Adhikarana adhyAyopakramaH · Śloka
श्रीगणेशाय नमः| श्रीसरस्वत्यै नमः| श्रीगुरुभ्यो नमः| अथेदानीं चिकित्सितस्थानस्यारम्भः| तस्य चायं सम्बन्धः| रोगपरीक्षा निदानस्थाने गदिता| साम्प्रतं चिकित्सा वक्तुं युक्ता| तथा च मुनिः (च. सू. अ.२०/२०)- "रोगमादौ परीक्षेत ततोऽनन्तरमोषधम्|" इति| तस्माच्चिकित्सितस्थानारम्भो न्याय्यः| तत्र यथोद्देशो व्याधीनां निदानस्थाने, तेनैव क्रमेणास्य स्थानस्य विरचना युक्तेति ज्वरचिकित्सितमेव विवक्षुराह-
Adhikarana jvaracikitsitAdhyAyaH (2) · Śloka 2
अथातो ज्वरचिकित्सितं व्याख़्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः|
(गद्यसूत्रे)|२|
स०-इति ह स्माहुरात्रेयादयो महर्षय इत्यनेनागमशरणत्वमात्मनः प्रतिपादयति|
Adhikarana jvarasaMprAptiHla~gghanakAraNam la~gghanAvasthA (1-2) · Śloka 2
आमाशयस्थो हत्वाऽग्निं सामो मार्गान् पिधाय यत्|
विदधाति ज्वरं दोषस्तस्मात्कुर्वीत लङ्घनम्||१||
प्रागूपेषु ज्वरादौ वा, बलं यत्नेन पालयन्|
बलाधिष्ठानमारोग्यमारोग्यार्थः क्रियाक्रमः||२||
स०-आमाशयस्थो दोषो वह्निं हत्वा| सहामेन वर्तत इति सामः| तथ, मार्गान् पिधाय-स्त्रोतांसि स्थगयित्वा, यत्यस्माद्धेतोः, ज्वरं विदधाति, तस्मात्कारणाल्लङनं कुर्वीत| लङ्घनमत्रोपवासः| तथा चोक्तम्| "लङ्घनस्याविशेषोक्तावुपवासं प्रकल्पयेत्|" इति| अत एवायमपि वक्ष्यति (श्लो. १०)- "तस्मादादोषपचनाज्ज्वरितानुपवासयेत्|" इति| कदा लङ्घनं कुर्वीत ? इत्याह-प्रागूपेषु-पूर्वलक्षणेषूत्पन्नमात्रेष्वेव, ज्वरादौ वा-उत्पन्नमात्रे ज्वरे सति| किं कुर्वन् लङ्घनं कुर्वीत ? इत्याह-बलं यत्नेन पालयन्,- प्राणांस्तात्पर्येण रक्षन्, तदविरोधेनेत्यर्थः| ननु, कुत एवं विधीयते ? इत्याह-बलाधिष्ठानमित्यादि| यस्मादारोग्यं-स्वास्थ्यं, बलाधिष्ठानम्| बलमधिष्ठानं-आश्रयो, यस्य तदेवम्| तथा, क्रियाक्रम आरोग्यार्थः-स्वास्थ्यप्रयोजनः|घ्
Adhikarana la~gghanaPalam (3) · Śloka 3
लङ्घनैः क्षपिते दोषे दीप्तेऽग्नौ लाघवे सति|
स्वास्थ्यं क्षुत्तृड् रुचिः पक्तिर्बलमोजश्च जायते||३||
स०-लङ्घनैः-उपवासैः, दोषे-पूर्वोक्ते, क्षपिते-क्षयं नीते, तथाऽग्नौ दीप्ते-समिद्धे सति, तथा लाघवेऽङ्गानां सति, स्वास्थ्यादि जायते| स्वास्थ्यं-यथाप्रकृतित्वम्| रुचिः-अन्नाभिलाषः| पक्तिः-पाक आमस्य| बलं-उत्साहः| ओजः-परं धातुतेजः| क्षपिधातुरनुक्तो~पि धातुगणे शिष्टप्रयोगतवशादङ्गीकृतः| लङ्घनैरिति जातौ बहुवचनम्(?)| तेन कदाचिदेकेनैव लङ्घनेन कदाचिदनेकैर्दोषक्षयो जायत इति ज्ञेयम्|
Adhikarana jvaravisheShe vamanam (4-5) · Śloka 5
तत्रोत्कृष्टे समुत्क्लिष्टे कफप्राये चले मले|
सहृल्लासप्रसेकान्नद्वेषकासविषूचिके||४||
सद्योभुक्तस्य सञ्जाते ज्वरे सामे विशेषतः|
वमनं वमनार्हस्य शस्तं|५|
स०-तत्र-तस्मिन्मले, उत्कृष्टे-स्वजन्मगुणकर्मलक्षणतोऽधिके| तथा, कफप्राये-कफबहुले वाताख़्ये पित्ताख़्ये वेति सामर्थ्याद्गम्यते| समुत्क्लिष्टे-स्वस्थानाच्चलिते बहिरेनिर्याते| तथा, चले-शिथिले, उत्क्लिष्टेऽपि हि कदाचित् स्थानावष्टम्भादचलः स्यात्| एतदेव कफोत्क्लिष्टादिकं दर्शयति-सहृल्लासेस्यादि| हृल्लासादीनां द्वन्द्वः| सह तैर्वर्तते यस्तस्मिन्| हृल्लासः-उद्वमनमिवानुभवः| उद्वमनं-हृदयस्य| प्रसेकः-पानीयस्येव निष्ठीवनम्| सद्योभुक्तस्येत्यादि| ईदृशो मले सति सद्यः कृताहारस्य ज्वरे सञ्जाते विशेषेण सामे ज्वरे वमनार्हस्य वमनं शस्तम्| वमनार्हाः-वमनविरेचनविधौ प्रोक्ताः|
Adhikarana anyathAvamane doShaH (5-6) · Śloka 6
|
कुर्यात्तदन्यथा||५||
श्वासातीसारसम्मोहहृद्गोगविषमज्वरान्|
|६|
स०-अन्यथा-उक्तविधिविपर्ययेण, तत्-वमनं कृतं, श्वासादीन् कुर्यात्| तथा,-अनुत्क्लिष्टः कफप्रधानः स्थिरो हृल्लासादिरहितो-विपरीतः|
Adhikarana vamanayogAH (6-8) · Śloka 8
|
पिप्प्पलीभिर्युतान् गालान् कलिङ्गैर्मधुकेन वा||६||
उष्णाम्भसा समधुना पिबेत्सलवणेन वा|
पटोलनिम्बकर्कोटवेत्रपत्रोदकेन वा||७||
तर्पणेन रसेनेक्षोर्मद्यैः कल्पोदितानि व|
वमनानि प्रयुञ्जीत बलकालविभागवित्||८||
स०-गालो-मदनफलम्, अस्य निरपायत्वाच्छ्रेष्ठत्वाच्चपिप्प्पल्यादिद्रव्येभ्योऽनेन सहोपयोगिभ्यो बहूपयोगितया प्रधावविभक्त्या प्रागुपन्यासः| अन्यथा "कल्पयेत्सदृशान् भागान् प्रमाणं यत्र नोदितम्|" (हृ. क. अ. ६/२४) इति मदनफलेन पिप्पल्यादीनां च तुल्यं प्रमाणं प्राप्नुयात्| पिप्पलीभिर्युतान् गालानथवा शक्रयवैर्युतानथवा मधुयष्टिकया वा युतानथवोष्णाम्बुना माक्षिकयुतेन वा सह पिबेत्| अथवा पटोलादीनां पत्रोदकेन वा सह पिबेत्| अथवा तर्पणादिभिः पिबेत्| अथवा कल्पोदितानि-वमनकल्पोक्तानि वमनानियोग्यानि प्रयुञ्जीत| बलकालविभागविदिति अस्यां देहबलावस्थायां तथा व्याधिबलावस्थायां चेदं वमनं दातुं योग्यमिति यो विभागं वेत्ति स बलकालविभागवित्|
Adhikarana annavarjanam (9) · Śloka 9
कृतेऽकृते वा वमने ज्वरी कुर्याद्विशोषणम्|
दोषाणां समुदीर्णानां पाचनाय शमाय च||९||
स०-वमने योग्यो यो ज्वरी स कृते वमने, अपरस्तु वमनेऽयोग्यः सोऽकृते वमने, विशोषणं-उपवासलक्षणं, कुर्यात्| एवं कृतवमनोऽकृतवमनो वा ज्वरी सर्वथा लङ्ग़नं कुर्यात्| किमर्थम् ? इत्याह-दोषाणां-वातादीनां, समुदीर्णानां-समन्तात्समुत्थानां, पाचनाय-पक्त्यर्थं, शमाय-शान्त्यर्थं च| निरमाणां पुनः समुदीर्णानं शान्त्यर्थमेव|
Adhikarana annavarjane yuktiH (10) · Śloka 10
दोषेण भस्मनेवाग्नौ छन्नेऽन्नं न विपच्यते|
तस्मादादोषपचनाज्ज्वरितानुपवासयेत्||१०||
स०-दोषेण-आमाख़्येन वातादिना वा सहैकलोलीभूतेन, अग्नौ छन्ने-च्छादिते, अन्नमामाशयस्थं न विपच्यते भस्मनेव| यथा बाह्योऽग्नौ स्थगिते तोयतण्डुलादिकं स्थालीस्थं न विपच्यते, तथैवामाशयस्थमन्नमामेन छन्नेऽगौ न विपच्यते| यतश्चैवं तस्माद्धेतोरामदोषस्य-पूर्वोक्तस्य, पचनं-पाकमवधिं कृत्वा, ज्वरितान्नरानुपवासयेत्|
Adhikarana udakavarjanam uShNAmbudoShAH shItAmbudoShAH (11-13) · Śloka 13
तृष्णगल्पाल्पमुष्णम्बु पिबेद्वातकफज्वरे|
तत्कफं विलयं नीत्वा तृष्णामाशु निवर्तयेत्||११||
उदीर्य चाग्निं स्त्रोतांसि मृदूकृत्य विशोधयेत्|
लीनपित्तानिलस्वेदशकृन्मूत्रानुलोमनम्||१२||
निद्राजाड्यारुचिहरं प्राणानामवलम्बनम्|
विपरीतमतः शीतं दोषसङ्ग़ातवर्द्धनम्||१३||
स०-[ तृष्णक्- ] तृष्णावान्नरः, अल्पाल्पं-स्तोकं स्तोकं, वातकफज्वरे उष्णाम्बु पिबेत्| तृष्णगिति " स्वपितृषोर्नजिङ्" इति नजिङ्| अल्पाल्पमिति "प्रकारे गुणवचनस्य" इति द्वित्वम्| तत्-उष्णाम्बु पीतं, कफं-वातस्त्यानं, विलयं नीत्वा-विलीनविग्रहतामापाद्य, तृष्णामाशु निवर्तयेत्, तर्पण स्वभावत्वात्| तथा, अग्निमुदीर्य-समिद्धं कृत्वा, स्रोतांसि विशोधयेत्| किं कृत्वा ? मृदूकृत्य,-तेषां स्रोतसां मार्दवमुत्पाद्य| तथा, लीनानि-अप्रवृत्तस्वरूपाणि छ, तानि पित्तानिलस्वेदशकृन्मूत्राणि च, तेषामनुलोमनं-प्रवर्तनम्| तथा, प्राणानां-जीविताख़्यानां, अवलम्बनम्| तदुष्णं जलमाश्रित्य तथा प्राणाः प्रवर्तन्त इत्यर्थः| अनेन चोष्णाम्बुकर्मकथनव्याजेन वातकफज्वरस्वरूपमपि किञ्चित् प्रकाशयति| यथा,-वातशोषितेन कफेन स्त्यानीभूतेनात्र तृष्णा जायते, तथाऽधिकमग्निमान्द्यम्, स्रोतसामशुद्धत्वम्, तथा लीनानि पित्तादीन्यत्र स्युः, इति|
Adhikarana javaravisheShe uShNAmbuniShedhaH (14-15) · Śloka 15
उष्णमेवंगुणत्वेऽपि युञ्ज्यान्नैकान्तपित्तले|
उद्रिक्तपित्ते दवथुदाहमोहातिसारिणि||१४||
विषमद्योत्थिते ग्रीष्मे क्षतक्षीणेऽस्रपित्तिनि|
|१५|
स०-एवंगुणमप्युष्णाम्बु एकान्तपित्तले-केवलपित्तले ज्वरिणि, वा, न युञ्ज्यादिति| तथा, उद्रिक्तं-अधिकं, पित्तं यस्मिंस्तस्मिंश्च न युञ्ज्यात्| तथ, तदुष्णाम्बु दवथ्वादिमति नरे न युञ्ज्यात्| चक्षुरादिभ्यो यस्तीव्र ऊष्मा प्रवर्तते स दवथुः| सर्वाङ्गीणस्तीव्र ऊष्मा-दाहः| मोहो-भ्रमः| तथा, विषमद्याभ्यामुत्थिते-जाते ज्वरे| तथा, ग्रीष्मकाले| तथा, क्षतश्च क्षीणश्च क्षतक्षीणः, क्षतः-उरःक्षतः, क्षीणो-धात्वपचयवान्, तस्मिंस्तथाभूते नरे न युञ्ज्यात्| तथा,अस्रपित्तनि-रक्तपित्तवति [ नरे, न युञ्जयात् ]|
Adhikarana niShiddhoShNodakAnAM ShaDa~ggAdishrutaM shItodakam (15-16) · Śloka 16
|
घनचन्दनशुण्ठ्यम्बुपर्पटोशीरसाधितम्||१५||
शीतं तेभ्यो हितं तोयं पाचनं तृड्ज्वरापहम्|
|१६|
स०-तेभ्यः-उद्रिक्तपित्तादिभ्यः पिपासितेभ्यो,घनादिसाधितं शीतं तोयं हितम्| पानीयसाधने च तन्त्रान्तरे विधिरुक्तो यथा-"कर्षं गृहीत्वा द्रव्यस्य तोयस्य प्रस्थमावपेत्| अर्धावशेषं तद्भाह्यं तोयपाने त्वयं विधिः||" इति|
Adhikarana jvare pittavirUddhaniShedhaH (16-17) · Śloka 17
|
ऊष्मा पित्तादृते नास्ति ज्वरो नास्त्यूष्मणा विना||१६||
तस्मात्पित्तविरुद्धानि त्यजेत् पित्ताधिकेऽधिकम्|
|१७|
स०-पित्तं विना ऊष्मा न विद्यते, ज्वरश्चोष्मणा विना नास्ति, सन्तापलक्षणत्वात् ज्वरस्य| यतश्चैवं तस्माद्यानि पित्तस्य विरुद्धान्याहारविहारादीनि तानि सर्वस्मिन् ज्वरे त्यजेत्| पित्ताधिके पुनरधिकं कृत्वा-अतिशयेन, त्यजेत्| पित्ताधिक इत्यत्राधिकग्रहणेनेदं प्रतिपादयति,-सर्वो ज्वरस्त्रिदोषजो भूयसा तु व्यपदेश इति|
Adhikarana jvare snAnAdiniShedhaH (17) · Śloka 17
|
स्नानाभ्यङ्गप्रदेहांश्च परिशेषं च लङ्घनम्||१७||
स०-न केवलं ज्वरे पित्तविरुद्धानि त्यजेत्| यावत् स्नानादींश्च त्यजेत्| स्नानादीनां पित्तहरत्वाशङ्कया सेव्यत्वे प्राप्तेऽचिन्त्यप्रभावत्वात् ज्वरे विरुद्धानीति तत्सेवनं निषेधति| प्रदेहः चन्दनाद्यनुलेपः| परिशेषं च लङ्घनं त्यजेत्, यल्लङ्घनमुपयुक्तमुपवासलक्षणं ततो यदन्यत्तत् परिशेषम्,-शुध्द्याद्येकादशप्रकारं च, तत्त्यजेत्| उपवासलक्षणं तु लङ्घनं नवज्वरे कर्तव्यमेव|
Adhikarana niShedhe yuktiH (18-19) · Śloka 19
अजीर्ण इव शूलघ्नं सामे तीव्ररुजि ज्वरे|
न पिबेदौषधं तद्धि भूय एवाममावहेत्||१८||
आमाभिभूतकोष्ठस्य क्षीरं विषमहेरिव|
|१९|
स०-यथाऽजीर्णे सामे तीव्ररुज्यपि शूलघ्नमौषधं न पिबेत्, प्रत्यवायभयात्| तथैव सामे ज्वरे दारुणपीडावति तदानीमामपक्त्यर्थ मुस्तापर्पटकाद्यौषधं क्वाथादिकल्पनाकल्पितं न पिबेत्| हि-यस्मात्, तत्-औषधं पीतं, अस्यामवस्थायामामाभिभूत कोष्ठस्य प्रयुक्तं भूय एवाममावहेत्| अत्र च साम इत्युक्ते बह्वाम इति गम्यते| अल्पे ह्यजीर्णे भेषजमनुज्ञातमेव| तथा चोवाच तन्त्रकारः (हृ.सू.अ.८/१९)-"जीर्णाशने तु भैषज्यं युञ्ज्यात्स्तब्धगुरुदरे| दोषशेषस्य पाकार्थमग्नेः सन्धुक्षणाय च||" इति| तस्मात्सामो बह्वाम इति बोध्यम्| अथात्र दृष्टान्तमाहक्षीरं विषमहेरिव| यथा क्षीरं विषघ्नमप्यभिहितमहीनां तदेव विषं कुर्यात्|
Adhikarana jvaravisheShe svedaH svedaguNAH (19-20) · Śloka 20
|
सोदर्दपीनसश्वासे जङ्घापर्वास्थिशूलिनि||१९||
वातश्लेष्मात्मके स्वेदः प्रशस्तः, स प्रवर्तयेत्|
स्वेदमूत्रशकृद्वातान् कुर्यादग्नेश्च पाटवम्||२०||
स०-उदर्दादयः प्रागुक्ताः| उदर्दश्च पीनसश्च श्वासश्च तैः सह वर्तते यो ज्वरस्तस्मिन्| तथा, जङ्घे, च पर्वाणि चास्थीनि छ, तत्र शूलं, तद्विद्यते यस्य तस्मिंश्च| तथा, वातश्लेष्मात्मके वातकफोद्भवे स्वेदः प्रशस्तो-हितः| स आचरितः स्वेदादीन् प्रवर्तयेत्| अग्नेश्च पाटवं-दीप्ततरत्वं, विदध्यात्|
Adhikarana snehoktAcAravidhipAlanam (21) · Śloka 21
स्नेहोक्तमाचारविधिं सर्वशश्चानुपलयेत्|
|२१|
स०-तथा, स्नेहोक्तं-स्नेहविध्यध्याये कथितं,चाचारविधिं च सर्वशोऽनुपालयेत्, कुर्यादित्यर्थः|
Adhikarana la~gghanAdInAM prayogakAlaH (21-22) · Śloka 22
|
लङ्घनं स्वेदनं कालो यवाग्वस्तिक्तको रसः||२१||
मलानां पाचनानि स्युर्यथावस्थं क्रमेण वा|
|२२|
स-मलानां-सामानां वातादीनां पृथक्स्थितानां संसर्गस्थितानां सन्निपातस्थितानां च, समर्थ्याल्लङ्घनादयस्तिक्तरसावसानाः पाचनानि स्युः| यथावस्थं-अवस्थानतिक्रमेण| कस्याञ्चिज्ज्वरावस्थायां लङ्घनं-उपवासलक्षणं, मलानां पाचनं स्यात्| कस्याञ्चित् स्वेदनं स्यात्| [कस्याञ्चित् ] कालः षडहाख्यः| कस्याञ्चिद्यवाग्वः-पेयाः| कस्याञ्चित्तिक्तको रसः-तिक्तरसाग्ज्रातद्रव्योपयोगः| एवमवस्थावशात् लङ्घनादयस्तिक्तरसान्ता मलानामेकैकशः पाचनानि स्युः| अथवा क्रमेणैव पाचनानि स्युः, यथा-लङ्घनं स्वेदनं च कृत्वा षडहादूर्ध्वं यवाग्वस्तिक्तको रसः पाचनान्यविपक्वानां मलानां तरुणे ज्वरे स्युः| तत्र "आमाशयस्थः" (श्लो.१) इत्यादिना ग्रन्थेन निर्दिष्टा लङ्घनयोग्यावस्था, "सोदर्दपीनस" (श्लो. १९) इत्यादिना च स्वेदनयोग्यावस्था, "इत्ययं षडहो नेयः" (श्लो. ३८) इत्यादिना च निर्दिष्टा कालयोग्यावस्था, "युक्तं लङ्घितलिङ्गैस्तुतं" (श्लो. २४) इत्यादिना पेयायोग्यावस्था, "उद्रिक्तपित्ते" (श्लो. १४) इत्यादिना च तिक्तरसोपयोगयोग्यावस्था, इति यथावस्थं द्रष्टव्यम्| क्रमस्तु यथा,-वातश्लेष्मके सामे ज्वरे प्रथमं लङ्घनं कुर्वन्नेव स्वेदनं द्वित्रादिदिनलक्षणं च कालं लङ्घितलक्षणयुक्तस्य यवाग्वादिपेयाद्यन्नभुक्तस्यानन्तरं मुस्तापर्पटकादितिक्तरसोपयोगः, इति क्रमार्थः| अस्यविशिष्टविषयेऽपवादमाह-
Adhikarana jvaraviSheSe la~gghananiShedhaH (22-23) · Śloka 23
|
शुद्धवातक्षयागन्तुजीर्णज्वरिषु लङ्ग़नम्||२२||
नेष्यते|
|२३|
स०-शुद्धेन वातेन-आमदोषाद्यदुष्टेन, यो ज्वरः स शुद्धवातज्वरः| क्षयेण-धात्वपचयादिलक्षणेन, यो ज्वरः स क्षयज्वरः| यश्च भूतविषवाय्वग्निसम्प्रहारादिसमुद्भवः स आगन्तुज्वरः| तथा, अतरुणो ज्वरः स जीर्णज्वरः| ते विद्यन्ते येषां त एवंभूताः| तेषु लङ्ग़नं नेष्यते| तेषु तर्हि किं कार्यम् ? इत्याह-
Adhikarana tatra bRuMhaNarUpaM shamanam (23) · Śloka 23
तेषु हि हितं शमनं यन्न कर्शनम्|
|२३|
स०-हि-यस्मात्, तेषु-शुद्धवातादिज्वरेषु, शमनं हितम्| शमनस्य सन्तर्पणापतर्पणरूपेण द्वैविध्यात् किं तच्छमनं तेभ्यो हितम् ? इत्याह-यन्न कर्शनम्, बृंहणमित्यर्थः| यद्येवं तत्स्पष्टमेव बृंहणमित्येतदेव कस्मान्न कृतम् ? किं शमनं यन्न कर्शनमिति पदद्वयोपादानेन ? ब्रूमः| अर्थान्तरद्योतनार्थमेतदुक्तम्| तथा चायमर्थो विशिष्ट उभययोरुपादानेन प्रकाश्यते| यथा-न सर्वसर्विकया यद्बृंहणं शमनं तत्तेभ्यो हितम्| किन्तर्हि ? किञ्चिद्बृहणं शमनं तत्तेभ्यो हितमिति|
Adhikarana ala~gghitalakShaNam (23-24) · Śloka 24
|
तत्र सामज्वराकृत्या जानीयादविशोषितम्||२३||
द्विविधोपक्रमज्ञानमवेक्षेत च लङ्घने|
|२४|
स०-[ तत्र- ] तेषु ज्वरेषु, मध्ये, सामज्वरस्याकृत्या लक्षणेन "ज्वरोपद्रवतीक्ष्णत्वं" (हृ. नि. अ. २/५४) इत्यादिना, अविशोषितं-अलङ्घितं, विद्यात्| लङ्घने-लङ्घनलक्षणापेक्षया, द्विविधोपक्रमज्ञानं-द्विविधोपक्रमणीयाध्यायोक्तलक्षणं, चवेक्षेत| तल्लक्षणं-च-"विमलन्द्रियता सर्गो मलानां" (हृ.सू.अ.१४/१७) इत्यादि| "अतिकार्श्य" (हृ,सू.अ. १४/२९) इत्यादिभिरति लङ्घितं च|
Adhikarana peyopacAraH peyopacAraPalam (24-26) · Śloka 26
|
युक्तं लङ्घितलिङ्गैस्तु तं पेयाभिरुपाचरेत्||२४||
यथास्वौषधसिद्धाभिर्मण्डपूर्वाभिरादितः|
षडहं वा मृदुत्वं वा ज्वरो यावदवाप्नुयात्||२५||
तस्याग्निर्दीप्यते ताभिः समिद्भिरिव पावकः|
|२६|
स०-लङ्घितलिङ्गैः-विशोषितलक्षणैः, युक्तं ज्वरितं नरं ज्ञात्वा तं पेयाभिरुपाचरेत्| किम्भूताभिः ? यथास्वौषधसिद्धाभिः| यद्यत्स्वं यथास्वमिति वीप्सायामव्ययीभावः| यथास्वं च तदौषधं च यथास्वौषधम्| वातादेः पृथग्रूपस्य संसृष्टस्य सन्निपतितस्य यद्यस्य योग्यमौषधं तेन सिद्धाभिः-वक्ष्यमाणैः पेयादिद्रव्यैर्यथायथं योग्यैः कृताभिरित्यर्थः| किम्भूताभिः ? मण्डः पूर्वः-प्रधानः, अच्छतया याभ्यस्ताभिरिति समासः| एवं मण्डात् किञ्चिद्धनाः पेयाः कार्या इत्यर्थोऽवतिष्ठते| न तु मण्डः पूर्वः-प्रथमोऽभ्यवहारो, यासां ता मण्डपूर्वा इति व्याख्येयम्| एवं हि व्याख्यायमाने सर्वासां पेयानां मण्डपूर्वाणां ज्वरेऽभ्यवहारः प्राप्नोति| ततश्च (श्लो.२७)-"सृष्टविड्बहुपित्तो वा सशुण्ठीमाक्षिकां हिमां पेयां पिबेत्|" तामपि मण्डपूर्वा पिबेत्, न केवलामिति| एतश्च क्रियमाणं विरुद्धं स्यात्| तथा क्वथितामलकेऽत्यर्थं पित्तशमने क्व मण्डः ? तथा क्व बहुपित्तो ज्वरी वा मण्डः "शृतः पिप्पलीशुण्ठीभ्यां युक्तो लाजाम्बुदाडिमैः|" (च.सू.अ. २७/२५६) इत्येवंस्वरूपः ? पेयायाश्च ज्वरघ्नत्वमुक्तम्| तथा क्षुधिते सम्यग्लङ्घितं ज्ञात्वा मण्डात् किञ्चिद्धनाभिः पेयाभिरसावुपाचरणीयः| तस्य-ज्वरिणः, ताभिः-पेयाभिः, अग्निर्दीप्यते-समिध्यते, समिद्भिः-"एधैः, यथा बाह्यः पावकः| मुनिना चोक्तम् (च.चि.अ.३/१४९)-"ताश्च भेषजसंयोगाल्लघुत्वाच्चाग्निदीपनाः| चोक्तम् (च.चि.अ.३/१४९)-"ताश्च भेषजसंयोगाल्लघुत्वाच्चाग्निदीपनाः| वातमूत्रपुरीषाणां दोषाणां चानुलोमनाः| स्वेदनाय द्रवोष्णत्वाद्द्रवत्वात्तृट्प्रशान्तये| आहारभावात् प्राणाय सरत्वाल्लाघवाय च|| ज्वरध्यो ज्वरसात्म्यत्वात्तस्मात्पेयाभिरादितः| ज्वरानुपाचरेद्धीमान्" इति| खरनादेनाप्युक्तम्-"पिबेद्च्चां ससिक्थां वा स्वां स्वां पेया नवज्वरे|" इति| कियन्तं कालं ज्वरिणं पेयाभिरुपरेत् ? इत्याह-षडहमित्यादि| पेयाभिर्ज्वरिणं षडहं यावदुपाचरेत्| षण्णामह्नां समाहारः, "तद्धितार्थोत्तरपद" इत्यादिना समासः, "राजाहःसखिभ्यष्टच्" इति टच्, न सङ्ख्यादेः समाहारे" इत्यह्नादेशो यदि शान्तो ज्वरस्तदा दोषदूष्याद्यपेक्षया भक्तयूषादिभिरुपाचरेदिति वाशाब्देन गमयति| मृदुत्वं वेति| अथवा षडहेऽती तेऽपि यावज्ज्वरो मार्दवं गच्छति तावत्पेयाभिरुपाचरेत्| ननु, तर्हि किं षडहं वेत्यनेन ? अत्र केचिदेवमाहुः| षडहादर्वाक्प्रायेण मृदुतायामपि जातायां षडहं यावत् ज्वरिणं पेयाभिरुपाचरेदिति द्योतनार्थं षडहं वेति कृतम्| अपरे तु काल एव बाहुल्येन ज्वरमार्दवस्येति ज्ञापनार्थमिदं कृतमिति मन्यन्ते| ज्वरमार्दवे तु जाते पाचनादियोगः कार्यः| तथा च वक्ष्यति (श्लो.३९)- "ततः पक्वेषु दोषेषु लङ्घनाद्यैः प्रशस्यते| कषायः" इति| अथ ता एव पेया वक्तुमुपक्रमते
Adhikarana lAjapeyA prathamaM yojyA amlArthinaH peyA (26-27) · Śloka 27
|
प्राग्लाजपेयां सुजरां सशुण्ठीधान्यपिप्पलीम्||२६||
ससैन्धवां, तथाऽम्लार्थी तां पिबेत्सहदाडिमाम्|
|२७|
स०-प्राक्-पूर्वं सर्वाभ्यः पेयाभ्यो, लाजपेयां पिबेत्, न तु यवादिप्रकृतिजां पेयाम्| कीदृशीम् ? सुजराम्, अल्पजत्वाद्याच्छीघ्रं जरां याति ताम्| तथा, सशुण्ठीधान्यपिप्पलींशुण्ठ्यादिभिः शृतामिति बोध्यम्| अत एव ससैन्धवामिति पृथग् निर्दिष्टम्| अन्यथा सशुण्ठीधान्यपिप्पलीसैन्धवामिति निर्देशं कुर्यात्| मुनिरप्याह (च. चि. अ. ३/१७७)- "लाजपेयां च सुजरां पिप्पलीनागरैः शृताम्" इत्यादि| ससैन्धवामित्यत्र सशब्दस्येषत्पर्यायत्वात् अल्पसैन्धवामितिबोध्यम्| तथा, अम्लार्थी-यो ज्वर्यम्ल प्रार्थयते सः, तां-पूर्वोक्तां पेयां, सहदाडिमां पिबेत्| पूर्वस्याः पेयायाः सदाडिमत्वमेवास्या विशेषः| "वोपसर्जनस्य" इति सहशब्दस्य सभावः|
Adhikarana shithilamalapittottarayo peyA (27) · Śloka 27
|
सृष्टविड् बहुपित्तो वा सशुण्ठीमाक्षिकां हिमाम्||२७||
स०-पिबेदित्यनुवर्तते| सृष्टविट्-भिन्नवर्चा ज्वरी, बहुपित्तो वा सशुण्ठीमाक्षिकां हिमां पेयां पिबेत्, नोष्णां नान्यथा यो ज्वरी| धान्यपिप्पल्यावत्रापास्ये, शुण्ठीग्रहणात्| अत्र च शुण्ठ्या द्रव्येभ्योऽसंयोगान्मधुरपाकत्वादग्निमान्द्योत्सारणोपक्षीणशक्तित्वाद् युक्तः पित्ते प्रयोगः| एवमन्यत्रापि शुण्ठ्याः प्रयोगे चिन्त्यम्| सैन्धवं तु तावन्मात्रं सर्वत्राविरुद्धमेव|
Adhikarana bastyAdishUlinaH (28) · Śloka 28
बस्तिपार्श्वशिरःशूली व्याघ्रीगोक्षुरसाधिताम्|
|२८|
स०-बस्त्यादिशूली व्याघ्रीगोक्षुरसाधितां पेयां पिबेत्|
Adhikarana jvarAtisAriNaH peyA (28-29) · Śloka 29
|
पृश्निपर्णीबलाबिल्वनागरोत्पलधान्यकैः||२८||
सिद्धां ज्वरातिसार्यम्लां पेयां दीपनपाचनीम्|
|२९|
सं-पृश्निपर्ण्यादिसाधितां पेयां दीपनपाचनीं ज्वराति सारवान् अम्लां पिबेत्| दीपनी चासौ पाचनी चेति पुंवत्कर्मधारयेति पुंवद्भावः| अत्राम्लग्रहणं न कर्तव्यम्| यतः सर्वत्रपेयाप्रसङ्गेऽम्लार्थी यो ज्वरी स सदाडिमां पेयां पिबेदित्युक्तम्| तस्मात्किमनेन ? ब्रूमः| अम्लाभिलाषी भवतु वा मा भवतु| तथाऽप्यम्लामेव ज्वरातिसारी पिबेदित्यस्यार्थस्य द्योतनार्थमम्लामित्युक्तम्|
Adhikarana hidhmAdiyuktasya peyA (29) · Śloka 29
|
ह्रस्वेन पञ्चमूलेन हिक्कारुक्श्वासकासवान्||२९||
स०-पिबेत्सिद्धामित्यत्रानुवर्तते| ह्रस्वेन-बृहत्यादिना, पञ्चमूलेन सिद्धां पेयां हिध्मादिवान् पिबेत्|
Adhikarana kaPArtasya peyA (30-31) · Śloka 31
पञ्चमूलेन महता कफार्तो यवसाधितम्|
विबद्धवर्छाः सयवां पिप्पल्यामलकैः कृताम्||३०||
यवागूं सर्पिषा भृष्टां मलदोषानुलोमनीम्|
|३१|
स-कफार्तो नरो बिल्वादिना-महता, पञ्चमूलेन सह यवसाधितां पिबेत्| तण्डुला एवात्र प्रकृतित्वेन योज्याः| यवास्तुक्वाथ एव| विबद्धं-विष्टब्धं, वर्चः-पुरीषं, यस्य-नरस्य, स नरः सयवां-यवप्रधानां पिबेत्| किम्भूताम् ? पिप्पल्यामलकैः कृताम्| तथा, सर्पिषा भृष्टां-सम्यगाज्येन संस्कृताम्| तथा, मलः-पुरीषादिः, दोषो-वातादिः, तेषामनुलोमनीं-स्वमार्गप्रवर्तिनीम्|
Adhikarana vibaddhashUlayuktasya peyA (31-32) · Śloka 32
|
चविकापिप्पलीमूलद्राक्षामलकनागरैः||३१||
कोष्ठे विबद्धे सरुजि|
|३२|
स०-कोष्ठे विबद्धे-विबद्धदोषाधिष्ठाने, तथा सरुजि चविकादिभिः साधितां पेयां पिबेत्|
Adhikarana parikartinaH peyA (32) · Śloka 32
पिबेत्तु परिकर्तिनि|
कोलवृक्षाम्लकलशीधावनीश्रीफलैः कृताम्||३२||
स०-तुः पुनरर्थे| परिकर्तनं-परिकर्तिका छेदनमिवानुभवः, स यस्यास्ति स परिकर्ती कोष्ठः, तस्मिन्परिकर्तिनि तु कोष्ठे, कोलादिभिः साधितां पेयां पिबेत्| श्रीफलं-बिल्वफलम्|
Adhikarana asvedanidrAtRuShNArtasya peyA (33-34) · Śloka 34
अस्वेदनिद्रस्तृष्णार्तः सितामलकनागरैः|
सिताबदरमृद्वीकासारिवामुस्तचन्दनैः||३३||
तृष्णाछ्छर्दिपरीदाहज्वरघ्नीं क्षौद्रसंयुताम्|
|३४|
स०-अस्वेदनिद्रो नरस्तृष्णार्तश्च सितादिभिः साधितां पेयां पिबेत्|
Adhikarana peyauShadhairevarasayUShAdikAnapi kuryAt (34) · Śloka 34
|
कुर्यात्पेयौषधैरेव रसयूषादिकानपि||३४||
सं-पेयोद्दिष्टैरेवौषधैर्मांसरसादयोऽपि यथोपयोगं कर्तव्याः| [ तथा च सङ्ग्रहेऽध्यगीष्ट-(चि. अ. १)-"कुर्यात् पेयौषधरेव रसयूषादिकानपि|" ] रसोऽत्र मांसरसः| यूषाः-मुद्गादिसम्बन्धिनः क्वाथाः| आदिग्रहणात् पानियमस्तुतक्रव्यञ्जनादयो गृह्यन्ते| पेयादिषु च द्रव्यपरिमाणादिकं पूर्वोक्तं सूपशास्त्रादिभ्यो वाऽवगन्तव्यम्| तथा च तन्त्रान्तरे-"पेयायूषरसाद्येषु रसालापानकादिषु| द्रव्यमात्रां प्रयुञ्जीत लोकसिद्धां यथार्हतः||" इति|| यस्य पुंसो यत्परिमाणैर्द्रव्यैर्मात्रा योग्या तस्य तत्परिमाणैर्द्रव्यैरेव पेयादयः कार्या इत्यर्थः| अन्ये त्वेवं मन्यन्ते,-पेयायूषरसाद्येषु द्रव्यपरिमाणमल्पमेव कल्पयितव्यम्| पानार्थे च यद्द्रव्यैः सधितं तोयमुक्तं तदल्पपरिमाणद्रव्यैरेव सधनीयम्| अल्पपरिमाणेनैव द्रव्येण तत्तोयं सम्यक् पाच्यते| तथा च खारणादिरपाठीत्-"बहुद्रव्यो घनः क्वाथः स्वच्छमल्पौषधं जलम्|" इति| श्रपणक्रियासामान्येऽप्यस्योभयस्य पृथक्संज्ञाविनिर्देशो द्रव्यपरिमाणभेदादयं क्वाथ इदं जलमिति| ज्वरिणां च प्रथमं यथाऽच पेया देयास्तथा यूषरसा अप्यच्छा एव देयाः, अग्निमान्द्यभयात्| क्वाथोऽप्यत एव बहुपरिमाणद्रव्यसाध्यत्वाद्धनतया तिक्तरसद्रव्यकृतोऽपि प्रथमं ज्वरे निषिद्धः| किं सर्वत्र ज्वरे सर्वाः सर्वदा सर्वस्मिन्देशे पेया देया न ? इत्याशङ्क्याह-
Adhikarana jvaravisheShe peyAniShedhaH (35-36) · Śloka 36
मद्योद्भवे मद्यनित्ये पित्तस्थानगते कफे|
ग्रीष्मे तयोर्वाऽधिकयोस्तृट्छर्दिर्दाहपीडिते||३५||
ऊर्ध्वं प्रवृत्ते रक्ते च पेयां नेच्छन्ति|
|३६|
स०-मद्योद्भव इत्यादिष्वर्थेषु पेयां नेच्छन्ति, मुनय इति शेषः| मद्येनोद्भवो यस्य तस्मिन् मद्योद्भवे ज्वरे, तथा मद्यनित्ये पुरुषे, तथा कफे पित्तस्थानगते सति, तथा ग्रीष्मकाले, तथा तयोर्वाऽधिकयोः, तयोरिति पित्तकफौ परामृश्येते, पित्तकफयोश्चाधिकयोः, पित्तस्थानगते कफ इत्यस्तयोरेव प्रकृतत्वात्, तथा तृट्छर्दिर्दाहैः समुदितैः पीडिते पुरुषे यो ज्वरस्तस्मिंश्च, प्रत्येकं तु तृडार्तेऽनुज्ञातैव, आस्वेदनिद्रस्तृष्णात्र्त इत्युक्तेः, दाहार्तेऽपि सृष्टविड्बहुपित्तो वेत्याह, तथा यस्योर्ध्वं प्रवृत्ते रक्ते ज्वरस्तस्मिंश्च पेयां नेच्छन्ति| तेषु तर्हि किं कार्यम् ? इत्याह-
Adhikarana niShiddhapeyasya tarpaNam (36-37) · Śloka 37
तेषु तु|
ज्वरापहैः फलरसैरद्भिर्वा लाजतर्पणान्||३६||
पिबेत्सशर्कराक्षौद्रान्|
|३७|
स०-तेषु पुनर्विषयभूतेषु लाजतर्पणान्-लाजसक्तून्, पिबेत्,-पेयावसरे न तु यवसक्तून् पिबेत्| ज्वरापहैः फलरसैःद्राक्षादीनां ज्वरघ्नानां फलानां रसैः-स्वरसैः, अथवा तद्रसैःक्वाथैः| अथवा, अद्भिः-जलैः, क्वथितशीतलैरित्यर्थाद्गम्यते| किम्भूतान् लाजतर्पणान् ? सशर्कराक्षौद्रान्|
Adhikarana tato yUShaudananarasaudanau (37-38) · Śloka 38
ततो जीर्णे तु तर्पणे|
यवाग्वां वौदनं क्षुद्वानश्नीयाद्भृष्टतण्डुलम्||३७||
दकलावणिकैर्यूषै रसैर्वा मुद्गलावजैः|
|३८|
स०-ततः-तर्पणपानादनन्तरं, जीर्णे तर्पणे, यवाग्वां वेति यवागूपानार्हे नरे यवाग्वां जीर्णायां, क्षुद्वान् पुरुषो-जातबुभुक्षः सन्, द्वितीयेऽन्नकाल ओदनमश्नीयात्-भुञ्जीत| किम्भूतम् ? भृष्टास्तण्डुला यस्मिन्| किं केवलमोदनं भुञ्जीत ? नेत्याह-दकेत्यादि| दकलावणिकैः-कुलत्थादीनां सम्बन्धिभिर्यूषः-क्वाथैः, ओदनमद्यात्| अथवा, अवस्थावशात् मुद्गलावजैरोदनमद्यात्| मुद्गलावजरसैरिति वक्तव्ये रसैरिति पृथङ्निर्देशो लावजरसानां प्राधान्यज्ञापनार्थम्| तथा लावजरसाः संस्कार्याः संस्कारकाश्च मुद्गाः, अत एव बहुमात्राणां लावानामल्पानां च मुद्गानामत्रोपयोगः कार्य इत्यवतिष्ठते| "नातिमां सास्तनुरसा दकलावणिकाः स्मृताः|" इति केचिदाहुः| अन्येत्वाचक्षते,-"अल्पमांसपटुस्नेहा दकलावणिकाः स्मृताः|" इति|
Adhikarana maNDAdyupacArasyopasaMhAraH (38) · Śloka 38
|
इत्ययं षडहो नेयो बलं दोषं च रक्षता||३८||
स०-इति-पूर्वोक्तेन प्रकारेण, प्रथमो ज्वरस्य षडहो नेयः अतिवाह्यः, नान्यो ज्वरस्य सम्बन्धी, इत्ययमिति निर्देशाल्लभ्यते- किं कुर्वता भिषजा षडहो नेयः ? बलं रक्षता, तथा दोषं तत्काले सामं वाताद्यन्यतमं पृथक् संसृष्टं सन्निपतितं वा तज्ज्वरकारणं रक्षता,-तत्र तद्रक्षां कुर्वता, यथाऽसौ दोषः कृच्छ्रसाध्यतामसाध्यतां वा न याति| अत्र च यदि किल बलरक्षार्थं सन्तर्पणं क्रियते तदा सन्तर्पणस्यामवृद्धिहेतुत्वात् सामो दोषो वर्धेत, अथामदोषक्षपणार्थमपतर्पणं कुर्वीत तदा बलहानिः स्यात्, तस्मान्मध्यमया वृत्त्याऽवहितेन वैद्येनोभयं रक्षतोपक्रमः कार्यः, नात्रावहेला कार्येत्यर्थः|
Adhikarana tataH kaShAyaH (39) · Śloka 39
ततः पक्वेषु दोषेषु लङ्घनाद्यैः प्रशस्यते|
कषायो दोषशेषस्य पाचनः शमनोऽथवा||३९||
स०-लङ्घनाद्यैः-तिक्तसावसानैस्तत्कालोचितैर्ज्वरकारिसाममलपक्तॄहेतुभिः, पक्वेषु दोषेषु ततः-षडहादूर्ध्वं, कषायः प्रशस्यते| मुस्तापर्पटकादिः पाचनः, प्राधान्येन पाचनसंज्ञया विहितत्वात्| तथा वक्ष्यमाणः कलिङ्गकादिरर्घश्लोकसमापनः (श्लो. ४८) पञ्चप्रकारः शमनः प्रशस्यते, प्राधान्येन शमनसंज्ञया विहितत्वात्| तथा छाध्येष्यते तन्त्रकृत् (श्लो. ५१) "पञ्चैते सन्ततादीनां पञ्चानां शमना मताः|" इति| तदेतदुभयं-पाचनशब्दश्रुत्याक्षिप्तो मुस्तापपर्टकादिः शमनश्रुत्याक्षिप्तः कलिङ्गकादिः, कषायः-क्वाथः, प्रशस्यते| कस्य पाचनः ? इत्याह-दोषशेषस्य| अत एव पक्वेषु दोषेषु लङ्घनाद्यैरित्यल्पपक्वेषु पक्वप्रायेष्वीषदामेषु दोषेष्विति बोध्यम्| अन्यथा पक्वस्य पाचनमयुक्तमिव स्यात्, पिष्टपेषणन्यायेनानर्थकत्वात्| तथा चापक्वं यद्वस्तुजातं तदग्निः पछति, पहन्तमग्निः पाचनः पाचयात| एवं च पाक्याभावात् किमग्निः पचतु ? किं वा कषायः पाचयतु ? इत्यनुपपन्नमिवैतत्स्यात्| यदा पुनर्मुस्तापर्पटकादिः कलिङ्गादिरन्यो वा कश्चित् कषायस्तिक्ताद्यन्यतमो वातादिदोषज्वरशान्त्यर्थं प्रयुज्यते तदा पाचनो भवन्नपि शमनसंज्ञः, न पाचनसंज्ञः| ननु, प्रथम एव दिने तिक्तरसकषायमनुजज्ञे तन्त्रकृत्| तथा चोवाछ (श्लो. १५)- "घनचन्दनशुण्ठ्यम्बुपर्पटोशीरसाधितम्| शीतं तेभ्यो हितं तोयं पाचनं तृड्ज्वरापहम्||" इति| तत्कथमेतत् ? अत्रोच्यते| ज्वरिणः प्रसक्ततृषोऽवश्यं पानं किञ्चिद्वितरणीयम्| न च (पाने) मद्येक्षुरसदधिमस्त्वारनालक्षीरादीनामत्र योग्यत्वेऽपि ज्वरस्यैवं विधानि निषद्धानि तन्त्रकृद्भिः, शिशिरजलमप्यामदोषस्रोतःसंरोधाग्निसादादीनावहेत् ज्वरं गाढतरं कुर्यात्| तस्मात् पानार्थे तिक्तसाधितमुक्तमम्ब्वनुमेने| द्रव्याणि चात्र स्वल्पमात्रयैव योज्या नीत्यनन्तरमेव प्रत्यपादि| किञ्च ज्वरितस्तृषतो जलं बहौषधं पातुमपि न क्षमेत| किञ्च कतिपयान्येव घनादीनि जलसंस्कारेण पातुमनुमतानि, न सकलान्यपि तिक्तान्यनुमतानि| किंतर्हि ? विशिष्टप्रभावं दर्शयन्ति घनादीन्येव| विशिष्टप्रभावत्वं चान्यत्रापि द्रव्याणां दृष्टम्| यथा-शमीफलं मधुरमपि केशघ्नम्, तथाऽम्लमप्यामलकं पित्तकफघ्नम्, सैन्धवं लवणमपि चक्षुष्यम्, इत्याद्यन्यदप्यूह्यम्| तस्मात् घनादीनां पानीयसंस्कारोपयोगो नवज्वरेऽपि हितः|
Adhikarana doShavisheShe kaShAyavisheShaH (40) · Śloka 40
तिक्तः पित्ते विशेषेण प्रयोज्यः, कटुकः कफे|
|४०|
स०-कषाय इति वर्तते| ज्वरस्य प्रकृतत्वात् पित्ते-पित्तज्वरे, तिक्तकषायकल्पनाप्रकारः प्रयोज्यः| तिक्तः पित्ते विशेषेणेत्यतो विशेषनिर्देशादन्यदोषोत्थेऽपि ज्वरे तिक्तरसाधिष्ठितो द्रव्यकषायो यथावस्थं प्रयोज्यः, न केवलं पित्तज्वराख्ये, व्याधिदोषघ्नत्वात्| तथा तिक्तो रसो निसर्गत एव ज्वरघ्नः शास्त्रेऽस्मिन्पठितः| यथा (हृ. सू. अ. १०/१४)- "तिक्तः स्वयमरोचिष्णुररुचिं कृमितृड्विषम्| कूष्ठमूर्च्छाज्वरोत्क्लेददाहपित्तकफान् जयेत्||" इति| मुनिरप्यवोचत् (छ. सू. अ. २६४३)- "तिक्तो रसः स्वयमरोछिष्णुररोछकघ्नो विषघ्नः क्रिमिघ्नो मूर्च्छादाहप्रशमनस्तृष्णाप्रशमनस्त्वङ्मांसयोः स्थिरीकरणो ज्वरघ्नः" इत्यादि| तस्माद्रसेषु यथा तिक्तरसस्य ज्वरघ्नत्वं तथा नान्येषां रसानामित्यवेहि| गुडूछ्यादेश्च द्रव्यस्य तिक्तरसत्वादेव ज्वरघ्नत्वस्य प्रतिपादितत्वात् पुनर्यज्ज्वरघ्नत्वमुक्तं तछ्छक्त्युत्कर्षायेति बोध्यम्| गुडूछ्याश्च मुनि(?)गुणानाह| यथा (सङ्ग्रहे अ. १२)- "तिक्ताऽमृता त्रिदोषघ्नी ग्राहिण्युष्णा रसायनी| दीपनी ज्वर तृड्दाहकामलावातरग्क्तनुत्||" इति| एवमन्येषामपि द्रव्याणामाधेयसामर्थ्याद्युत्कर्षसिद्धमपि यत् पुनरुछ्यते, तत्तेषां तस्य कर्मणः शक्त्युत्कर्षार्थं बोध्यम्| कटुक इत्यादि| कटुकरसाधिष्ठितो ज्वरघ्नद्रव्यविशेषजः क्वाथः कफे-कफज्वरे प्रयोज्यः, न तु यः कश्छित्कटुकद्रव्यकषायः, सर्वस्य ज्वरघ्नत्वानुपपत्तेः| यस्माद्द्रव्यप्रभावाद्विशिष्टमेव कटुरसाधिष्ठितं किमपि यद् द्रव्यं तज्जवरघ्नमिति मन्तव्यम्| एतदेव तस्माछ्छायं ग्रन्थकृत् "कफे कटुको योज्यः" इति जगाद|
Adhikarana kaShAyakaShAyasya niShedhaH niShedhAtikrame doShaH (40-41) · Śloka 41
|
पित्तश्लेष्महरत्वेऽपि कषायः स न शस्यते||४०||
नवज्वरे, मलस्तम्भात्कषायो विषमज्वरम्|
कुरुतेऽरुचिहृल्लासहिध्माध्मानादिकानपि||४१||
स०-कषायः-कषायरसाधिष्ठितद्रव्यजः कषायः, स पित्तश्लेष्महरत्वेऽपि नवज्वरे,-तरुणज्वरे, न शस्यते| कुतः ? इत्याह-मलेत्यादि| कषायो ह्यत्र योजितो मलस्तम्भात्कारणात् विषमज्वरं-सततादिकं, कुरुते| कषायस्तम्भिता हि मलाः कोष्ठमप्रतिपन्नत्वात् सम्यक्पाकमयान्तः सन्धिस्तोतोलीनाः कषायपानविहितवेगा अशक्तत्वाद्विषममेव ज्वरं कुर्वन्ति| यदि हि तेषां कषायदानेन शक्तिहानिर्न कृता स्यात् तदा सन्ततमेव ज्वरं कुर्युः| तस्मात् स्वल्पत्वात् सततादिकं विषमज्वरं कर्तुमेषां युक्तम्| ननु, पित्तश्लेष्महरत्वेपीत्यनर्थम्| यतः "कषायः पित्तकफहा" (हृ.सू.अ.१०१२०) इति पूर्वमुक्तम्| अस्त्येवैतत्| अर्थविशेषज्ञापनार्थं तु पुनरुक्तम्| नवज्वरे-एकदोषजे सन्निपातजे वातकफजे वातपित्तजे, केवलं कषायो न शस्तोऽपि तु पित्तश्लेष्मज्वरेऽपि न शस्तः, तस्मात् पित्तकफजेऽपि ज्वरे नायं योज्य इत्यर्थः| तथा, कषायोऽयं योजितो न केवलं विषमज्वरं करोति, यावदरुच्यादीश्च करोति| अत्रापि मलस्तम्भादिति सम्बध्यते| तेन यद्यप्यादिशब्देनानियतरुपाणामनेकानाव्याधीनां ग्रहणं प्राप्तम्, तथाऽपि मलस्तम्भाद्ये व्याधय उत्पद्यन्तेऽरुच्यादिरूपास्तेषामेवेह ग्रहणार्थमेवं सम्बन्धः कृतः| तथा, विषमज्वरारुचिहृल्लासहिध्माध्मानादिकानपीत्येकविभक्त्यैव निर्देशः कर्तुं व्यवच्छद्य पृथङ्क्निर्देशो यः कृतस्तेनेदं द्योत्यते,-कषायः प्रयोजितोऽवश्यमेव विषमज्वरं कुरुते, अरुच्यादीन् पुनर्नावश्यं कुरुते, इति| तदेवं कषायो रसविशेषो मलस्तम्भादेव नवज्वरे निषिध्यते, न तु कल्पनावशात्| तथा च मुनिः (च. चि. अ. ३११६०)- "यः कषायः कषायस्तु स वर्ज्यस्तरुणे ज्वरे| न तु कल्पनमुद्दिश्य कषायः प्रतिषिध्यते||" इति|
Adhikarana uktauShadhakAlasya matAntareNa nirAkaraNam (42) · Śloka 42
सप्ताहादौषधं केचिदाहुरन्ये दशाहतः|
केचिल्लघ्वन्नभुक्तस्य योज्यमामोल्बणे न तु||४२||
स०-सप्ताहादनन्तरमष्टमेऽह्नयौषधं-ज्वरघ्नं यथायोग्यं शृतादिकल्पनया कल्पितं, योज्यमिति किचिदेवाचार्या आहुः| अन्ये तु दशाहादूर्ध्वमौषधं-मुस्तापर्पटकादिकं, योज्यमाहुः| केचिदाचार्या लघ्वन्नभुक्तस्य नरस्यौषधं योज्यमित्याहुः| लघ्वन्नशब्देन पेयादिकं भण्यते, ओदनतस्तस्य लग़ुत्वोक्तेः| लघ्वन्नं भुक्तं येनासौ लघ्वन्नभुक्तः| आहिताग्न्यादित्वान्निष्ठान्तस्य परनिपातः| "परमतमप्रतिषिद्धमनुमतमेव" इति सर्वमेतत् प्रमाणम्, अवस्थावशेन प्रयोगार्हत्वात्| आमोल्बणे तु न-आमाधिकज्वरिणि पुरुषे पुनरौषधं ज्वरघ्नं मुस्तापर्पटकादिकं षडहादूर्ध्वं सप्ताहात् दशाहाद्वा न योज्यम्| किमिति चेत् ? आह-
Adhikarana svasiddhAnte yuktiH (43-44) · Śloka 44
तीव्रज्वरपरीतस्य दोषवेगोदये यतः|
दोषेऽथवाऽतिनिचिते तन्द्रास्तैमित्यकारिणि||४३||
अपच्यमानं भैषज्यं भूयो ज्वलयति ज्वरम्|
|४४|
स०-तीव्रज्वरेण परीतस्य ज्वरिणः पुंसो दोषवेगोदये दोषस्य-आमाद्याख़्यस्योल्बणस्य, वेगो-मुस्तापर्पटकादिनोत्क्लेशात्, दोषवेगः, तस्योदयः-प्रादुर्भावो, दोषवेगोदयः| अथवा, उल्बणामस्य वातादेर्दोषस्य वेगोदयः, तस्मिन् दोषवेगोदये सति| अथवा तथैव दोषे-आमाख़्ये, अतिनिचिते-अतिशयेन सञ्चयं प्राप्ते, वातादौ व दोष उल्बणे| अत एव तन्द्रास्तैमित्येऽवश्यं करोति तस्मिन् तन्द्रास्तैमित्यकारिणि| यतो-यस्मात्, तदानीमामच्छन्नपावकेनापछ्यमानं भैषज्यं-औषधं मुस्तापर्पटकादिशृतादिकल्पनाकल्पितं, तदौषधं प्रयुक्तं भूयः-पुनरपि, ज्वरं ज्वलयति-उत्तेजयति न शमयति| तस्मादामोल्बणे ज्वरे न षडहादूर्ध्वं नापि सप्ताहान्न च दशाहादूर्ध्वं भैषज्यं योज्यम्| कदा तर्हि योज्यम् ? इत्याह-
Adhikarana auShadhayogyA jvarAvasthA (44-45) · Śloka 45
|
मृदुर्ज्वरो लघुर्देहश्चलिताश्च मला यदा||४४||
अचिरज्वरितस्यापि भेषजं योजयेत्तदा|
|४५|
स०-मृदुर्ज्वरः-उपद्रवमृदुतया| लघुः-पटुः देहः| चलिता मलाः-मूत्रपुरीषादयः| मृदुर्ज्वर इत्यादिलक्षणावस्था यदा भवति तदाऽस्यामवस्थायामचिरज्वरितस्यापि-अनितिक्रान्तषडहस्यापि, भैषज्यं योज्यम्| अपिशब्दात् किं पुनः षडहेऽप्यतीते ज्वरितस्यैवंलक्षणायामवस्थायमुत्पन्नायां तदौषधं च न योज्यम् ? इत्येवं व्याध्यवस्था कालतो गरीयसीत्युक्तं भवति| अथ तदौषधमाह-घ्
Adhikarana auShadham (45-46) · Śloka 46
|
मुस्तया पर्पटं युक्तं शुण्ठ्या दुःस्पर्शयाऽपि वा||४५||
पाक्यं शीतकषायं वा पाठोशीरं सवालकम्|
पिबेत्तद्व्च्छभूनिम्बगुडूचीमुस्तनागरम्||४६||
सं-मुस्तया सह पर्पटं युक्तमथवा शुण्ठ्या धन्वयासेन युक्तं पाक्यं-शृतं, शीतकषायं-शीतकल्पनाकल्पितं, वा कृत्वा पिबेदिति वक्ष्यमाणेन सम्बन्धः| पाठा चोशीरं च पाठोशीरं वालकेन सह शृतं शीतं वा पिबेत्| स्वरसकल्कफाण्टाख्यकल्पनाभ्यः शृतशीताख्यकल्पनाद्वयकल्पितस्यास्य तथा सामर्थ्यस्य दृष्टत्वादेतत्कल्पनायुगलमुपन्यस्तवान्| वा समुच्छये भिन्नक्रमे| तद्वदित्यादि| न केवलं मुस्तापर्पटकं पिबेत्, तथा पाठोशीरं सवालकं पिबेत्, यावद्भूनिम्बगुडूचीमुस्तनागरमपि पिबेदिति|
Adhikarana uktauShadhAnAM viShayaM viBAgaM PalaM ca (47) · Śloka 47
यथायोगमिमे योज्याः कषाया दोषपाचनाः|
ज्वरारोचकतृष्णास्यवैरस्यापक्तिनाशनाः||४७||
सं-इमे-पूर्वोक्ता मुस्तापर्पटकादयः कषायाः, यथायोगंयोगानतिक्रमेण, यो यः कषायो यस्मिन् ज्वरे दातुं युक्तः स तत्र योज्य इति यथायोगं योज्याः| किंक्रिया एते स्युः ? इत्याह-दोषपाचनाः, दोषस्य-आमाख्यस्य पक्वप्रायस्य, पाचनाः| तन्त्रान्तरे चोक्तम्-"प्रयुक्तं पाचयेदामं यतत्पाचन मुच्यते| पित्तादिजिन्निरामस्य यत्स्यात्तचमनं मतम्||" इति| अत्र मुस्तापर्पटस्य पूर्वमुपन्यासो ज्वरनाशनेभ्योऽन्येभ्योऽस्य मुस्तापर्पटस्य प्राधान्यप्रदर्शनार्थः| तथा चाचार्योऽग्न्याणां मध्ये "मुस्तापर्पटक ज्वरे" (हृ. उ. अ. ४०/४८) इति निर्देक्ष्यते| तस्मान्मुस्तापर्पटस्यैव ज्वरनाशने ज्यायस्त्वमित्यवेहि, व्याधिप्रतिपक्षत्वात्|
Adhikarana santatAdInAM viShamajvarAnAM shamanAH pa~jca kaShAyAH (48-51) · Śloka 51
|
कलिङ्गकाः पटोलस्य पत्रं कटुकरोहिणी||४८||
पटोलं सारिवा मुस्ता पाठा कटुकरोहिणी|
पटोलनिम्बत्रिफलामृद्वीकामुस्तवत्सकाः||४९||
किराततिक्तममृता चन्दनं विश्वभेषजम्|
धात्रीमुस्तामृताक्षौद्रमर्धश्लोकसमापनाण्||५०||
पञ्चते सन्ततादीनां पञ्चानां शमना मताः|
|५१|
स०-कलिङ्गकादयोऽर्धशोकैः समापनं येषां तेऽर्धश्लोकसमापनाः पञ्चैते पञ्चानां सन्ततादीनां यथासङ्ख्यं शमना मताः मुनीनामिति शेषः|
Adhikarana vAtajvarasya auShadham (51-52) · Śloka 52
|
दुरालभामृतामुस्तानागरं वातजे ज्वरे||५१||
अथवा पिप्पलीमूलगुडूचीविश्वभेषजम्|
कनीयः पञ्चमूलं च|५२|
स०-दुरालभादि पाचनं वातजे ज्वरे, अथवा पिप्पल्यादिकं वातजे ज्वरे, कनीयो-बृहत्यादिकं, पञ्चमूलं च वातजे ज्वरे, इति योज्यम्|
Adhikarana pittajvarasya auShadham (52-53) · Śloka 53
|
पित्ते शक्रयवाघनम्||५२||
कटुका चेति सक्षौद्रं मुस्तापर्पटकं तथा|
सधन्वयासभूनिम्बं|५३|
स०-पित्ते-पित्तजेज्वरे, शक्रयवादयः समाक्षिका मताः| पित्तजेऽपि मुस्तापर्पटकं धन्वयासकिराततिक्ताभ्यां सहित हितम्|
Adhikarana kaPajvarasya auShadham (53-54) · Śloka 54
|
वत्सकाद्यो गणः कफे||५३||
अथवा वृषगाङ्गेयीशृङ्गबेरदुरालभाः|
|५४|
स०-"वत्सकमूर्वीभार्ङ्गी" (हृ. सू. अ. १५/३३) इत्यादिः कफे मतः| अथवा वृषादिः| गाङ्गेयी-मुस्ता|
Adhikarana sashUlavibindhasya kaPavAta jvarasya auShadham vAtapittajvarasya auShadham pittajvarasya auShadham kaPajvarasya auShadham sashUlavibandhasya kaPavAta jvarasya auShadham (54-55) · Śloka 55
|
रुग्विबन्धानिलश्लेष्मयुक्ते दीपनपाचनम्||५४||
अभयापिप्पलीमूलशम्याककटुकाघनम्|
|५५|
स०-रुग्विबन्धादियुक्ते ज्वरेऽभयादिघनावसानं दीपनपाचनम्|
Adhikarana vAtapittajvarasya auShadham (55-58) · Śloka 58
|
द्राक्षामधूकमधुकतोध्राकाश्मर्यसारिवाः||५५||
मुस्तामलकह्रीबेरपद्मकेसरपद्मकम्|
मृणालचन्दनोशीरनीलोत्पलपरूषकम्||५६||
फाण्टो हिमो वा द्राक्षादिर्जातीकुसुमवासितः|
युक्तो मधुसितालाजैर्जयत्यनिलपित्तजम्||५७||
ज्वरं मदात्ययं छर्दिं मूर्च्छां दाहं श्रमं भ्रमम्|
ऊर्ध्वगं रक्तपित्तं च पिपासां कामलामपि||५८||
स०-द्राक्षादिरयं गणः फाण्टः-"सद्योऽभिषुतपूतः" (हृ. क. अ. ६/११) इत्येवंलक्षणः, तथा हिमः-शीतो वा, "रात्रिंद्रवे स्थितः" (हृ. क. अ. ६/१०) इत्येवंलक्षणः| तथा जातीकुसुमैः सुगन्धीकृतो मधुसितालाजैर्युक्तो वातपित्तजं ज्वरं जयति, मदात्ययादिंश्च|
Adhikarana vAtapittajvarasya anyat auShadham (59) · Śloka 59
पाचयेत्कटुकां पिष्ट्वा कर्परेऽभिनवे शुचौ|
निष्पीडितो ग़ृतयुतस्तद्गसो ज्वरदाहजित्||५९||
स०-कटुकां पानीयेन पिष्ट्वा कर्परे-मृद्भृष्टखण्डे, अभिनवे तथा शुचौ पाचयेत्| तस्या रसो निष्पीडितः सर्पिर्युक्तो ज्वरदाहौ जयति|
Adhikarana kaPavAtajvarasya auShadham (60) · Śloka 60
कफवाते वचातिक्तापाठारग्वधवत्सकाः|
पिप्पलीचूर्णयुक्तो वा क्वाथश्च्छिन्नोद्भवोद्भवः||६०||
सं-वातश्लेष्मणि कषायकल्पनया कल्पिता वचादयो मताः| अथवा, गुडूचीसम्भवः क्वाथः पिप्पलीचूर्णयुतो मतः|
Adhikarana kaPavAta anyat auShadham (61-63) · Śloka 63
व्याघ्रीशुण्ठ्यमृताक्वाथः पिप्पलीचूर्णसंयुतः|
वातश्लेष्मज्वरश्वासकासपीनसशूलजित्||६१||
पथ्याकुस्तुम्बरीमुस्ताशुण्ठीकट्तृणपर्पटम्|
सकट्फलवचाभार्ङ्गीदेवाह्वं मधुहिङ्गुमत्||६२||
कफवातज्वरष्ठीवकुक्षिहृत्पार्श्ववेदनाः|
कण्ठामयास्यश्वयथुकासश्वासान्नियच्छति||६३||
स०-व्याघ्र्यादिक्वाथः कणाचूर्णसंयुक्तो वातश्लेष्मज्वरादिजित्| स०-पथ्यादि पाचनं सिद्धचूर्णं मधुहिङ्गुभ्यां संयुतं कफवातज्वरादीन् पराकरोति|
Adhikarana pittakaPajvarasya auShadham pittakaPa anyat auShadham (64-65) · Śloka 65
आरग्वधादिः सक्षौद्गः कफपित्तज्वरं जयेत्|
तथा तिक्तावृषोशीरत्रायन्तीत्रिफलामृताः||६४||
पटोलातिविषानिम्बमूर्वाधन्वयवासकाः|
|६५|
स०-"आरग्वधेन्द्रयवादिभिः" (हृ. सू. अ. १५/१७) माक्षिकसहितः कफपित्तज्वरं जयति| तथा तिक्तादयः कफपित्तज्वरं ग़्नन्ति|
Adhikarana sannipAtajvarasya auShadham (65-66) · Śloka 66
|
सन्निपातज्वरे व्याघ्रीदेवदारुनिशाग़नम्||६५||
पटोलपत्रनिम्बत्वक्त्रिफलाकटुकायुतम्|
|६६|
स०-सन्निपातज्वरे व्याघ्र्यादिकटुकान्तं पाचनम्|
Adhikarana vAtashleShmottarasya auShadham (66-67) · Śloka 67
|
नागरं पौष्करं मूलं गुडूची कण्टकारिका||६६||
सकासश्वासपार्श्वार्तौ वातश्लेष्मोत्तरे ज्वरे|
|६७|
स०-नागरादिपाचनं वातश्लेष्माधिके ज्वरे कासादीन्निहन्ति|
Adhikarana sarvajvarasya auShadham (67-69) · Śloka 69
|
मधूकपुष्पमृद्वीकात्रायमाणापरूषकम्||६७||
सोशीरतिक्तात्रिफलाकाश्मर्यं कल्पयेद्धिमम्|
कषायं तं पिबन् काले ज्वरान् सर्वानपोहति||६८||
जात्यामलकमुस्तानि तद्वद्धन्वयवासकम्|
|६९|
स०-मधूकपुष्पादिकं काले-शास्त्रोक्ते, शीतकषायं पिबन् ज्वरान् सर्वान्-एकदोषद्विदोषजान्, अपोहति| "उपसर्गादस्यत्यूह्योर्वेति वाच्यम्" इति परस्मैपदम्| जातिपल्लवा आमलकानि मुस्तं धन्वयासकं तद्वत्-पूर्ववच्छितकषायं कल्पयित्वा पिबन् सर्वान् ज्वरान् हन्ति| धन्वयवासकं चेति चशब्दोऽत्र लुप्तो द्रष्टव्यः| तदेतैश्चतुर्भिर्द्रव्यैरेतत् पाचनम्| केचित्तु धन्वयवासकं पृथगेवेच्छन्ति| तस्मादेतत्कृतोऽपि कषायः पूर्ववद्वोध्यः|
Adhikarana baddhaviTkasya auShadham (69) · Śloka 69
|
बद्धविट् कटुकाद्राक्षात्रायन्तीत्रिफलागुडम्||६९||
स०-तथा च बद्धविट् पुरुषः कटुकादिकं कषायं पिबेदिति वर्तते, न तु हिममिति| शीतस्य मलस्तम्भहेतुत्वादस्य चौषधस्य शोधनरूपत्वात्| गुडा-सुधा, गुड इत्यन्ये|
Adhikarana peyAdyamannam auShadham (70) · Śloka 70
जीर्णौषधोऽन्नं पेयाद्यमाचरेत्|
|७०|
स०-जीर्णं-परिणतं, औषधं यस्य स जीर्णौषधः सन्, पेयाद्यमेव पूर्वोक्तमन्नं भुञ्जीत| अद्यत इत्यन्नम्, इति कृत्वा पेयादेरप्यन्नत्वम्| आदिशब्देन यूषादिपरिग्रहः|
Adhikarana shleShmajvare peyAniShedhaHpeyAniShedhe yuktiH (70) · Śloka 70
श्लेष्मवान्न तु|
पेया कफं वर्धयति पङ्कं पांसुषु वृष्टिवत्||७०||
स०-श्लेष्मवान्न तु-जीर्णौषधोऽपि श्लेष्मवान्नरः पेयादिकं ना श्नीयात्| किम् ? इत्याह-पेयेत्यादि| यतः पेया कफं वर्धयति--विलीनरुपस्य कफस्य स्त्यानभावतामुत्पादयन्ती संस्थानविशेषमुपर्युपरिभावतयोपचयमुत्पादयति, न तु सा कफं साक्षाद्वर्धयति, इति वर्धयतेरर्थः, अनेकार्थत्वाद्धातूनामिति, एषचार्थोऽनुरूपतन्त्रकारदृष्टान्तदर्शनादवगम्यते| तथा चाहपङ्कं पांसुषु वृष्टिवदिति| यथा,-पांसुषु वृष्टिः पतिता न तु पङ्कं वर्धयति-शिथिलरूपतां पांसूनामपास्य निबिडरूपतामिव तेषामुत्पादयति| न पांसून् वृष्टिर्वर्धयति-आधिक्यं नयति, न वर्धयतेऽत्रा(त्येत्य)र्थः| तन्त्रकारस्यार्थ एवं विवक्षितो भविष्यत् तदानीमत्रैवं स्पष्टमेव दृष्टन्तमदर्शयिष्यत्| यथा-"पेया कफं वर्धयति यथा वृष्टिर्नदीजलम्|" इति| तच्च तन्त्रकारोऽमुनैवानुसारेणाह-
Adhikarana peyasthAne yUShaH (71-72) · Śloka 72
श्लेष्माभिष्यण्णदेहानामतः प्रागपि योजयेत्|
यूषान् कुलत्थचणककलायादिकृतान् लघून्||७१||
रूक्षांस्तिक्तरसोपेतान् हृद्यान् रुचिकरान् पटून्|
|७२|
स०-आभिष्यण्ण इति, अभिपूर्वात्स्यन्देः स्रवणार्थो व्युत्पादितः| श्लेष्मणा-स्रुतिरूपेणैव, अभिष्यण्णः-क्लिन्न इव, देहो येषां ते श्लेष्माभिष्यण्णदेहाः, तेषाम्, अतो ज्वरिणां प्रागपि प्रथमपथ्यावसरेऽपि, यूषान् योजयेत्| किमुत श्लेष्मवतः पुंसो जीर्णौषधस्य यूषान्न योजयेत् ? इत्यपिशब्दस्यर्थः| किम्भूतान् ? कुलत्थादिकृतान्| तथा, लघून्| ननु, कुलत्थादीनां लघुत्वात्तत्कृता यूषा लघव एव भविष्यन्ति| तत्किं लघूनित्यनेन ? अत्रोच्यते| शम्बीधान्यानां मध्ये गुरवोऽपि राजमाषमाषादयः सन्ति, तन्निवृत्त्यर्थमेतत्| अपि च, लघूनित्यनेन यूषप्रकृतिद्रव्यैरल्पपरिमाणैः कृतानिति द्योतयति| यतोऽल्पपरिमाणैः कुलत्थादिभिः कृता लघुतराः स्युः, तस्माल्लघूनिति युक्तम्| तथा, रूक्षान्-घृतभर्जनकादिरहितान्| तथा, तिक्तरसयुक्तान्| तथा, हृद्यान्-इष्टरसगन्धवर्णस्पर्शयुक्तत्वाच्चेतस आह्लादकरान्| तथा, रुचिकरान्-ज्वरिणोऽन्यस्य वा रोचिष्णून्| तथा, पटून्-सलवणान्|
Adhikarana pathyayogyaM dhAnyam (72-73) · Śloka 73
|
रक्ताद्याः शालयो जीर्णाः षष्टिकाश्च ज्वरे हिताः||७२||
श्लेष्मोत्तरे वीततुषास्तथा वाटीकृता यवाः|
|७३|
स०-रक्ताद्याः-"रक्तो महान् सकलमः" (हृ.सू.अ.६/९) इत्यादयः| तथा, षष्टिका व्रीह्यादयोऽपि, जीर्णाः-पुराणाः, हिताः-पथ्याः| श्लेष्मोत्तरे-प्रभूतश्लेषमणि ज्वरे, वीततुषाः-अपनीतत्वचो, यवाश्च पथ्याः| कीदृशाः ? वाटीकृताः-भृष्टविदलीकृता इत्यर्थः|
Adhikarana odanavidhiH (73-74) · Śloka 74
|
ओदनस्तैः स्रुतो द्विस्त्रिः प्रयोक्तव्यो यथायथम्||७३||
दोषदूष्यादिबलतो ज्वरघ्नक्वाथसाधितः|
|७४|
स०-ओदनस्तैः-रक्ताशाल्यादिभिः पूर्वोक्तैश्च, कृतो ज्वरिणो यथायथं यो यस्य दाने योग्यः स तस्य प्रयोक्तव्यः| किम्भूतः ? द्विस्त्रिः स्रुतो-द्वौ वारौ त्रीन् वारान् वा जलं दत्त्वा धातः| कथं प्रयोज्यः ? दोषदूष्यादिबलेन| ज्वरघ्नैः-ज्वरापहैर्द्रव्यैः, क्वाथं कृत्वा, तेन क्वाथेन साधितः| दोषस्य-वातादेर्बलं तथा दूष्यस्य रसादेर्बलमपेक्ष्य, आदिग्रहणाद्देशकालवयः सत्त्वसात्म्यशरीराहारबलं गृह्यते| एकाहादिकानां ज्वरिणामकृतपेयानामेव कुलत्थमुद्गचणकादियूषा उक्ताः| सम्प्रति सामान्येन ज्वरिणां कृतपेयानां यूषादीनाह-
Adhikarana yUShadravyANi (74) · Śloka 74
|
मुद्गाद्यैर्लघुभिर्यूषाः कुलत्थैश्च ज्वरापहाः||७४||
स०-मुद्गाद्यैः-शिम्बीधान्यैः, लघुभिः कृता यूषास्तथा कुलत्थैः कृता यूषा ज्वरघ्नाः| मुद्गाद्यैरित्यादिः प्रकारे| तेन सुजरा मुद्गचणककुलत्थमकुष्टमसूरादयो गृह्यन्ते| मुद्गशब्दस्यादौ निर्देश इदं बोधयति,-यूषसाध्ये व्याधौ बाहुल्येन मुद्गयूषः कार्यः, मुद्गानां पथ्यतमत्वात्| तथा चोवाच मुनिः (छ.सू.अ.२५/३८)- "मुद्गः शिम्बीधान्यानां पथ्यत्वे श्रेष्ठतमः|" इति| ननु, मुद्गाद्यैरित्यादिशब्देनैव कुलत्था गृहिता एव, किं पृथङ्निर्देशेन ? ब्रूमहे| कुलत्थयूषस्य ज्वरविषये विरलः प्रयोगः कार्य इति सूछयितुं पृथक्कृतो निर्देश इति| तथा छ कुलत्था एवंगुणाः (हृ.सू.अ.६/१९)- "उष्णाः कुलत्थाः पाकेऽम्लाः शुक्राश्मश्वासपीनसान्| कासार्शः कफवातांश्च घ्नान्ति पित्तास्रदाः परम्|| इति| एवमुष्णत्वादम्लविपाकित्वादतिपित्तास्रकारित्वात् कुलत्थानां यूषो बहुद्रव्यपरिमाणो बहुमात्रोपयुक्तो ज्वरस्य न शान्तये सम्पद्यते, प्रत्युत वृद्धये स्यादिति सम्भाव्यते, पित्तविरुद्धत्वात्| तस्मादल्पपरिमाणद्रव्यसाधितोऽल्पमात्रया कुलत्थयूषः श्लेष्माद्युपशमकृद्यावन्मात्रः स्यात्तावानेव प्रयोज्यत इति स्थितम्|
Adhikarana khaladravyANi rasadravyANi yUShAdInamupakaraNadravyANi (75-77) · Śloka 77
कारवेल्लककर्कोटबालमूलकपर्पटैः|
वार्ताकनिम्बकुसुमपटोलफलपल्लवैः||७५||
अत्यन्तलग़ुभिर्मांसैर्जाङ्गलैश्च हिता रसाः|
व्याघ्रीपरूषतर्कारीद्गाक्षामलकदाडिमैः||७६||
संस्कृताः पिप्पलीशुण्ठीधान्यजीरकसैन्धवैः|
सितामधुभ्यां प्रायेण संयुता वा कृताकृताः||७७||
स०-कारवेल्लकादिभी रसा ज्वरे हिताः| मुनिस्तु कारवेल्लकादीनां शाकत्वमेवेच्छति (च.चि.अ.३११८७)| ख़रणादेऽप्युक्तम्-"पटोलं सफलं निम्बं कर्कोटककठिल्लकम्| शाकं पर्पटकं च स्यात्" इति| तथा जाङ्गलैः-जाङ्गलदेशप्राणिजैस्तदभावात्तत्तुल्यैरन्यदेशप्राणिजैरपि, मंसैर्हिता रसा व्याघ्र्यादिभिः संस्कृतास्तथा पिप्पल्यादिभिः संयुता इति वक्ष्यमाणेन सम्बन्धः| संस्कारमात्रयोगभाजः पिप्पल्यादयोऽत्र योज्य इत्यर्थः| प्रायेण केचिदेव सितामधुभ्यां युक्ता अवस्थावशात्, न तु सर्व एव| किम्भूता रसा यूषाश्चैवंविधाः कार्याः ? कृताकृताः| पानकदाडिमाजाजीशुण्ठ्याद्यैरपि संस्कृता यूषा रसाश्च-कृताः| विपरीतास्त्वतः-अकृताः|
Adhikarana vya~jjanavidhiH (78) · Śloka 78
अनम्लतक्रसिद्धानि रुच्यानि व्यञ्जनानि च|
अच्छान्यनलसम्पन्नानि|७८|
स०-अनम्लेन तक्रेण सिद्धानि| तथा, रुच्यानि-अभ्यवहर्तुमभिलषितानि| तथा, अच्छानि-तनूनि न घनानि| तथा, अनलसम्पन्नानि-वह्निपक्वानि| केचिद्धि तक्रमपक्वमेवाच्छीकृत्य संस्कृत्य च शुण्ठीजीरकादिनाऽभ्यवहरन्ति तन्निषेधायैतदुक्तम्| एवंविधानि व्यञ्जनानि-तेमनानि रसकषायाणी, ओदनेन सहाभ्यवहर्तव्यानि|
Adhikarana anupAnAni (78-79) · Śloka 79
|
अनुपानेऽपि योजयेत्||७८||
तानि क्वथितशीतं च वाति मद्यं च सात्म्यतः|
|७९|
स०-अनुपानेऽपि-आतुरस्य पश्चात्पानेऽपि, तानि योजयेत्| तथा क्वथितशीतं च वारि मद्यं च, सात्म्यतः-सात्म्यवशात्, अनुपानेऽपि योजयेत्|
Adhikarana annagrahaNakAlaH (79-80) · Śloka 80
|
सज्वरं ज्वरमुक्तं वा दिनान्ते भोजयेल्लघु||७९||
श्लेष्मक्षयविवृद्धोष्मा बलवाननलस्तदा|
|८०|
स०-सज्वरं नरं दिनान्ते भोजयेत्,-अथवा ज्वरमुक्तं-अचिरकालज्वरत्यक्तम्| किम्भुतं भोजनं भोजयेत् ? लघु,-मात्रया स्वभावात् (च) उभयथा यल्लघु| किमित्येतस्मिन् काले लघु भोजयेत् ? इत्याह-श्लेष्मेत्यादि| तदा-तस्मिन्दिनान्ताख्ये काले, श्लेष्मक्षयो यस्तेन विवृद्ध ऊष्मा-स्वस्वभवो, यस्यानलस्य जाठराग्रेरसौ श्लेष्मक्षयविवृद्धोष्माऽनलः| अत एव बलवान् तदा पक्तुं शक्तः|
Adhikarana dinAntarasyApavAdaH (80) · Śloka 80
|
यथोचितेऽथवा काले देशसात्म्यानुरोधतः||८०||
स०-अथवा यथोचिते काले सज्वरं ज्वरमुक्तं वाऽऽतुरं भोजयेत्| यस्य यस्य य उचितः-सात्म्यः, आहारकालस्तस्मिन् भोजयेत्| यथोचिते हि काले प्रायः क्षुदुपगमो जायते| कथं भोजयेत् ? इत्याह-देशेत्यादि| देशसात्म्यवशात् तं भोजयेत्, नैवमेव| ननु, एवं यस्य पूर्वाह्णे काले भोजनमुचितं तदा तस्य भोजने दीयमाने को गुणः स्यात् ? इत्याह-
Adhikarana apavAdApavAdaH (81) · Śloka 81
प्रागल्पवह्निर्भुञ्जानो न ह्यजीर्णेन पीड्यते|
|८१|
स०-यस्मादल्पवह्निः-मन्दाग्निः, पूर्वाह्णे भुञ्जानोऽजीर्णेन न पिड्यते-न बाध्यते| अधुना सर्पिःपानकालं निरूपयति-
Adhikarana ghRutadAnakAlaH akAle tat viShopamam (81-83) · Śloka 83
|
कषायपानपथ्यान्नैर्दशाह इति लङ्घिते||८१||
सर्पिर्दद्यात्कफे मन्दे वातपित्तोत्तरे ज्वरे|
पक्वेषु दोषेष्वमृतं तद्विषोपममन्यथा||८२||
दशाहे स्यादतीतेऽपि ज्वरोपद्रववृद्धिकृत्|
लङ्घनादिक्रमं तत्र कुर्यादाकफसङ्क्ष्यात्||८३||
स०-कषायस्य-मुस्तापर्पटकादेः, पानं कषायपानम्, तेन| तथा, पथ्यान्नैः-पेयायूषादिभिः, दशाह इति-अनेन प्रकारेण, लङ्घिते-अतिक्रान्ते| तथेति प्रायेण क्षीणः कफः सम्भाव्यतेऽतो दशाहे लङ्घित इत्युक्तम्| आमज्वरसंज्ञानिवृत्तिस्तु षडहादूर्ध्वं सप्तमेऽह्न्यष्टमे वाऽहनि ज्वरस्य जायते| तथा च मुनिः (च. चि. अ. ३/२७२)- "सप्ताहेन हि पछ्\यन्ते सप्तधातुगता मलाः| निरामश्चाप्यतः प्रोक्तो ज्वरः प्रायोऽष्टमेऽहनि||" इति| तस्मात् कषायपानपथ्यान्नैरित्यादितो दशाहे लङ्घिते कफे मन्दे-क्षीणप्राये, सर्पिदद्यात्| किम्भूते ज्वरे ? वातपित्तोत्तरे,- वातपित्ताधिके| अस्यामवस्थायां पक्वेषु-निरामेषु वातादिदोषेषु, सर्पिर्दद्यात्| पक्वेषु सर्पिर्दत्तममृतं-महागुणमित्यर्थः| अन्यथा पुनः अपक्वेषु दोषेषु कफोत्तरे, तत्सर्पिर्दत्तं विषोपमं-विषतुल्यं, दशाहेऽतिक्रान्तेऽपि स्यात्| अतोऽस्यामवस्थायां सर्पिर्दत्तं ज्वरस्य तदुपद्रवाणां च वृद्धिं करोति, तस्मादस्यामवस्थायां सर्पिःपानमयुक्तम्| तत्र-कफोत्तरे ज्वरे सति, लङ्घनादिक्रमं कुर्यात्| कियन्तं कालम् ? आकफसङ्क्ष्यात्,- यावत्कफस्य-ज्वरकारिणोऽधिकस्य, सङ्क्ष्यः-सम्यक् क्षयः, न धातुक्षयोऽपि यावत्| यतः कफज्वरेऽपि विडङ्गादिसर्पिर्वक्ष्यति (श्लो. ९३)| अथ जीर्णज्वरचिकित्सामाह-
Adhikarana jIrNajvarAnuvRuttau hetuH (84) · Śloka 84
देहधात्वबलत्वाच्च ज्वरो जीर्णोऽनुवर्तते|
|८४|
स०-जीर्णः-पुराणो ज्वरः, अनुवर्तते-अनुबध्नाति| कुतः ? देहधात्वबलत्वात्| देहधातवः-तदारम्भका रसरुधिरादयः, देहग्रहणाद्वातपित्तश्लेष्माणोऽपि धारणाद्धातव उच्यन्ते| देहधातूनामबलत्वं-स्वल्पत्वम्| तस्माच्च जीर्णो ज्वरोऽनुबध्नाति, न स्वभावमात्रादेव, इति चशब्दस्यार्थः| जीर्णज्वरस्य शान्त्यर्थं देहबलाधानार्थं च सर्पिःपानं हितमिति प्रतिपादयन्नाह-
Adhikarana sarpiH kvAthaiH prayoge yuktiH (84-86) · Śloka 86
|
रूक्षं हि तेजो ज्वरकृत्तेजसा रूक्षितस्य च||८४||
वमनस्वेदकालाम्बुकषायलग़ुभोजनैः|
यः स्यादतिबलो धातुः सहचारी सदागतिः||८५||
तस्य संशमनं सर्पिर्दीप्तस्येवाम्बु वेश्मनः|
|८६|
स०-रूक्षं यत्तेजस्तज्ज्वरकृत्| रूक्षमिति वचनाद्देहोष्मा जाठरोऽनलो गृह्यते, तस्यैव ज्वरकृत्त्वात्| तथोक्तम् (हृंइ.अ.२/३)- "मलास्तत्र स्वैःस्वैर्दुष्टाः" इत्यादि यावत्| "ज्वरं निर्वर्तयन्ति ते|" इत्यादि जाठरानलस्यैव ज्वरकृतत्वम्| तेन ज्वरकृता रूक्षेण तेजसा रूक्षितस्य च पुंसः सर्पिः संशमनम्| चशब्दाच्चान्यस्यापि| अत एवाह-वमनेत्यादि| वमनादिभी रौक्ष्यकृद्भिः कृतैस्तदानीं यः स्यात्-भवेत्, अतिबलः-प्रवृद्धत्वादतिसमर्थो धातुः| को धातुः ? सहचारी,-यः सह चरति तच्छीलो वाताख़्यो धातुरग्निना सह चरति| ननु, एवं परस्परसहचरभावत्वेऽग्निरपि वायुना सह चरति, ततोऽग्निस्वभावत्वात् पित्ताख़्योऽपि धातुरिह सहचारी प्राप्तः, तन्निवृत्त्यर्थं सदागतिरित्याह| सदागतित्वं वायोरेवान्वर्थत्वेनोपपद्यत इति पित्तस्याग्रहणम्| किं कस्य यथा संशमनम् ? अम्बु वेश्मनो-गृहस्य, दीप्तस्य-ज्वलितस्य, जलं यथा|
Adhikarana sarpirdAnam (86-87) · Śloka 87
|
वातपित्तजितांग्र्यं संस्कारं चानुरुध्यते||८६||
सुतरां तद्ध्यतो दद्याद्यथास्वौषधसाधितम्|
|८७|
स०-यस्माद्धृतं सर्वेषां वातपित्तजितामग्र्यं यथा न तथाऽन्यान्यौषधानि वातपित्तजिन्तीति| अत एव प्रागभ्यधात् (श्लो. ८२)- "सर्पिर्दद्यात्कफे मन्दे वातपित्तोत्तरे ज्वरे|" इत्यादि| यस्माच्छ घृतं संस्कारमनुरुध्यते-अनुवर्तते| गुणान्तराधानं-संस्कारः| तं च यस्माद्धृतं सुष्ट्वतिशयवैलक्षण्यादनुरुध्यते-आत्मसात्करोति| तैलादिरपि स्नेहः संस्कारमनुवर्तते| न तु यथा घृतं स्वशैत्यमजहदेव संस्कारमनुवर्तत इति| एतच्छ स्नेहविधौ प्रतिपादितमेव| अमुमेव छ न्यायमङ्गीकृत्य मुनिरप्यवोचत् (चंइ.अ.१/४०)-"नान्यः स्नेहस्तथा कश्चित् संस्कारमनुवर्तते| यथा सर्पिरतः सर्पिः सर्वस्नेहोत्तमं मतम्||" इति| हि-यस्मात्, सुतरां संस्कारमनुरुध्यते घृतम्, तस्माद्धृतं जीर्णे वातपित्तोत्तरे निर्विकल्पं दद्यात्| कीदृशम् ? यथास्वौषधसाधितम्,-यथायथं व्याधिप्रतिपक्षैरौषधैः पक्वम्|
Adhikarana sarpiSho hetuvyAdhiviparItatvam (87-88) · Śloka 88
|
विपरीतं ज्वरोष्माणं जयेत्पित्तं च शैत्यतः||८७||
स्नेहाद्वातं घृतं तुल्यं योगसंस्कारतः कफम्|
|८८|
स०-घृतं विपरीतं ज्वरोष्माणं जयेत्| ज्वरनिर्वर्तक ऊष्माजाठरोऽनलो, रूक्षतीक्ष्णादिगुणः स पक्तिस्थानान्निरस्तो ज्वरनिर्वर्तको घृतस्य स्निग्धशीतत्वादिगुणयोगाद्विपरीतः, एवं विपरीतं ज्वरोष्माणं घृतं जयेत्| पित्तं च शैत्यतः-शैत्याद्धृतं जयेत्, न स्नेहात्, "पित्तं सस्नेह" (हृ.सू.अ.१/११) इति वचनात्| स्नेहात्-स्निग्धत्वात्, ऋतं वातं जयेत् न तु शैत्यात्, "शीतोऽनिलः" (हृ.सू.अ.१/११) इति वछनात्| कफं स्निग्धशीतत्वादिना तुल्यं योगसंस्काराभ्यां जयेत्| योगो-युक्तिः कफज्वरहरैर्द्रव्यैः सह योजना, संस्कारो-गुणाधानम्, योगश्च संस्कारश्छ योगसंस्कारौ, ताभ्यां घृतं कफं जयेत्| ननु, विपरीतं ज्वरोष्माणं घृतं जयेदिति न घटते, घृतस्याग्निवृद्धिहेतुत्वात्| तथा च वक्ष्यति (हृ.छि.अ.१०/६८)-"स्नेहमेव परं विद्याद्दुर्बलानलदीपनम्| नालं स्नेहसमिद्धिस्य शमायान्नं सुगुर्वपि||" इति| अत्राचक्ष्महे| घृतं स्नेहनत्वदीपनत्वाभ्यां वातशमनं कुर्वञ्ज्वरोष्माक्षेपत्वं वातस्य विनिर्वाय ज्वरोष्मणोऽपि रौक्ष्यतैक्ष्ण्यादियुतस्य घृतं विपरीतगुणत्वाच्छमं करोति, न वृद्धिम्| ननु, यथा स्नेहाद्वातं शमयति तथा तत एव स्नेहात्किमिति घृतं समानगुणत्वात् पित्तं शमयति ? बॄमः| जीर्णज्वरे लङ्घनादिभिरतिरूक्षेण ज्वरोष्मणा पित्तं रूक्ष्मेव सम्पन्नं स्नेहभागपरिक्षयान्न सस्नेहम्, अतः कथं कृत्वा ज्वरयतु ?| तच्च घृतं पित्तमेव शमयति, न वातं कोपयति, द्रव्यप्रभावत्वात्सस्नेहनत्वाच्च|
Adhikarana uktiH kvAthaiH sarpiH pAnam (88) · Śloka 88
|
पूर्वे कषायाः सघृताः सर्वे योज्या यथामलम्||८८||
स०-पूर्वे कषायाः-प्रागुक्तानि पाचनानि, सह घृतेन प्रयुञ्ज्यात्| कथम् ? यथामलं-दोषानतिक्रमेण|
Adhikarana kAsopadravake jvare sarpiH prayogaH (89) · Śloka 89
त्रिफलापिचुमन्दत्वङ्माधुकं बृहतीद्वयम्|
समसूरदलं क्वाथः सघृतो ज्वरकासहा||८९||
स०-त्रिपलादीनि मसूरदलानि चैष क्वाथो घृतेन सहोपयोजितो ज्वरकासहा स्यात्|
Adhikarana pippalyAdisiddhaM ghRutam (90-91) · Śloka 91
पिप्पलीन्द्रयवधावनितिक्ता- सारिवामलकतामलकीभिः|
बिल्वमुस्तहिमपालनिसेव्यै- र्द्राक्षयाऽतिविषया स्थिरया च||९०||
घृतमाशु निहन्ति साधितं ज्वरमग्निं विषमं हलीमकम्|
अरुचिं भृशतापमंसयो- र्वमथुं पार्श्वशिरोरुजं क्षयम्||९१||
स०-पिप्पलीत्यादिभिर्द्रव्यैः कल्कीकृतैर्घृतचतुर्थांशैस्तोयेन चतुर्गुणेन घृतापेक्षया साधितं घृतमाशु ज्वरं हन्ति, विषमा ग्न्यादींश्च|
Adhikarana tailvakAdighRutAni (92) · Śloka 92
तैल्वकं पवनजन्मनि ज्वरे योजयेत्रिवृतया वियोजितम्|
तिक्तकं वृषघृतं च पैत्तिके यच्च पालनिकया शृतं हविः||९२||
स०-तैल्वकं घृतं-वातव्याधिचिकित्सितोक्तं (अ.२१/३२), त्रिवृतया रहित [ वातिके ज्वरे ] पिबेत्| पैत्तिके ज्वरे तिक्तकं कुष्ठचिकित्सितोक्तं (अ.१९/२), तथा वृषघृतं-रक्तपित्तचिकित्सितोक्तं (अ.२/४०), अत्रैव वा वक्ष्यमाणं (श्लो.९४), योजयेत्| पालनिकया-त्रायन्त्या, यद्धृतं पक्वं तच्च पित्तज्वरे योजयेत्|
Adhikarana jIrNakaPajvaraghnaM ghRutam (93) · Śloka 93
विडङ्गसौवर्चलचव्यपाठा- व्योषाग्निसिन्धूद्भवयावशूकैः|
पलांशकैः क्षीरसमं घृतस्य प्रस्थं पचेज्जीर्णकफज्वरघ्नम्||९३||
स०-विडङ्गादिभिः पलप्रमाणौर्घृतप्रस्थं क्षीरतुल्यं चतुर्गुणजलं पचेत्| तच्चोपयुक्तं जीर्णो यः कफज्वरस्तं हन्ति|
Adhikarana guDUcIghRutAdipa~jcakam (94) · Śloka 94
गुडूच्या रसकल्काभ्यां त्रिफलाया वृषस्य च|
मृद्वीकाया बलायाश्च स्नेहाः सिद्धा ज्वरच्छिदः||९४||
स०-गुडूच्यादीनां पञ्चानां पृथ्क्पृथग्रसकल्काभ्यां सिद्धाः पञ्च स्नेहाः ज्वरच्छिदो-जीर्णज्वरघ्नाः स्युरित्यर्थः|
Adhikarana jIrNai ghRute mAMsarasAshanam (95) · Śloka 95
जीर्णे घृते च भुञ्जीत मृदुमांसरसौदनम्|
बलं ह्यलं दोषहरं परं तच्च बलप्रदम्||९५||
स०-घृते च परिणते सति मृदु-अतीक्ष्णं मांसरसाशनं भुञ्जीत| हि-यस्मात्, अलं बलं जातं दोषहरं भवति| तच्चरसाशनं अतिशयेन बलकरं स्यात्|
Adhikarana vAtottare jIrNajvare yUShaKalayorniShedhaH (96-97) · Śloka 97
कफपित्तहरा मुद्गकारवेल्लादिजा रसाः|
प्रायेण तस्मान्न हिता जीर्णे वातोत्तरे ज्वरे||९६||
शूलोदावर्तविष्टम्भजनना ज्वरवर्धनाः|
|९७|
स०-अत एव तस्मात्कारणात् मुद्गकारवेल्लादिजा रसाः कफपित्तहरा जीर्णज्वरे वातोत्तरे प्रायेण न हिताः| ते ह्युपयुक्ताः शूलादिकृतो ज्वरवर्धनाश्च स्युः|
Adhikarana jIrNajvare shodhanakAlaH (97-98) · Śloka 98
|
न शाम्यत्येवमपि चेज्ज्वरः कुर्वीत शोधनम्||९७||
शोधनार्हस्य, वमनं प्रागुक्तं तस्य योजयेत्|
आमाशयगते दोषे बलिनः पालयन्बलम्||९८||
स०-एवमपि कृते सति यदि ज्वरो न शाम्यति तदा शोधनार्हस्य नरस्य प्रागुक्तं-"पिप्पलीभिर्युतान् गालान्" (श्लो.६) इत्यादिकं, वमनं योजयेत्| कदा ? दोषे आमाशयगते सति, बलवतः पुंसो वमनं योजयेत्, बलं पालयन्-रक्षयन्|
Adhikarana virecanamauShadhAni (99-101) · Śloka 101
पक्वे तु शिथिले दोषे ज्वरे वा विषमद्यजे|
मोदकं त्रिफलाश्यामात्रिवृत्पिप्पलिकेसरैः||९९||
ससितामधुभिर्दद्याह्योषाद्यं वा विरेचनम्|
(लिह्याद्वा त्रैवृतं संयुक्तं मधुसर्पिषा|
) द्राक्षाधात्रीरसं तद्वत्सद्राक्षां वा हरीतकीम्||१००||
आरग्वधं वा पयसा मृद्वीकानां रसेन वा|
त्रिफलां त्रायमाणां वा पयसा ज्वरितःपिबेत्||१०१||
स०-पक्वे पुनर्दोषे तथा शिथिले-अविष्टब्धे, अथवा विषजेमद्योत्थे वा ज्वरे, मोदकं त्रिफलादिभिर्विरेचनं दद्यात्| व्योषाद्यं वा-"व्योषत्रिजातकाम्भोदकृमिघ्नामलकैस्त्रिवृत्| सर्वैः समा समसिता क्षौद्रेण गुटिकाः कृताः||" (हृ.क.अ. २/२१) इति वा, दद्यात्| अथवा पयसा-क्षीरेण, मृद्वीकानां रसेन वा, आरग्वधं विरेचनं दद्यात्| त्रिफलां त्रायन्ती वा पयसा ज्वरी पिबेत्|
Adhikarana virecAnAnantaraM saMsargIkramaH (102) · Śloka 102
विरिक्तानां च संसर्गी मण्डपूर्वा यथाक्रमम्|
|१०२|
स०-विरिक्तानां ज्वरिणां चशब्दाद्वमितानां च यथाक्रमंक्रमानतिक्रमेण, संसर्गी कर्तव्येत्यध्याहार्यम्| मण्डः पूर्वः-प्रथमो, यस्यां सैवम्| मण्डं प्रथमं दत्त्वाऽनन्तरं पेयाविलेप्यादयो यथाक्रमं देयाः| कृतवमनविरेचनानन्तरं यः पेयाद्यवचारणाक्रमः स संसर्गीत्युच्यते|
Adhikarana svayaMpravRutteH stamBananiShedhaH (102-103) · Śloka 103
|
च्यवमानं ज्वरोत्क्लिष्टमुपेक्षेत मलं सदा||१०२||
पक्वोऽपि हि विकुर्वीत दोषः कोष्ठे कृतास्पदः|
|१०३|
स०-ज्वरेणोत्क्लिष्टं-उत्क्लेशितं ज्वरोत्क्लिष्टं, मलं-पुरीषाख़्यं, च्यवमानं-पतन्तं, सदा उपेक्षेत-न तद्विधारणे प्रयत्नं कुर्यात्| ननु, औषधानि (धेन) किमित्यसौ न विध्नीयते ? इत्याह-पक्वोऽपीत्यादि| दोषः-पुरीषाख़्यो, यतः पक्वः| अपिशब्दात्किमुतापक्वः ? कोष्ठे-आमपक्वाशयाश्रयाख़्ये, कृतं-गृहीतं, आस्पदं-अवस्थितिः, येन स एवंभूतो विकुर्वीत-विकारं कुर्यात्|
Adhikarana atipravRuttau pAcanapUrvakaM stambhanaM kAryam (103-104) · Śloka 104
|
अतिप्रवर्तमानं वा पाचयन् सङ्ग्रहं नयेत्||१०३||
आमसङ्ग्रहणे दोषा दोषोपक्रम ईरिताः|
|१०४|
स०-अतिप्रवर्तमानं वा तं मलं अपक्वं पाचयन् सङ्ग्रहं नयेत्- न त्वाम एव सङ्गृहीतव्य इत्याह-आमसङ्ग्रहण इत्यादि| आमशब्दः पुरीषाख़्यस्य दोषस्य पच्यमानावस्थोपलक्षणार्थः| आमस्य-अपक्वस्य दोषस्य, सङ्ग्रहणमामसङ्ग्रहणं तस्मिन्नाम सङ्ग्रहणे ये दोषा भवन्ति ते दोषोक्रमे-दोषोपक्रमणीयेऽध्याये, ईरिताः-उक्ताः| तथा च तत्रोक्तम् (हृ.सू.अ.१३/३१)- "उत्क्लिष्टनध ऊर्ध्वं वा न चामान् वहतः स्वयम्| धारयेदौषधैर्दोषान् विधृतास्ते हि रोगदाः||" इति| तस्मादामसङ्ग्रहणार्थमौषधं न देयम्| तथा, आमज्वरेऽप्यामनिर्हरणार्थमौषधं न देयम्, इतिप्रतिपादयन्नाह-
Adhikarana Amajvare shodhananiShedhaH (104-105) · Śloka 105
|
पाययेद्दोषहरणं मोहादामज्वरे तु यः||१०४||
प्रसुप्तं कृष्णसर्पं स कराग्रेण परामृशेत्|
|१०५|
स०-तुर्व्यतिरेके भिन्नक्रमः| यस्तु मोहात्-अज्ञानात्, भिषक्पापो दोषहरणमामज्वरे पाययेत् स स्वयमनर्थकारी सुप्तं कृष्णसर्पं करस्याग्रेण परामृशेत्-स्पृशेत्| अतिप्रत्यवायं पश्यतैवमुक्तं तन्त्रेकृता| तत्र च वाक्ये रूपकाख्योऽलङ्कारः| तस्य ह्येतल्लक्षणम्-"तदपरमौपम्ये सति यस्मिन् स्याद्वाक्ययोर्योगः|" अस्योदाहरणम्-"यः सेवते कुनृपतिं कुरुते बधिरस्य कर्णजापं सः इति|
Adhikarana jvarakShINasya niShedhaH (105) · Śloka 105
|
ज्वरक्षीणस्य न हितं वमनं न विरेचनम्||१०५||
स०-ज्वरेण क्षीणस्य पुंसो न वमनं हितं न च विरेचनं हितम्| तर्हि कथं दोषनिर्हरणं तस्य ? इत्याह-
Adhikarana tasya payasA nirUhairvA shodhanam (2) · Śloka 2
कामं तु पयसा तस्य निरुहैर्वा हरेन्मलान्|
||२||
स०-तस्य कामं-यथेष्टं कृत्वा, पयसा निरूहैर्वा मलान् हरेत्|
Adhikarana payaH pAne adhikArI (106-107) · Śloka 107
|
क्षीरोचितस्य प्रक्षीणश्लेष्मणो दाहतृङ्वतः||१०६||
क्षीरं पित्तानिलार्तस्य पथ्यमप्यतिसारिणः|
|१०७|
स०-क्षीरमुचितं-सात्म्यं, यस्य तस्य क्षीरोचितस्य, तथा प्रकर्षेण क्षीणः श्लेष्मा यस्य तस्य प्रक्षीणश्लेष्मणः, तथा दाहश्च तृट् च ते विद्येते यस्य तस्य दाहत्ऱ्ड्वतः, अत एव पित्तानिलाभ्यामार्तस्य-पीडितस्य, क्षीरं पथ्यम्| अतिसारिणोऽपिपथ्यम्, किं पुनः प्रक्षीणः श्लेष्मा यस्य तस्य क्षीरोचितस्य पूर्वोक्तविशेषणविशिष्टस्य क्षीरं न पथ्यम् ? इत्यपि शब्दार्थः|
Adhikarana kShIraguNAH (107-108) · Śloka 108
|
तद्वपुर्लङ्घनोत्तप्तं प्लुष्टं वनमिवाग्निना||१०७||
दिव्याम्बु जीवयेत्तस्य ज्वरं चाशु नियच्छति|
|१०८|
स०-तच्च-क्षीरं, लङ्घनोत्तप्तं वपुर्जीवयेत्-कायस्य सप्राणतामुत्पादयेत्| किं किमिव ? अग्निना-दावेन, प्लुष्टं वनं यथा दिव्याम्बु जीवयेत्-प्रतोहयेत्, तथा वपुः क्षीरमिति| लङ्घनशब्देनात्र सामान्यं लङ्घनवाच्यं वस्तु भण्यते| "शरीरलाघवकरं यद्द्रव्यं कर्म वा पुनः| तल्लङ्घनमिति ज्ञेयम्" इत्येवंलक्षणम्, न तु विशिष्टमुपवासलक्षणम्, योग्यतावशात्| तस्यज्वरिणः पुंसः, तत्-क्षीरं, आशु ज्वरं च नियच्छति| न केवलं वपुर्जीवयेदिति चार्थः|
Adhikarana kShIravisheShe niyamaH (108-109) · Śloka 109
|
संस्कृतं शीतमुष्णं वा तस्माद्धारोष्णमेव वा||१०८||
विभज्य काले युञ्जीत ज्वरिणं हन्त्यतोऽन्यथा|
|१०९|
स०-यत एवं महागुणं क्षीरं तस्माद्धेतोः संस्कृतं-द्रव्यान्तरेण, तथा शीतमुष्णं वेति कृत्वा, अथवा धारोष्णमेव काले विभज्य, युञ्जीत-यथाविषयं काले प्रयोजयेत्| अतः-यथानिरूपितात् क्षीरोपयोगविषयात्, अन्यथा-अन्येन प्रकारेण, प्रयुक्तं क्षीरं ज्वरिणं हन्ति|
Adhikarana tRuDAdinAshanaM kShIram (109-110) · Śloka 110
|
पयः सशुण्ठीखर्जूरमृद्वीकाशर्कराघृतम्||१०९||
शृतशीतं मधुयुतं तुड्दाहज्वरनाशनम्|
|११०|
स०-क्षीरं शुण्ठ्यादियुतं शृतमनन्तरं शीतं मधुयुतं तृड्दाहजिदित्यर्थः|
Adhikarana tRuDAdinAshanaM anyatkShIratrayam (110-111) · Śloka 111
|
तद्वद् द्राक्षाबलायष्टीसारिवाकणचन्दनैः||११०||
चतुर्गुणेनाम्भसा वा पिप्पल्या वा शृतं पिबेत्|
|१११|
स०-तेनैव पूर्वोक्तेन पयसा तुल्यं-तद्वत्| यथा पूर्वोक्तं शृतशीतं तृड्दाहज्वरहृत् तथा द्राक्षादिभिः शृतमनन्तरं शीतं मधुयुतं तृडादिजिदित्यर्थः| अथवा क्षीरं चतुर्गुणेन जलेन शृतं पिबेत्| अथवा पिप्पल्या शृतं पिबेत्|
Adhikarana kAsAdijit kShIram (111-112) · Śloka 112
|
कासाच्छ्वासाच्छिरःशूलात्पार्श्वशूलाच्चिरज्वरात्|
मुच्यते ज्वरितः पीत्वा||१११||
पञ्चमूलीशृतं पयः|
|११२|
स०-पञ्चमूलेन शृतं क्षीरं पीत्वा कासादिभ्यो मुच्यते| मुच्यत इति कर्मकर्तरि तङ्| चिरज्वरो-दीर्ग़कालानुबन्धी ज्वरः|
Adhikarana vibaddhavAtAdijit kShIram (112-113) · Śloka 113
|
शृतमेरण्डमूलेन बालबिल्वेन वा ज्वरात्||११२||
धारोष्णं वा पयः पीत्वा विबद्धानिलवर्चसः|
सरक्तपिच्छातिसृतेः सतृट्शूलप्रवाहिकात्||११३||
स०-एरण्डमूलेनाथवा बालबिल्वेन शृतमथवा धारोष्णं क्षीरं पीत्वा पुरुषो ज्वराद्विमुच्यते| किम्भूताज्ज्वरात् ? विबद्धा निलवर्चसः| विबद्धे-विशेषेण बद्धे, असम्यक्प्रवर्तनादनिलवर्चसी यस्मिन् ज्वरे स विबद्धानिलवर्चाः, तस्माज्ज्वराद्विमुच्यते| तथा, रक्तं च पिच्छा च रक्तपिच्छे, ताभ्यामुपलक्षिता अति सृतिः-अतीसारः, सह तया वर्तते यो ज्वरः, तस्मात्तथाविधाज्ज्वरात् तथा सह तृषा सह शूलेन तथा प्रवाहिकया-निस्छारिकापरसंज्ञया, वर्तते यस्तमात् तथाविधाज्जवरात् प्रमुच्यते|
Adhikarana shoPAdijit kShIram (114) · Śloka 114
सिद्धं शुण्ठीबलाव्याघ्रीगोकण्टकगुडैः पयः|
शोफमूत्रशकृद्वातविबन्धज्वरकासजित्||११४||
स०-शुण्ठ्यादिभिः साधितं पयः शोफादिजित्|
Adhikarana jvarashoPanut kShIram (115) · Śloka 115
वृश्चीवबिल्ववर्षाभूसाधितं ज्वरशोफनुत्|
|११५|
स०-वृश्चीवादिभिः साधितं पयो ज्वरशोफनुदिति| वृश्चीवः-सूक्ष्मपुनर्नर्वः| स्थूलपुनर्नवस्तु-वर्षाभूः| पुनर्नवद्वयं बिल्वं चात्र योज्यम्|
Adhikarana ASujvarApaham kShIram (115) · Śloka 115
|
शिंशिपासारसिद्धं च क्षीरमाशु ज्वरापहम्||११५||
स०-शिंशिपासारेण सिद्धं-शृतं क्षीरमुपयुक्तं, आशु-न तु च, ज्वरहृत्| क्षीरस्य श्रवणे विधिरतीसारचिकित्सितोक्तः (हृ. छि. अ. ९/३९)-"पयस्युत्क्वाथ्य मुस्तानां विंशति" इत्यनुसारेणानुकल्प्यः| तन्त्रान्तरे त्वेवमुक्तम्-"द्रव्यादष्टगुणं क्षीरं क्षीरात्तोयं चतुर्गुणम्| क्षीरावशेषः कर्तव्यः क्षीरक्वाथे त्वयं विधिः||" इति| ननु, किं वातपित्तोत्तरे ज्वरे ज्वरे ग़ृतं प्रधानमा श्रीयतां पूर्ववचनप्रामाण्यात् ? अथवा क्षीरं प्रधानमेतद्वचनप्रामाण्यात् ? इत्यत्र संशयः| अत्रोच्यते| उभयमपीदं ग़ृतं क्ष्रीरं छ वातपित्तोत्तरे ज्वरे प्रधानम्, अवस्थावशात् सात्म्यवशाछ्छ क्वचित्किञ्चिदुपयुज्यते|
Adhikarana nirUhaguNAH kShIram (116-117) · Śloka 117
निरुहस्तु बलं वह्निं विज्वरत्वं मुदं रुचिम्|
दोषे युक्तः करोत्याशु पक्वे पक्वाशायं गते||११६||
पित्तं वा कफपित्तं वा पक्वाशयगतं हरेत्|
स्रंसनं त्रीनपि मलान् बस्तिः पक्वाशयाश्रयान्||११७||
स०-निरूहो युक्तो दोषे पक्वे तथा पक्वाशयं गते सति बलादीन् द्रागेव करोति| पित्तं केवलं कफपित्तं वा पक्वाशयाश्रितं स्रंसनं-विरेचनं, हरेत्| बस्तिः प्रयोजितस्त्रीनपि मलान्वाताद्यान् हरेत्| कीदृशान् ? पक्वाशयमाश्रितान्|
Adhikarana anuvAsane adhikarI (118) · Śloka 118
प्रक्षीणकफपित्तस्य त्रिकपृष्ठकटिग्रहे|
दीप्ताग्नेर्बद्धशकृतः प्रयुञ्जीतानुवासनम्||११८||
स०-प्रक्षीणे कफपित्ते यस्य पुंसस्तथा दीप्ताग्नेर्बद्धवर्चस्स्त्रिक्पृष्ठकटिग्रहे सत्यनुवासनं प्रयुञ्जीत|
Adhikarana jvaranAshako nirUhaH (119-121) · Śloka 121
पटोलनिम्बच्छदनकटुकाचतुरङ्गुलैः|
स्थिराबलागोक्षुरकमदनोशीरवालकैः||११९||
पयस्यर्धोदके क्वाथं क्षीरशेषं विमिश्रितम्|
कल्कितैर्मुस्तमदनकृष्णामधुकवत्सकैः||१२०||
बस्ति मधुघृताभ्यां च पीड्येज्ज्वरनाशनम्|
||१२१||
स०-पटोलादिभिः क्वाथं क्षीरेऽर्धोदके क्षीरशेषं तथामिश्रितं कल्कीकृतैर्द्रव्यैर्मुस्तादिभिर्मधुघृताभ्यां च योजितं बस्तिं ज्वरनाशनं दद्यात्|
Adhikarana jvaranAshako anyo nirUhaH (121-122) · Śloka 122
|
चतस्रः पर्णिनीर्यष्टीफलोशीरनृपद्रुमान्||१२१||
क्वाथयेत्कल्कयेद्यश्टीषताह्वाफलिनीफलम्|
मुस्तं च बस्तिः सगुडक्षौद्रसर्पिर्ज्वरापहः||१२२||
स०-मुद्गपर्णी माषपर्णी शालिपर्णी पृश्र्निपर्णीत्यादि(चेति)-चस्रः पर्णीनीः यष्टीफलादींश्च क्वाथयेत्| फलं-मदनफलम्| तथा, यष्ट्यादीन् कल्कयेत्, इत्येष सगुडादिर्बस्तिर्ज्वरहृत्|
Adhikarana jvaranAshakamanuvAsanam (123-124) · Śloka 124
जीवन्तीं मदनं मेदां पिप्प्प्लीं मधुकं वचाम्|
ऋद्धिं रास्रां बलां बिल्वं शतपुष्पां शतावरीम्||१२३||
पिष्ट्वा क्षीरं जलं सर्पिस्तैलं चैकत्र साधितम्|
ज्वरेऽनुवासनं दद्याद्यथास्नेहं यथामलम्||१२४||
स०-जीवन्त्यादीनि द्रव्याणि स्नेहस्य चतुर्भागमात्राणि जलेन पिष्ट्वा क्षीरं स्नेहसमं तैलात्सर्पिषश्च चतुर्गुणं जलं च तैलसर्पिर्द्रव्याच्चतुर्गुणमित्येकत्र साधितं पक्वमेतत् ज्वरेऽनुवासनं दद्यात्| यथास्नेहं यथामलं-यो यस्मिन् ज्वरे दोषे-वातादौ, यः स्नेहो योग्यस्तत्र तं, दद्यात्|
Adhikarana jvaranASakAanye bastayaH (125) · Śloka 125
ये च सिद्धिषु वक्ष्यन्ते बस्तयो ज्वरनाशनाः|
|१२५|
स०-ये च बस्तयः सिद्धिषु-बस्तिकल्पाध्याये, वक्ष्यन्ते ज्वरनाशनास्ते च, 'देयाः' इति शेषः|
Adhikarana shiraH shUlAdiShu nasyam (125-126) · Śloka 126
|
शिरोरुग्गौरवश्लेष्महरमिन्द्रियबोधनम्||१२५||
जीर्णज्वरे रुचिकरं दद्यान्नस्यं विरेचनम्|
स्नैहिकं शून्यशिरसो दाहार्ते पित्तनाशनम्||१२६||
स०-जीर्णज्वरे विरेचनाख़्यं नस्यं दद्यात्| कीदृशं तन्नस्यं स्यात् ? शिरसो रुजं गौरवं च श्लेष्माणं च हरति तच्छीलं तत्| तथा, इन्द्रियाणां-वक्षुरादीनां, च बोधनम्| तथा, रुचिकृत्| शून्यशिरसः पुंसः स्नेहिकं-स्नेहेन मिश्रं स्निग्धं, नस्यं दद्यात्| दाहार्ते शिरसि पित्तहरं नस्यं दद्यात्|
Adhikarana pratishyAyAdau dhUmAdayaH (127) · Śloka 127
धूमगण्डूषकवलान् यथादोषं च कल्पयेत्|
प्रतिश्यायास्यवैरस्यशिरः कण्ठामयापहान्||१२७||
स०-धूमादींश्च यथादोषं कल्पयेत्| किम्भूतान् ? प्रतिश्यायादिग़्नान्|
Adhikarana arUcau kalkadvayam (128) · Śloka 128
अरुचौ मातुलुङ्गस्य केसरं साज्यसैन्धवम्|
धात्रीद्राक्षासितानां वा कल्कमास्येन धारयेत्||१२८||
स०-अरुचौ सत्यां बीजपूरकस्य केसरं सग़ृतसैन्धवमास्येन धारयेदिति सम्बन्धः| अथवा धात्र्यादीनां कल्कं धारयेत्|
Adhikarana tvaggate jvare aBya~ggAdayaH (129-130) · Śloka 130
यथोपशयसंस्पर्शान् शीतोष्णद्रव्यकल्पितान्|
अभ्यङ्गालेपसेकादीन् ज्वरे जीर्णे त्वगाश्रिते||१२९||
कुर्यादञ्जनधूमांश्च तथैवागन्तुजेऽपि तान्|
|१३०|
स०-त्वगाश्रिते जीर्णज्वरेऽभ्यङ्गादीन् कुर्यात्| यथोपशयं-यथासुखावहं, संस्पर्शो येषां, तान्, तथा शीतवीर्यैरुष्ण वीर्यैश्च द्रव्यैः कल्पितान्-योजितान्| तथा, अञ्जनंधूमांश्च कुर्यात्| अञ्जनधूमानागन्तुजेऽपि ज्वरे तथैव कुर्यात्| सद्योगत्वादागन्तुजेऽप्येतेऽनिषिद्धा एव| तानिति पुनः कृतमतिशयार्थम्| विशेषेणागन्तुजेऽपि ज्वरे-भूतविषाद्युद्भवे, तान् कुर्यादित्यर्थः|
Adhikarana dAhe sahastradhautaghRutam (130) · Śloka 130
|
दाहे सहस्रधौतेन सर्पिषाऽभ्यङ्गमाचरेत्||१३०||
सं-दाहे सति सर्पिषा सहस्रधौतेनाभ्यङ्गमाचरेत्|
Adhikarana aBya~ggArthaM tailam (131-133) · Śloka 133
सूत्रोक्तैश्च गणैस्तैस्तैर्मधुराम्लकषायकैः|
दूर्वादिभिर्वा पित्तघ्नैः शोधनादिगणोदितैः||१३१||
शीतवीर्यैर्हिमस्पर्शैः क्वाथकल्कीकृतैः पचेत्|
तैलं सक्षीरमभ्यङ्गात्सद्यो दाहज्वरापहम्||१३२||
शिरो गात्रं च तैरेव नातिपिष्टैः प्रलेपयेत्|
तत्क्वाथेन परीषेकमवगाहं च योजयेत्||१३३||
तथाऽऽरनालसलिलक्षीरशुक्तघृतादिभिः|
||१३३||
स०-सूत्रोक्तैः-सूत्रस्थानोदितैः, मधुराम्लकषायकैर्गणैः| तत्र मधुरो गणो-"घृतहेम" (हृ.सू.अ. १०/२२) इत्यादिः, अम्लो गणो-"धात्रीफलाम्लीका" (हृ. सू. अ. १०/२५) इत्यादिः, कषायो गणः-"पथ्याऽक्षं" (हृ. सू. अ. १०/३१) इत्यादिः, तत्र चैतैर्मधुराम्लकषायैर्वर्गैः| तत्र दूर्वादिदिभिर्गणैः- "दूर्वाऽनन्ता" (हृ.सू.अ. १५/६) इति निर्दिष्ट एकः, "न्यग्रोधादिः" (हृ. सू. अ. १५/४२) द्वितीयः, तृतीयस्तु "पद्मकपुण्ड्रौ" (हृ. सू. अ. १५/१२) इत्यादिः, चतुर्थः "सारिवोशीर" (हृ. सू. अ. १५/११) इत्यादिः, एतै पूर्वोक्तैर्गणैः पित्तघ्नैः शोधनादिगणसङ्ग्रहोक्तैः शीतवीर्यैर्हिमस्पर्शैर्भेषजैस्तथा स्पर्शतो वीर्यतश्च शीतगुणैः, अक्वाथाः क्वाथाः कृताः, अकल्काः कल्काः कृताः, तैः क्वाथकल्कीकृतैरेतैर्गणैस्तैलं क्षीरेण सह पचेत्| तच्च पक्वमभ्यङ्गात्-म्रक्षणात्, सद्यो-न चिरेण कालेन, दाहज्वरं जयेत्| न केवलमेतैर्गणैस्तैलं पचेद्दाहज्वरशान्त्यै, यावत्तैरेव शिरो-मूर्धानं, गात्रं च नातिपिष्टैः-किञ्चित्पिष्टैः, प्रलेपयेत्| सुपिष्टैर्ह्यैतैः प्रत्युत दाह उत्पद्यते| तथा चोक्तम् (सङ्ग्रहे सू. अ. ७)- "श्लक्ष्णशुष्कघनो लेपश्चन्दनस्यापि दाहकृत्| त्वग्गतस्योष्मणो रोधाच्छीकृत्त्वन्यथाऽगुरोः|| इति| अनेनैवाभिप्रायेण शीतज्वरे वक्ष्यति (श्लो. १४१)- "तैः सुपिष्टैश्च लेपयेत्|" इति| गात्रग्रहणेनैव शिरोग्रहणे लब्धे पुनः शिरोग्रहणं विशेषार्थम्| विशेषेण शिरो लेपयेत्, तस्य विशेषेण ज्वराश्रयत्वात्| तथा चोक्तम्-"विमुक्तस्यापि हि शिरो ज्वरो यस्य न मुञ्चति| अविमुक्तः स विज्ञेया ज्वरः पुनरुपैति तम्||" इति| तस्माच्छिरसो विशेषेण लेपनार्थं पृथगुपादानम्| तेषां गणानां क्वाथस्तत्क्वाथः, तेन परिषेकमवगाहं च क्वाथपूर्णायां द्रोण्यां योजयेत्| तथा, आरनालादिभिः परिषेकादि योजयेत्|
Adhikarana dAhAdighnaM lepatrayam (134-135) · Śloka 135
|
कपित्थमातुलुङ्गाम्लविदारीरोध्रदाडिमैः||१३४||
बदरीपल्लवोत्थेन फेनेनारिष्टकस्य वा|
लिप्तेऽङ्गे दाहरुङ्मोहाश्रच्छर्दिस्तृष्णा च शाम्यति||१३५||
स०-कपित्थादिभिर्बदरीपल्लवोद्भवेन वा फेनेन लिप्तेऽङ्गे सति दाहादयः शाम्यन्ति|
Adhikarana pittaharaH kramaH (136) · Śloka 136
यो वर्णितः पित्तहरो दोषोपक्रमणे क्रमः|
तं च शीलयतः शीघ्रं सदाहो नश्यति ज्वरः||१३६||
स०-यश्च दोषोपक्रमणीयाध्याये पित्तहरः क्रमो वर्णितः-उक्तः, तं च-क्रमं, शीलयतः-अभ्यसतः, ज्वरो दाहेन सह नश्यति|
Adhikarana shItajvare tailalepasvedAdInyauShadhAni (137-147) · Śloka 147
वीर्योष्णैरुष्णसंस्पर्शैस्तगरागुरुकुङ्कुमैः|
कुष्ठस्थौणेयशैलेयसरलामरदारुभिः||१३७||
नख़रास्नापुरवचाचण्डैलाद्वयचोरकैः|
पृथ्वीकाशिग्रुसुरसाहिंस्राध्यामकसर्षपैः||१३८||
दशमूलामृतैरण्डद्वयपत्तूररोहिषैः|
तमालपत्रभूतीकशल्लकीधान्यदीप्यकैः||१३९||
मिशिमाषकुलत्थाग्निप्रकीर्यानाकुलीद्वयैः|
अन्यैश्च तद्विधैर्द्रव्यैः शीते तैलं ज्वरे पचेत्||१४०||
क्वथितैः कल्कितैर्युक्तैः सुरासौवीरकादिभिः|
तेनाभ्यञ्जयात्सुख़ोष्णेन, तैः सुपिष्टैश्च लेपयेत्||१४१||
कवोष्णैस्तैः परीषेकमवगाहं च कल्पयेत्|
केवलैरपि तद्वच्च सुक्तगोमूत्रमस्तुभिः||१४२||
आरग्वधादिवर्गं च पानाभ्यञ्जनलेपने|
धूपानगरुजान् यांश्च वक्ष्यन्ते विषमज्वरे||१४३||
अग्न्यनग्निकृतान् स्वेदान् स्वेदि भेषजभोजनम्|
गर्भभूवेश्मशयनं कुथकम्बलरल्लकान्||१४४||
निर्धूमदीप्तैरङ्गारैर्हसन्तीश्च हसन्तिकाः|
मद्यं सत्र्यूषणं तक्रं कुलत्थव्रीहिकोद्गवान्||१४५||
संशीलयेद्वेपथुमान् यच्चान्यदपि पित्तलम्|
दयिताः स्तनशालिन्यः पीना विभ्रमभूषणाः||१४६||
यौवनासवमत्ताश्च तमालिङ्गेयुरङ्गनाः|
वीतशीतं च विज्ञाय तास्ततोऽपनयेत्पुनः||१४७||
स०-वीर्योष्णैरुष्णसंस्पर्शैः-उभयथा वीर्यतः स्पर्शतश्चोष्णैस्तगरादिभिर्द्रव्यैः, [ अन्यैश्च- ] अपरैरपि, तद्विधैः-उष्णवीर्यैः उष्णसंस्पर्शैश्च, क्वाथीकृतैः कल्कीकृतैश्च सुरादिभिः-अम्लपाकरसैः, [शीते-] शीतज्वरएतद्विषये, तैलं पचेत्| तेन-तैलेन, सुख़ोष्णेनाभ्यञ्जयात्-म्रक्षयेत्| तैश्च-पूर्वोक्तैर्द्रव्यैः, सुपिष्टैः-अतिश्लक्ष्णैः, लेपयेत्| तैश्च किञ्चिदुष्णैः परिषेकमवगाहं च कल्पयेत्-योजयेत्| तद्वच्च-तथैव, सुक्तादिभिः केवलैश्च परिषेकादिकं कल्पयेत्| "आरग्वधेन्द्गव" (हृ. सू. अ. १५/१७) इत्यादि च पानाभ्यञ्जनलेपने कल्पयेत्| अगरुजाम् धूपान् कल्पयेत्| यांश्च धूपान् विषमज्वरे वक्ष्यन्ते तांश्च कल्पयेत्| तथा स्वेदान् शीलयेत्| किम्भूतान् ? अग्निकृताननग्निकृतांश्चस्वेदविद्ध्युक्तान् | तथा-स्वेदयति साधु स्वेदि यद्भेषजं भोजनं च तच्च संशीलयेत्| तथा गर्भे-गर्भगृहाभ्यन्तरे, यद्भूवेश्म-भूमिगृहं, तत्र शयनं-शय्याम्, तथा कुथादीनावरणविशेषान्, तथा हसन्तिकाः-वह्निशकटिकाः, शीलयेत्| किम्भूताः ? निर्धूमदीप्तैरङ्गारैर्हसन्तीरिव| तथा, मद्यादींश्च शीलयेत्| वेपथुमन्तमङ्गना आलिङ्गयेयुर्दयितादिगुणयुक्तः| गतशीतं च विदित्वा ततस्ताः-योषाः, पुनरपनयेत्| एतच्च ब्रुवंस्ताभिः सम्भोगाभिलाषं निवारयति| अधुना सन्निपातचिकित्सितं ब्रूते-
Adhikarana sannipAtacikitsAkramaH (148) · Śloka 148
वर्धनेनैकदोषस्य क्षपणेनोच्छ्रितस्य वा|
कफस्थानानुपूर्व्या वा तुल्यकक्षाञ्जयेन्मलान्||१४८||
स०-हीनाधिकभावत्वेन विषमदोषजे सन्निपाते वर्धनेनैकदोषस्यार्थात् क्षीणस्य क्षीणयोर्वा, उच्छ्रितस्योच्छ्रितयोर्वा क्षपणेन, देशकालबलान्मलान् जयेत्| कथं विषमदोषजे सन्निपाते वर्धनेनैकदोषस्य सन्निपातज्वरस्योपशान्ति ? तस्माद्वर्धनमयुक्तम्| अत्राचक्ष्महे| सन्निपातस्थेन क्षीणेन दोषेण सताऽक्षीणौ दोषौ ज्वरकारिणौ| न तौ सुख़ेन जेतुं शक्येते, विषमाश्रयत्वात्| क्षीणस्य तु दोषस्य वर्धनेन दोषसाम्यमुत्पाद्यैकरूपया क्रियया सन्निपातः सुख़ेन जेतुं शक्यते| तस्माद्वर्धनेनैकदोषस्येति वक्तुं युक्तम्| तथा च,-वाताख़्ये यतो दोषे शीतलग़ुरूक्षादिरुपैर्द्रव्यैर्वृद्धिर्भवति| वर्धमानेन च तत्रस्थौ पित्तकफावप्येवं प्रायेण किञ्चित् क्षयं यातः, तत्क्ष्याच्चासौ ज्वरोऽप्य मृदुतां गतः सुख़ेन शक्यते जेतुं इति| एवं दोषत्रयस्यापि ज्वरकारणे तथा युक्त्या प्रतीकारः कृतो भवति| एवमुच्छ्रितस्यापि क्षपणैरे(णेनै)करूपया क्रियया सुख़ेन सन्निपातो जीयते| तदेवं व्द्युल्बणैकोल्बणैर्दोषैर्जनिते सन्निपाते चिकित्साक्रम उक्तः| सम्प्रति समदोषजे सन्निपाते चिकित्साक्रमं दर्शयितुमाह-कफेत्यादि| स्थितिः-स्थानम्, कफश्च स्थानं च कफस्थाने, तयोरानुपूर्वी-क्रमः, तया च तुल्यकक्षान्-समान् सन्निपातान्, ज्वरे मलान् जयेत्| तत्र कफः प्राग्जेतव्यस्ततः पित्तं ततो वायुरिति कफानुपूर्वीत्युच्यते| उक्तं च (सङ्ग्रहे सू.अ.२१)-"स्थानतः केचिदिच्छन्ति प्राक् तावच्छ्लेष्मणो वधम्| शिरस्युरसि कण्ठे च प्रलिप्तेऽन्नरुचिः कुतः|| तदभावे कथं भोज्यपानद्रव्यावचारणम्| असत्यभ्यवहारे च कुतो दोषस्य निग्रहः|| तस्मादादौ कफो धात्यः कायद्वारार्गलो हि सः| मध्यस्थायि यतः पित्तमाशुकारि च चिन्त्यते|| अतो वातसस्वस्यास्य कुर्यात्तदनु निग्रहम्| अधःस्थायी च तदनु निग्राह्यः स्यात्समीरणः||" इति| सुश्रुतस्त्वाह(?) (सङ्ग्रहे सू.अ. २१)-"[सुश्रुतश्च न सर्वत्र मतमेतद्ब्रवीति तु|] जयेज्वरेऽतिसारे च क्रमात्पित्तकफानिलान्|| प्रायेण तापात्मतया ज्वरे तेजो विशिष्यते| विशश्च सरता पित्तात्तथा च मृदुकोष्ठता|| तस्य चानुबलः श्लेष्मा गौरवापक्तिजाड्यकृत्| वायुश्च वर्धतेऽवश्यं यस्त्वहःसु तयोः क्षये|| ज्वरातिसारयोस्तस्मादेष दोषजये क्रमः| कफपित्तानिलानन्ये क्रमादाहुस्तयोरपि|| यस्मादामाशयोत्क्लेशाद्भूयिष्ठं तत्समुद्भवः| क्रमेणाद्येन तत्रापि प्रवृद्धान् स्वाशये स्थितान्| स्वाशयेषु प्रदुष्टानांस्थितैव ह्याशुकारिता| विज्ञाय कर्मभिः स्वैः स्वेर्दोषोद्रेकं यथामलम्| भेषजं योजयेत्तत्तु स्वीकुर्यान्न क्रमं भिषक्|" इति| अन्ये त्वाहुः (सं.सू.अ. २१)-"क्रमान्मरुत्पित्तकफाः सर्वत्र सदृशे बले| वातादीनां यथापूर्वं यतः स्वाभाविकं बलम्|| ऊचे पराशरोऽप्यर्थममुमेव प्रमाणयन्| यथोपन्यासतः प्राप्तमादौ दोषभिषग्जितम्| नेत्ऱभङ्गेन दृष्टौ हि समं सैन्यपराजयः||" इति| स्थानानुपूर्व्या वा दोषांस्तुल्यकक्षान् जयेत्| स्थानं च यद्यप्यविशेषेणैव सम्भवति तथाऽपीह ज्वरकारिदोषप्रस्तावादामाशयो गृह्यते| तेनामाशयस्थो दोषः प्राग्जेतव्यस्ततः पक्वाशयस्थः, इति स्थानानुपूर्वी-स्थानमाहात्म्यस्य चिकित्साक्रमः, कार्यः| तथा च प्रागध्यगीष्ट (हृ. सू. अ. १७/१३)-"आमाशयगतेवायौ कफे पक्वाशयाश्रिते| रूक्षपूर्वं तथा स्नेहपूर्वं स्थानानुरोधतः||" इति| तदेवं कफस्थानानुपूर्व्या वा तुल्यकक्षान् मलान् जयेत्| अन्ये त्वेवं व्याख़्यानयन्ति,- कफस्य स्थानंकफस्थानम्, कफस्थानलक्षणा चासावानुपूर्वी च, तया कफ स्थानानुपूर्व्या वा तुल्यकक्षान् मलान् जयेत्| यद्यपि कफस्थानानि कण्ठादीन्यपि तथाऽपीह ज्वरकारिदोषप्रस्तावादामाशयोगृह्यते| तथा चोक्तम् (श्लो.१)-"आमशयस्थो हत्वाऽग्निं सोमो मार्गान् पिधाय यत्| विदधाति ज्वरं दोषस्तस्मात्कुर्वीत लङ्ग़नम्||" इति| तदेवं रूक्षोष्णपाचनादिः क्रमोऽत्र कार्य इत्यवतिष्ठते| ननु, कफस्थानानुपूर्व्या वेत्येतन्न वाच्यम्, यतस्तुल्यकालं त्रिदोषहरैर्द्रव्यैः सन्निपातस्य क्रिया कार्या| द्रव्याणि दोषघ्नानि| अत्रोच्यते| ज्वरनाशनानि द्रव्याणि त्रिदोषघ्नानि विरलानि| एकदोषघ्नानि पुनर्ज्वरहन्तृणि त्रिदोषघ्नेभ्यः समर्थराणि बहुतराणीति कफस्थानानुपूर्व्या वेत्युक्तम्| अपि च दोषकालादिवशाच्चिकित्साप्रकारान्तरोऽयमुपयुज्यत इति| सन्निपातचिकित्साप्रक्रमादिदमप्याह-
Adhikarana sannipAtAtopadravakarNamUlam (149) · Śloka 149
सन्निपातज्वरस्यान्ते कर्णमूले सुदारुणः|
शोफः सञ्जायते येन कश्चिदेव विमुच्यते||१४९||
सं-सन्निपातज्वरस्यावसाने कर्णमूलप्रदेशे सुष्ठ दारुणः शोफः सञ्जायते| येन-शोफेनोत्पन्नेन, कश्चिदेव विमुच्यते| कश्चिदेवेत्यमेनास्य रोगस्य नावश्यमसाध्यतेति ब्रूते| अत एव चिकित्सामत्राह-
Adhikarana karNamUlacikitsA (150) · Śloka 150
रक्तावसेचनैः शीघ्रं सर्पिःपानैश्च तं जयेत्|
प्रदेहैः कफपित्तघ्नैर्नावनैः कवलग्रहैः||१५०||
स०-रक्तावसेचनादिभिः कवलग्रहान्तैराशु तं जयेत्| प्रदेहः-प्रलेपः|
Adhikarana shAkhAnusArI jvaraH asya cikitsA bAhushirAmokShaH (151) · Śloka 151
शीतोष्णस्निग्धरूक्षाद्यैर्ज्वरो यस्य न शाम्यति|
शाख़ानुसारी तस्याशु मुञ्चेद्वाह्वोः क्रमाच्छिराम्||१५१||
स०-आदिशब्देन स्तम्भस्वेदनादयो गृह्यन्ते| शीतोष्णादिभिरुपक्रमैर्यथायथं पृथग्वातपित्तश्लेष्मसंसर्गसन्निपातज्वरप्रशमनैः सम्यक् प्रयोजितैर्ज्वरो यस्य नरस्य शमं न गच्छति, तस्य शाख़ानुसारित्वाद्धेतोर्बाह्वोः क्रमात्-एकैकस्मिन् न युगपद् द्वयोर्भुजयोः, शिरां मुञ्चेत्| शाख़ाशब्देनात्र केवलं रक्तं विवक्षितम्, न मांसादयः| अत एव रक्तस्यैव चिकित्सानुवाच मुञ्चेच्छिरामिति| मांसजानां हि शस्त्रक्षाराग्निकर्मादिचिकित्सा| तस्माच्छाख़ाशब्देन रक्तस्यैव ग्रहणं युक्तम्|
Adhikarana viShamajvare~apyayameva vidhiH (152) · Śloka 152
अयमेव विधिः कार्यो विषमेऽपि यथायथम्|
ज्वरे विभज्य वातादीन् यश्चानन्तरमुच्यते||१५२||
स०-अयमेव-पूर्वोक्तो, विधिर्विषमेऽपि-विषमज्वरे सततकादौ, यथास्वं वातादीन् विभज्य कार्यः| अनन्तरमधुनैव च यो विधिरुच्यते पटोलकटुकादिभिः, सोऽपि विषमज्वरे कार्यः|
Adhikarana viShamajvare kvAthAH (153) · Śloka 153
पटोलकटुकामुस्ताप्राणदामधुकैः कृताः|
त्रिचतुःपञ्चशः क्वाथा विषमज्वरनाशनाः||१५३||
स०-पटोलादिभिस्त्रिभिश्चतुर्भिः पञ्चभिर्वा कृताः क्वाथा विषमज्वरघ्नाः|
Adhikarana viShamajvare triPalAdirasAyanAni (154) · Śloka 154
योजयेत्रिफलां पथ्यां गुडूचीं पिप्पलीं पृथक्|
तैस्तैर्विधानैः सगुडं भल्लातकमथापि वा||१५४||
सं-त्रिफलां वा पथ्यां वा गुडूचीं पिप्पलीं वा पृथक् पृथक् योजयेत् सततकादिके विषमज्वरे| अथवा तैस्तैः-रसायनाद्युक्तैर्विधिभिः, गुडसहितं भल्लातकं वा योजयेत्|
Adhikarana jvrarotpattidine la~gghanaM bRuMhaNaM vA (155) · Śloka 155
लङ्घनं बृंहणं वाऽऽदौ ज्वरागमनवासरे|
|१५५|
स०-यदि वा ज्वरागमनदिवसे आदौ-प्रथमं, लङ्घनं बृंहणं वा योजयेत्|
Adhikarana jvarotpattidine prAtaH kAle ojanAdoy vAlashuna purAnadhRutadadhikShIratakraNiShaTrapalAdIni ghRutAni ca (155-156) · Śloka 156
प्रातः सतैलं लशुनं प्राग्भक्रं वा तथा ग़ृतम्||१५५||
जीर्णं तद्वद्दधि पयस्तक्रं सर्पिश्च षट्पलम्|
कल्याणकं पञ्चगव्यं तिक्ताख़्यं वृषसाधितम्||१५६||
स०-विषमज्वरे प्रगे सहतैलेन लशुनं योजयेत्| प्राग्भक्तमित्यादि| भक्तात्प्रथमं प्रातर्वाघृतं च जीर्णं-पुराणं, योजयेत्| तथैव दधि, तथा पयः, तथा तक्रं, षट्पलं च सर्पिःक्षयचिकित्सितोक्तं (हृ. चि. अ. ५/२८) , प्रातः प्राग्भक्तं वा योजयेदित्यर्थः| कल्याणकं-उन्मादप्रतिषेधोक्तं (हृ. उ. अ. ६/२६) , पञ्चगव्यं-अपस्मारप्रतिषेधोक्तं (हृ. उ. अ. ७/१९), तिक्ताख्यं-कुष्टचिकित्सितोक्तं (हृ. चि. अ. १९/२), तथा वृषसाधितं-रक्तपित्तचिकित्सितोक्तं (हृ. चि. अ. २/४०), प्रातः प्राग्भक्तं वा योजयेत्| षट्पलादीन्यतिदिशति-सर्पिश्चेति|
Adhikarana viShamajjarajit triPalAdi ghRutam (157) · Śloka 157
त्रिफलाकोलतर्कारीक्वाथे दध्ना शृतं घृतम्|
तिल्वकत्वक्कृतावाप विषमज्वरजित्परम्||१५७||
स०-त्रिफलादिक्वाथे चतुर्गुणे सर्पिर्दधिसमं शावररोघ्नत्वक्कृतावापमतिशयेन विषमज्वरजित्|
Adhikarana viShamajvare prayogAntaram (158-159) · Śloka 159
सुरां तीक्ष्णं च यन्मद्यं शिख़ितित्तिरिदक्षजम्|
मांसं मेद्योष्णवीर्यं च सहान्नेन प्रकामतः||१५८||
सेवित्वा तदहः स्वप्यादथवा पुनरुल्लिख़ेत्|
|१५९|
सं-सुरां च तीक्ष्णं च यन्मद्यं शिख़ितिरिदक्षजं च मांसं मेध्यो(द्यो)ष्णवीर्यमन्नेन सह बहु सेवित्वा तदहः स्वप्यात्| यस्मिन् दिने तद्भुक्तं तं दिवसं शयीत| तदहः स्वप्यादिति "कालाध्वनोरत्यन्तसंयोगे" इति द्वितीया| अथवा पूर्वोक्तपीतभुक्तभक्तो नरः पुनरुल्लिख़ेत्-उद्वमेत्|
Adhikarana viShamajvare sarpirvamantaram (159) · Śloka 159
|
सर्पिषो महतीम् मात्रां पीत्वा वा छ्हर्दयेत्पुनः||१५९||
सं-सर्पिषो वा महतीम्-उत्तमां, मात्रां पीत्वा पुनश्छ्हर्दयेत् उद्वमेत्|
Adhikarana viShamajvare virecanam (160) · Śloka 160
नीलिनीभजगन्धां च त्रिवृतां कटुरोहिणीम्|
पिबेज्ज्वरस्यागमने स्नेहस्वेदोपपादितः||१६०||
सं-नीलिन्यादीन् पृथग्ज्वरागमनवासरे कृतस्नेहस्वेदः पिबेत्|
Adhikarana viShamajvare a~jjanam (162) · Śloka 162
मनोह्वा सैन्धवं कृष्णा तैलेन नयनाञ्जनम्|
योज्यं|१६२|
सं-मनोह्वादिकं तैलेन नयनाञ्जनं योज्यम्| अञ्जनशब्दो म्रक्षणेऽपि दृश्यत इतिनयनशब्देऽत्र प्रयुक्तः|
Adhikarana viShamajvare nasyatrayam (161-162) · Śloka 162
|
हिङ्गुसमा व्याघ्रीवसा नस्यं ससैन्धवम्||१६१||
पुराणसर्पिः सिंहस्य वसा तद्वत्ससैन्धवा|
|१६२|
स०-हिङ्गुतुल्या व्याघ्रीवसा नस्यं ससैन्धवं योज्यम्| व्याघ्रीति स्त्रीलिङ्गनिर्देशः स्त्रिया ग्रहणार्थोऽचिन्त्यत्वात्प्रभावस्य, अन्यथा पुंलिङ्गेनैव निर्देशं कुर्यात्| यथा वक्ति-"पुराणसर्पिः सिंहस्य वसा तद्वत्ससैन्धवा|" इति|
Adhikarana viShamajvare dhUpadvayam (162-163) · Śloka 163
|
पलङ्कषा निम्बपत्रं वचा कुष्ठं हरीतकी||१६२||
सर्षपाः सयवाः सर्पिर्धूपो विड्वा बिडालजा|
|१६३|
सं-पलङ्कषादिधूमः सर्वेषु ज्वरेषु कार्यः| अथवा बिडालाज्जाता विडालजा विट्|
Adhikarana sarvajvare~aparAjito dhUpaH (163-164) · Śloka 164
|
पुरध्यामवचासर्जनिम्बार्कागरुदारुभिः||१६३||
धूपो ज्वरेषु सर्वेषु कार्योऽयमपराजितः|
|१६४|
सं-पुरादिभिः सहापराजिताख़्योऽयं धूपो ज्वरेषु कार्यः|
Adhikarana unmAdAdiShUkto dhUpAdiH (164) · Śloka 164
|
धूपनस्याञ्जनोस्त्रासा ये चोक्ताश्चित्तवैकृते||१६४||
सं-ये च चित्तवैकृते-उन्मादापस्मारे, धूमादय उक्तास्ते च विषमज्वरे योज्याः| विकृतमेव वैकृतम्| प्रज्ञादित्वात्स्वार्थेऽण्|
Adhikarana daivavyapAshryayamauShadham (165) · Śloka 165
दैवाश्रयं च भैषज्यं ज्वरान् सर्वान् व्यपोहति|
विषेषाद्विषमान् प्रायस्ते ह्यागन्त्वनुबन्धजाः||१६५||
सं-न केवलं धूपादयो ज्वरं नाश्यन्ति| दैवाश्रयं चौषधं मणिमङ्गलबल्युपहारप्रायश्चित्तजपदानस्वस्त्ययनहोमादिकं सर्वान् ज्वरान्-आगन्तून्निजांश्च, व्यपोहति| "उपसर्गादस्यत्यूह्योर्वा वचनम् (र्वेति वाच्यम्)" इति तङभावः| विशेषेण विषमान् व्यपोहति| यस्मात्ते-विषमज्वराः, आगन्तुनां-भूतादीनां, अनुबन्धज्जाताः|
Adhikarana viShamajvare shirAvyadhaH (166) · Śloka 166
यथास्वं च सिरां विध्येदशान्तौ विषमज्वरे|
|१६६|
स०-विषमज्वराशान्तौ सत्यां यथास्वं-दोषाद्यपेक्षया, सिरां विध्येत्| सङ्ग्रहे च रसादिधातुस्थे ज्वरे चिकित्सोक्ता| यथा (चि.अ.२)-"रससंस्थे तु सर्वस्मिन् कुर्याद्वमनलङ्घने| सेकसंशमनालेपरक्तमोक्षमसृकूस्थिते|| तीक्ष्णं विरेकं मांसास्थे, मेदोघ्नं मेदसि स्थिते| अस्थिस्थे वातशमनमभ्यङ्गस्वेदमर्दनम्|| ज्वरे वातार्तिशमनं विशेषाद्बूस्तिकर्म च|" इति| मज्जस्थशुक्रस्थयोर्ज्वरयोरसाध्यत्वात्तत्र चिकित्सा नोक्ता|
Adhikarana aBighAtaje Agantujvare auShadham (166-167) · Śloka 167
|
केवलानिलवीसर्पविस्फोटाभिहतज्वरे||१६६||
सर्पिःपानहिमालेपसेकमांसरसाशनम्|
कुर्याद्यथास्वमुक्तं च रक्तमोक्षादि साधनम्||१६७||
सं-केवलानिलादिभिर्ज्वरे सर्पिःपानादिकं कुर्यात्| यच्च रक्तमोक्षादि साधनं यथास्वमुक्तं तच्च कुर्यात्|
Adhikarana grahAveshaje Agantujvare auShadham (168) · Śloka 168
ग्रहोत्थेभूतविद्योक्तं बलिमन्त्रादि साधनम्|
|१६८|
सं-ग्रहोत्थे ज्वरे भूतविद्योक्तं बलिमन्त्रादि साधनं चिकित्सितम्|
Adhikarana auShadhigandhaje Agantujvare auShadham (168) · Śloka 168
|
ओषधीगन्धजे पित्तशमनं|१६८|
सं-ओषधीगन्धजे पित्तशमनं चिकित्सितम्|
Adhikarana viShaje Agantujvare auShadham (168) · Śloka 168
|
विषजिद्विषे||१६८||
सं-विषे-विषजे ज्वरे, विषजिच्चिकित्सितम्|
Adhikarana krodhAdije Agantujvare auShadham (169-170) · Śloka 170
इष्टैरर्थैर्मनोज्ञैश्च यथादोषशमेन च|
हिताहितविवेकैश्च ज्वरं क्रोधादिजं जयेत्||१६९||
क्रोधजो याति कामेन शान्तिं क्रोधेन कामजः|
भयोशोकोद्भवौ ताभ्यां भीशोकाभ्यं तथेतरौ||१७०||
सं-क्रोधादिजं ज्वरमिष्टैः-अभिमतैः, अर्थैः-विषयैः, तथा मनोज्ञैः-रम्यैः, तथा यथादोषं यः शमः-शमनं तेन, तथा हिताहितविवेकैश्च जयेत्| आदिशब्दोऽत्र भीशोकादि परिग्रहार्थः|
Adhikarana shApaje~aBicAraje ca Agantujvare auShadham (171-172) · Śloka 172
शापाथर्वणमन्त्रोत्थे विधिर्दैवव्यपाश्रयः|
ते ज्वराः केवलाः पूर्वं व्याप्यन्तेऽनन्तरं मलैः||१७१||
तस्माद्दोषानुसारेण तेष्वाहारादि कल्पयेत्|
न हि ज्वरोऽनुबध्नाति मारुताद्यैर्विना कृतः||१७२||
स०-शापाद्युत्थे ज्वरे दैवव्यपाश्रयो विधिः कार्यः| शापोमुनिपित्रादिभिः सक्रोर्धैर्दत्तः| [ते-] ओषध्याद्युत्था ज्वराः पूर्वं केवला भवन्ति| अनन्तरं मलैः-वातादिभिः, व्याप्यन्ते| तस्माद्धेतोस्तेषु-ज्वरेषु, दोषानुसारेणाहारादि कल्पयेत्| ननु, शापाद्युत्थेषु वातादिकोपो नाशङ्क्यत एव| तत्किमिति तेष्वाहारादिकं दोषानुसारेण कल्प्यते ? इत्याह-न हीत्यादि| यस्माद्वातादीनन्तरेण विना कृतो ज्वरो नानुबध्नाति, तस्मादवश्यं तेष्वपि वातादिकोपः सम्भाव्यते| अत एव च तदनुसारेणाहारदिकल्पनम्|
Adhikarana sarvajvare manoharaviShayasevanam (173) · Śloka 173
ज्वरकालस्मृतिं चास्य हारिभिर्विषयैर्हरेत्|
|१७३|
सं-ज्वरकालं च वेगं च यश्चिन्तयन् ज्वर्यते, अस्य चज्वरिणो, ज्वरकालस्मरणं हारिभिः-मनोहरैः, विषयैः-शब्दादिभिः, हरेत्-विस्मारयेत्|
Adhikarana sarvajvare manasaH shuddhatvaM karUNAdratvaM ca (173) · Śloka 173
|
करुणार्द्रं मनः शुद्धं सर्वज्वरविनाशनम्||१७३||
सं-शुद्धं-रागद्वेषाद्यनुपहतं, तथा करुणयाऽऽद्रं-कृपापरं, चेतः सर्वज्वरविनाशनं स्यात्|
Adhikarana sarvajvare vyAyAmAdivarjanam (174) · Śloka 174
त्यजेदाबललाभाच्च व्यायामस्नानमैथुनम्|
गुर्वसात्म्यविदाह्यन्नं यच्चान्यज्जवरकारणम्||१७४||
सं-बललाभादा-बललाभमवधीकृत्य, व्यायामादि त्यजेत्-नाचरेत्| स्नानं च यद्यपि दीपनादिगुणयुक्तं प्रागधीतं, तथाऽपि प्रभावज्जवरं करोतीति तद्वर्जनम्| एवं व्यायामादिष्वपिचिन्त्यम्| [अन्यत्]-अपरमनुक्तमपीह यज्ज्वरकारणं, तदपि त्यजेत्| ख़ारणादेऽप्य्क्तम्-"पिष्टान्नं हरितं शाकं मांसं शुष्कं तिलान् दधि| ग्राम्यानूपौदकाजाविगव्यसूकरभाहिषम्|| मांसं शुष्काणि शाकानि सर्वमेव त्यजेज्जवरी|" तथोक्तम्-"ज्वरितै स्थित्तिरिक्रौञ्चशिख़िवर्तककुक्कुटाः| गुरुष्णत्वाद्विवर्ज्याः स्युरत्र सोपद्रवे ज्वरे||" इति|
Adhikarana sarvajvare sahasA~a~ahAravRuddiniShedhaHniShedhAtikrame doShaH (175) · Śloka 175
न विज्वरोऽपि सहसा सर्वान्नीनो भवेत्तथा|
निवृत्तोऽपि ज्वरः शीग़्रं व्यापादयति दुर्बलम्||१७५||
सं-तथा विज्ज्वरोऽपि-पूर्वानुभूतज्वरः, सहसा-अक्रमेणैव, सर्वान्नभक्षो न स्यात्| सर्वान्नीन इत्युपपदसर्वान्नेत्यादिना खः| यतो निवृत्तोऽपि-अपगतोऽपि, ज्वरः शीघ्रमेव दुर्बलं व्यापादयति|
Adhikarana jvarAvasthAyAM sAvadhAnatA (176) · Śloka 176
सद्यः प्राणहरो यस्मात्तस्मात्तस्य विशेषतः|
तस्यां तस्यामवस्थायां तत्तत्कुर्याद्भीषग्जितम्||१७६||
सं-यस्माच्च ज्वरः सद्य एव प्राणहृद्भवति, तस्मात्कारणात्तस्य-ज्वरिणो, विशेषेणान्यरोगेभ्यः सकाशात्तस्यां तस्यांसामपच्यमानपक्वाजीर्णविषमचिरनिवृत्तज्वराद्यवस्थायां च, तत्तत्-लङ्घनस्वेदनयवागूपाचनक्षीरसर्पिःपानादिकं, भिषग्जितं-औषधं, कुर्यात्|
Adhikarana jvare siddhauShadhAdidhAraNam (1) · Śloka 2
औषधयो मणयश्च सुमन्त्राः साधुगुरुद्विजदैवतपूजाः|
प्रीतिकरा मनसो विषयाश्च घ्नन्त्यपि विष्णुकृतं ज्वरमुग्रम्||१७७||
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचिता यामष्टाङ्गहृदयसंहितायां चतुर्थे चितित्सितस्थाने ज्वरचिकित्सितं नाम प्रथमोऽध्यायः||१||
ग्||२||
सं-ओषध्यादयो विष्णुकृतमप्युग्रं ज्वरं घ्नान्ति| किं पुनरपचारादिकृतं ज्वरं न घ्नान्ति ? इत्यपिशब्दार्थः| भौ तु भागाविति दोधकमेतत्| इति श्रीमृगाङ्कदत्तपुत्रश्रीमदरुणदत्तविरचितायामष्टाङ्गहृदयटी- कायां सर्वाङ्गसुन्दराख्यायां चतुर्थे चिकित्सितस्थाने ज्वरचिकित्सितं नाम प्रथमोऽध्यायः समाप्तः|| १||