादिच्छिद्रैर्विपुलैरित्यर्थः| अनेन श्लोकेन पृथिव्यप्तेजोवाय्वाकाशीयामपि प्रकृतिमाहुः| अन्ये तु सा चैकशो द्विशस्त्रिशश्चतुर्भिर्वा भूतैः प्रस्तार्यमाणा बहुधा सञ्जायते इति वदन्ति| उक्तं च- “एकैकेन वदन्ति पञ्च दश तु द्वाभ्यां त्रिभिस्तावतीर्भूतैः पञ्च चतुर्भिरेव भिषजस्त्वेकां समस्तैरपि| एकत्रिंशतमत्र भूमिसलिलस्वाहाप्रियस्पर्शनाकाशैश्च प्रकृतीर्गुणैरपि पुनः प्राहुः स्म सप्ताऽपरा”- इति| गुणैः सत्त्वरजस्तमोभिरेकशो द्विशः समस्तैश्च सप्त महाप्रकृतयो भवन्ति, “सप्त दोषतः, सप्त गुणतः” (रसवैशेषिकसूत्र १सू. ३१) इति नागार्जुनाचार्योक्तत्वात्||८०||

Adhikarana 54 (81-87) · Śloka 88

शौचमास्तिक्यमभ्यासो वेदेषु गुरुपूजनम् | प्रियातिथित्वमिज्या च ब्रह्मकायस्य लक्षणम् ||८१|| माहात्म्यं शौर्यमाज्ञा च सततं शास्त्रबुद्धिता | भृत्यानां भरणं चापि माहेन्द्रं कायलक्षणम् ||८२|| शीतसेवा सहिष्णुत्वं पैङ्गल्यं हरिकेशता | प्रियवादित्वमित्येतद्वारुणं कायलक्षणम् ||८३|| मध्यस्थता सहिष्णुत्वमर्थस्यागमसञ्चयौ | महाप्रसवशक्तित्वं कौबेरं कायलक्षणम् ||८४|| गन्धमाल्यप्रियत्वं च नृत्यवादित्रकामिता | विहारशीलता चैव गान्धर्वं कायलक्षणम् ||८५|| प्राप्तकारी दृढोत्थानो निर्भयः स्मृतिमाञ्छुचिः | रागमोहमदद्वेषैर्वर्जितो याम्यसत्त्ववान् ||८६|| जपव्रतब्रह्मचर्यहोमाध्ययनसेविनम् | ज्ञानविज्ञानसम्पन्नमृषिसत्त्वं नरं विदुः ||८७|| सप्तैते सात्त्विकाः काया... |८८|

🔊 Audio coming soon

सत्त्वादिगुणभेदेन चित्तप्रकृतीर्निर्दिशन्नाह- शौचमित्यादि| इज्या यागः| माहात्म्यमित्यादि| माहात्म्यं महाशयत्वम्| शीतेत्यादि| पैङ्गल्यं पिङ्गाक्षता| हरिकेशता कपिलकेशता| मध्यस्थतेत्यादि| महाप्रसवशक्तित्वं प्रजोत्पादनसामर्थ्यम्| गन्धेत्यादि| विहारशीलता भ्रमणशीलता| प्राप्तेत्यादि|- प्राप्तकारी युक्तकारी| दृढोत्थानो दृढारम्भः||८१-८७||-

Adhikarana 55 (88-93) · Śloka 95

...राजसांस्तु निबोध मे | ऐश्वर्यवन्तं रौद्रं च शूरं चण्डमसूयकम् ||८८|| एकाशिनं चौदरिकमासुरं सत्त्वमीदृशम् | तीक्ष्णमायासिनं भीरुं चण्डं मायान्वितं तथा ||८९|| विहाराचारचपलं सर्पसत्त्वं विदुर्नरम् | प्रवृद्धकामसेवी चाप्यजस्राहार एव च ||९०|| अमर्षणोऽनवस्थायी शाकुनं कायलक्षणम् | एकान्तग्राहिता रौद्रमसूया धर्मबाह्यता ||९१|| भृशमात्रं तमश्चापि राक्षसं कायलक्षणम् | उच्छिष्टाहारता तैक्ष्ण्यं साहसप्रियता तथा ||९२|| स्त्रीलोलुपत्वं नैर्लज्ज्यं पैशाचं कायलक्षणम् | असंविभागमलसं दुःखशीलमसूयकम् ||९३|| लोलुपं चाप्यदातारं प्रेतसत्त्वं विदुर्नरम् | षडेते राजसाः कायाः,.. |९५|

🔊 Audio coming soon

रौद्रं भयानकम्| चण्डं तीव्रकोपम्| असूयकं परगुणेषु मत्सरिणम्| एकाशिनमेकाक्येव चाश्नातीत्यर्थः| औदरिकं घस्मरं; गयदासस्तु ‘औदरिकं’ इत्यत्र ‘औपधिकं’ इति पठित्वा, औपधिकं छद्मपरमिति व्याख्याति| तीक्ष्णमित्यादि| भीरुं ‘अक्रोधे सति’ इत्यध्याहारः| तदुक्तं चरके- “क्रुद्धं शूरमक्रुद्धं भीरुम्” (च.शा.४) इति| चण्डं कोपनम्| प्रवृद्धेत्यादि| अजस्राहारः अनवरताहारशीलः| एकान्तेत्यादि| एकान्तग्राहिता एकान्तग्रहणशीलता| असूया गुणेषु दोषारोपणम्| भृशमात्रं तम इत्यर्थः | उच्छिष्टेत्यादि| तैक्ष्ण्यं कोपनत्वम्||८८-९३||-

Adhikarana 56 (94-97) · Śloka 98

...तामसांस्तु निबोध मे ||९४|| दुर्मेधस्त्वं मन्दता च स्वप्ने मैथुननित्यता | निराकरिष्णुता चैव विज्ञेयाः पाशवा गुणाः ||९५|| अनवस्थितता मौर्ख्यं भीरुत्वं सलिलार्थिता | परस्पराभिमर्दश्च मत्स्यसत्त्वस्य लक्षणम् ||९६|| एकस्थानरतिर्नित्यमाहारे केवले रतः | वानस्पत्यो नरः सत्त्वधर्मकामार्थवर्जितः ||९७|| इत्येते त्रिविधाः कायाः प्रोक्ता वै तामसास्तथा |९८|

🔊 Audio coming soon

मन्दता जिह्मता||९४-९७||-

Adhikarana 57 (98-99) · Śloka 99

कायानां प्रकृतीर्ज्ञात्वा त्वनुरूपां क्रियां चरेत् ||९८|| महाप्रकृतयस्त्वेता रजःसत्त्वतमःकृताः | प्रोक्ता लक्षणतः सम्यग्भिषक् ताश्च विभावयेत् ||९९||

🔊 Audio coming soon

प्रकृतिज्ञाने प्रयोजनमाह- कायानामित्यादि||९८-९९||

Adhikarana puShpikA · Śloka 4

इति सुश्रुतसंहितायां शारीरस्थाने गर्भव्याकरणं शारीरं नाम चतुर्थोऽध्यायः ||४||

🔊 Audio coming soon

इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायां शारीरस्थाने चतुर्थोऽध्यायः||४||