Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

14. gulmacikitsitādhyāyaḥ

Adhikarana adhyAyopakramaH · Śloka

🔊 Audio coming soon

अस्मादनन्तरं गुल्मचिकित्सितमारभ्यते| सम्बन्धश्चास्य प्रायेणैकयोगक्षेमत्वम्, वातकारणत्वात्|

Adhikarana gulmacikitsAdhyAyaH vAtagulme baddhashakRudvAtAdau snigdhaM kRutvA svedaH vAtagulme svedasya Palam (2-3) · Śloka 3

अथातो गुल्मचिकित्सितं व्याख़्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः| (गद्यसूत्रे||२|| ) गुल्मं बद्धशकृद्वातं वातिकं तीव्रवेदनम्| रूक्षशीतोद्भवं तैलैः साधयेद्वातरोगिकैः||१|| पानान्नान्वासनाभ्यङ्गैः स्निग्धस्य स्वेदमाचरेत्| आनाहवेदनास्तम्भविबन्धेषु विशेषतः||२|| स्रोतसां मार्दवं कृत्वा जित्वा मारुतमुल्बणम्| भित्वा विबन्धं स्निग्धस्य स्वेदो गुल्ममपोहति||३||

🔊 Audio coming soon

स०-[वातिकं गुल्मं तीव्ररुजं पुरीषवातग्रहं रूक्षशीतोद्भूतं वातचिकित्सितोक्तैस्तैलैः साधयेत्| पानान्नान्वासनाभ्यङ्गैः स्निग्धस्य गुल्मिनः स्वेदमाचरेत्|] पानशब्देन स्नेहपानं वेद्यम्, स्निग्धस्येति वचनात्| आनाहादिषु विशेषेण स्वेदमाचरेत्| यस्मात्स्वेदः स्निग्धस्य पुंसः स्रोतोमृदुत्वं विधाय मारुतमुल्बणं च जित्वा तथा विबन्धं भित्त्वा गुल्ममपोहति|

Adhikarana gulme snehapAnaM hitamUrdhvanABije gulme visheSheNa snehapAnam pakvAshayagate bastiH jaTharAshraye snehA bastiSca (4) · Śloka 4

स्नेहपानं हितं गुल्मे विशेषेणोर्ध्वनाभिजे| पक्वाशयगते बस्तिरुभयं जठराश्रये||४||

🔊 Audio coming soon

स०-गुल्मे स्नेहपानं हितम्| ऊर्ध्वनाभिजे गुल्मे विशेषेण स्नेहपानं हितम्| पक्वाशयगते बस्तिर्हितः| जठराश्रित उभयं-स्नेहपानबस्त्याख़्यं, हितम्|

Adhikarana vAtagulme dIptAgnyAdau bRuMhaNAnyannapAnAni snehAnirUhA anuvAsanASca (5-6) · Śloka 6

दीप्तेऽग्नौ वातिके गुल्मे विबन्धेऽनिलवर्चसोः| बृंहणान्यन्नपानानि स्निग्धोष्णानि प्रदापयेत्||५|| पुनःपुनः स्नेहपानं निरूहाः सानुवासनाः| प्रयोज्या वातजे गुल्मे कफपित्तानुरक्षिणः||६||

🔊 Audio coming soon

स०-वातिके गुल्मे वह्नौ समिद्धे सति वातशकृतोश्च विबन्धे सति बृंहणान्यन्नादीनि स्निग्धोष्णानि च प्रयोजयेत्| तथा, पुनःपुनः स्नेहपानं प्रदापयेत्| निरूहाश्च सहानुवासना वातिके गुल्मे कफपित्तानुरक्षिणो नरस्य प्रयोज्याः|

Adhikarana bastikarma paraM gulmaghnam tasya hetuH ato vAtapittakaPagulmeShu sAnuvAsanA nirUhAH (7-8) · Śloka 8

बस्तिकर्म परं विद्याद्गुल्मघ्नं, तद्धि मारुतम्| स्वस्थाने प्रथमं जित्वा सद्यो गुल्ममपोहति||७|| तस्मादभीक्ष्णशो गुल्मा निरूहैः सानुवासनैः| प्रयुज्यमानैः शाम्यन्ति वातपित्तकफात्मकाः||८||

🔊 Audio coming soon

स०-बस्तिकर्म परं-अतिशयेन, गुल्मघ्नं विद्यात्| यस्मातत्-बस्तिकर्म, स्वस्थाने-पक्वाशयाख़्ये, प्रथमं पवनं जित्वा सद्यः-शीघ्रं, गुल्मं जयति| यत एवं तस्मात्कारणान्नित्यं गुल्मा निरूहैः सानुवासनैः प्रयुज्यमानैः शाम्यन्ति वातपित्तकफोत्थाः|

Adhikarana vAtagulme shUlAnAhaharaM hi~ggvAdisarpiH (9-10) · Śloka 10

हिङ्गुसौवर्चलव्योषबिडदिमदीप्यकैः| पुष्कराजाजिधान्याम्लवेतसक्षारचित्रकैः||९|| शठीवचागन्धैलासुरसैर्दधिसंयुतैः| शूलानाहहरं सर्पिः साधयेद्वातगुल्मिनाम्||१०||

🔊 Audio coming soon

स०-हिङ्ग्वादिभिर्दधियुक्तैर्घृतं साधयेत्| तच्च पीतं वातगुल्मवतां शूलादिजित्| द्रव्येभ्यश्चतुर्गणं घृतम्, घृतसमं दधि, घृताच्चतुर्गुणं जलम्, इत्यत्र पाकक्रमः|

Adhikarana vAtagulme udarAnAhAdau ca hapuShAdisarpiH (11-13) · Śloka 13

हपुषोषणपृथ्वीकापञ्चकोलकदीप्यकैः| साजाजीसैन्धवैर्दध्ना दुग्धेन च रसेन च||११|| दाडिमान्मूलकात्कोलात्पचेत्सर्पिर्निहन्ति तत्| वातगुल्मोदरानाहपार्श्वहृत्कोष्ठवेदनाः||१२|| योन्यर्शोग्रहणीदोषकासश्वासारुचिज्वरान्| |१३|

🔊 Audio coming soon

स०-हपुषादिभिर्घृताच्चतुर्थाशैर्द्रव्यैःर्दधिदुग्धाभ्यां दाडिममूलकबदररसैः समैः सर्पिः पचेत्| तच्च वातगुल्मादीन् पराकुर्यात्|

Adhikarana vAtagulme dAdhikaM ghRutam (13-21) · Śloka 21

| दशमूलं बलां कालां सुषवीं द्वौ पुनर्नवौ||१३|| पौष्करैरण्डरास्नाश्वगन्धाभार्ग्यमृताशठीः| पचेद्गन्धपलाशं च द्रोणेऽपां द्विपलोन्मितम्||१४|| यवैः कोलैः कुलत्थैश्च माषैश्च प्रास्थिकैः सह| क्वाथेऽस्मिन्दधिपात्रे च घृतप्रस्थं विपाचयेत्||१५|| स्वरसैर्दाडिमाम्रातमातुलुङ्गोद्भवैर्युतम्| तथा तुषाम्बुधान्याम्लशुक्तैः श्लक्ष्णैश्च कल्कितैः||१६|| भार्गीतुम्बुरुषड्ग्रन्थाग्रन्थिरास्नाग्निधान्यकैः| यवानकयवान्यम्लवेतसासितजीरकैः||१७|| अजाजीहिङ्गुहपुषाकारवीवृषकोषकैः| निकुम्भकुम्भमूर्वेभपिप्पलीवेल्लदाडिमैः||१८|| श्वदंष्ट्रात्रपुसैर्वारुबीजहिंस्राश्मभेदकैः| मिसिद्विक्षारसुरससारिवानीलिनीफलैः||१९|| त्रिकटुत्रिपटूपेतैर्दाधिकं तह्यपोहति| रोगानाशुतरान् पूर्वान् कष्टानपि च शीलितम्||२०|| अपस्मारगदोन्मादमूत्राघातानिलामयान्| |२१|

🔊 Audio coming soon

स०-दशमूलादीन् पृथग् द्विपलप्रमाणान् यवादिभिः प्रस्थप्रमाणैः सह जलद्रोणे पचेत्| काला-नीलिनी| सुषवी-स्थूलजीरकः| गन्धपलाशो-गन्धपत्रम्| अस्मिन् क्वाथे सामान्यपरिभाषया कृते दधिपात्रे च घृतप्रस्थं विपाचयेत्| किम्भूतम् ? दाडिमादिजै स्वरसैस्तथा तुषाम्ब्वादिभिश्च सर्पिःसमैर्युतम्| तथा भार्ग्यादिभिः कल्कीकृतैरुपेतम्| यवानको-यवानीभेदः| कारवी-अजमोदा| वृषको-वासकः| ऊषकः-कल्लरः| इभपिप्पली-गजपिप्पली| अश्मभेदः-पाषाणभेदः| तत्-एतत्, दाधिकं नाम घृतं पूर्वोक्तानामयान् द्राक्तारं हन्ति| अपस्मारादींश्च कृच्छ्रानप्यभ्यस्तं हन्ति| यदि चात्र स्वरसालाभस्तदा तन्त्रान्तरोक्ता कल्पना कार्या| तन्त्रान्तरे चोक्तम्-"प्रस्थं गृहीत्वा चूर्णस्य तोयस्य प्रस्थमावपेत्| अहोरात्रस्थितं पूतं तत्स्यात्स्वरसवद्गुणैः||" मुनिरप्यूचे (च. चि. अ. १ पादः २|१२)- "स्वरसानामलाभे त्वयं विधिः,-चूर्णानामाढकमाढकमुदकस्याहोरात्रस्थितं मृदितपूतमावपेत् तत्स्वरसवत् प्रयोज्यम्|" इति|

Adhikarana vAtagulme tryUShaNAdi ghRutam (21-22) · Śloka 22

| त्र्यूषणत्रिफलाधान्यचविकावेल्लचित्रकैः||२१|| कल्कीकृतैर्घृतं पक्वं सक्षीरं वातगुल्मनुत्| |२२|

🔊 Audio coming soon

स०-त्र्यूषणादिभिः कल्कीकृतैर्घृतं समानक्षीरं चतुर्गुणजलपक्वं वातगुल्मं नुदति|

Adhikarana vAtagulme lashunAdighRutam (22-25) · Śloka 25

| तुलां लशुनकन्दानां पृथक्पञ्चपलांशकम्||२२|| पञ्चमूलं महच्चाम्बुभारार्धे तद्विपाचयेत्| पादशेषं तदर्धेन दाडिमस्वरसं सुराम्||२३|| धान्याम्लं दधि चादाय पिष्टांश्चार्धपलांशकान्| त्र्यूषणत्रिफलाहिङ्गुयवानीचव्यदीप्यकान्||२४|| साम्लवेतससिन्धूत्थदेवदारून् पचेद्धृतात्| तैः प्रस्थं तत्परं सर्ववातगुल्मविकारजित्||२५||

🔊 Audio coming soon

स०-लशुनमूलतुलां पलशतं महत् पञ्चमूलं च प्रत्येकं पञ्चपलदघ्नम्| तदेतत्तोयादृशशते पादशेषं विपाचयेत्| पादशेषादर्धेन दाडिमस्वरसं सुरां धान्याम्लं दधि च गृहीत्वा त्र्यूषणादींश्च द्विकार्षिकानादाय तैर्घृतात् प्रस्थं पचेत्| तत्-घृतं, सर्ववातगुल्मविकारजित्|

Adhikarana vAtagulme ShaTpalaM ghRutamapi (26-27) · Śloka 27

षट्पलं वा पिबेत् सर्पिर्यदुक्तं राजयक्ष्मणि| प्रसन्नया वा क्षीरार्थः सुरया दाडिमेन वा||२६|| घृते मारुतगुल्मघ्नः कार्यो दध्नः सरेण वा| |२७|

🔊 Audio coming soon

स०-राजयक्ष्मचिकित्सिते (श्लो. २२) यदुक्तं षट्पलं घृतं तद्वा पिबेत्| राजयक्ष्मणीति विशेषणं स्पष्टार्थम्| घृते षट्पलाख्ये क्षीरार्थः प्रसन्नया वा कार्यः| अथवा सुरया दाडिमेन वा| दधिसारेण वा| एवं क्षीरं हित्वा प्रसन्नाद्यन्यतमेन साधितं घृतं षट्पलं वातगुल्मजित्स्यात्|

Adhikarana vAtagulme vRuddhaM kaPamullikhet (27-28) · Śloka 28

| वातगुल्मे कफो वृद्धो हत्वाऽग्निमरुचिं यदि||२७|| हृल्लासं गौरवं तन्द्रां जनयेदुल्लिख़ेत्तु तम्| |२८|

🔊 Audio coming soon

स०-वातजे गुल्मे श्लेष्मा वृद्धः सन्नग्निं हत्वा यद्यरुच्यादीन् जनयेत्तदा तं-कफं, उल्लिख़ेत्-उद्वमेत्|

Adhikarana vAtagulme shUlAdiShu kvAthacUrNa vaTakAH (28-29) · Śloka 29

| शूलानाहविबन्धेषु ज्ञात्वा सस्नेहमाशयम्||२८|| निर्यूहचूर्णवटकाः प्रयोज्या घृतभेषजैः| |२९|

🔊 Audio coming soon

स०-शूलादिषु सत्सु सस्नेहमाशयं ज्ञात्वा घृतोक्तैरौषधैः (घृतभेषजैः)- अनन्तरोक्तानां घृतानामौषधैः, क्वाथचूर्णगुटिका वा सह प्रयोज्याः|

Adhikarana vAtagulme shUlA cUrNAnAmanupAnam (29-30) · Śloka 30

| कोलदाडिमघर्माम्बुतक्रमद्याम्लकाञ्जिकैः||२९|| मण्डेन वा पिबेत्प्रातश्चूर्णान्यन्नस्य वा पुरः| |३०|

🔊 Audio coming soon

स०-कोलाद्यम्बुभिस्तक्रादिभिर्वा प्रातश्चूर्णानि-घृतौषधीनां सम्बन्धीनि, मण्डेन सह पिबेत्| अथवा अन्नस्य-आहारस्य, पुरः-पूर्वं, पिबेत्|

Adhikarana vAtagulme kaPayukte vaTakAH (30-31) · Śloka 31

| चूर्णानि मातुलुङ्गस्य भावितान्यसकृद्रसे||३०|| कुर्वीत कार्मुकतरान् वटकान् कफवातयः| |३१|

🔊 Audio coming soon

स०-चूर्णानि मातुलुङ्गरसेन मुहुर्मुहुर्भावितानि वटकान् कर्मकरणसमर्थान् कुर्वीत| कफवातयोः-कफवातिके गुल्म इत्यर्थः|

Adhikarana vAtagulme hiDgvAdi cUrNaM hRucCUlakRucCragulmAdiharam (31-33) · Śloka 33

हिङ्गुवचाविजयापशुगन्धा- दाडिमदीप्यकधान्यकपाठाः| पुष्करमूलशठीहपुषाग्नि- क्षारयुगत्रिपटुत्रिकटूनि||३१|| साजाजिचव्यं सहतित्तिडीकं सवेतसाम्लं विनिहन्ति चूर्णम्| हृत्पार्श्वबस्तित्रिकयोनिपायु- शूलानि वाय्वामकफोद्भवानि||३२|| कृच्छ्रान् गुल्मान् वातविण्मूत्रसङ्गं कण्ठे बन्धं हृद्ग्रहं पाण्डुरोगम्| अन्नाश्रद्धाप्लीहदुर्नामहिध्मा- वर्ध्माध्मानश्वासकासाग्निसादान्||३३||

🔊 Audio coming soon

स०-हिङ्ग्वादिकमेतच्चूर्णं हृच्छूलादीन्निहन्ति तथा कृच्छ्रगुल्मादींश्च| दोधकोपजातिशालिन्यः|

Adhikarana vAtagulme vaishvAnaraScUrNaH (34) · Śloka 34

लवणयवानीदीप्यक- कणनागरमुत्तरोत्तरं वृद्धम्| सर्वसमांशहरीतकी- चूर्णं वैश्वानरः साक्षात्||३४||

🔊 Audio coming soon

स०-लवणादिकं क्रमेणोत्तरं भागवृद्धं सर्वसमभागा हरितकीति चूर्णमेतत्साक्षाद्वैश्वानरः, दीपनगुणसामान्यात्| आर्यावृतम्|

Adhikarana vAtagulme trikaTukAdi cUrNam (35) · Śloka 35

त्रिकटुकमजमोदा सैन्धवं जीरके द्वे समधरणधृतानामष्टमो हिङ्गुभागः| प्रथमकवलभोज्यः सर्पिषा संप्रयुक्तो जनयति जठराग्निं वातगुल्मं निहन्ति||३५||

🔊 Audio coming soon

स०-त्रिकटुकादीनां सप्तानां समधरणधृतानां-समप्रमाणस्थापितानां, हिङ्गुभागोऽष्टमो 'देयः' इत्यध्याहार्यम्| केचित्त्वेवं व्याख़्यानयन्ति| धरणशब्देन पलस्य दशमो भाग उच्यते| धरणे धृता धरणधृताः, समाश्च ते धरणधृताश्च, तेषां समधरणधृतानां त्रिकटुकादीनामष्टमो हिङ्गुभागो देयः| स च प्रथमकवले भोज्यो-भक्षणीयः| सर्पिषा सम्यक् प्रयुक्तो-मिश्रितो, जठराग्निं जनयति, वातगुल्मं च हन्ति| मालिनीवृत्तम्|

Adhikarana vAtagulme shArdUlaScUrNaH (36) · Śloka 36

हिङ्गूग्राबिडशुण्ठ्यजाजिविजयावाट्याभिधानामयै- श्चूर्णः कुम्भनिकुम्भमूलसहितैर्भागोत्तरं वर्धितैः| पीतः कोष्णजलेन कोष्ठजरुजो गुल्मोदरादीनयं शार्दूलः प्रसभं प्रमथ्य हरति व्याधीन् मृगौघानिव||३६||

🔊 Audio coming soon

स०-हिङ्गूग्रेत्यादिभिर्भागोत्तरमंशाधिकं वर्धितैश्चूर्णः कोष्णजलेन पीतो जठररुजादीन् पराकरोति| अयं शार्दूलाख्यश्चूर्णो हठात् प्रमथ्य व्याधीन् मृगौघानिव शार्दूलः-सिंहः| अप्यत एव श्लेषोपमाऽयमलङ्कारः| तथा भीमशब्देन शार्दूलविक्रीडितं वृत्तमुपलक्ष्यते| यथा शार्दूलशब्देन भीमसेन इति| शार्दूलविक्रीडितं वृत्तम्|

Adhikarana vAtagulme sindhUtthAdicUrNam (37) · Śloka 37

सिन्धूत्थपथ्याकणदीप्यकानां चूर्णानि तोयैः पिबतां कवोष्णैः| प्रयाति नाशं कफवातजन्मा नाराचनिर्भिन्न इवामयौघः||३७||

🔊 Audio coming soon

स०-सिन्धूत्थादीनां चूर्णानि कोष्णैस्तोयैः पिबतां कफवातजो रोगसङ्घो नाशं याति| क इव ? नाराचेन निर्भिन्न इवेत्युपमा| उपजातिवृत्तम्|

Adhikarana vAtagulme pUtIkAdiBasma (38) · Śloka 38

पूतिकपत्रगजचिर्भटचव्यवह्नि- व्योषं च संस्तरचितं लवणोपधानम्| दग्ध्वा विचूर्ण्य दधिमस्तुयुतं प्रयोज्यं गुल्मोदरश्वयथुपाण्डुगुदोद्भवेषु||३८||

🔊 Audio coming soon

स०-पूतिकादिद्रव्यं संस्तरचितं यथाक्रमनिर्दिष्टमुपर्युपरिभावेन संस्तीर्णं तथा लवणोपधनं लवणं सर्वोपर्युपधानं दत्त्वाऽनन्तरं दग्ध्वा सञ्चूर्ण्य ततो दधिमस्तुना युतं गुल्मादिषु प्रयोज्यम्| वसन्ततिलकावृत्तम्|

Adhikarana vAtagulme hi~ggvAdi (39-40) · Śloka 40

| हिङ्गुत्रिगुणं सैन्धवमस्मात्त्रिगुणं च तैलमैरण्डम्||३९|| तत्त्रिगुणरसोनरसं गुल्मोदरवर्ध्मशूलघ्नम्| |४०|

🔊 Audio coming soon

स०-सैन्धवं हिङ्गुतस्त्रिगुणम्| अस्माच्च-सैन्धवात्, ऐरण्डतैलं त्रिगुणम्| तस्माच्च-ऐरण्डतैलात्, त्रिगुणं रसोनस्य रसम्| तदेतद्गुल्मादिघ्नम्| आर्यावृत्तम्|

Adhikarana vAtagulme mAtulu~ggarasAdi (40-41) · Śloka 41

| मातुलुङ्गरसो हिङ्गु दाडिमं बिडसैन्धवम्||४०|| सुरामण्डेन पातव्यं वातगुल्मरुजापहम्| |४१|

🔊 Audio coming soon

मातुलुङ्गरसादिकं सुरामण्डेन पातव्यं वातगुल्मपीडाहरम्|

Adhikarana vAtagulme shuNThyAdicUrNam (41-42) · Śloka 42

| शुण्ठ्याः कर्षं गुडस्य द्वौ धौतात्कृष्णतिलात्पलम्||४१|| ख़ादन्नेकत्र सञ्चूर्ण्य कोष्णक्षीरानुपो जयेत्| वातहृद्रोगगुल्मार्शोयोनिशूलशकृद्ग्रहान्||४२||

🔊 Audio coming soon

शुण्ठ्याः कर्षो गुडस्य द्वौ कर्षौ लुञ्चितकृष्णतिलात्पलमित्येकत्र मिश्रयित्वा ख़ादन् कोष्णक्षीरानुपः सन् वातहृद्रोगादीन् जयेत्|

Adhikarana vAtagulme sakaPe eraNDatailaM prasannayA,vAtagulme sapite eraNDatailaM payasA (43) · Śloka 43

पिबेदेरण्डतैलं तु वातगुल्मी प्रसन्नया| श्लेष्मण्यनुबले वायौ, पित्ते तु पयसा सह||४३||

🔊 Audio coming soon

स०-वातकफानुगे सत्येरण्डतैलं प्रसन्नया सहसा गुल्मवान् पिबेत्| पित्ते त्वनुगते पयसा सहैरण्डतैलं पिबेत्|

Adhikarana vAtagulme sasantApe sasneho virekaH vAtagulme sasantApe raktamokShaH (44-45) · Śloka 45

विवृद्धं यदि वा पित्तं सन्तापं वातगुल्मिनः| कुर्याद्विरेचनीयोऽसौ सस्नेहैरानुलोमिकैः||४४|| तापानुवृत्तावेवं च रक्तं तस्यावसेचयेत्| |४५|

🔊 Audio coming soon

स०-वातगुल्मिनः पित्तं विवृद्धं यदि सन्तापं कुर्यात्, तदाऽसौ-वातगुल्मी, विरेचनीयो-विरेचनार्हः| कैः ? आनुलोमिकैर्द्रव्यैः स्नेहयुतैः| एवं [च]-विरक्तस्यापि, तापानुवर्तने सति तस्य रक्तस्रावं कुर्यात्|

Adhikarana vAtagulme lashunakShIraM udAvartAdiharam (45-47) · Śloka 47

| साधयेच्छुद्धशुष्कस्य लशुनस्य चतुष्पलम्||४५|| क्षीरोदकेऽष्टगुणिते क्षीरशेषं च पाचयेत्| वातगुल्ममुदावर्तं गृध्रसीं विषमज्वरम्||४६|| हृद्रोगं विद्रधिं शोषं साधयत्याशु तत्पयः| |४७|

🔊 Audio coming soon

स०-क्षीरं चोदकं च क्षीरोदकम्| तस्मिन् लशुनादष्टगुणे शुद्धशुष्कस्य लशुनस्य चतुष्पलं साधयेत्| ततः क्षीरशेषं विपाचयेत्| तच्च क्षीरशेषं वातगुल्मादीन्य(न)भिभवति|

Adhikarana vAtagulme tailAdimishraNam (47-48) · Śloka 48

| तैलं प्रसन्ना गोमूत्रमारनालं यवाग्रजः||४७|| गुल्मं जठरमानाहं पीतमेकत्र साधयेत्| |४८|

🔊 Audio coming soon

स०-तैलादिकमेकत्र-मिलितं, पीतं गुल्मादीन् हन्ति|

Adhikarana vAtagulme citrakAdikvAthaH (48-49) · Śloka 49

| चित्रकग्रन्थिकैरण्डशुण्ठीक्वाथः परं हितः||४८|| शूलानाहविबन्धेशु सहिङ्गुबिडसैन्धवः| |४९|

🔊 Audio coming soon

स०-चित्रकादिक्वाथो हिङ्ग्वादियुतः परं शूलादिषु हितः|

Adhikarana vAtagulme puShkarAdikvAthaH (49-50) · Śloka 50

| पुष्करैरण्डयोर्मूलं यवधन्वयवासकम्||४९|| जलेन क्वथितं पीतं कोष्ठदाहरुजापहम्| |५०|

🔊 Audio coming soon

स०-पुष्करैरण्डमूलादिकं जलेन क्वथितं पीतं कोष्ठदाहादिजित्|

Adhikarana vAtagulme vATyAdikvAthaH (50-51) · Śloka 51

| वाट्याह्वैरण्डदर्भाणां मूलं दारु महौषधम्||५०|| पीतं निःक्वाथ्य तोयेन कोष्ठपृष्ठांसशूलजित्| |५१|

🔊 Audio coming soon

स०-वाट्याह्वादीनां मूलं देवदार्वादि च तोयक्वथितं पीतं कोष्ठादिशूलजित्|

Adhikarana vAtagulme shilAjatu payasA (51-52) · Śloka 52

| शिलाजं पयसाऽनल्पपञ्चमूलश्रृतेन वा||५१|| वातगुल्मी पिबेत्| |५२|

🔊 Audio coming soon

स०-शिलाजतु वा महत्पञ्चमूलक्वथितेन क्षीरेण सह वातगुल्मी पिबेत्|

Adhikarana vAtagulme udAvarte vATyaBojanam (52) · Śloka 52

वाट्यमुदावर्ते तु भोजयेत्| स्निग्धं पैप्पलिकैर्यूषैर्मूलकानां रसेन वा||५२||

🔊 Audio coming soon

स०-उदावर्ते सति वाट्यं स्निग्धं-सस्नेहं, पिप्पलीसंस्कृतैर्यूषैः सह भोजयेत्| अथवा, मूलकरसेनाश्नीयात्|

Adhikarana vAtagulme baddhaviNmArUte yavAnnaM kulmAshA vA (53) · Śloka 53

बद्धविण्मारुतोऽश्र्नीयात्क्षीरेणोष्णेन यावकम्| कुल्माषान् वा बहुस्नेहान् भक्षयेल्लवणोत्तरान्||५३||

🔊 Audio coming soon

स०-बद्धविण्मारुत उष्णेन क्षीरेण यावकमश्र्नीयात्| अथवा, कुल्माषान् बहुस्नेहान् लवणप्रधानान् भक्षयेत्|

Adhikarana vAtagulme samale nIlinyAdi ghRutam (54) · Śloka 54

नीलिनीत्रिवृतादन्तीपथ्याकम्पिल्लकैः सह| समलाय घृतं देयं सबिडक्षारनागरम्||५४||

🔊 Audio coming soon

स०-नीलिन्यादिभिः सह सदोषाय नराय बिडादियुतं घृतं देयम्|

Adhikarana vAtagulme kukkuTAdimAMsam (55-58) · Śloka 58

नीलिनीं त्रिफलां रास्नां बलां कटुकरोहिणीम्| पचेद्विडङ्गं व्याघ्रीं च पालिकानि जलाढके||५५|| रसेऽष्टभागशेषे तु घृतप्रस्थं विपाचयेत्| दध्नः प्रस्थेन संयोज्य सुधाक्षीरपलेन च||५६|| ततो घृतपलं दद्याद्यवागूमण्डमिश्रितम्| जीर्णे सम्यग्विरिक्तं च भोजयेद्रसभोजनम्||५७|| गुल्मकुष्ठोदरव्यङ्गशोफपाण्ड्वामयज्वरान्| श्वित्रं प्लीहानमुन्मादं हन्त्येतन्नीलिनीघृतम्||५८||

🔊 Audio coming soon

स०-नीलिन्यादीन् पलिकान् जलाढके पचेत्| अष्टभागशेषे च रसे दधिप्रस्थेन सुधाक्षीरपलेन च मिश्रयित्वा घृतप्रस्थं विपाचयेत्| ततो घृतपलं यवागूमण्डमिश्रितं दद्यात्| जीर्णे च घृते सम्यग्विरिक्तं नरं रसयुतं भोजनं भोजयेत्| एतच्च नीलिनीघृतं गुल्मादीन् हन्ति|

Adhikarana vAtagulme shAlyannaM madirA ghRutam (59) · Śloka 59

कुक्कुटाश्च मयूराश्च तित्तिरिक्रौञ्चवर्तकाः| शालयो मदिरा सर्पिर्वातगुल्मचिकित्सितम्||५९||

🔊 Audio coming soon

स०-कुक्कुटादयो वातगुल्मे चिकित्सितं-उपक्रमः|

Adhikarana vAtagulme annapAnaM ca (60) · Śloka 60

मितमुष्णं द्रवं स्निग्धं भोजनं वातगुल्मिनाम्| समण्डा वारुणी पानं तप्तं वा धान्यकैर्जलम्||६०||

🔊 Audio coming soon

स०-वातगुल्मिनां च भोजनं मितमुष्णं द्रवं स्निग्धं च स्यात्| वारुणी समण्डा धान्यकैः शृतं जलं वा पानं स्यात्|

Adhikarana pittagulme snigdhoShNaje virekaH (61) · Śloka 61

स्निग्धोष्णेनोदिते गुल्मे पैत्तिके स्रंसनं हितम्| |६१|

🔊 Audio coming soon

स०-पैत्तिके गुल्मे स्निग्धोष्णेनोत्थिते सति स्रंसनं हितम्| तदेव विरेचनमाह-

Adhikarana pittagulme drAkShAdivirecanam (61-62) · Śloka 62

द्राक्षाभयागुडरसं कम्पिल्लं वा मधुद्रुतम्||६१|| कल्पोत्कं रक्तपित्तोक्तं| |६२|

🔊 Audio coming soon

स०-द्राक्षाभयागुडरसं स्रंसनं हितम्| अथवा, मधुद्रुतं कम्पिल्लं स्रंसनं हितम्| कल्पोक्तं विरेचनं-विरेचनकल्पविहितं, (हृ. क. अ. २) , अक्तपित्तोक्तं-"त्रिवृता त्रिफला" (हृ. चि. अ. २|१०) इत्यादिकं, हितम्|

Adhikarana pittagulme rUkShoShNaje saMshamanam,pittarUkSho tiktAdighRutam pittarUkSho tRuNapa~jcamUlAdi kShIram (62-63) · Śloka 63

गुल्मे रूक्षोष्णजे पुनः| परं संशमनं सर्पिस्तिक्तं वासाघृतं श्रृतम्||६२|| तृणाख्यपञ्चाक्वाथे जीवनीयगणेन वा| श्रृतं तेनैव वा क्षीरं न्यग्रोधादिगणेन वा||६३||

🔊 Audio coming soon

स०-रूक्षोष्णजे पैत्तिके गुल्मे सर्पिस्तिक्तं-कुष्ठचिकित्सितोक्तं (हृ. चि. अ. १९|२) , तथा वासाघृतं (हृ. चि. अ. २|४२) संशमनं श्रेष्ठम्| तृणाख्यं पञ्चकं-"दर्भकासेक्षु" (हृ. सू. अ. ६|१७१) इत्यादि, तस्य क्वाथे श्रृतं घृतं हितम्| अथवा, जीवनीयगणेन श्रृतं घृतं हितम्| तेनैव-जीवनीयगणेन, श्रृतं क्षीरं हितम्| न्यग्रोधादिगणेन वा श्रृतं क्षीरं हितम्|

Adhikarana pittagulme rUkShoShNaje Atyayike virek (64) · Śloka 64

तत्रापि स्रंसनं युञ्ज्याच्छीघ्रमात्ययिके भिषक्| |६४|

🔊 Audio coming soon

स०-तत्रापि-न केवलं स्निग्धोष्णजे रूक्षोष्णजेऽपि पैत्तिके सामान्यतो वा समुत्पन्ने गुल्मे, आत्ययिके शीघ्रं स्रंसनं युञ्ज्यात्| केन ? इत्याह-

Adhikarana pittagulme rUkShoShNaje Atyayike virekadravyaghRutaM kShIraM vAhNaje (64) · Śloka 64

| वैरेचनिकसिद्धेन सर्पिषा पयसाऽपि वा||६४||

🔊 Audio coming soon

स०-विरेचनविहितद्रव्यसिद्धेन सर्पिषा क्षीरेण वा|

Adhikarana pittagulme AmalakAdighRutam (65-66) · Śloka 66

रसेनामलकेक्षूणां घृतप्रस्थं विपाचयेत्| पथ्यापादं पिबेत्सर्पिस्तत्सिद्धं पित्तगुल्मनुत्||६५|| पिबेद्वा तैल्वकं सर्पिर्यच्चोक्तं पित्तविद्रधौ| |६६|

🔊 Audio coming soon

स०-आमलकस्येक्षोश्च रसेन घृताच्चतुर्गुणितेनाढकमानेन पथ्यापादं घृतप्रस्थं विपाचयेत्| तच्च सिद्धं पित्तगुल्मं हन्ति| तैल्वकमथवा सर्पिः (हृ. चि. अ. २१|३२) पिबेत्| यच्च पित्तविद्रधावुक्तं घृतं (हृ. चि. अ. १३|४) तच्च पिबेत्|

Adhikarana pittagulme drAkShAdikalkaH (66-67) · Śloka 67

| द्राक्षां पयस्यां मधुकं चन्दनं पद्मकं मधु||६६|| पिबेत्तण्डुलतोयेन पित्तगुल्मोपशान्तये| |६७|

🔊 Audio coming soon

स०-द्राक्षादि तण्डुलजलेन सह पित्तगुल्मशान्तये पिबेत्|

Adhikarana pittagulme trAyamANAkvAthaH (67-69) · Śloka 69

| द्विपलं त्रायमाणाया जलद्विप्रस्थसाधितम्||६७|| अष्टभागस्थितं पूतं कोष्णं क्षीरसमं पिबेत्| पिबेदुपरि तस्योष्णं क्षीरमेव यथाबलम्||६८|| तेन निर्हृतदोषस्य गुल्मः शाम्यति पैत्तिकः| |६९|

🔊 Audio coming soon

स०-त्रायन्त्या द्विपलं जलद्विप्रस्थसाधितमष्टभागावशेषं पटेन पूतं क्षीरसमं पिबेत्| तस्योपरि कोष्णं क्षीरमेव यथाशक्ति पिबेत्-नान्यत्किञ्चित्| तेन-क्षीरेण, अपहृतदोषस्य गुल्मः पैत्तिकः शाम्यति|

Adhikarana pittagulme dAhe shItairghRutAdibhirabhya~ggalepasparshAdiShu raktaharaNamulme (69-70) · Śloka 70

| दाहेऽभ्यङ्गो घृतैः शीतैः साज्यैर्लेपो हिमौषधैः||६९|| स्पर्शः सरोरुहां पत्रैः पात्रैश्च प्रचलज्जलैः| |७०|

🔊 Audio coming soon

स०-पैत्तिके गुल्मे दाहे सति घृतैः शीतैः-शीतवीर्यसाधितैः स्पर्शतश्च शीतैः, अभ्यङ्गस्तथा लेपः शीतवीर्यौषधैः सघृतैः स्यात्| पद्मपत्रैः पात्रैश्च प्रचलज्जलैः स्पर्शः|

Adhikarana pittagulme raktasruteH phalamulme (70-72) · Śloka 72

| विदाहपूर्वरूपेषु शूले वह्नेश्च मार्दवे||७०|| बहुशोऽपहरेद्रक्तं पित्तगुल्मे विशेषतः| छिन्नमूला विदह्यन्ते न गुल्मा यान्ति च क्षयम्||७१|| रक्तं हि व्यम्लतां याति, तच्च नास्ति न चास्ति रुक्| |७२|

🔊 Audio coming soon

स०-विदाहपूर्वरूपेषु गुल्मेषु तथा शूले वह्निमान्द्ये च सति बहून् वारान् रक्तं हरेत्| पित्तगुल्मे विशेषेणास्रं हरेत्| स०-छिन्नमूला गुल्मा न विदह्यन्ते-न पाकं यान्ति| च-पुनः, क्षयं यान्ति| हि-यस्मात्, रक्तमन्तःस्थितं व्यम्लीभावं याति| तच्च-रक्तं, नास्ति ततस्तदुत्था रुगपि नास्ति|

Adhikarana pittagulme mlAnatve jA~ggalarasaH pitta sasheShArtau sarpiH (72-73) · Śloka 73

| हृतदोषं परिम्लानं जाङ्गलैस्तर्पितं रसैः||७२|| समाश्वस्तं सशोषार्तिं सर्पिरभ्यासयेत्पुनः| |७३|

🔊 Audio coming soon

स०-हृतदोषं परिम्लानं नरं जाङ्गलमांसरसैस्तर्पितं समाश्वस्तं सन्तं सशेषार्तिं सर्पिरभ्यासयेत्|

Adhikarana pittagulme pAkonmukhe pittavidradhivat kriyA (73-74) · Śloka 74

| रक्तपित्तातिवृद्धत्वात्क्रियामनुपलभ्य वा||७३|| गुल्मे पाकोन्मुखे सर्वा पित्तविद्रधिवत्क्रिया| |७४|

🔊 Audio coming soon

स०-रक्तपित्तातिवृद्धत्वाद्धेतोः क्रियां वाऽनुपलभ्य-अनासाद्य, गुल्मे पाकोन्मुख़े सति सर्वा पित्तविद्रधितुल्या क्रिया स्यात्|

Adhikarana pittagulme annaM pAnaM ca (74-75) · Śloka 75

| शालिर्गव्याजपयसी पटोली जाङ्गलं घृतम्||७४|| धात्री परूषकं द्राक्षा खर्जूरं दाडिमं सिता| भोज्यं, पानेऽम्बु बलया बृहत्याद्यैश्च साधितम्||७५||

🔊 Audio coming soon

स०-शाल्यादि भोज्यम्| पाने बलया साधितं जलं बृहत्यादिना वा|

Adhikarana shleShmagulme pUrvaM vamanam shleShmAvamye upavAsaH shleShma tiktAdisaMsargyA hi~ggvAdiBiSca vanhisandhukShaNam (76-77) · Śloka 77

श्लेष्मजे वामयेत्पूर्वमवम्यमुपवासयेत्| तिक्तोष्णकटुसंसर्ग्या वह्निं सन्धुक्षयेत्ततः||७६|| हिङ्ग्वादिभिश्च द्विगुणक्षारहिङ्ग्वम्लवेतसैः| |७७|

🔊 Audio coming soon

स०-श्लेष्मजे गुल्मे पूर्वं वामयेत्| अवमनाह तु लङ्घयेत्| कृतोपवासस्य तिक्तोष्णकटुद्रव्ययुतया संसर्ग्या वह्निं दीपयेत्| तथा हिङ्ग्वादिभिरग्निं सन्धुक्षयेत्| किम्भूतैः ? द्विगुणानि क्षारहिङ्ग्वम्लवेतसानि येषु तैः|

Adhikarana shleShmagulme nigUDhatvAdiyute svedanaM ghRutapAnaM ca (77-78) · Śloka 78

| निगूढं यदि वोन्नद्धं स्तिमितं कठिनं स्थिरम्||७७|| आनाहादियुतं गुल्मं संस्वेद्य विनयेदनु| घृतं सक्षारकटुकं पातव्यं कफगुल्मिनाम्||७८||

🔊 Audio coming soon

स०-निगूढादिधर्मयुक्तं गुल्मं संशोध्य(संस्वेद्य) विनयेत्-उपशमयेत्| पश्चात् कफगुल्मिनां घृतं क्षारकटुकयुतं पातव्यम्|

Adhikarana shleShmagulme dashamUlaghRutam (79) · Śloka 79

सव्योषक्षारलवणं सहिङ्गुबिडदाडिमम्| कफगुल्मं जयत्याशु दशमूलश्घृतं ऋतम्||७९||

🔊 Audio coming soon

स०-व्योषादियुतं दशमूलपक्वं सर्पिः कफगुल्मं शीघ्रमेव हन्ति|

Adhikarana shleShmagulme bhallAtakaghRutam (80-83) · Śloka 83

भल्लातकानां द्विपलं पञ्चमूलं पलोन्मितम्| अल्पं तोयाढके साध्यं पादशेषेण तेन च||८०|| तुल्यं घृतं तुल्यपयो विपचेदक्षसम्मितैः| विडङ्गहिङ्गुसिन्धूत्थयावशूकशठीबिडैः||८१|| सद्वीपिरास्नायष्ट्याह्वषड्ग्रन्थाकणनागरैः| एतद्भल्लातकघृतं कफगुल्महरं परम्||८२|| प्लीहपाण्ड्वामयश्वासग्रहणीरोगकासजित्| |८३|

🔊 Audio coming soon

स०-भल्लातकानां द्विपलं अल्पं-ह्रस्वं, पञ्चमूलं पृथक् पलप्रमाणं तोयाढके साधनीयम्| पादशेषेण च तेन क्वाथेन समं सर्पिस्तुल्यक्षीरं विडङ्गादिभिः कल्कीभूतैः कार्षिकैर्विपाचयेत्| एतच्च भल्लातकघृतं परं-सुष्ठु, कफगुल्महरं प्लीहादिजिच्च|

Adhikarana shleShmagulme sarvadehe ca svedaH (83) · Śloka 83

| ततोऽस्य गुल्मे देहे च समस्ते स्वेदमाचरेत्||८३||

🔊 Audio coming soon

स०-ततो-घृतपानादनन्तरं, गुल्मे देहे चास्य समस्ते स्वेदमाचरेत्|

Adhikarana shleShmagulme snehasvedaphalam (84) · Śloka 84

सर्वत्र गुल्मे प्रथमं स्नेहस्वेदोपपादिते| या क्रिया क्रियते याति सा सिद्धिं न विरूक्षिते||८४||

🔊 Audio coming soon

स०-[सर्वत्र-] सर्वस्मिन्नष्टविधे च, गुल्मे प्रथमं-आदौ, स्नेहस्वेदाभ्यामुपपादिते सति या क्रिया क्रियते सा सिद्धिं याति| या तु विरूक्षिते सति क्रिया सा सिद्धिं न याति|

Adhikarana shleShmagulme ghaTikAyojanam shleShma tato gulmavidAraNam shleShma tataH prapIDanaM mraMkShaNaM ca (85-87) · Śloka 87

स्निग्धस्विन्नशरीरस्य गुल्मे शैथिल्यमागते| यथोक्तां घटिकां न्यस्येद्गृहीतेऽपनयेच्च ताम्||८५|| वस्त्रान्तरं ततः कृत्वा छिन्द्याद्गुल्मं प्रमाणवित्| विमार्गाजपदादर्शैर्यथालाभं प्रपीडयेत्||८६|| प्रमृज्याद्गुल्ममेवैकं न त्वन्त्रहृदयं स्पृशेत्| |८७|

🔊 Audio coming soon

स०-स्निग्धस्विन्नशरीरस्य गुल्मे शैथिल्यं याते सति यन्त्रविध्युदितां घटिकां योजयेत्| गृहीते च गुल्मे तामपसारयेत्| अनन्तरं वस्त्रव्यवहितं गुल्मं कृत्वा प्रमाणवित् विमार्गादिभिर्यथालाभं भिन्द्यात्-विदारयेत् सूचिकादिना| विमार्गो-दारुमयः शस्त्रकृतिर्वस्तुविशेषश्चर्मकारसम्बन्धी| तथा, गुल्ममेव केवलं प्रपीडयेत् प्रमृज्याच्च| न पुनरन्त्रं हृदयं [च] स्पृशेत्|

Adhikarana shleShmagulme tato lepaH svedashca (87-88) · Śloka 88

| तिलैरण्डातसीबीजसर्षपैः परिलिप्य च||८७|| श्लेष्मगुल्ममयस्पात्रैः सुख़ोष्णैः स्वेदयेत्ततः| |८८|

🔊 Audio coming soon

स०-अथवा कफगुल्मं तिलादिभिः परिलिप्यानन्तरं लोहभाजनैः सुख़ोष्णैः स्वेदयेत्| अयस्पात्रैरिति "अतःकृकमि" इत्यादिना सादेशः|

Adhikarana shleShmagulme evaM sthAnAccalite virecanairbastibhishca shodhanam (88-89) · Śloka 89

| एवं च विसृतं स्थानात् कफगुल्मं विरेचनैः||८८|| सस्नेहैर्बस्तिभिश्चैनं शोधयेद्दाशमूलिकैः| |८९|

🔊 Audio coming soon

स०-एवं-अस्मिन् प्रकारे कृते सति, स्थानाच्चलितं कफगुल्मं स्नेहयुक्तैर्विरेचनैर्बस्तिभिश्च दाशमूलिकैः (हृ. क. अ. ४|४) शोधयेत्|

Adhikarana shleShmagulme miSrakaH sneha sraMsanaH (89-91) · Śloka 91

| पिप्पल्यामलकद्राक्षाश्यामाद्यैः पालिकैः पचेत्||८९|| एरण्डतैलहविषोः प्रस्थौ पयसि षड्गुणे| सिद्धोऽयं मिश्रकः स्नेहो गुल्मिनां स्रंसनं हितम्||९०|| वृद्धिविद्रधिशूलेषु वातव्याधिषु चामृतम्| |९१|

🔊 Audio coming soon

स०-पिप्पल्यादिभिः पलोन्मितैरण्डतैलसर्पिषोः प्रस्थौ द्वौ षड्गुणे क्षीरे पचेत्| अयं मिश्रकाख़्यः स्नेहो गुल्मिनां परं स्रंसनं वृद्ध्यादिषु चामृततुल्यम्|

Adhikarana shleShmagulme nIlinIghRutaM straMsanam shleShma sukumAraM ghRutaM straMsanam (91-92) · Śloka 92

| पिबेद्वा नीलिनीसर्पिर्मात्रया द्विपलीनया||९१|| तथैव सुकुमाराख्यं घृतान्यौदरिकाणि वा| |९२|

🔊 Audio coming soon

स०-अथवा नीलिनीघृतं-प्रागुक्तं (श्लो. ५५) , स्रंसनं द्विपलमात्रया पिबेत्| तथैव द्विपलमात्रया सुकुमाराख्यं घृतं-विद्रध्युक्तं (हृ. चि. १३|४१) , स्रंसनार्थं पिबेत्| उदरचिकित्सितोक्तानि वा घृतानि पिबेत्|

Adhikarana shleShmagulme udaroktaghRutAni sraMsanam shleShma dantIharItakyaH straMsanam (92-97) · Śloka 97

| द्रोणेऽम्भसः पचेद्दन्त्याः पलानां पञ्चविंशतिम्||९२|| चित्रकस्य तथा पथ्यास्तावतीस्तद्रसे स्रुते| द्विप्रस्थे साधयेत्पूते क्षिपेद्दन्तीसमं गुडम्||९३|| तैलात्पलानि चत्वारि त्रिवृतायाश्च चर्णतः| कणाकर्षौ तथा शुण्ठ्याः सिद्धे लेहे तु शीतले||९४|| मधु तैलसमं दद्याच्चतुर्जाताच्चतुर्थिकाम्| अतो हरीतकीमेकां सावलेहपलामदन्||९५|| सुखं विरिच्यते स्निग्धो दोषप्रस्थमनामयः| गुल्महृद्रोगदुर्नामशोफानाहगरोदरान्||९६|| कुष्ठोत्क्लेशारुचिप्लीहग्रहणीविषमज्वरान्| घ्नन्ति दन्तीहरीतक्यः पाण्डुतां च सकामलाम्||९७||

🔊 Audio coming soon

स०-जलद्रोणे दन्तीपलानां पञ्चविंशतिं, [तथा] चित्रकस्य पलानां पञ्चविंशतिं, [तथा] हरितकीस्तावतीः-पञ्चविंशतिं, पचेत्|तद्रसे स्रुते द्विप्रस्थदघ्ने पूते पथ्यासहिते दन्तीतुल्यं गुडं क्षिपेत्| तैलपलानि चत्वारि, त्रिवृत्पलानि च चत्वारि| कणायाः कर्षौ द्वौ शुण्ट्याश्च| सिद्धे चास्मिन् लेहे तु सुशीते तैलतुल्यं माक्षिकं दद्यात्| चतुर्जातात् समुदिताच्चतुर्थिकां-पलापरसंज्ञां, दद्यात्| अतो-लेहात्, पथ्यामेकां सावलेहपलयुतां भक्षयेत्| स्निग्धो नरः सुखं दोषप्रस्थं विरिच्यते निरामयः| एता दन्तीहरीतक्यः प्लीहा(गुल्मा)दीन् घ्नन्ति|

Adhikarana shleShmagulme trivRutAcUrNam straMsanam (98) · Śloka 98

सुधाक्षीरद्रवं चूर्णं त्रिवृतायाः सुभावितम्| कार्षिकं मधुसर्पिर्भ्यां लीढ्वा साधु विरिच्यते||९८||

🔊 Audio coming soon

स०-सुधाक्षीरेण द्रवं त्रिवृतायाश्चूर्णं प्रकृतत्वात्सुधाक्षीरेणैव सुभावितं कर्षप्रमाणं मधुसर्पिर्भ्यां लीढ्वा सम्यग्विरिच्यते|

Adhikarana shleShmagulme kuShThAdicUrNam sraMsanam (99) · Śloka 99

कुष्ठश्यामात्रिवृद्दन्तीविजयाक्षारगुग्गुलून्| गोमूत्रेण पिबेदकं तेन गुग्गुलुमेव वा||९९||

🔊 Audio coming soon

स०-कुष्ठादीन् गोमूत्रेण पिबेत्| अथवा, तेन-गोमूत्रेण, गुग्गुलुमेकमेव पिबेत्|

Adhikarana shleShmagulme gugguluH sraMsanam shleShma kalpasidhyuktA nirUhAH (100) · Śloka 100

निरूहान् कल्पसिध्द्युक्तान् योजयेद्गुल्मनाशनान्| |१००|

🔊 Audio coming soon

स०-कल्पसिध्द्युक्तान्निरूहान् गुल्मनाशनान् योजयेत्|

Adhikarana shleShmagulme kRutamUlatvAdiyute kShArAriShTAgnikarmANi (100-102) · Śloka 102

| कृतमूलं महावास्तुं कठिनं स्तिमितं गुरुम्||१००|| गूढमांसं जयेद्गुल्मं क्षारारिष्टाग्निकर्मभिः| एकान्तरं द्व्य्न्तरं वा विश्रमय्याथ वा त्र्यहम्||१०१|| शरीरदोषबलयोर्वर्धनक्षपणोद्यतः| |१०२|

🔊 Audio coming soon

स०-कृतमूलादिधर्मयुक्तं गुल्मं क्षारादिभिर्जयेत्| एकान्तरं द्व्यन्तरं वा त्र्यहं वा विश्रमय्य शरीरदोषबलयोर्यथाक्रमं वर्धनक्षपणयोरुद्यतः सन्|

Adhikarana shleShmagulme arshoshmarIgrahaNyuktAHkShArAH (102) · Śloka 102

| अर्शोश्मरीग्रहण्युक्ताः क्षारा योज्याः कफोल्बणे||१०२||

🔊 Audio coming soon

स०-कफाधिके गुल्मेऽर्शोश्मरीग्रहणीषूक्ता ये क्षारास्ते योज्याः|

Adhikarana shleShmagulme kShAraH CedanaBedanapAtanakRut (103-108) · Śloka 108

देवदारुत्रिवृद्दन्तीकटुकापञ्चकोलकम्| स्वर्जिकायावशूकाख्यौ श्रेष्ठापाठोपकुञ्चकम्||१०३|| कुष्ठं सर्पसुगन्धां च द्व्यक्षांशं पटुपञ्चकम्| पालिकं चूर्णितं तैलवसादधिघृताप्लुतम्||१०४|| घतस्यान्तः पचेत्पक्वमग्निवर्णे घटे च तम्| क्षारं गृहीत्वा क्षीराज्यतक्रमद्यादिभिः पिबेत्||१०५|| गुल्मोदावर्तवर्ध्मार्शोजठरग्रहणीकृमीन्| अपस्मारगरोन्मादयोनिशुक्रामयाश्मरीः||१०६|| क्षारागदोऽयं शमयेद्विषं चाखुभुजङ्गजम्| श्लेष्माणं मधुरं स्निग्धं रसक्षीरघृताशिनः||१०७|| छित्त्वा भित्त्वाऽऽशयात् क्षारः क्षरत्वात्क्षारयत्यधः| |१०८|

🔊 Audio coming soon

स०-देवदार्वादिसर्पसुगन्धापर्यन्तं द्विकार्षिकं लवणपञ्चकं पालिकमेतत्समस्तं चूर्णीकृतं तैलवसादधिघृतैराप्लुतं-आलोडितं, घटस्य मध्येऽन्तर्धूमं पचेत्| सर्पसुगन्धा-नाकुली| अग्निवर्णे च घटे सति पक्वं तं क्षारं गृहीत्वा यथादोषं क्षीरादिभिः पिबेत्| गुल्मादीन् जयेत् अयं क्षारागद आखुजं भुजङ्गजं च विषं द्राक् शमयेत्| स०-श्लेष्माणं मधुरं स्निग्धं मांसरसाद्याशिनः क्षारः क्षा(क्ष)रत्वादाशयं(यात्) छित्त्वा भित्त्वाऽधस्तात् पातयति|

Adhikarana shleShmagulme mandAgnyAdiyute AsavAriShTayojanA (108-109) · Śloka 109

| मन्देऽग्नावरुचौ सात्मयैर्मद्यैः सस्नेहमश्नताम्||१०८|| योजयेदासवारिष्टान्निगदान् मार्गशुद्धये| |१०९|

🔊 Audio coming soon

मन्देऽग्नावरुचौ च सत्यां मद्यैः सात्म्यैः सहस्नेहमाहारमश्र्नतामासवादीन् मार्गशुद्धये योजयेत्| अधुनाऽन्नपानमाह-

Adhikarana shleShmagulme shAlyAdyannam shleShma vArUNyAdipAnam (109-112) · Śloka 112

| शालयः षष्टिका जीर्णाः कुलत्था जाङ्गलं फलम्||१०९|| चिरिबिल्वाग्नितर्कारीयवानीवरुणाङ्कुराः| शिग्रुस्तरुणबिल्वानि बालं शुष्कं च मूलकम्||११०|| बीजपूरकहिङ्ग्वम्लवेतसक्षारदाडिमम्| व्योषं तक्रं घृतं तैलं भक्तं, पानं तु वारुणी||१११|| धान्याम्लं मस्तु तक्रं च यवानीबिडचूर्णितम्| पञ्चमूलश्रृतं वारि जीर्णं मार्द्वीकमेव वा||११२||

🔊 Audio coming soon

स०-शालय इत्यादि भक्तान्तं भक्तम्| पानं तु वारुण्यादि मार्द्वीकान्तम्|

Adhikarana shleShmagulme surA jagalaSca (113) · Śloka 113

पिप्पलीपिप्पलीमूलचित्रकाजाजिसैन्धवैः| सुरा गुल्मं जयत्याशु जगलश्च विमिश्रितः||११३||

🔊 Audio coming soon

स०-पिप्यल्यादिभिः सह सुरा शीघ्रमेव गुल्मं जयति| जगलश्च पिप्पल्यादिभिर्विमिश्रितो गुल्मं जयति|

Adhikarana shleShmagulme vamanAdiBirashame dAhaH (114-115) · Śloka 115

वमनैर्लङ्घनैः स्वेदैः सर्पिःपानैर्विरेचनैः| बस्तिक्षारासवारिष्टगुलिकापथ्यभोजनैः||११४|| श्लैष्मिको बद्धमूलत्वाद्यदि गुल्मो न शाम्यति| तस्य दाहं हृते रक्ते कुर्यादन्ते शरादिभिः||११५||

🔊 Audio coming soon

स०-वमनादिभिः प्रयुक्तैः श्लैष्मिको गुल्मो बद्धमूलत्वाद्यदि न शाम्यति, तस्य-गुल्मस्य, हृते रक्तेऽन्ते दाहं शरादिभिः कुर्यात्| अथ दाहविधानं प्रस्तूयते-

Adhikarana shleShmagulme dAhavidhAnam (116-118) · Śloka 118

अथ गुल्मं सपर्यन्तं वाससाऽन्तरितं भिषक्| नाभिबस्त्यन्त्रहृदयं रोमराजीं च वर्जयन्||११६|| नातिगाढं परिमृशेच्छरेण ज्वलताऽथवा| लोहेनारणिकोत्थेन दारुणा तैन्दुकेन वा||११७|| ततोऽग्निवेगे शमिते शीतैर्व्रण इव क्रिया| |११८|

🔊 Audio coming soon

स०-गुल्मं पर्यन्तैः सह वस्त्रेणान्तरितं-आच्छादितं, नाभ्यादि वर्जयन्नातिशयेन परामृशेद्वैद्यः| शरेण लोहेन वा ज्वलता| किम्भूतेन ? आरणिकोत्थेन| अथवा, तैन्दुकेन काष्ठेन| अनन्तरमग्निवेगे शमिते सति शीतैः प्रदेहादिभिर्व्रण इव क्रिया स्यात्|

Adhikarana shleShmagulme AmAnvaye la~gghanAdi dvidoShaje tridoShaje ca gulme mishraH kramaH (118-119) · Śloka 119

| आमान्वये तु पेयाद्यैः सन्धुष्याग्निं विलङ्घिते||११८|| स्वं स्वं कुर्यात्क्रमं मिश्रं मिश्रदोषे च कालवित्| |११९|

🔊 Audio coming soon

आमान्वये च सति वह्निं पेयाद्यैः सन्धुक्ष्य विलङ्घिते सति स्वं स्वं क्रमं-यथादोषं, कुर्यात्| मिश्रदोषे मिश्रं क्रमं कुर्यात्| कालवित्-वैद्यः|

Adhikarana raktagulme snehavirecanam (119-12) · Śloka 12

| गतप्रसवकालायै नार्यै गुल्मेऽस्रसम्भवे||११९|| स्निग्धस्विन्नशरीरायै दद्यात्स्नेहविरेचनम्| ||१२||

🔊 Audio coming soon

स०-नार्यै अस्रसम्भवे गुल्मे सति स्नेहविरेचनं दद्यात्| किम्भूतायै ? गतः प्रसवकालो यस्यास्तस्यै इति| एवं हि पुराणत्वे सुख़साध्यता रक्तगुल्मस्य स्यात् सुनिश्चितत्वं च| तथा स्निग्धं स्विन्नं शरीरं यस्यास्तस्यै|

Adhikarana raktagulme tilakvAthaH (120-121) · Śloka 121

| तिलक्वाथो घृतगुडव्योषभार्गीरजोन्वितः||१२०|| पानं रक्तभवे गुल्मे नष्टे पुष्पे च योषितः| |१२१|

🔊 Audio coming soon

स०-रक्तोत्थे गुल्मे तिलक्वाथो घृतादियुक्तः पानं योषितः| पुष्पे च नष्टे पानं भवेत्|

Adhikarana raktagulme BAr~ggyAdicUrNam (121-122) · Śloka 122

| भार्ङ्गीकृष्णाकरञ्जत्वग्ग्रन्थिकामरदारुजम्||१२१|| चूर्णं तिलानां क्वाथेन पीतं गुल्मरुजापहम्| |१२२|

🔊 Audio coming soon

स०-भार्ङ्ग्यादिजं चूर्णं तिलक्वाथेन पीतं गुल्मरुजाहृत्|

Adhikarana raktagulme palAshakShArasiddho yamakasnehaH (122-123) · Śloka 123

| पलाशक्षारपात्रे द्वे द्वे पात्रे तैलसर्पिषोः||१२२|| गुल्मशैथिल्यजननीं पक्त्वा मात्रां प्रयोजयेत्| |१२३|

🔊 Audio coming soon

स०-पलाशक्षारपात्रे द्वे तैलसर्पिषोर्द्वे पात्रे पक्त्वा गुल्मशैथिल्यजननीं मात्रां प्रयोजयेत्| स्नेहाच्चतुर्गुणं तोयमत्र क्षेप्तव्यम्|

Adhikarana raktagulme evamaBidyamAne yonivirecanam (123) · Śloka 123

| न प्रभिद्येत यद्येवं दद्याद्योनिविरेचनम्||१२३||

🔊 Audio coming soon

स०-एवं कृते सति यदि न प्रभिद्येत रक्तगुल्मस्तदा योनिविरेचनं दद्यात्| तदाह-

Adhikarana raktagulme yonivirecanayogAH (124-127) · Śloka 127

क्षारेण युक्तं पललं सुधाक्षीरेण वा ततः| ताभ्यां वा भावितान्दद्याद्योनौ कटुकमत्स्यकान्||१२४|| वराहमत्स्यपित्ताभ्यां नक्तकान् वा सुभावितान्| किण्वं वा सगुडक्षारं दद्याद्योनौ विशुद्धये||१२५|| रक्तपित्तहरं क्षारं लेहयेन्मधुसर्पिषा| लशुनं मदिरां तीक्ष्णां मत्स्यांश्चास्यै प्रयोजयेत्||१२६|| बस्तिं सक्षीरगोमूत्रं सक्षारं दाशमूलिकम्| |१२७|

🔊 Audio coming soon

स०-क्षारयुक्तं भृष्टतिलचूर्णं ततस्तस्या योनौ दद्यात्| सुधाक्षीरेण वाऽन्वितं पललं दद्यात्| ताभ्यां-क्षारसुधाक्षीराभ्यां, भावितान् कटुकमत्स्यकान् योनौ दद्यात्| वराहमत्स्ययोः पित्ताभ्यां कटुकमत्स्यकान् सुभावितान् नक्तकान् वा सुभावितान् योनौ दद्यात्| अथवा, किण्वं गुडक्षारान्वितं योनिविशुध्द्यर्थं योनौ दद्यात्| रक्तपित्तहरं क्षारं मधुसर्पिषा लेहयेत्| लशुनं मदिरां तीक्ष्णां मत्स्यांश्चास्यै प्रयोजयेत्| दाशमूलिकं बस्तिं-कल्पोक्तं (हृ. क. अ. ४|४) , क्षीरगोमूत्रसहितं क्षारान्वितमस्यै दद्यात्|

Adhikarana raktagulme apravRutte rakte gulmaBedanam (127) · Śloka 127

| अवर्तमाने रुधिरे हितं गुल्मप्रभेदनम्||१२७||

🔊 Audio coming soon

स०-रक्तेऽप्रवर्तमाने सति गुल्मप्रभेदनं हितम्|

Adhikarana raktagulme pravRutte rakte upekShaNam rakta pravRutte mAMsarasApAnam rakta pravRutte tarUNIsurApAnam (128) · Śloka 128

यमकाभ्यक्तदेहायाः प्रवृत्ते समुपेक्षणम्| रसौदनस्तथाऽऽहारः पानं च तरुणी सुरा||१२८||

🔊 Audio coming soon

स०-प्रवृत्ते रक्ते सति यमकाभ्यक्तगात्रायाः समुपेक्षणं-सम्यगुपेक्षणं हितम्| तथा, आहारो रसौदनो हितः| तरुणी सुरा च पानम्|

Adhikarana raktagulme atipravRutte rakte rakta pittaharakriyA, rakta vAtau vAtaharA kriyA, rakta AnAhAdau udAvartabalAsaghnIkriyA (14) · Śloka 14

रुधिरेऽतिप्रवृत्ते तु रक्तपित्तहराः क्रियाः| कार्या वातरुगार्तायाः सर्वा वातहराः पुनः||१२९|| आनाहादावुदावर्तबलासघ्नो यथायथम्| १२९ १/२| इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां चतुर्थे चिकित्सितस्थाने गुल्मचिकित्सितं नाम चतुर्दशोऽध्यायः||१४||

🔊 Audio coming soon

स०-रुधिरेऽतिप्रवृत्ते पुना रक्तपित्तहराः क्रियाः कार्याः| वातरुगार्तायाः पुनः सर्वा वातहराः क्रियाः कार्याः| आनाहादौ सत्युदावर्तबलासजितः क्रियाः कार्या इति| इति श्रीमृगाङ्कदत्तपुत्रश्रीमदरुणदत्तविरचितायामष्टाङ्गहृदयटीकायां सर्वाङ्गसुन्दराख़्यायां चतुर्थे चिकित्सितस्थाने गुल्मचिकित्सितं नाम चतुर्दशोऽध्यायः समाप्तः|| १४||