Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

13. vidradhivr̥ddhicikitśitādhyāyaḥ

Adhikarana adhyAyopakramaH SArIrasthAnam · Śloka

🔊 Audio coming soon

अस्मादनन्तरं विद्रधिवृद्धिचिकित्सितमारभ्यते, प्रमेहोपद्रवभूतत्वाद्विद्रधेः| इत्याह-

Adhikarana vidradhivRuddhicikitsitAdhyAyaH Ame vidradhau shoPavat upakramaHvAtike vidradhau dhAvanalepanashodhanaropaNAni (2-1) · Śloka 1

अथातो विद्रधिवृद्धिचिकित्सितं व्याख़्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः| (गद्यसूत्रे|२| ) विद्रधिं सर्वमेवामं शोफवत्समुपाचरेत्| प्रततं च हरेद्रक्तं पक्वे तु व्रणवत्क्रिया||१||

🔊 Audio coming soon

स०-आमं सर्वमेव विद्रधिं शोफवदुपक्रमेत्| अनवरतं च रक्तमाहरेत्| अनन्तरं पक्वे सति व्रणवत्क्रिया| विशेषेण विकित्सितमाह-

Adhikarana vAtike vidradhau dhAvanalepanaSodhanaropaNAni (2-3) · Śloka 3

पञ्चमूलजलैर्धौतं वातिकं लवणोत्तरैः| भद्रादिवर्गयष्ट्याह्वतिलैरालेपयेद्व्रणम्||२|| वैरेचनिकयुक्तेन त्रैवृतेन विशोध्य च| विदारीवर्गसिद्धेन त्रैवृतेनैव रोपयेत्||३||

🔊 Audio coming soon

स०-वातिकं व्रणं-वातविद्रधावर्थाज्जातं, पञ्चमूलजलैः प्रक्षालितं "भद्रदारु नतं" (हृ. सू. अ. १५|५) इत्यादिना मधुयष्टिकया तिलैश्च लवणाद्यै(धिकै)र्लेपयेत्| वैरेचनिकयुक्तेन-"निकुम्भकुम्भ" (हृ. सू. अ. १५|२) इत्यादिवर्गोक्तेन युक्तेन, त्रैवृतेन-त्रैवृताख़्येन स्नेहेन, विशोध्य-शोधयित्वा, ततो "विदारिपञ्चाङ्गुल" (हृ. सू. अ. १५|९) इत्यादिद्रव्यसिद्धेन त्रैवृतेनैव स्नेहेन व्रणं रोपयेत्|

Adhikarana paittike vidradhau dhAvanalepanaSodhanaropaNAni (4-5) · Śloka 5

क्षालितं क्षीरितोयेन लिम्पेद्यष्ट्यमृतातिलैः| पैत्तं घृतेन सिद्धेन मञ्जिष्ठोशीरपद्मकैः||४|| पयस्याद्विनिशाश्रेष्ठायष्टीदुग्धैश्च रोपयेत्| न्यग्रोधादिप्रवालत्वक्फलैर्वा|५|

🔊 Audio coming soon

स०-पैत्तं व्रणं क्षीरितोयेन धौतम्| क्षीरिणो-न्यग्रोधादयः| मधुयष्टिकागुडूचीतिलैर्लिम्पेद्बहिः| घृतेनेत्यादि| मञ्जिष्ठादिभिर्घृतेन सिद्धेन रोपयेत्| सामान्यपरिभाषोक्तप्रमाणेन (हृ. क. अ. ६|१५) द्रव्यं घृतं जलं समक्षीरं [ चतुर्गुणविवर्धितं ] इत्यत्र पाकक्रमः| न्यग्रोधेत्यादि| प्रवालश्च त्वक् च फलं च प्रवालत्वक्फलानि| न्यग्रोधादीनां (हृ. सू. अ. १५|४१) प्रवालत्वक्फलैः सिद्धेन वा घृतेन रोपयेत्|

Adhikarana kaPaje vidradhau dhAvanalepanaSodhanaropaNAni (5-7) · Śloka 7

| कफजं पुनः||५|| आरग्वधादिना धौतं सक्तुकुम्भनिशातिलैः| लिम्पेत्कुलत्थिकादन्तीत्रिवृच्छ्यामाग्नितिल्वकैः||६|| ससैन्धवैः सगोमूत्रैस्तैलं कुर्वीत रोपणम्| |७|

🔊 Audio coming soon

स०-कफजं तु व्रणमारग्वधादिना (हृ. सू. अ. १५|१७) धौतं सक्त्वादिभिर्लिम्पेत्| कुलत्थिकादिभिर्द्रव्यैस्तैलं रोपणं कुर्वीत|

Adhikarana raktAgantuje vidradhau pittajavat (7) · Śloka 7

| रक्तागन्तूद्भवे कार्या पित्तविद्रधिवत्क्रिया||७||

🔊 Audio coming soon

स०-रक्तोद्भवे तथाऽऽगन्तुजे क्षतोद्भवे च विद्रधौ पित्तविद्रधितुल्या क्रिया कार्या|

Adhikarana shleShmAtisAregantuje vidradhau pittajavat antarvidradhau kvAthaH (8) · Śloka 8

वरुणादिगणक्वाथमपक्वेऽभ्यन्तरोत्थिते| ऊशकादिप्रतीवापं पूर्वाह्णे विद्रधौ पिबेत्||८||

🔊 Audio coming soon

स०-आन्तरे विद्रधौ वरुणादि (हृ. सू. अ. १५|२९) गणक्वाथमूषकादि (हृ. सू. अ. १५|२३) प्रतीवापं पूर्वाह्णे पिबेत्|

Adhikarana antarvidradhau ghRutam antarvidradhau nirUhasnehabastI (9) · Śloka 9

घृतं विरेचनद्रव्यैः सिद्धं ताभ्यां च पाययेत्| निरूहं स्नेहबस्तिं च ताभ्यामेव प्रकल्पयेत्||९||

🔊 Audio coming soon

स०-विरेचनद्रव्यैर्यथादोषं च घृतं सिद्धं तथा ताभ्यां-वरुणादिगणोषकादिगणाभ्यां, सिद्धं घृतमपक्वाभ्यन्तरोत्थिते विद्रधौ पाययेत्| ताभ्यामेव गणाभ्यां निरूहान्वासने निरूपयितव्ये|

Adhikarana vidradhigulmAdau trAyanAdi kvAthaH (10) · Śloka 10

पानभोजनलेपेषु मधुशिग्रु प्रयोजितः| दत्तावापो यथादोषमपक्वं हन्ति विद्रधिम्||१०||

🔊 Audio coming soon

स०-पानादिषु मधुशिग्रुः प्रयोजितो दत्तावापो-वितीर्णकल्कः, सामर्थ्यात्तत्क्वाथः पक्वं विद्रधिं हन्ति|

Adhikarana vidradhigulmAdau trAyamANA ghRutam (11-15) · Śloka 15

त्रायन्तीत्रिफलानिम्बकटुकामधुकं समम्| त्रिवृत्पटोलमूलाभ्यां चत्वारिंऽशाः पृथक् पृथक्||११|| मसूरान्निस्तुषादष्टौ तत्क्वाथः सघृतो जयेत्| विद्रधीगुल्मवीसर्पदाहमोहमदज्वरान्||१२|| तृण्मूर्च्छाच्छर्दिहृद्रोगपित्तासृक्कुष्ठकामलाः| कुडवं त्रायमाणायाः साध्यमष्टगुणेऽम्भसि||१३|| कुडवं तद्रसाद्धात्रीस्वरसात्क्षीरतो घृतात्| कर्षांशं कल्कितं तिक्तात्रायन्तीधन्वयासकम्||१४|| मुस्तातामलकीवीराजीवन्तीचन्दनोत्पलम्| पचेदेकत्र संयोज्य तद्घृतं पूर्ववद्गुणैः||१५||

🔊 Audio coming soon

स०-त्रायन्त्यादिकं समं-समांशं, त्रिवृतायाश्चत्वारोंऽशाः पटोलमूलाच्च, निस्तुषमसूरादष्टावित्येतैः क्वाथो घृतसहितो विद्रध्यादीन् पराकुर्यात्| स०-त्रायमाणायाः कुडवमष्टगुणे जले साध्यम्| तद्रसात्-त्रयामाणायाः क्वाथात् कुडवं, धात्रीस्वरसात् क्षीराघृताच्च प्रत्येकं कुडवं, कर्षांशं प्रत्येकं कल्कीकृतं तिक्तादि, एकत्र मिश्रयित्वा पचेत्| तदेतद् घृतं पूर्वगुणम्|

Adhikarana vidradhigulmAdau drAkShAdighRutam (16-17) · Śloka 17

द्राक्षा मधूकं खर्जूरं विदारी सशतावरी| परूषकाणि त्रिफला तत्क्वाथे पाचयेद्घृतम्||१६|| क्षीरेक्षुधात्रीनिर्यासप्राणदाकल्कसंयुतम्| तच्छीतं शर्कराक्षौद्रपादिकं पूर्ववद्गुणैः||१७||

🔊 Audio coming soon

स०-द्राक्षादिभिः क्वाथे क्षीरं इक्षुरसे धात्रीरसे हरीतकीकल्कयुतं घृतं सामान्यपरिभाषया पचेत्| तद्घृतं शीतं सच्छर्कराक्षौद्रपादयुतं पूर्वगुणम्| शर्कराक्षौद्रपादिकमिति "अत इनिठनौ" इति ठन्

Adhikarana vidradhisamIpe raktaharaNam (18) · Śloka 18

हरेच्छृङ्गादिभिर्सृक् सिरया वा यथान्तिकम्| |१८|

🔊 Audio coming soon

स०-शृङ्गादिभी रक्तं हरेत्| सिरया वा यथासमीपमस्रं हरेत्|

Adhikarana pacyamAne vidradhau upanAhaH (18-19) · Śloka 19

| विद्रधिं पच्यमानं च कोष्ठस्थं बहिरुन्नतम्||१८|| ज्ञात्वोपनाहयेत्- | |१९|

🔊 Audio coming soon

स०-विद्रधिं कोष्ठस्थं कोष्ठगतं बहिरुन्नतं पच्यमानं बुद्ध्वोपनाहयेत्-उपनद्धं कुर्यात्|

Adhikarana bahiH pakvasya vidradherlakShaNam bahiH pavkasya BedanaM vraNavadupacAraSca (19-20) · Śloka 20

शूले स्थिते तत्रैव पिण्डिते| तत्पार्श्वपीडनात्सुप्तौ दाहादिष्वल्पकेषु च||१९|| पक्वः स्याद्विद्रधिं भित्त्वा व्रणवत्तमुपाचरेत्| |२०|

🔊 Audio coming soon

स०-तत्रैव शूले पिण्डिते स्थिते यं दोषमाश्रित्योन्नद्धस्तिष्ठति तथा तत्पार्श्वे पीडनेन सुप्तौ-स्वपने, तथा दाहादिष्वल्पकेषु, आदिशब्देनोषादयो गृह्यन्ते, एतेषु सत्सु पक्वो विद्रधिः स्यात्| तं भित्वा-सञ्छेद्य, व्रणवदुपक्रमेत्|

Adhikarana antaH pakvasya vidradherlakShaNam (20) · Śloka 20

| अन्तर्भागस्य चाप्येतच्चिह्नं पक्वस्य विद्रधेः||२०||

🔊 Audio coming soon

स०-अन्तर्भागस्य च विद्रधेरेतदेव चिह्नम्|

Adhikarana antaH pakvasya svayaMpravRuttasya pUyasyopekShaNam antaH asamyagvahati srAve varuNAdicUrNam antaH asamadhushigrucUrNam (21-23) · Śloka 23

पक्वः स्रोतांसि सम्पूर्य स यात्यूर्ध्वमधोऽथवा| स्वयं प्रवृत्तं तं दोषमुपेक्षेत हिताशिनः||२१|| दशाहं द्वादशाहं वा रक्षन् भिषगुपद्रवान्| असम्यग्वहति क्लेदे वरुणादिं सुख़ाम्भसा||२२|| पाययेन्मधुशिग्रुं वा यवागूं तेन वा कृताम्| |२३|

🔊 Audio coming soon

स०-तदाऽसौ पक्वः सन् स्रोतांसि क्लेदयित्वोर्ध्वं प्रयात्यधो वा, तं दोषं स्वयं प्रवृत्तं-पतन्तं, हिताशिन उपेक्षेत-न किञ्चिदुपक्रमान्तरं कुर्वीत| दशाहं द्वादशाहं वा वैद्य उपद्रवान्रक्षेत्| क्लेदे च यथावदवहति सति वरुणादिमुष्णाम्बुना पाययेत्, वैद्य इति शेषः| दशाहमिति दशानामह्नां समाहार इति समासे "राजाहःसख़िभ्यष्टच्" इति टच्| "न सङ्ख़्यादेः समाहारे" इत्यह्नादेशनिषेधः| " नस्तद्धिते" इति टिलोपः| "स नपुंसकम्" इति नपुंसकत्वम्| "कलाध्वनोः" इति द्वितीया| अथवा मधुशिग्रुं पाययेत्| तेन वा-मधुशिग्रुणा, कृतां पेयां पाययेत्|

Adhikarana antaH asamyagvahati srAve saMskRutA yavAgUH,antaHasayavAdiyUShairannam (23) · Śloka 23

| यवकोलकुलत्थोत्थयूषैरन्नं च शस्यते||२३||

🔊 Audio coming soon

स०-यवादिजैर्यूषैः सहान्नं च शस्यते|

Adhikarana antaH asamyagvahati srAve dashAhAdUrdhvaM trAyantyAdidhRutena shodhanam shuddhe tiktakaM ghRutam (24) · Śloka 24

ऊर्ध्वं दशाहात्त्रायन्तीसर्पिषा तैल्वकेन वा| शोधयेद्बलतः, शुद्धः सक्षौद्रं तिक्तकं पिबेत्||२४||

🔊 Audio coming soon

स०-दशाहादनन्तरं त्रायन्तीघृतेन-"कुडवं त्रायमाणायाः" (श्लो. १३) इत्यादिना, अथवा तैल्वकेन-"शम्याकेन त्रिवृतया" (हृ. चि. अ. ३|१५२) इत्यादिना, शोधयेद्यथाबलम्| शुद्धः सन् क्षौद्रेण सह तिक्तकं पिबेत्|

Adhikarana vidradhIShu gulmacikitsA~api (25) · Śloka 25

सर्वशो गुल्मवच्चैनं यथादोषमुपाचरेत्| |२५|

🔊 Audio coming soon

स०-सर्वेण प्रकारेणगुल्मवदेनं-विद्रधिं, यथादोषमुपक्रमेत्|

Adhikarana vidradhIShu sarvAsthAsu guggulushilAjatu ca (25-26) · Śloka 26

| सर्वावस्थासु सर्वासु गुग्गुलुं विद्रधीषु च||२५|| कषायैर्यौगिकैर्युञ्ज्यात्स्वैःस्वैस्तद्वच्छिलाजतु| |२६|

🔊 Audio coming soon

स०-विद्रधीषु सर्वासु सर्वावस्थास्वेवं गुग्गुलुं यौगिकैः स्वैःस्वैर्योग्यैः कषायैर्युञ्ज्यात्| तद्वत्-तथैव कषायैः सह, शिलाजतु युञ्ज्यात्|

Adhikarana vidradhIShu yatnena pAkavAraNam vidradhIShu tasya hetuH (26-27) · Śloka 27

| पाकं च वारयेद्यत्नात्सिद्धिः पक्वे हि दैविकी||२६|| अपि चाशु विदाहित्वाद्विद्रधिः सोऽभिधीयते| |२७|

🔊 Audio coming soon

स०-पाकं च यत्नेन वारयेत्| हि-यस्मात्, पक्वे सति दैविकी सिद्धिः-न तु भिषग्वशानुगेत्यर्थः| आशु च विदाहित्वात् सः-अयं रोगो, विद्रधिरित्युच्यते| तस्मात्तस्य पाकरक्षायां यतितव्यमित्यर्थः|

Adhikarana vidradhIShu mehe sati mehacikitsA (27) · Śloka 27

| सति चालोचयेन्मेहे प्रमेहाणां चिकित्सितम्||२७||

🔊 Audio coming soon

स०-मेहे च सति प्रमेहाणां चिकित्सितमालोचयेत्| चशब्दाद्विद्रधिचिकित्सितोक्तमपि कुर्यात्|

Adhikarana stanavidradhau sarvaM vraNavat stanashastrakarmaNi stanyavAhinyAipAlanam (28-1) · Śloka 1

स्तनजे व्रणवत्सर्वं न त्वेनमुपनाहयेत्| पाटयेत्पालयन् स्तन्यवाहिनीः कृष्णचूचुकौ||२८|| सर्वास्वामाद्यवस्थासु निर्दुहीत च तत्स्तनम्| |२९| इति विद्रधिचिकित्सितम्||१||

🔊 Audio coming soon

स०-स्तनजे विद्रधावुपनाहं वर्जयित्वा सर्वमेव व्रणक्रियाक्रमं कुर्यात्| विद्रधिशब्दः पुंस्त्रीलिङ्गः| स्तनविद्रधिं च पाटयेद्वैद्यः| स्तन्यवाहिनीः सिराः कृष्णचूचुकौ च पालयन्| सर्वासु चामाद्यवस्थासु तस्य-विद्रधेः सम्बन्धिनं, स्तनं निर्दुहीत| आदिशब्दः पच्यमानपाकावस्थयोर्ग्रहणार्थः| इति विद्रधिचिकित्सितमुक्त्वा वृद्धिचिकित्सितमाह-

Adhikarana vAtaje vRuddhau trivRutA snehanam vAtaje vRuddhau kaushAmrAdiBirvirecanam (90)) · Śloka 30

अथ वृद्धिचिकित्सितम्| शोधयेत्त्रिवृता स्निग्धं वृद्धौ स्नेहैश्चलात्मके||२९|| कौशाम्रतिल्वकैरण्डसुकुमारकमिश्रकैः| |३०|

🔊 Audio coming soon

स०-चलात्मके वृद्धौ सति वृद्ध्यामयिनं त्रिवृताख़्येन स्नेहेनासमन्तात् स्निग्धं सन्तं शोधयेत्| अत्र च सामान्योक्तावप्यपक्वस्य त्रैवृतस्य न तथा प्रयोगः प्रशस्यत इति पूर्वोक्तया रीत्या (श्लो. ३) विदारिवर्गसिद्धस्योपयोगः कार्य इति केचिन्मन्यन्ते| कैः स्नेहैः ? कौशाम्रादिभिः सिद्धैः| सुकुमारकं-अत्रैव वक्ष्यमाणम् (श्लो. ४१) , मिश्रकं च-गुल्मचिकित्सिते (श्लो. ८९|९०)|

Adhikarana vAtaje vRuddhau tato nirUho~anuvAsanaM ca vAtaje vRuddhau vAtaghnAH svedalepAH vAtaje vRuddhau pakve BitvA vraNakriyA (30-31) · Śloka 31

| ततोऽनिलघ्ननिर्यूहकल्कस्नेहैर्निरूहयेत्||३०|| रसेन भोजितं यष्टितैलेनान्वासयेदनु| स्वेदप्रलोपा वातघ्नाः पक्वे भित्त्वा व्रणक्रियाम्||३१||

🔊 Audio coming soon

स०-ततः-शोधनादनन्तरं, वातघ्नकषायकल्कस्नेहैर्निरूहयेत्| अनु-निरूहस्य पश्चात्, मांसरसेन भोजितं सन्तं मधुयष्टिकातैलेनानुवासयेत्| स्वेदाः प्रलेपाश्च वातघ्ना हिताः| पक्वे वृद्धौ भित्त्वा-पाटयित्वा, व्रणक्रियां कुर्यात्|

Adhikarana pittaraktaje kriyA Amapavke shoPavraNakriyA pittarktaje raktaharaNam (32) · Śloka 32

पित्तरक्तोद्भवे वृद्धावामपक्वे यथायथम्| शोफव्रणक्रियां कुर्यात् प्रततं च हरेदसृक्||३२||

🔊 Audio coming soon

स०-पित्तरक्तोत्थिते वृद्धावामे पक्वे च [यथायथं-] यथास्वं, आमे शोफक्रियां कुर्यात्, पक्वे व्रणक्रियां कुर्यात्| सततं च रक्तमाकर्षेत्|

Adhikarana kaPaje rakta pitadArUkalkaH kaPaje shleShmagranthikramaH kaPaje pavke pATite tailam (33-35) · Śloka 35

गोमूत्रेण पिबेत्कल्कं श्लैष्मिके पीतदारुजम्| विम्लापनादृते चास्य श्लेष्मग्रन्थिक्रमो हितः||३३|| पक्वे च पाटिते तैलमिष्यते व्रणशोधनम्| सुमनोरुष्कराङ्कोल्लसप्तपर्णेषु साधितम्||३४|| पटोलनिम्बरजनीविडङ्गकुटजेषु च| |३५|

🔊 Audio coming soon

स०-श्लैष्मिके वृद्धौ दार्वीकल्कं गोमूत्रेण पिबेत्| अस्य च-श्लैष्मिकवृद्धेः, विम्लापनमन्तरेण श्लेष्मग्रन्थिचिकित्सितं हितम्| विम्लापनं-तस्तैर्मर्दनोपायैर्विमर्दनम्| पक्वे पाटिते सति सुमनोरुष्करादिभिः कुटजान्तैः साधितं तैलं व्रणशोधनमिष्यते|

Adhikarana medoje vRuddhau svedanam medoje vRuddhau tato dAraNam medoje vRuddhau pratisAritavraNasya sIvanam medoje vRuddhau aBya~jjanaM tailaM manaHshilAdikRutam medoje vRuddhau snehasvedashIlanam (35-38) · Śloka 38

| मेदोजं मूत्रपिष्टेन सुस्विन्नं सुरसादिना||३५|| शिरोविरेकद्रव्यैर्वा वर्जयन् फलसेवनीम्| दारयेद्वृद्धिपत्रेण सम्यङ्मेदसि सूद्धृते||३६|| व्रणं माक्षिककासीससैन्धवप्रतिसारितम्| सीव्येदभ्यञ्जनं चास्य योज्यं मेदोविशुद्धये||३७|| मनःशिलैलासुमनोग्रन्थिभल्लातकैः कृतम्| तैलमाव्रणसन्धानात्स्नेहस्वेदौ च शीलयेत्||३८||

🔊 Audio coming soon

स०-मेदोजं वृद्धिरोगं गोमूत्रपिष्टेन सुरसादिना गणेन (हृ. सू. अ. १५|३०) सुस्विन्नं शिरोविरेकद्रव्यैर्वा सुस्विन्नं वृद्धिपत्रेण सम्यक् कृत्वा दारयेत्| किं कुर्वन् ? फलसेवनीं वर्जयन्-परिहरन्| अनन्तरं मेदसि सूद्धृते सति माक्षिकादिभिः प्रतिसारितं व्रणं सीव्येत्| अनन्तरमस्याभ्यञ्जनं तैलं मनःशिलादिभिः कृतं-सिद्धं, मेदोविशुद्धये योज्यम्| व्रणसन्धानं यावत् स्नेहं स्वेदं च शीलयेत्|

Adhikarana mUtraje vRuddhau svedanaM veShTanaM vedhanaM sravaNaM vraNabaddhanaM ropaNaM ca (39-40) · Śloka 40

मूत्रजं स्वेदितं स्निग्धैर्वस्त्रपट्टेन वेष्टितम्| विध्येदधस्तात्सेवन्याः स्रावयेच्च यथोदरम्||३९|| व्रणं च स्थगिकाबद्धं रोपयेत्| |४०|

🔊 Audio coming soon

स०-मूत्रजं वृद्धिं सेवन्या अधस्तात् स्निग्धैः स्वेदितं तथा वस्त्रपट्टेन वेष्टितं विध्येत्| जलोदरवच्च स्रावयेत्| द्विद्वारनलिकया पिच्छनलिकया वा क्रमेण व्रणं च स्थगिकाख़्येन बन्धविशेषेण बद्धं रोपयेत्|

Adhikarana antraje vRuddhau vAtavRuddhivat (40) · Śloka 40

अन्त्रहेतुके| फलकोशमसम्प्राप्ते चिकित्सा वातवृद्धिवत्||४०||

🔊 Audio coming soon

स०-अन्त्रजे वृद्धौ फलकोशमसम्प्राप्ते सति वातवृद्धिसदृशीं चिकित्सां कुर्यात्|

Adhikarana sukumAraM ghRutam (41-47) · Śloka 47

पचेत्पुनर्नवतुलां तथा दशपलाः पृथक्| दशमूलपयस्याश्वगन्धैरण्डशतावरीः||४१|| द्विदर्भशरकाशेक्षुमूलपोटगलान्विताः| वहेऽपामष्टभागस्थे तत्र त्रिंशत्पलं गुडात्||४२|| प्रस्थमेरण्डतैलस्य द्वौ घृतात्पयसस्तथा| आवपेद् द्विपलांशं च कृष्णातन्मूलसैन्धवम्||४३|| यष्टीमधु(चित्र)कमृद्वीकायवानीनागराणि च (क्षारनागरम्)| तत्सिद्धं सुकुमाराख्यं सुकुमारं रसायनम्||४४|| वातातपाध्वयानादिपरिहार्येष्वयन्त्रणम्| प्रयोज्यं सुकुमाराणामीश्वराणं सुखात्मनाम्||४५|| नृणां स्त्रीवृन्दभर्तॄणामलक्ष्मीकलिनाशनम्| सर्वकालोपयोगेन कान्तिलावण्यपुष्टिदम्||४६|| वर्ध्मविद्रधिगुल्मार्शोयोनिमेढ्रानिलार्तिषु| शोफोदरखुडप्लीहविड्विबन्धेषु चोत्तमम्||४७||

🔊 Audio coming soon

स०-पुनर्नवस्य तुलां जलस्य वहे पचेत्| तथा दशमूलादीनि पृथग्दशपलप्रमाणानि| पोटगलो-नलः| अष्टभागशेषे च तस्मिन् गुडात्त्रिंशत्पलान्येरण्डतैलात् प्रस्थं घृतस्य प्रस्थौ द्वौ क्षीरप्रस्थौ द्वौ क्षिपेत्| द्विपलप्रमाणं पिप्पल्यादिकम्| तदेतत्पक्वं सुकुमारसंज्ञं घृतं रसायनं सुकुमारम्| अत एव वातातपादिश्घ्नं सर्वकालोपयोगात् कान्त्यादिदं वर्ध्माद्यार्तिषु श्रेष्ठम्|

Adhikarana vardhmashAntyaBAve dAhaH dAhavidhiH (48-49) · Śloka 49

यायाद्वर्ध्म न चेच्छान्तिं स्नेहरेकानुवासनैः| बस्तिकर्म पुरः कृत्वा वङ्क्षणस्थं ततो दहेत्||४८|| अग्निना मार्गरोधार्थं मरुतः| |४९|

🔊 Audio coming soon

स०-यदि स्नेहादिभिर्वर्ध्म शान्तिं न गच्छेत् ततो बस्तिकर्म कृत्वा वङ्क्षणस्थितं वर्ध्म मरुतो मार्गरोधार्थमग्निना दहेत्|

Adhikarana dAhe~anyamatam gulmAdAvayameva vidhiH (13) · Śloka 13

अर्धेन्दुवक्रिया| अङ्गुष्ठस्योपरि स्नाव पीतं तन्तुसमं च यत्||४९|| उत्क्षिप्य सूच्या तत्तिर्यग्दहेच्छित्त्वा यतो गदः| ततोऽन्यपार्श्वेऽन्ये त्वाहुर्दहेद्वाऽनामिकाङ्गुलेः||५०|| गुल्मेऽन्यैर्वातकफजे प्लीह्नि चायं विधिः स्मृतः| कनिष्ठिकानामिकयोर्विश्वाच्यां च यतो गदः||५१|| इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां चतुर्थे चिकित्सितस्थाने विद्रधिवृद्धिचिकित्सितं नाम त्रयोदशोऽध्यायः||१३||

🔊 Audio coming soon

स०-यतो-यस्मिन्पार्श्वे, गदो विद्यते तत्पार्श्वस्थस्याङ्गुष्ठस्योपरि पृष्ठे स्नाव पीतं यत्तन्तुतुल्यम्| तत् स्नावोत्क्षिप्यार्धेन्दुवक्रिया सूच्या तिर्यक् छित्त्वाऽनन्तरं तद्दहेदित्येके वदन्ति| अन्य आचार्या एवमाहुः| ततः पार्श्वात् यतोऽसौ गदस्तिष्ठति ततो यदन्यत्पार्श्वं तस्मिन् पार्श्वेऽङ्गुष्ठस्योपरि यत्स्नाव तथाविधं यत्तत्पूर्ववत् दहेदिति| अन्ये त्वेवं वदन्ति,-अनामिकाया अङ्गुलेरुपरि यत्स्नाव तथारूपं तत्पूर्ववद्दहेदिति| अन्यैराचार्यैर्वातकफजे गुल्मे प्लीह्नि च एषः (अयं) एव-अनन्तरोक्तो, विधिः स्मृतः| तथा विश्वाच्यां-वातव्याधिविशेषे, यतो यस्मिन् पार्श्वेऽसौ गदस्तस्मिन् पार्श्वे कनिष्ठिकानामिकयोरुपरि यत्स्नाव पीतं तन्तुसमं तदुत्क्षिप्य तिर्यक् छित्त्वा दहेदिति| इति श्रीमृगाङ्कदत्तपुत्रश्रीमदरुणदत्तविरचितायामष्टाङ्गहृदयटीकायां सर्वाङ्गसुन्दराख़्यायां चतुर्थे चिकित्सितस्थाने विद्रधिवृद्धिचिकित्सितं नाम त्रयोदशोऽध्यायः समाप्तः|| १३||