Adhikarana 1 (1-2) · Śloka 2
अथातः सर्वभूतचिन्ताशारीरं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
हेतुलक्षणप्रतिपादकान्निदानस्थानादधिगतव्याधिहेतुलक्षणस्य वैद्यस्य चिकित्साया अवसरः, चिकित्सा चाधिष्ठानविशेषज्ञानमन्तरेण न सम्भवतीत्यधिष्ठानज्ञापनाय शारीरस्थानमारभ्यते| शारीरस्थानेऽपि प्रतिपाद्ये आदौ सर्वशरीरकारणानां भूतानामेव चिन्ता कर्तुं युज्यत इत्याह- अथात इत्यादि| सर्वाणि भूतानि स्थावरजङ्गमानि, महाभूतानि पृथिव्यादीनि वा; तेषां चिन्ता हेतुस्वलक्षणकार्यैश्चिन्तनं; कुत उत्पन्नानि? कानि चैषां स्वलक्षणानि? कानि कार्याणीति चिन्तनं; सैव यस्मिन्नध्यायेऽस्तीति मत्वर्थे पूर्ववच्छप्रत्ययमुत्पाद्य तल्लोपे प्रकृतिभावं च प्रतिपाद्य सर्वभूतचिन्तेति निष्पाद्यते, सर्वभूतचिन्ता च तच्छारीरं चेति पश्चात् कर्मधारयः| गयी तु ‘सर्वभूतचिन्तानाम शारीरं’ इति पठति||१-२||
Adhikarana 2 (3) · Śloka 3
सर्वभूतानां कारणमकारणं सत्त्वरजस्तमोलक्षणमष्टरूपमखिलस्य जगतः सम्भवहेतुरव्यक्तं नाम |
तदेकं बहूनां क्षेत्रज्ञानामधिष्ठानं समुद्र इवौदकानां भावानाम् ||३||
तत्रादौ हेतुचिन्तामाह- सर्वभूतानामित्यादि| एवम्भूतमव्यक्तं मूलप्रकृत्यपरपर्यायं सर्वभूतानां कारणमिति पिण्डार्थः| किंविशिष्टम्? अकारणं; न विद्यते कारणं यस्य तदकारणम्, अविकृतिरूपं न कस्यचित् कार्यमित्यर्थः| स्वरूपविशेषणमाह- सत्त्वरजस्तमोलक्षणं; सत्त्वरजस्तमःस्वरूपम्| पुनरपि किम्भूतमित्याह- अष्टरूपमिति| प्रकृतिभावेनैवाव्यक्तं महानहङ्कारः पञ्चतन्मात्राणीत्यष्टौ रूपाणि यस्य तत्तथा; प्रकृतित्वं चाष्टानामव्यक्तादीनां साङ्ख्येऽपि प्रतिपादितमस्ति| शिलापुत्रकन्यायेन रूपत्वं रुपित्वं चाव्यक्तस्य| अव्यक्तं महानहङ्कारः पञ्चभूतानीत्यष्टौ रूपाणीत्येके; अन्ये तु धर्मज्ञानवैराग्यैश्वर्याधर्माज्ञानावैराग्यानैश्वर्याण्यष्टौ रूपाण्याहुः; अपरे तु मनोबुद्ध्यहङ्कारमहाभूतान्याहुः| पुनरपि किम्भूतम्? अखिलस्य जगतः सम्भवहेतुः अभिव्यक्तिकारणम्| तत्र सर्वभूतानां कारणमित्यनेन कार्यकारणयोस्तादात्म्यं दर्शितम्, अखिलस्य जगतः सम्भवहेतुरित्यनेन चाभिव्यक्तिहेतुत्वमिति न पौनरुक्त्यम्| गयी त्वन्यथा व्याख्याति, यथा- सर्वभूतानां कारणमित्यस्यैव भाष्यं निर्दिशन्नाह- अखिलस्य जगतः सम्भवहेतुरिति; अनेनोपादानकारणत्वमव्यक्तस्य जगदुत्पत्तौ प्रतिपादितम्| न व्यज्यते स्मेत्यव्यक्तं; प्रकृतिः प्रधानं मूलप्रकृतिरिति यावदव्यक्तपर्यायाः| तत् अव्यक्तम्; एकं शिलापट्टवदविवेच्यावयवं, न पुनस्त्रिदण्डवद्विवेच्यावयवम्| क्षेत्रज्ञानां कर्मपुरुषाणाम्| अधिष्ठानं शरीरभावाय विषयः| अत्रोपमानमाह- समुद्र इवेत्यादि| उदकभवा औदका नदीनदसरस्तडागादयः; अन्ये त्वौदका भावाश्चराचरा मत्स्यपद्मादय इत्याहुः||३||
Adhikarana 3 (4) · Śloka 4
तस्मादव्यक्तान्महानुत्पद्यते तल्लिङ्ग एव |
तल्लिङ्गाच्च महतस्तल्लक्षण एवाहङ्कार उत्पद्यते; स त्रिविधो वैकारिकस्तैजसो भूतादिरिति |
तत्र वैकारिकादहङ्कारात्तैजससहायात्तल्लक्षणान्येवैकादशेन्द्रियाण्युत्पद्यन्ते, तद्यथा- श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणवाग्घस्तोपस्थपायुपादमनांसीति; तत्र पूर्वाणि पञ्च बुद्धीन्द्रियाणि, इतराणि पञ्च कर्मेन्द्रियाणि, उभयात्मकं मनः; भूतादेरपि तैजससहायात्तल्लक्षणान्येव पञ्चतन्मात्राण्युत्पद्यन्ते- शब्दतन्मात्रं, स्पर्शतन्मात्रं, रूपतन्मात्रं, रसतन्मात्रं, गन्धतन्मात्रमिति; तेषां विशेषाः- शब्दस्पर्शरूपरसगन्धाः; तेभ्यो भूतानि- व्योमानिलानलजलोर्व्यः; एवमेषा तत्त्वचतुर्विंशतिर्व्याख्याता ||४||
ननु कथमेकमव्यक्तमनेकधर्मणां सर्वभूतानां कारणमित्याशङ्क्याव्यक्तात् सर्वभूतानामुत्पत्तिक्रममाह- तस्मादित्यादि| तस्मादिति क्षेत्रज्ञाधिष्ठितादव्यक्तात्| महानिति बुद्धितत्त्वं, तत्तु सत्त्वसमुद्रेकान्निर्मलस्फटिकोपलप्रख्यं चिच्छायासङ्क्रान्तिप्राप्तचैतन्यं पुरुषवन्नानात्मकमध्यवसेयविषयं निश्चितार्थकारणमित्यर्थः| उत्पद्यते व्यक्तीभवति| तल्लिङ्ग एवेति सत्त्वरजस्तमःस्वभाव एव| तल्लिङ्गत् सत्त्वरजस्तमःस्वभावात्| महत इति बुद्धितत्त्वात्| तल्लक्षण एवेति सत्त्वरजस्तमःस्वभाव एवेत्यर्थः| अहङ्कारोऽभिमानव्यापारलक्षणः| तल्लिङ्गादिति विशेषणेन शुद्धसत्त्वस्वरूपान्महत्तत्त्वान्नाहङ्कारस्योत्पत्तिरिति सूच्यते| तथा च चरकेऽप्यभिहितं- “शुद्धसत्त्वस्य या शुद्धा सत्या बुद्धिः प्रवर्तते| यया भिनत्त्यतिबलं महामोहमयं तमः|| सर्वभावस्वभावज्ञो यया भवति निस्पृहः| यया नोपैत्यहङ्कारं नोपास्ते कारणं यया”- (च. शा. १) इत्यादि| वैकारिकादिसञ्ज्ञास्तु पूर्वाचार्यैः संव्यवहाराय कृताः| तत्र वैकारिकः सात्त्विकः, तैजसो राजसः, भूतादिस्तामसः| तस्य त्रिविधस्यापि कार्यमाह- तत्रेत्यादि| तत्र सात्त्विकादहङ्काराद्राजससहायात्तमोमात्रयाऽनुविद्धादेकादशेन्द्रियाणि; तल्लक्षणानि प्रकाशलक्षणानि, सत्त्वस्य प्रकाशकत्वात्| तान्यहङ्कारादुत्पन्नान्याहङ्कारकारिकाणीति साङ्ख्ये, वैद्यके तु भौतिकानि| पूर्वाणि पञ्च श्रोत्रादीनि बुद्धीन्द्रियाणि, बुद्धेराश्रयत्वात्; इतराणि वाक्प्रभृतीनि कर्मेन्द्रियाणि, कर्मण आश्रयत्वात्तेषाम्; उभयात्मकं बुद्ध्यात्मकं कर्मात्मकं च मनः, बुद्धीन्द्रियाणां कर्मेन्द्रियाणां च मनोऽधिष्ठितानामेव प्रवृत्तेः| भूतादेरिति तामसादहङ्काराद्राजससहायात् सत्त्वमात्रयाऽनुविद्धात्| तल्लक्षणान्येव मोहादिलक्षणान्येव| तत्रानुद्भूतस्वभावानि बाह्येन्द्रियाग्राह्याणि शब्दादीन्येव तन्मात्राणि, तानि च योगिभिरेव ग्राह्याणि| सा मात्रा यस्मिन् तत्तन्मात्रम्| तेषामित्यादि तेषां तन्मात्राणाम्| विशेषा इति अनुभवयोग्यैः सुखदुःखमोहरूपैर्धर्मैर्विशिष्यन्त इति विशेषाः शब्दादयः; तन्मात्राणि त्वविशेषाणि, यतस्तान्यनुभवयोग्यैः सुखदुःखादिभिर्विशेष्टुं न शक्यन्ते, सूक्ष्मत्वात्| तेभ्यः पञ्चभ्यः शब्दतन्मात्रादिभ्य एकोत्तरपरिवृद्ध्या व्योमादय उत्पद्यन्ते| तद्यथा- शब्दतन्मात्राच्छब्दगुणं व्योम, शब्दतन्मात्रसहितात् स्पर्शतन्मात्राच्छब्दस्पर्शगुणो वायुः, शब्दस्पर्शतन्मात्रसहिताद्रूपतन्मात्राच्छब्दस्पर्शरूपगुणं तेजः, शब्दस्पर्शरूपतन्मात्रसहिताद्रसतन्मात्राच्छब्दस्पर्शरूपरसगुणा आपः, शब्दस्पर्शरूपरसतन्मात्रसहिताद्गन्धतन्मात्राच्छब्दस्पर्शरूपरसगन्धगुणा पृथिवी| पतञ्जलिमतानुसारिणश्च शब्दादिभ्य एव व्योमादीनामुत्पत्तिमिच्छन्ति| शब्दादीनां व्योमादिमहाभूतगुणानां धर्मिणोऽभिन्नत्वेन पृथक्त्वं निरस्यन्नक्तस्योपसंहारमाह- एवमित्यादि||४||
Adhikarana 4 (5) · Śloka 5
तत्र बुद्धीन्द्रियाणां शब्दादयो विषयाः; कर्मेन्द्रियाणां यथासङ्ख्यं वचनादानानन्दविसर्गविहरणानि ||५||
तत्रेत्यादि| विषया ग्राह्याः| वचनादानानन्दविसर्गविहरणानीत्यत्र विषया इति सम्बध्यते; तेनोच्यते यत्तद्वचनं वक्तव्यमुच्यते, एवं कर्मप्रत्ययान्तत्वादादानमादातव्यम्, आनन्द आनन्दनीयं, विसर्गो विसर्जितव्यं, विहरणं विहर्तव्यं स्थानम्||५||
Adhikarana 5 (6) · Śloka 6
अव्यक्तं महानहङ्कारः पञ्चतन्मात्राणि चेत्यष्टौ प्रकृतयः; शेषाः षोडश विकाराः ||६||
उक्तायास्तत्त्वचतुर्विंशतेरुक्तमेव धर्मान्तरं क्वचित् किञ्चिन्निदर्शयन्नाह- अव्यक्तमित्यादि| प्रकृतय इति अपरेषां कारणभूता; अव्यक्तमिति विच्छिद्य पाठः केवलहेतुभावेनाव्यक्तं प्रकृतिरेवेति बोधनार्थम्| तन्मात्राणि चेति चकारः प्रकृतयश्चेत्यत्र सम्बन्धनीयः| तेन महदादयः सप्त कार्यत्वेन विकृतयोऽपि| शेषा इति एकादशेन्द्रियाणि पञ्चमहाभूतानीति षोडशविकाराः कार्याणीत्यर्थः ||६||
Adhikarana 6 (7) · Śloka 7
स्वः स्वश्चैषां विषयोऽधिभूतं; स्वयमध्यात्मम्; अधिदैवतम्- अथ बुद्धेर्ब्रह्मा, अहङ्कारस्येश्वरः, मनसश्चन्द्रमाः, दिशः श्रोत्रस्य, त्वचो वायुः, सूर्यश्चक्षुषः, रसनस्यापः, पृथिवी घ्राणस्य, वाचोऽग्निः, हस्तयोरिन्द्रः, पादयोर्विष्णुः, पायोर्मित्रः, प्रजापतिरुपस्थस्येति ||७||
अस्मिंश्चतुर्विंशतिके तत्त्वराशौ प्रकाशकत्वेन बुद्ध्यादयः प्रधानभूताः, अतस्ते यत्रस्थं प्रकाश्यं यत्र स्थिता यदनुग्रहेण च प्रकाशयन्ति, तत्प्रकारत्रयमधिभूतादिभेदेनाह- स्वः स्व इत्यादि| एषां बुद्ध्यहङ्कारश्रोत्रादिबुद्धीन्द्रियाणां वागादिकर्मेन्द्रियाणां मनसश्च स्वः स्व आत्मीय आत्मीयो विषयोऽध्यवसेयोऽभिमन्तव्यः स्वकल्पनीयादिलक्षणोऽधिभूतम्; अधिभूतं भूतेष्वधि; भूतानि महाभूतानि प्राणिनो वा| एतेन बुद्ध्यादेरध्यवसायादिव्यापारसाध्योऽध्यवसेयादिविषयो भूतेष्विति प्रतिपादितम्| केचित् ‘स्वः स्व एषां विषयोऽधिभूतसञ्ज्ञ’ इति व्याख्यानयन्ति| स्वयमित्यादि एतानि बुद्ध्यादीनि त्रयोदश स्वयमध्यात्मम्| आत्मन्यधि अध्यात्मम्; आत्मशब्दोऽत्र स्वशरीरवचनः, तेन स्वशरीरे बुद्ध्यादिकमात्मनः परमात्मपर्यायस्य वा योग्यो विषयोऽध्यात्मम्| अन्ये तु बुद्ध्यादिकं स्वयमध्यात्मसञ्ज्ञमिति व्याख्यानयन्ति| अधिदैवतमिति देवतानामधिकृतत्वमधिदैवतम्| तदेव बुद्ध्यादिषु प्रकटीकरोति- अथ बुद्धेर्ब्रह्मेत्यादि| या या देवता विश्वरूपस्य विष्णोरवयवादुत्पन्ना सा सा तस्यावयवस्याधिदैवत्वमापन्ना बोद्धव्या| अयं चाधिभूतादिभावो वेदान्तेऽपि वर्णितः| यथा- बुद्धिरध्यात्मं, बोद्धव्यमधिभूतं, ब्रह्माऽधिदैवतम्; अहङ्कारोऽध्यात्मम्, अहङ्कर्तव्यमधिभूतं, रुद्रोऽधिदैवतं; मनोऽध्यात्मं, मन्तव्यमधिभूतं, चन्द्रोऽधिदैवतं; श्रोत्रमध्यात्मं, श्रोतव्यमधिभूतं, दिशोऽधिदैवतं; त्वगध्यात्मं, स्पर्शनीयमधिभूतं, वायुरधिदैवतं; चक्षुरध्यात्मं, दृश्यमधिभूतं, सूर्योऽधिदैवतं; रसनाऽध्यात्मं, रसनीयमधिभूतं, वरुणोऽधिदैवतं; घ्राणमध्यात्मं, घ्रातव्यमधिभूतं, भूमिरधिदैवतं; वागध्यात्मं, वक्तव्यमधिभूतम्, अग्निरधिदैवतं; हस्तावध्यात्मम्, आदातव्यमधिभूतम्, इन्द्रोऽधिदैवतं; पादावध्यात्मं, गन्तव्यमधिभूतं, विष्णुरधिदैवतं; पायुरध्यात्मं, विसर्जनीयमधिभूतं, मित्रोऽधिदैवतं; उपस्थोऽध्यात्मम्, आनन्दनीयमधिभूतं, प्रजापतिरधिदैवतमित्यादि||७||
Adhikarana 7 (8) · Śloka 8
तत्र सर्व एवाचेतन एष वर्गः, पुरुषः पञ्चविंशतितमः कार्यकारणसंयुक्तश्चेतयिता भवति |
सत्यप्यचैतन्ये प्रधानस्य पुरुषकैवल्यार्थं प्रवृत्तिमुपदिशन्ति, क्षीरादींश्चात्र हेतूनुदाहरन्ति ||८||
तत्र सर्व एवेत्यादि| सर्व एवैष वर्गोऽव्यक्तादिकोऽचेतनः, कारणस्याव्यक्तस्याचेतनत्वेन तत्कार्यस्य महदादेरप्यचेतनत्वात्| पुरुषः पञ्चविंशतितमः कार्यकारणसंयुक्त इति कार्येण महदादिविकारगणेन, कारणेन मूलप्रकृत्या, संयुक्तः संयोगी| तस्य कैवल्यार्थं(र्थां) मोक्षार्थं(र्थां), प्रधानस्य मूलप्रकृतेः, प्रवृत्तिमुपदिशन्त्याचार्याः| कथमचेतनः प्रवर्तत इत्याह- क्षीरादीनित्यादि| यथा क्षीरमज्ञं वत्सविवृद्ध्यर्थं प्रवर्तते| आदिशब्दाच्च यथैकान्ते कमनीयकामिनीसुरतमहोत्सवे तत्सुखातिशयोत्पादनार्थमज्ञं रेतः प्रवर्तते, तद्वदित्यर्थः||८||
Adhikarana 8 (9) · Śloka 9
अत ऊर्ध्वं प्रकृतिपुरुषयोः साधर्म्यवैधर्म्ये व्याख्यास्यामः |
तद्यथा- उभावप्यनादी, उभावप्यनन्तौ, उभावप्यलिङ्गौ, उभावपि नित्यौ, उभावप्यनपरौ , उभौ च सर्वगताविति; एका तु प्रकृतिरचेतना त्रिगुणा बीजधर्मिणी प्रसवधर्मिण्यमध्यस्थधर्मिणी चेति, बहवस्तु पुरुषाश्चेतनावन्तोऽगुणा अबीजधर्माणोऽप्रसवधर्माणो मध्यस्थधर्माणश्चेति ||९||
अत इत्यादि| प्रकृतिरव्यक्तं, पुरुष आत्मा| साधर्म्यं समानो धर्मः, वैधर्म्यं विसदृशो धर्मः, ते व्याख्यास्यामः कथयिष्यामः| उभावप्यलिङ्गाविति न विद्यते लिङ्गं ययोस्तावलिङ्गौ| नित्याविति उभावपि लयं क्वचिदपि न गच्छत इत्यर्थः| न विद्यतेऽपरो याभ्यां तावनपरौ , यतस्तावेव प्रकृतिपुरुषौ महदादिभ्यः परौ| सर्वगतौ सर्वं व्याप्य स्थितौ| साधर्म्यमुक्त्त्वा वैधर्म्यमाह- एकेत्यादि| तयोर्मध्ये एका प्रकृतिरव्यक्तापरपर्याया| सा च त्रिगुणा सत्त्वरजस्तमोगुणा| सत्त्वरजस्तमसां गुणानां साम्यावस्थायां स्थिता सर्वेषां महदादिविकाराणां बीजभावेनावस्थिता बीजधर्मिणीत्युच्यते; गयी तु संहारे भूतेन्द्रियतन्मात्राहङ्कारमहदादीनामाधारभूतेति बीजधर्मिणी| सैव सिसृक्षुणा विभुना पुरुषेण सार्धं क्षोभमागम्य साम्यावस्थातः प्रच्युता महदहङ्कारादिक्रमेण चराचरस्य जगतः प्रसवित्रीति प्रसवधर्मिणीत्युच्यते| अमध्यस्थधर्मिणीति सत्त्वादिगुणराशितया सुखादिरूपत्वात्, सुखी हि सुखमभिलिप्सन् दुःखी दुःखं विद्विषन् अमध्यस्थो भवति; प्रकृतिश्च सत्त्वादिरूपा, ततोऽमध्यस्था| बहव इति युगपन्मरणासम्भवादनेके पुरुषाः, ‘पुर्’शब्देन महदादिकृतं सूक्ष्मं लिङ्गशरीरमुच्यते, तच्च योगिनामेव दृश्यं, तत्र पुरि शेते इति पुरुषः| अगुणा इति अविद्यमानसत्त्वादिगुणाः| अबीजधर्माण इति महदादीनां महाप्रलये प्रकृताविव तेष्वनवस्थानात्| मध्यस्थधर्माण इति प्रीत्यप्रीतिविषादायोगेनेच्छाद्वेषशून्यत्वात्| तदुक्तं साङ्ख्ये- “तस्मात्तु विपर्यासात् सिद्धं साक्षित्वमस्य पुरुषस्य| कैवल्यं माध्यस्थ्यं द्रष्टृत्वमकर्तृभावश्च”- (सां. का. ९) इति||९||-
Adhikarana 9 (10) · Śloka 10
तत्र कारणानुरूपं कार्यमिति कृत्वा सर्व एवैते विशेषाः सत्त्वरजस्तमोमया भवन्ति; तदञ्जनत्वात्तन्मयत्वाच्च तद्गुणा एव पुरुषा भवन्तीत्येके भाषन्ते ||१०||
इदानीमुक्तमेव तदुपसंहरन्नाह- तत्रेत्यादि| कारणस्य प्रकृतेरनुरूपं सदृशं कार्यं महदादिकम्| विशेषाः प्रकारा महदादिकाः| संयुक्तस्य पञ्चविंशतितमस्य पुरुषस्यापि सत्त्वादिगुणत्वं दर्शयन्नाह- तदञ्जनत्वादित्यादि| तेषां सत्त्वरजस्तमसामञ्जनं लक्षणं व्यक्तिर्वा येषु ते तदञ्जनाः पुरुषाः; सत्त्वादिलक्षणा इत्यर्थः, तेषां भावस्तत्त्वं, तस्मात्| तदेव कुत इत्याह- तन्मयत्वादिति|- सत्त्वादिमयत्वात्| सत्त्वादिमयत्वं पुनः पुरुषाणां सत्त्वादिरूपे महदादौ प्रतिबिम्बनात्; यथा- तडागोदके प्रतिबिम्बितो विधुस्तडागोदकप्रकम्पनेन प्रकम्पात्मकः कथ्यते, एवं सत्त्वादिरूपे महदादौ प्रतिबिम्बिताः पुरुषाः सत्त्वादिमया इव भवन्ति, न तु वास्तवं सत्त्वादिमयत्वं; तादृशाच्च तन्मयत्वात्तल्लक्षणत्वेन तद्गुणाः सुखिनो दुःखिनो मूढाश्च पुरुषा भवन्ति| गयी तु तैः सत्त्वादिभिरञ्जनं व्यक्तिर्यस्य महदादेस्तत्तदञ्जनं, तदस्यास्तीति मत्वर्थीयोऽकारप्रत्यय इति; तत्सम्बन्धात् पुरुषस्य सत्त्वादिभिरेवाञ्जनं महदादीनां; कुत इत्याह- तन्मयत्वात्; सत्त्वादिप्रकृतिकारणत्वात्| तेषां तदञ्जनत्वं च निर्विकारस्यापि विकारिवस्तुसंयोगात् ; यथा सन्ध्यारागिरविकरनिकरसंयोगादरुणगगनतलोपलम्भ इति| पूर्वोक्तस्य सर्वस्याप्येकीयमतत्वं दर्शयन्नाह- इत्येके इत्यादि||१०||
Adhikarana 10 (11) · Śloka 11
वैद्यके तु- स्वभावमीश्वरं कालं यदृच्छां नियतिं तथा |
परिणामं च मन्यन्ते प्रकृतिं पृथुदर्शिनः ||११||
स्वमतं दर्शयन्नाह- वैद्यके त्वित्यादि| अत्रैके स्वभाववादिनः स्वभावं सर्वस्य प्रकृतिं कारणमूचुः; तथाहि- “कः कण्टकानां प्रकरोति तैक्ष्ण्यं, चित्रं विचित्रं मृगपक्षिणां च| माधुर्यमिक्षौ, कटुतां मरीचे, स्वभावतः सर्वमिदं प्रवृत्तम्”- इति| ईश्वर एवोर्वी पर्वततर्वादेर्जन्तूनां स्वर्गनरकादेश्च कारणमित्यन्ये| उक्तं च- “अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः| ईश्वरप्रेरितो गच्छेत् स्वर्गं नरकमेव वा” इति| काल एव जगतः सृष्टिस्थितिप्रलयनिमित्तमिति कालकारणिकाः; उक्तं च ज्योतिःशास्त्रविदा श्रीपतिना- “प्रभवविरतिमध्यज्ञानवन्ध्या नितान्तं विदितपरमतत्त्वा यत्र ते योगिनोऽपि| तमहमिह निमित्तं विश्वजन्मात्ययानामनुमितमभिवन्दे भग्रहैः कालमीशम्”- इति| यो यतो भवति तत्तन्निमित्तमिति यादृच्छिकाः; यथा- तृणारणिनिमित्तो वह्निरिति| पूर्वजन्मार्जितौ धर्माधर्मौ नियतिः, सैव सर्वस्य कारणमिति नियतिवादिनः| प्रधानमेव महदहङ्कारादिरूपतया परिणतं सर्वस्य निमित्तमिति परिणामवादिनः| एतत् सर्वमत्रानुमतं, सर्ववेदपारिषदत्वादायुर्वेदस्य| सुश्रुताचार्येणापि स्वभावादिभेदभिन्नायाः षड्विधाया अपि प्रकृतेरुदाहरणान्यभिहितानि| तत्र स्वभावस्य तावत् कारणत्वमाह- “अङ्गप्रत्यङ्गनिर्वृत्तिः स्वभावादेव जायते” (शा.३); पुनश्च “सन्निवेशः शरीराणां दन्तानां पतनोद्भवौ| तलेष्वसम्भवो यश्च रोम्णामेतत् स्वभावतः”- (शा.२) इति; पुनश्चोक्तं- “धातुषु क्षीयमाणेषु वर्धेते द्वाविमौ सदा| स्वभावं प्रकृतिं कृत्वा नखकेशाविति स्थितिः” (शा.४) इति; पुनरप्याह- “निद्राहेतुस्तमः सत्त्वं बोधने हेतुरुच्यते| स्वभाव एव वा हेतुर्गरीयानपि कीर्त्यते”- (शा.४) इति; अन्यत्राप्युक्तं- “स्वभावाल्लघवो मुद्गास्तथा लावकपिञ्जलाः| स्वभावाद्गुरवो माषा वराहमहिषादयः”- (च.सू.२७) इति| ईश्वरोऽपि वह्निरूपो जीवितादेः कारणत्वेनोदाहृतः; तथाहि- “जाठरो भगवानग्निरीश्वरोऽन्नस्य पाचकः| सौक्ष्म्याद्रसानाददानो विवेक्तुं नैव शक्यते”|| (सू. ३५); “अग्निमूलं बलं पुंसां बलमूलं हि जीवितम्”- इति| कालस्तु शीतोष्णलक्षणः; उक्तं च- “महाभूतविशेषांस्तु शीतोष्णद्वयभेदतः| काल इत्यध्यवस्यन्ति न्यायमार्गानुसारिणः- ” इति; अयं च ऋतुचर्याध्याये दोषाणां सञ्चयप्रकोपोपशमद्वारेण हेतुरुक्तः| यदृच्छा पुनरलक्षित आकस्मिकपदार्थाविर्भावः, उक्तं च “यदृच्छया चोपगतानि पाकं पाकक्रमेणोपचरेद्विधिज्ञः”- (चि.१८) इत्यादि| नियतिरत्रापि धर्माधर्मौ, तद्धेतुत्वमाह- “ब्रह्मस्त्रीसज्जनवधपरस्वहरणादिभिः| कर्मभिः पापरोगस्य प्राहुः कुष्ठस्य सम्भवम्” ||(नि.५); “कर्मजा व्याधयः केचित्”- (उ.४०) इति चोक्तम्| परिणामस्य हेतुत्वमाह- “जाठराग्नेस्तु संयोगाद्यदुदेति रसान्तरम्| रसानां परिणामान्ते स विपाक इति स्मृतः” ||(वा. सू. ९) इति; “ता एवौषध्यः कालपरिणामात् परिणतवीर्या बलवत्यो हेमन्ते भवन्त्यापश्च” (सू.६); “सम्यक् परिणतस्याहारस्य सारो रसः” (सू.१४); “एवं बालानामपि वयःपरिणामाच्छुक्रप्रादुर्भावो भवति”- (सू.१४) इति| इत्थमेताः षट्प्रकृतयो वैद्यकानुगता दर्शिताः| ननु, स्वभावादयः षट् पदार्थाः प्रकृतेरष्टरूपायाः पर्यायाः स्युरथवाऽन्यार्थाभिधायित्वेन भिन्नार्थाः? तत्र भिन्नार्थत्वेऽपि विकल्पद्वयं; किमेतैः स्वभावादिभिर्भिन्नार्थैः किञ्चित् स्वभावेन किञ्चिदीश्वरेणेत्येवम्प्रकारेण मिलित्वा जगदारभ्यते? उतैत्ते स्वभावादयः पृथक् पृथगेव विश्वजननसमर्थाः? इत्यनेकधा विकल्पमुत्पाद्य जेज्झटाचार्येणश्वरं विहाय स्वभावादयः प्रकृतेरष्टरूपायाः पर्यायत्वेनाभिहिताः| यत्तु वैद्यके “स्वभावमीश्वरं कालम्”- इत्यादिवाक्येन विपुलदर्शिभिः स्वभावादीनां भिन्नमेव प्रकृतित्वं प्रतिपादितं, तत्तथास्वरूपेण तेषामवभासनात्| परमार्थतस्तु गुणत्रयात्मिका प्रकृतिरेव कारणम्| यतः स्वभावादयश्चत्वारः प्रकृतिपरिणामस्य धर्मविशेषतया प्रकृतावेवान्तर्भवन्ति| तथाहि- स्वभावस्तावत् सत्त्वरजस्तमसां तद्विकाराणां पृथिव्यादिमहाभूतानां च परिणामस्य तादृशो विशेष इति प्रकृतिपरिणामादन्यो न भवति; नियतेरपि पूर्वकृतसदसत्कर्मरूपाया रजोगुणपरिणामलक्षणत्वेन न प्रकृतेरन्यत्वं; कालोऽपि चन्द्रार्कादिगतिक्रियालक्षणः, तत्र च महाभूतानां परिणामविशेषाच्छीतोष्णादयो भवन्ति, तदुक्तं- “महाभूतविशेषांस्तु शीतोष्णद्वयभेदतः| काल इत्यध्यवस्यन्ति न्यायमार्गानुसारिणः”- इति, क्रियात्वेन रजोगुणपरिणामत्वान्महाभूतपरिणामविशेषत्वाच्च न कालस्य प्रकृतेरन्यत्वम्; ईश्वरश्च पञ्चविंशतितमः पुरुषः प्रकृतेः क्षोभकतया कारणत्वेनोदाहृत एव; यदृच्छा च कादाचित्कत्वाद्भूतपरिणामविशेषान्नान्या| किञ्चास्मिञ् शास्त्रे प्रकृतिपरिणामात्मकं विश्वं पठ्यते| तथाहि- “सात्त्विकं कायलक्षणं, राजसं कायलक्षणं” (शा.४) तथा ‘सत्त्वबहुलमाकाशं’ इत्यादि| गयी त्वन्यथा व्याख्याति; यथावैद्यके तु विपुलदर्शिनः स्वभावादीनां षण्णां प्रकृतित्वं प्रतिपादयन्ति, ते च स्वभावादयः समुच्चयेन जगदुत्पत्तौ कारणभूताः; तत्रापि प्रकृतिपरिणामस्योपादानकारणत्वं, स्वभावादीनां च पञ्चानां निमित्तकारणत्वमिति||११||
Adhikarana 11 (12-14) · Śloka 14
तन्मयान्येव भूतानि तद्गुणान्येव चादिशेत् |
तैश्च तल्लक्षणः कृत्स्नो भूतग्रामो व्यजन्यत ||१२||
तस्योपयोगोऽभिहितश्चिकित्सां प्रति सर्वदा |
भूतेभ्यो हि परं यस्मान्नास्ति चिन्ता चिकित्सिते ||१३||
यतोऽभिहितं- “तत्सम्भवद्रव्यसमूहो भूतादिरुक्तः” (सू.१); भौतिकानि चेन्द्रियाण्यायुर्वेदे वर्ण्यन्ते, तथेन्द्रियार्थाः ||१४||
एकीयमतेन कारणानुरूपं कार्यमित्यादिवाक्यात् कारणमयत्वं कार्यस्य प्रतिपाद्य स्वमतेऽपि कारणमयत्वं प्रतिपादयन्नाह- तन्मयानीत्यादि| तन्मयानीति अवकाशचलोष्णद्रवखरस्वभावादिधर्मविशेषाक्रान्तप्रकृतिपरिणाममयानि; भूतान्याकाशादीनि; तद्गुणान्येवेति सत्त्वरजस्तमोगुणान्येवेत्यर्थः, सत्त्वबहुलमाकाशमित्याद्युक्तत्वात्| गयी तु ‘ततो जातानि भूतानि’ इति पठित्वा व्याख्याति- ततः स्वभावादेः, निमित्तकारणत्वात् प्रकृतिपरिणामाच्चोपादानकारणानि भूतान्याकाशादीनि तद्गुणानि कारणगुणानि| तैश्चेत्यादि| तैराकाशादिभिर्भूतैः, तल्लक्षणो भूतलक्षणः, कृत्स्नः समस्तः, भूतग्रामः स्थावरजङ्गमात्मकः, व्यजन्यत विविधो जनितः| भूतानां पृथिव्यादीनां पुनर्लक्षणं स्थिरगुरुकठिनत्वमित्यादि, तल्लक्षणश्च स्थावरजङ्गमात्मको भूतग्रामः| तस्य पञ्चमहाभूतारब्धस्य भूतग्रामस्य परस्परोपकार्योपकारकत्वेन व्यवस्थितस्य, उपयोगः प्रयोजनम्, अभिहितः कथितः, चिकित्सां प्रति रोगापनयनं लक्षीकृत्य, सर्वदा नित्यगे आवस्थिके च काले| कुतः? यस्मात्तेभ्यः पञ्चमहाभूतारब्धभूतग्राम्येभ्यः परं चिकित्सिते चिन्ता नास्ति| तदुक्तमाद्येऽध्याये, “तत्रास्मिन् पञ्चमहाभूतशरीरिसमवायः पुरुष इत्युच्यते; तस्मिन् क्रिया, सोऽधिष्टानं, कस्मात्? लोकद्वैविध्यात्, लोको हि द्विविधः- स्थावरो जङ्गमश्च, तस्मिन् पुरुषः प्रधानं, तस्योपकरणमन्यत्”- (सू.१) इति| तेन पञ्चमहाभूतारब्धस्यैव भूतग्रामस्य चिकित्सोपकरणत्वम्| अतो भूतेभ्यः परं यदव्यक्तादि तत्र चिन्ताऽपि नास्ति| अयमेवार्थोऽन्यत्रापिनिर्दिष्ट इति दर्शयन्नाह- यत इत्यादि| एतत्सूत्रं बीजाध्याये व्याख्यातम्, अत्रापि किञ्चिच्छिष्यबोधार्थं व्याख्यायते- यतस्तस्य पुरुषस्य सम्भवद्रव्याणि शुक्रशोणितादीनि तेषां समूहः संयोगविशेषः, कथम्भूतः? भूतादिः भूतं पृथिव्यादिकमादिर्मूलकारणं यस्य स तथा| न परं पुरुषसम्भवद्रव्यस्य भूतादित्वाभिधानाद्भूतेभ्यः परं चिन्ता नास्ति, किन्त्वेतस्मादपीत्याशङ्क्याह- भौतिकानि चेत्यादि| इन्द्रियाणि श्रवणस्पर्शनरसनघ्राणानि भौतिकानि| तथा चोक्तं पञ्चभूतात्मकत्वेऽपि- “खं श्रोत्रे स्पर्शने वायुर्दर्शने तेज उत्कटम्| सलिलं रसने भूमिर्घ्राणे तज्ज्ञैर्निरूपितम्”- इति| इन्द्रियाणामर्थाः शब्दस्पर्शरूपरसगन्धाः, ते चायुर्वेदशास्त्रे तथा भौतिका इत्यर्थः| उक्तं च- “शब्दो वैहायसः, स्पर्शो वायवीयः प्रकीर्तितः| रूपमाग्नेयमाप्योऽत्र रसो, गन्धस्तु पार्थिवः” इति||१२-१४||
Adhikarana 12 (15) · Śloka 15
भवति चात्र- इन्द्रियेणेन्द्रियार्थं तु स्वं स्वं गृह्णाति मानवः |
नियतं तुल्ययोनित्वान्नान्येनान्यमिति स्थितिः ||१५||
इन्द्रियाणामिन्द्रियार्थानां च पाञ्चभौतिकत्वेऽपि यस्य भूतस्य यत्र यत्रेन्द्रिये आधिक्यं तेन तेनेन्द्रियेण तस्य तस्यैव गुणाः शब्दादयो गृह्यन्त इति दर्शयितुमाह- इन्द्रियेणेत्यादि| इन्द्रियेण चक्षुरादिना रूपादिकमात्मीयमात्मीयं मानव उपादत्ते; तद्यथा- तैजसं चक्षुस्तैजसमेव रूपमादत्ते, पार्थिवं घ्राणेन्द्रियं पार्थिवमेव गन्धमादत्ते, एवं शेषेष्वपि बोद्धव्यम्| नियतमात्मीयमेव कुत इत्याह- तुल्ययोनित्वादिति; एकभूतहेतुत्वात्, भूतं हि स्वयोनिमेवाभिधावति जलमिव जलम्| तमेव स्पष्टीकुर्वन्नाह- नान्येनान्यमिति||१५||
Adhikarana 13 (16) · Śloka 16
न चायुर्वेदशास्त्रेषूपदिश्यन्ते सर्वगताः क्षेत्रज्ञा नित्याश्च; असर्वगतेषु च क्षेत्रज्ञेषु नित्यपुरुषख्यापकान् हेतूनुदाहरन्ति; आयुर्वेदशास्त्रेष्वसर्वगताः क्षेत्रज्ञा नित्याश्च, तिर्यग्योनिमानुषदेवेषु सञ्चरन्ति धर्माधर्मनिमित्तं; त एतेऽनुमानग्राह्याः परमसूक्ष्माश्चेतनावन्तः शाश्वता लोहितरेतसोः सन्निपातेष्वभिव्यज्यन्ते, यतोऽभिहितं- ‘पञ्चमहाभूतशरीरिसमवायः पुरुषः’ (सू.१) इति; स एष कर्मपुरुषश्चिकित्साधिकृतः ||१६||
अपरमपि साङ्ख्यादिभ्यो भेदमायुर्वेदस्यात्मनि दर्शयन्नाह- न चेत्यादि| किं तर्ह्यायुर्वेदशास्त्रेष्वसर्वगताः पुरुषा उपदिश्यन्ते सत्त्वोपाधिवशात्; साङ्ख्यादिषु पुनः सर्वगता एव क्षेत्रज्ञा उपदिश्यन्ते| एवमायुर्वेदपुरुषस्य प्रदेशवर्तिनोऽपि नित्यत्वं स्यादित्याह- नित्याश्च; ‘उपदिश्यन्ते’ इति शेषः| नित्यत्वं च कथमित्याह- असर्वगतेष्वित्यादि| हेतूनिति सदकारणवन्नित्यमित्यादीन्| तथाहि- सन्नात्मा, सुखादिलिङ्गोपलम्भात्; अविषयोऽकारणश्च, अतो नित्यः| तथाहि भोजः- “शुभाशुभाभ्यां कर्मभ्यां प्रेरणान्मनसो गतेः| देहाद्देहान्तरं याति क्रिमिवच्छाश्वतोऽव्ययः|| नित्य इत्युच्यते सद्भिः सन्नकारणवान् यतः”- इति| तदेवोपसंहरन्नाह- आयुर्वेदेत्यादि| असर्वगतत्वेऽपि सर्वयोनिगमनं निर्दिशन्नाह- तिर्यगित्यादि| तत्र बहुशः संसरणे तिर्यग्योनीनां प्रकृष्टत्वम्, अतस्तेषां प्रागुपादानं; ततो मनुष्यनिर्देशः; देवास्तु कदाचित् क्वचित् सम्भवन्तीति पश्चान्निर्दिष्टाः| तत्र प्रायेणाधर्मनिमित्तं तिर्यग्योनयः, धर्माधर्मनिमित्तं मनुष्याः, धर्मनिमित्तं देवाः| ननु, कथमप्रत्यक्षा अप्यात्मानोऽभ्युपगम्यन्त इत्याह- त एतेऽनुमानग्राह्या इति| सुखदुःखाद्युपलब्धिरूपेण लिङ्गेनाव्यभिचारिणैते आत्मान उपलब्धारोऽनुमातव्याः | प्रत्यक्षप्रमाणेनापि क्षेत्रज्ञाः कथं न गृह्यन्ते? इत्याह- परमसूक्ष्मा इति|- परमसूक्ष्मा हि परमाणव इव सन्तोऽपि ते प्रत्यक्षेण नैवोपलभ्यन्ते| चेतनावन्त इति नित्यं चेतनायुक्ताः| शाश्वता इति नित्याः| कथं तर्हि जायन्त इत्युच्यत इत्याह- लोहितरेतसोरित्यादि| आत्मानः परमसूक्ष्माः पञ्चभूतात्मकयोः शुक्रशोणितयोः सन्निपातेषु संयोगेष्वभिव्यज्यन्ते| एष एव च सूक्ष्मपुरुषाणां पञ्चमहाभूतानां च संयोगो वैद्यके षड्धातुकः पुरुषः परिभाषितः| कुतः परिभाषित इत्याशङ्क्याद्याध्यायोक्तं वाक्यं दर्शयति- यत इत्यादि| तस्य चिकित्सोपयोगितां निदर्शयन्नाह- स इत्यादि| कर्मपुरुष इति कर्मफलभागित्यर्थः | तेन चिकित्सितकर्मफलमप्यवाप्नोतीत्युक्तं भवति||१६||
Adhikarana 14 (17) · Śloka 17
तस्य सुखदुःखे इच्छाद्वेषौ प्रयत्नः प्राणापानावुन्मेषनिमेषौ बुद्धिर्मनः सङ्कल्पो विचारणा स्मृतिर्विज्ञानमध्यवसायो विषयोपलब्धिश्च गुणाः ||१७||
इदानीं तस्यैव कर्मपुरुषस्य शरीरात्मनोः संयोगकारकेण मनसा संयोगे ये गुणा उत्पद्यन्ते तानाह- तस्येत्यादि| तत्र सुखं स्वभावतोऽनुकूलवेदनीयं; दुःखं स्वभावतः प्रतिकूलवेदनीयम्; इच्छा अभिलाषः; द्वेषोऽप्रीतिलक्षणः; प्रयत्नः कार्यारम्भे उत्साहः; प्राणो वायुर्वक्त्रसञ्चारी, अपानः पक्वाशयस्थितिरधोगमनशीलः; उन्मेषनिमेषौ चक्षुषोरुन्मीलननिमीलने; बुद्धिर्निश्चयात्मिका; मनः संशयात्मकं, तस्य सङ्कल्पो मनसः कर्म; विचारणा पुनरूहापोहाभ्यां वस्तुविमर्शः; स्मृतिः पूर्वानुभूतस्यार्थस्य स्मरणं; विज्ञानं शिल्पशास्त्रादिबोधः; अध्यवसायो बुद्धेर्व्यापारः; विषयाणां शब्दादीनामुपलब्धिरवगतिर्विषयोपलब्धिः| गयी तु सुखं प्रीतिः, दुःखमप्रीतिः, इच्छा सुखहेतुरभिलाषः, द्वेषो दुःखहेतुर्मनःप्रतीघातः , प्रयत्नो मनः प्रवृत्तिकर उत्साहः, मनः सङ्कलपात्मकलक्षणं, तस्य सङ्कल्पो विषयेषु दोषगुणकल्पनं; शेषं समम्| एते कर्मपुरुषस्य षोडश गुणाः| अत एव ‘कला’ इत्युच्यन्ते||१७||
Adhikarana 15 (18) · Śloka 18
सात्त्विकास्तु- आनृशंस्यं संविभागरुचिता तितिक्षा सत्यं धर्म आस्तिक्यं ज्ञानं बुद्धिर्मेधा स्मृतिर्धृतिरनभिषङ्गश्च; राजसास्तु- दुःखबहुलताऽटनशीलताऽधृतिरहङ्कार आनृतिकत्वमकारुण्यं दम्भो मानो हर्षः कामः क्रोधश्च; तामसास्तु- विषादित्वं नास्तिक्यमधर्मशीलता बुद्धेर्निरोधोऽज्ञानं दुर्मेधस्त्वमकर्मशीलता निद्रालुत्वं चेति ||१८||
पुरुषगुणानभिधाय शेषान् सत्त्वादियुक्तस्य मनसो गुणान्निर्दिशन्नाह- सात्त्विका इत्यादि| आनृशंस्यम् अक्रूरकर्मकारित्वम्| संविभागरुचिता संविभज्य भोक्तुमभिलाषुकता| तितिक्षा क्षमा| सत्यं भूतहितं तथ्यं वचो वा| धर्मः कायवाङ्मनोभिः सुचरितम्| अस्ति धर्ममोक्षपरलोकादिकमिति बुद्ध्या चरतीत्यास्तिकः, तद्भाव आस्तिक्यम्| ज्ञानम् आत्मज्ञानम्| बुद्धिः तत्कालविषया| मेधा ग्रन्थावधारणशक्तिः| धृतिर्मनसो नियमात्मिका बुद्धिः| पूर्वानुभूतस्यार्थस्य स्मरणं स्मृतिः| फलनिरपेक्षया बुद्ध्या श्रेयःकर्मकरणमनभिषङ्गः| राजसास्त्वित्यादि| अधृतिर्मनसोऽधीरता| आनृतिकत्वं मिथ्यावचनशीलता; गयी तु ‘आवृत्तिकत्वं’ इति पठित्वा मनसः शीलतेत्याह | अकारुण्यं निर्दयत्वम्| दम्भः कुहकवृत्तिता| मान आत्मन्युत्कर्षबुद्धिः| अहङ्कारादयः पूर्वं व्याख्याताः| गयी तु ‘अटनशीलता’ इत्यत्र ‘ताडनशीलता’ इति पठति, ‘मान’ इत्यत्र ‘मद’ इति पठति| तामसास्त्वित्यादि| विषादोऽस्यास्तीति विषादी, तद्भावो विषादित्वं मूढता| अधर्मे शीलं स्वभावो यस्य तद्भावोऽधर्मशीलत्वम्| दुर्मेधस्त्वं दुष्टबुद्धित्वम्| अकर्मशीलता कर्मण्यनुत्साहः||१८||
Adhikarana 16 (19) · Śloka 19
आन्तरिक्षाः- शब्दः शब्देन्द्रियं सर्वच्छिद्रसमूहो विविक्तता च; वायव्यास्तु- स्पर्शः स्पर्शेन्द्रियं सर्वचेष्टासमूहः सर्वशरीरस्पन्दनं लघुता च; तैजसास्तु- रूपं रूपेन्द्रियं वर्णः सन्तापो भ्राजिष्णुता पक्तिरमर्षस्तैक्ष्ण्यं शौर्यं च; आप्यास्तु- रसो रसनेन्द्रियं सर्वद्रवसमूहो गुरुता शैत्यं स्नेहो रेतश्च; पार्थिवास्तु- गन्धो गन्धेन्द्रियं सर्वमूर्तसमूहो गुरुता चेति ||१९||
महाभूतगुणान्निर्दिशन्नाह- आन्तरिक्षा इत्यादि| आन्तरिक्षा आकाशभूतगुणाः| शब्देन्द्रियं श्रवणेन्द्रियम्| विविक्तता शारीराणां भावानां सिरास्नाय्वस्थिपेशीप्रभृतीनां जातिव्यक्तिभ्यां मिथः पृथक्त्वं; गयी तु ‘विविक्तता’ इत्यस्य स्थाने ‘विरिक्तता’ इति पठति व्याख्यानयति च- विरिक्तता शारीराणां भावानां रिक्तता| वायव्या इत्यादि| स्पर्शेन्द्रियं त्वक्| सर्वचेष्टासमूहो नमनोन्नमनादिसर्वक्रियासमूहः, कायवाङ्मनः क्रियासमूह इत्यन्ये| स्पन्दनं चलनम्| तैजसास्त्वित्यादि| रूपं लावण्यम्| रूपेन्द्रियं चक्षुः| वर्णो गौरादिः| सन्ताप औष्ण्यम्| भ्राजिष्णुता दीप्तता| पक्तिः अग्निकृताऽऽहारपरिणतिः| अमर्षः क्रोधः| तैक्ष्ण्यम् आशुक्रिया| शौर्यं विक्रान्तता| आप्यास्त्वित्यादि| सर्वद्रवसमूहः दोषधातुमलेषु द्रुतिमद्द्रव्यनिवहः | पार्थिवास्त्वित्यादि| सर्वमूर्तसमूह दोषधातुमलेषु यः कश्चित् काठिन्यनिवहः||१९||
Adhikarana 17 (20) · Śloka 20
तत्र सत्त्वबहुलमाकाशं, रजोबहुलो वायुः, सत्त्वरजोबहुलोऽग्निः, सत्त्वतमोबहुला आपः, तमोबहुला पृथिवीति ||२०||
अथाकाशादिभूतानां सत्त्वादिगुणमयत्वं दर्शयन्नाह- तत्रेत्यादि| सत्त्वबहुलमाकाशं प्रकाशकत्वात्, रजोबहुलो वायुश्चलत्वात्, सत्त्वरजोबहुलोऽग्निः प्रकाशकत्वाच्चलत्वाच्च, सत्त्वतमोबहुला आपः स्वच्छत्वात् प्रकाशकत्वाद्गुरुत्वादावरणत्वाच्च, तमोबहुला पृथिवी अत्यन्तावरकत्वात्||२०||
Adhikarana 18 (21) · Śloka 21
श्लोकौ चात्र भवतः- अन्योऽन्यानुप्रविष्टानि सर्वाण्येतानि निर्दिशेत् |
स्वे स्वे द्रव्ये तु सर्वेषां व्यक्तं लक्षणमिष्यते ||२१||
अन्योऽन्येत्यादि| तत्र शब्दगुणमाकाशं मारुते प्रविष्टं शब्दस्पर्शगुणत्वान्मारुतस्य; आकाशमारुतौ तेजसि प्रविष्टौ, शब्दस्पर्शरूपगुणत्वात्तेजसः; आकाशमरुत्तेजांसि तोयद्रव्ये प्रविष्टानि, शब्दस्पर्शरूपरसगुणत्वात्तोयस्य; आकाशमरुत्तेजस्तोयानि पृथिव्यामनुप्रविष्टानि, शब्दस्पर्शरूपरसगन्धगुणत्वात् पृथिव्याः| एवं व्योमानिलानलजलोर्वीणां परस्परमनुप्रवेशकानुप्रवेश्यत्वेनावस्थितानामन्योन्यानुप्रविष्टत्वमुक्तम्| अन्ये पुनरन्योऽन्यानुप्रविष्टत्वमन्यथा व्याचक्षते- तत्राकाशेऽपि भूमिरणुरूपेणावस्थिता, सूक्ष्मरूपतोयतेजोऽनुगतमारुतस्य सञ्चरणादाकाशे पवनदहनतोयान्यपि बोद्धव्यानि| तथा वायावप्याकाशं व्यवस्थितं व्यापकत्वात्, “अनुष्णशीतस्पर्शोऽयं द्रव्यज्ञैर्वायुरिष्यते| दाहकृत्तेजसा युक्तः शीतकृत् सोमसंश्रयात्”- इत्युक्तत्वाद्वायौ तेजोऽम्बुनी अपि तिष्ठतः, भूरप्यणुना विशेषेण मारुते तिष्ठति| तथा तेजोद्रव्येऽप्याकाशं व्यवस्थितं व्यापकत्वात्, पवनोऽपि प्रेरणात्मकत्वात्; तेजोद्रव्ये पानीयमप्यनुमीयते कार्यकारणोरैक्यात्, कारणं तोयं कार्यं च तेजः, अद्भ्योऽग्निरित्युक्तत्वात्; भूमिरपि धूमादिरूपेण तेजसि व्यवस्थिता| अथ तोयद्रव्येऽप्याकाशं व्यवस्थितं, व्यापकत्वात्; वायुरपि तोये व्यवस्थितः, तरङ्गबुद्बुदादिकारणत्वात्; वह्निरपि तोये व्यवस्थितः, तत एवोत्पन्नत्वात्, उक्तं च- “अद्भ्योऽग्निर्ब्रह्मतः क्षत्रमश्मनो लोहमुत्थितम्| एषां सर्वत्रगं तेजः स्वासु योनिषु शाम्यति” इति; भूमिरपि तोयेऽणुरूपेणावस्थिता| तथा पृथिव्यामप्याकाशपवनदहनतोयानि स्थितान्येव, भूमिप्रविभागीये पञ्चविधाया भूमेः प्रोक्तत्वात्| इत्थमाकाशादिभूतानामन्योन्यानुप्रविष्टत्वमाहुः| व्यक्तेन तु लक्षणेन पार्थिवादिव्यपदेशं दर्शयन्नाह- स्वे स्वे इत्यादि| स्वे स्वे स्वकीये स्वकीये द्रव्ये, सर्वेषामाकाशादीनां, व्यक्तं लक्षणमिति आकाशद्रव्ये तल्लक्षणं व्यक्तमित्यादि बोद्धव्यम्||२१||
Adhikarana 19 (22) · Śloka 22
अष्टौ प्रकृतयः प्रोक्ता विकाराः षोडशैव तु |
क्षेत्रज्ञश्च समासेन स्वतन्त्रपरतन्त्रयोः ||२२||
अष्टावित्यादि| अष्टौ प्रकृतयः- अव्यक्तं महानहङ्कारः पञ्चतन्मात्राणीत्यष्टौ| विकाराः षोडशैवेति श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणवाग्घस्तोपस्थपायुपादमनांसीत्येवमेकादशेन्द्रियाणि, आकाशपवनदहनतोयभूमय इति पञ्चभूतानीत्येवं षोडश विकाराः| क्षेत्रं स्थूलसूक्ष्मदेहं जानातीति क्षेत्रज्ञः पुरुषः| समासेन सङ्क्षेपेण| एवं पञ्चविंशतितत्त्वान्युक्तानि| स्वतन्त्रे शल्यतन्त्रे, परतन्त्रे शालाक्यतन्त्रे साङ्ख्ये च||२२||
Adhikarana puShpikA · Śloka 1
इति सुश्रुतसंहितायां शारीरस्थाने सर्वभूतचिन्ताशारीरं नाम प्रथमोऽध्यायः ||१||
इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायां शारीरस्थाने प्रथमोऽध्यायः||१||