Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

23. nāsāgatarōgapratiṣēdhādhyāyaḥ

Adhikarana 1 (1-2) · Śloka 2

अथातो नासागतरोगप्रतिषेधं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||

🔊 Audio coming soon

अथात इत्यादि||१-२||

Adhikarana 2 (3) · Śloka 3

पूर्वोद्दिष्टे पूतिनस्ये च जन्तोः स्नेहस्वेदौ छर्दनं स्रंसनं च | युक्तं भक्तं तीक्ष्णमल्पं लघु स्यादुष्णं तोयं धूमपानं च काले ||३||

🔊 Audio coming soon

अपीनसपूतिनस्ययोश्चिकित्सामाह- पूर्वोद्दिष्टे इत्यादि| पूर्वोद्दिष्टे अपीनसे इत्यर्थः| छर्दनं वमनं, स्रंसनं विरेकः| कृतशुद्धेरन्तःसंसर्गं नियमयन्नाह- युक्तमित्यादि| तोयस्य पानं नियमयन्नाह- उष्णं तोयमित्यादि| काले धूमपानकाले||३||

Adhikarana 3 (4) · Śloka 4

हिङ्गु व्योषं वत्सकाख्यं शिवाटी लाक्षा बीजं सौरभं कट्फलं च | उग्रा कुष्ठं तीक्ष्णगन्धा विडङ्गं श्रेष्ठं नित्यं चावपीडे करञ्जम् ||४||

🔊 Audio coming soon

तयोरेवावपीडमुद्दिशन्नाह- हिङ्गु व्योषमित्यादि| व्योषं त्रिकटुकम्| शिवाटी श्वेतपुनर्नवा, शेफालिकेत्यन्ये| उग्रा वचा, तीक्ष्णगन्धा शोभाञ्जनकः| अवपीड्य दीयत इत्यावपीडः| केचिदमुमेव पाठमन्यथा पठन्ति, स चादर्शनान्न लिखितः||४||

Adhikarana 4 (5) · Śloka 5

एतैर्द्रव्यैः सार्षपं मूत्रयुक्तं तैलं धीमान्नस्यहेतोः पचेत |५|

🔊 Audio coming soon

अपीनसपूतिनस्ययोरेतैरेवावपीडनद्रव्यैर्नस्यार्थं तैलसाधनमाह- एतैर्द्रव्यैरित्यादि| केचित् ‘अस्मिन् तैले युक्तितः सम्पचेत मञ्जिष्ठां वै स्रोतसि म्रक्षणार्थं, इति पठन्ति, स चाचार्यैरनार्षीकृतः|५|-

Adhikarana 5 (5) · Śloka 6

नासापाके पित्तहृत्संविधानं कार्यं सर्वं बाह्ममाभ्यन्तरं च ||५|| हृत्वा रक्तं क्षीरवृक्षत्वचश्च साज्याः सेका योजनीयाश्च लेपाः |६|

🔊 Audio coming soon

नासापाके भेषजमाह- नासापाके इत्यादि| बाह्मं लेपाभ्यङ्गपरिषेकादि, आभ्यन्तरं पुनराहारस्नेहपानविरेचनादि| साज्याः सघृताः||५||-

Adhikarana 6 (6) · Śloka 6

वक्ष्याम्यूर्ध्वं रक्तपित्तोपशान्तिं... |६|

🔊 Audio coming soon

रक्तपित्तस्यानागतावेक्षणेन सङ्क्षेपार्थं चिकित्सितमाह- वक्ष्याम्यूर्ध्वमित्यादि| ऊर्ध्वं रक्तपित्तप्रतिषेधे| उपशान्तिं चिकित्सितं ‘नासाप्रवृत्ते जलमाशु देयं सशर्करं नासिकया पयो वा’ इत्यादिकम्|६|-

Adhikarana 7 (6) · Śloka 6

... नाडीवत्स्यात् पूयरक्ते चिकित्सा ||६||

🔊 Audio coming soon

पूयरक्तस्य विधानमाह- नाडीवदित्यादि| पूयरक्ते नाडीवत् नाडीतुल्या चिकित्सा, या विसर्पनाडीस्तनरोगचिकित्सिते व्याख्याता||६||

Adhikarana 8 (7) · Śloka 7

वान्ते सम्यक् चावपीडं वदन्ति तीक्ष्णं घूमं शोधनं चात्र नस्यम् |७|

🔊 Audio coming soon

पूयरक्ते सामान्यां चिकित्सामभिधाय विशेषचिकित्सामाह- वान्ते इत्यादि| अत्र पूयरक्ते; अन्ये तु ‘अत्रेति नासापाके’ इति व्याख्यानयन्ति| केचित् ‘वान्ते सम्यक्’ इत्यादिकं क्षवथौ भ्रंशथौ च योजयन्ति|७|-

Adhikarana 9 (7) · Śloka 8

क्षेप्यं नस्यं मूर्धवैरेचनीयैर्नाड्या चूर्णं क्षवथौ भ्रंशथौ च ||७|| कुर्यात् स्वेदान् मूर्ध्नि वातामयघ्नान् स्निग्धान् धूमान् यद्यदन्यद्वितं च |८|

🔊 Audio coming soon

क्षवथौ भ्रंशथौ च चिकित्सामाह- क्षेप्यमित्यादि| नस्यमिति प्रधमनमित्यर्थः, पञ्चविधत्वान्नस्यस्य| मूर्धवैरेचनीयैः शिरोविरेचनद्रव्यैः| प्रधमनेन क्षीणे कफे वाते च वृद्धे सति अनिलघ्नान् स्निग्धानित्यर्थः| अन्यदिति शिरोबस्तिमस्तिष्कादिकम्||७||-

Adhikarana 10 (8) · Śloka 8

दीप्ते रोगे पैत्तिकं संविधानं कुर्यात् सर्वं स्वादु यच्छीतलं च ||८||

🔊 Audio coming soon

दीप्तरोगस्य चिकित्सामाह- दीप्ते इत्यादि| संविधानं कर्मेत्यर्थः, सर्वं बाह्माभ्यन्तरम्||८||

Adhikarana 11 (9) · Śloka 9

नासानाहे स्नेहपानं प्रधानं स्निग्धा धूमा मूर्धबस्तिश्च नित्यम् | बलातैलं सर्वथैवोपयोज्यं वातव्याधावन्यदुक्तं च यद्यत् ||९||

🔊 Audio coming soon

नासानाहचिकित्सामाह- नासानाहे स्नेहपानमित्यादि| स्नेहपानम् उत्तरभक्तकम्| मूर्धबस्तिश्चेति चकारात् साल्वणोपनाहादयो गृह्यन्ते| सर्वथैवेति पानाभ्यङ्गानुवासनशिरोबस्तिमस्तिष्कादिभिः सर्वैरेव प्रकारैः| अन्यत् अणुतैलादिकम्||९||

Adhikarana 12 (10) · Śloka 10

नासास्रावे घ्राणतश्चूर्णमुक्तं नाड्या देयं योऽवपीडश्च तीक्ष्णः | तीक्ष्णं धूमं देवदार्वग्निकाभ्यां मांसं वाऽऽजं युक्तमत्रादिशन्ति ||१०||

🔊 Audio coming soon

नासास्रावचिकित्सामाह- नासस्रावे इत्यादि| उक्तं चूर्णं शिरोविरेचनद्रव्यकृतम्| तीक्ष्णोऽवपीडो ‘हिङ्गु व्योषं वत्सकाख्यं’ इत्यादिना इहैवाध्याये प्रोक्तः| अग्निकः चित्रकः, अजमोदामन्ये| आजं मांसं ‘भोजने’ इति शेषः||१०||

Adhikarana 13 (11) · Śloka 11

नासाशोषे क्षीरसर्पिः प्रधानं सिद्धं तैलं चाणुकल्पेन नस्यम् | सर्पिःपानं भोजनं जाङ्गलैश्च स्नेहः स्वेदः स्नैहिकश्चापि धूमः ||११||

🔊 Audio coming soon

नासाशोषे चिकित्सामाह- नासाशोषे क्षीरसर्पिरित्यादि| क्षीरसर्पिः आदित उक्तम्| प्रधानं श्रेष्ठम्| नस्ये नस्यविषये| अणुकल्पेन अणुतैलविधानेन वातव्याध्युक्तेन| सर्पिःपानम् अन्तर्भक्तकम्| जाङ्गलैः एणादिमांसैः, स्नेहः स्वेद इत्यर्थः| स्नैहिको धूमो मधूच्छिष्टादिभिः||११||

Adhikarana 14 (12) · Śloka 12

शेषान् रोगान् घ्राणजान् सन्नियच्छेदुक्तं तेषां यद्यथा संविधानम् ||१२||

🔊 Audio coming soon

अर्शःप्रभृतीनां चिकित्सामाह- शेषानित्यादि| शेषान् रोगानर्शःशोफादीन्, सन्नियच्छेत् चिकित्सेत्| उक्तं संविधानं स्वे स्वे चिकित्सिते||१२||

Adhikarana puShpikA · Śloka 23

इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे नासागतरोगप्रतिषेधो नाम त्रयोविंशोऽध्यायः ||२३||

🔊 Audio coming soon

इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे त्रयोविंशोऽध्यायः||२३||