Adhikarana adhyAyopakramaH · Śloka
ज्वरचिकित्सितादनन्तरं रक्तपित्तचिकित्सितमुच्यते| यतो महेश्वरस्य ललाटाज्ज्वरो बभूव, तत्सन्तापाद्रक्तपित्तमित्युक्तम्| अतो रक्तपित्तचिकित्सितस्यैवारम्भो युक्तः| तथा, निदाने यद्विशेषेण नोक्तं तदिह विशेषेण स्पष्टं कृत्वा निदानाभिप्रायमपि भण्यते, रक्तपित्तस्य क्षिप्रकारित्वात्|
Adhikarana raktapittacikitsitA~adhyAyaH raktapittasya sAdhyatvam (2-1) · Śloka 1
अथातो रक्तपैत्तचिकित्सितं व्याख़्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः|
(गद्यसूत्रे|२|
) ऊर्ध्वगं बलिनोऽवेगमेकदोषानुगं नवम्|
रक्तपित्तं सुख़े काले साधयेन्निरुपद्रवम्||१||
स०-बलिनो-बलवतः पुंसो न स्त्रियाः, यदुत्पन्नमूर्ध्वगं रक्तपित्तं तत्साधयेत्-उपक्रमेत्| तथा यदेवोर्ध्वगमवेगं-अवेगवत्, तथैको दोषः-कफाख़्यः, अनुगः-अनुबलो, यस्य तदेकदोषानुगम्| निदानेऽप्युक्तम् (हृंइ.अ.३/८)-"ऊर्ध्वं साध्यं कपाद्यस्मात्" इति| तथा नवं-अचिरोत्पन्नं, तथा यत्सुख़े काले- तद्व्याधिप्रतिपक्षभूते हेमन्ते शिशिरे वा जातं, तथा यन्निरुपद्रवं-विकृतविज्ञानीयाध्याध्यायोक्तैः (हृ.शा.अ.५/७४)" रक्तपित्तंभृशं रक्तं" इत्यादिग्रन्थनिर्दिष्टैरुपद्रवै रहितम्| अतो लक्षणाद्यद्विपर्ययलक्षणमूर्ध्वगमपि रक्तपित्तं तदर्थादसाध्यं याप्यं वा स्यादिति गम्यते|
Adhikarana raktapittasya yApyatvam (2) · Śloka 2
अधोगं याप्ययेद्रक्तम् यच्चदोषद्वयानुगम्|
शान्तं शान्तं पुनः कुप्यन्मार्गान्मार्गान्तरं च यत्||२||
स०-अधोगं रक्तपित्तमूर्ध्वगरक्तपित्तोक्तैकदोषानुगादिविशेषणविषिष्टमपि यापयेत्| यच्च दोषद्वयानुगं-वातकफाभ्यां हीनबलाभ्यामनुगतमूर्ध्वगमपि, तच्च यापयेत्|
Adhikarana raktapittasya asAdhyatvam (3) · Śloka 3
अतिप्रवृत्तं मन्दाग्नेस्त्रिदोषं द्विपथं त्यजेत्|
|३|
स०-शान्तं शान्तं-अतिशयेन शान्तं, पुनः कुप्यत्-कोपं गच्छत्, ऊर्ध्वगमेकदोषानुगमधोगं वा त्यजेत्| अथ मार्गात्-ऊर्ध्वात् नासाक्षिकर्णास्यलक्षणात्, मार्गान्तरं-गुदमेढ्रलक्षणं, यत्-गच्छ्हत्, एवं यत्प्रवृत्तं तच्च त्यजेत्| यदिति इणः शतरि इणो यणिति यादेशे यदिति रूपम्| तथा अतिप्रवृत्तमूर्ध्वमार्गाधोमार्गाद्वा यद्रक्तपित्तं तत्त्यजेत्, रक्तस्य प्राणायतनत्वात्| उक्तं च-"जीवितं प्राणिनां तत्र रक्ते तिष्ठति तिष्ठति|" इति| तथा, मन्दाग्नेर्यत्प्रवृत्तमधोगमूर्ध्वगं व तदपि विरुद्धोपक्रमत्वात्त्यजेत्| तथा हि,-मन्दाग्नेः कटुकाम्लोष्णरूक्षतीक्ष्णाद्यौषधमग्निसन्धुक्षणं यत्तद्धितम्, रक्तपित्ते चातो विपरीतप्रायं यत्तत्पथ्यम्| तथा, त्रिदोषमूर्ध्वगमधोगं वा तदपि त्यजेत्, विषमत्वात्| यतो न तद्वमनविषयं भवतुमर्हति नापि विरेचनविषयम्|
Adhikarana la~gghanIyabRuMhaNIyashodhanIyashamanIyaviBAgaH (3-4) · Śloka 4
|
ज्ञात्वा निदानमयनं मलावनुबलौ बलम्||३||
देशकालाद्यवस्थां च रक्तपित्ते प्रयोजयेत्|
लङ्घनं बृंहणं वाऽऽदौ शोधनं शमनं तथा||४||
स०-निदानादि ज्ञात्वाऽनन्तरं रक्तपित्ते-ऊर्ध्वगेऽधोगे वा, आदौ-प्रथमत एव, लङ्घनं प्रयोजयेत्, अथवा बृंहणं, अथवा शोधनं शमनं वा| तत्र निदानं-तीक्ष्णोष्णकट्वम्लादिसेवनम्, एतज्ज्ञानं हि तन्निदानवर्जन उपयुज्यते| तथा च वक्ष्यति (श्लो.२४)-"यत्किञ्चिद्रक्तपित्तस्य निदानं तच्च वर्जयेत्|" इति| अयनं-ऊर्ध्वाघोलक्षणं ज्ञात्वा| तथा च वक्ष्यति (श्लो.८)- "रक्ते सपिच्छे सकफे ग्रथिते कण्ठमार्गगे| लिह्यान्माक्षिकसर्पिर्भ्यां क्षारमुत्पलनालजम्||" इति| तथा (श्लो.४७)- "गुदागमे विशेषेण शोणिते वस्तिरिष्यते|" इत्यादि| तथा, पित्ताख्यस्य मलस्यात्र मूलभूतत्वात्सामर्थ्यात् मलौ-वातकफाख्यौ, अनुबलौ ज्ञात्वा चिकित्साविशेषं प्रयोजयेत्| तथा च वक्ष्यति (श्लो.३६)-"रक्तपित्तं न चेच्छाम्येत्तत्र वातोल्बणे पयः| युञ्जयाच्छागं" इत्यादि| तथा, बलं ज्ञात्वा| यतो वक्ष्यति (श्लो. १३)- "यथास्वं मन्थपेयादिः प्रयोज्यो रक्षता बलम्|" इति| देशो-द्विविधः शारीरो भूमिदेशश्च| तत्र शारीरो-मुखनासाद्यवयवरूपः| ऊर्ध्वगे हि रक्तपित्ते सत्यपि नासाप्रवृत्ते विशेषेणान्यदौषधमन्यप्रवृत्तेऽन्यत्| तथा, अधोगे रक्तपित्ते सत्यपि गुदप्रवृत्तेऽन्यदौषधं मेढ्रप्रवृत्ते चान्यत्| भूमिदेशश्च-त्रिविधोव्याख्यातो जाङ्गलानूपसाधारणभेदेन| तत्र जाङ्गलेऽन्यधौषधमनूपेऽन्यत् साधारणे चान्यत्| कालो-मुहूर्तादिः शीतोष्णवर्षलक्षण आवस्थिकश्च| तथा च शीते कालेऽन्यादृसमौषधमन्यस्मिन् कालेऽन्यादृषमौषधं रक्तपित्ते| आदिग्रहणेनानलाहा रसत्त्वसात्म्यवयःप्रकृतिप्रभृतयो गृह्यन्ते| अवस्थां च ज्ञात्वा अवस्थावशात्, रक्तपित्तस्य ह्यवस्थाविशेषेणान्यदौषधं स्यात्|
Adhikarana shodhyatve~api la~gghanashAmyabRuMhaNashAmyaviBAgaH (5-6) · Śloka 6
सन्तर्पणोत्थं बलिनो बहूदोषस्य साधयेत्|
ऊर्ध्वभागं विरेकेण वमनेन त्वधोगतम्||५||
शमनैर्बृंहणैश्चान्यल्लङ्घ्य बृंह्यानवेक्ष्य च|
|६|
स०-सन्तर्पणोत्थं बलिनो बहुदोषस्य नरस्य रक्तपित्तमूर्ध्वगं विरेकेण साधयेत्, अधोगतं तु वमनेन साधयेत्| अन्यतपतर्पणोत्थं रक्तपित्तं दुर्बलस्याल्पदोषस्योर्ध्वगं शमनैरधोगं बृंहणैरुपाचरेत्| बृंहणैर्वा शमनैः| न चेदं चिकित्सितं निरपेक्षं युञीतेत्याह-लङ्घ्यबृंह्यानवेक्ष्य चेति| लङ्घनादुत्पन्नमधोगमपि शमनैरुपाचरेत्| बृंहणादुत्पन्नमूर्ध्वगमपि लङ्ह्घनैरुपाचरेदित्यर्थः|
Adhikarana shamanauShadham (6-7) · Śloka 7
|
ऊर्ध्वं प्रवृत्ते शमनौ रसौ तिक्तकषायकौ||६||
उपवासश्च निःशुण्ठीषडङ्गोदकपायिनः|
|७|
स०-ऊर्ध्वं प्रवृत्ते रक्तपित्ते शुण्ठीरहितं षडङ्गोदकं पिबतः पुंसस्तिक्तकषायौ रसौ शमनम्| तथा, उपवासः|
Adhikarana bRuMhaNauShadham (7) · Śloka 7
|
अधोगे रक्तपित्ते तु बृंहणौ मधुरो रसः||७||
स०-अधोगे तु रक्तपित्ते बृंहणो मधुरो रसो हितः|
Adhikarana UrdhvagAdhogayoH pathyaviBAgaH (8) · Śloka 8
ऊर्ध्वगे तर्पणं योज्यं प्राक् च पेया त्वधोगते|
|८|
स०-ऊर्ध्वगे रक्तपित्ते प्राक्-पूर्वं, तर्पणं योज्यम्, तथासात्म्यत्वात्| एवमधोगे रक्तपित्ते प्राक् पेया योज्या|
Adhikarana ashuddharaktasya stamBananiShedhaH shuddharaktasya stamBanam (8-9) · Śloka 9
|
आश्नतो बलिनोऽशुद्धं न धार्यं तद्धि रोगकृत्||८||
धारयेदन्यथा शीघ्रमग्निवच्छीघ्रकारि तत्|
|९|
स०-बलिनो नरस्याश्नतो रक्तमशुद्धं-दुष्टं, न धार्यं-न स्तम्भनीयम्| तद्धि ग़ृतं सिराव्यधविध्युक्तान् विसर्पविद्रधिप्लीहादीन् रोगान् करोति| अन्यथा-विधिविपर्यये सति दुर्बलस्याभोजनस्य च, शीघ्रं धारयेत्| यस्मादग्निवच्छीघ्रं मरणकारि तत्-रक्तमस्तम्भितं, स्यात्|
Adhikarana virecanauShadham (9-10) · Śloka 10
|
त्रिवृच्छ्यामाकषायेण कल्केन च सशर्करम्||९||
साधयेद्विधिवल्लेहं लिह्यात्पाणितलं ततः|
|१०|
स०-त्रिवृता-शुक्लगोपीत्युच्यते| श्मामा-मालविका त्रिवृदुच्यते| तयोः कषायेण तथा तयोरेव [कल्केन] मात्रामाश्रित्यैतदुक्तम्| अत्र च कण्टकारिकालेहवत् (हृ.चि.अ.३/६२) क्वाथकल्कशर्कराणां परिमाणं वेद्यमिति वृद्धवैद्यव्यवहारः|
Adhikarana virecanAntaradvayam (10-11) · Śloka 11
|
त्रिवृता त्रिफला श्यामा पिप्पली शर्करा मधु||१०||
मोदकः सन्निपातोर्ध्वरक्तशोफज्वरापहः|
त्रिवृत्समसिता तद्वत् पिप्पलीपादसंयुता||११||
स०-तथा त्रिवृतादिभिर्मोदको-वटकः| शर्करापरिमाणं च पद्मकाद्यचूर्णवदवबोध्यम्| स च मोदकः सन्निपातोर्ध्वरक्तशोफज्वरहृद्भवति| पूर्वोक्तस्य लेहस्य विषयनिर्देशादेव विषयो वेद्यः| त्रिवृत्समसिता पिप्पलीपादसंयुता तद्वत्-सन्निपातादि हृदित्यर्थः|
Adhikarana vamanapa~jcakam (12-13) · Śloka 13
वमनं फलसंयुक्तं तर्पणं ससितामधु|
ससितं वा जलं क्षौद्रयुक्तं वा मधुकोदकम्||१२||
क्षीरं वा रसमिक्षोर्वा|
|१३|
स०-मदनफलेन संयुक्तं तर्पणं सितामधुभ्यां सह वमने देयम्, वातकोपभयादित्यभिप्रायः| अथवा सशर्करं फल संयुक्तं, [अथवा] मधुकोदकमथवा क्षौद्रसंयुक्तं, अथवा क्षीरं, अथवेक्षुरसम्| सर्वमेतत् मदनफलसंयुक्तं पृथक् प्रत्येकं देयम्|
Adhikarana shuddhasya pathyam (13) · Śloka 13
शुद्धस्यानन्तरो विधिः|
यथास्वं मन्थपेयादिः प्रयोज्यो रक्षता बलम्||१३||
स०-ऊर्ध्व[ग]रक्तपित्तिनोऽधोगरक्तपित्तिनो वा यथाक्रमं विरेकवमनाभ्यां शुद्धस्यानन्तरं [यथास्वं-] यथायोगं यथाविधि, मन्थपेयादिः प्रयोक्तव्यः,-ऊर्ध्वगे मन्थादिरधोगे पेयादिरिति यथार्थः|
Adhikarana manthadvayam (14) · Śloka 14
मन्थो ज्वरोक्तो द्राक्षादिः, पित्तघ्नैर्वा फलैः कृतः|
|१४|
स०-मन्थो ज्वरोक्तो द्राक्षादिः-"द्राक्षामधूकमधुक" (हृ. चि. अ. १/५५) इत्यादिः| पित्तग़्नैर्वा-द्राक्षामलकक्राश्मर्यमधुकादिभिः, फलैः कृतः प्रयोक्तव्यः|
Adhikarana manthAntaradvayam (14-15) · Śloka 15
|
मधुख़र्जूरमृद्वीकापरूषकसिताम्भसा||१४||
मन्थो वा पञ्चसारेण सग़ृतैर्लाजसक्तुभिः|
दाडिमामलकाम्लो व मन्दाग्न्यम्लाभिलाषिणाम्||१५||
स०-अथवा मध्वादिना द्रव्यपञ्चकेन कृतेन पञ्चसाराख़्येन लाजसक्तुभिः ससर्पिष्कैर्मन्थो हितः| मन्दाग्नीनामम्लाभिलाषिणां च दाडिमामलकाभ्यामम्लश्च मन्थः प्रयोक्तव्यः| 'अधोगे प्राक्पेया प्रयोज्या' इत्युक्तम्| अतस्ता एव पेया ब्रूते-
Adhikarana peyAsaptakam (16-18) · Śloka 18
कमलोत्पलकिञ्जल्कपृश्निपर्णीप्रियङ्गुकाः|
उशीरं शाबरं रोध्रं शृङ्गबेरं कुचन्दनम्||१६||
हीवेरं धातकीपुष्पं बिल्वमध्यं दुरालभा|
अर्धार्धैर्विहिताः पेया वक्ष्यन्ते पादयौगिकाः||१७||
भूनिम्बसेव्यजलदा मसूराः पृश्निपर्ण्यपि|
विदारिगन्धा मुद्गाश्च बला सर्पिर्हरेणुकाः||१८||
स०-कमलोत्पलेत्यादिभिर्वर्गैरर्धश्लोकैः पेया विहिताः| पादयौगिका वक्ष्यन्ते| भूनिम्बसेव्येत्यादयः|
Adhikarana uktAnAM peyAnAM prakArAntaram,mAMsarasAH (19-20) · Śloka 20
जाङ्गलानि च मांसानि शीतवीर्याणि साधयेत्|
पृथकपृथग्जले तेषां यवागूः कल्पयेद्रसे||१९||
शीताः सशर्कराक्षौद्रास्तद्वन्मांसरसानपि|
ईषदम्लाननम्लान् वा घृतभृष्टान् सशर्करान्||२०||
स०-मांसानि जाङ्गलानि शीतवीर्याणी-शशादिसबन्धीनि, पूर्वोक्तपेयौषधानां पृथक्पृथग्जले साधयेत्| अनन्तरं तस्मिन् रसे यवागूः कल्पयेत्| कीदृशीः ? शीतास्तथा सशर्कराक्षौद्राः| तद्वदित्यनेन शीतत्वं मांसरसानामतिदिशति, न तु सशर्कराक्षौद्रत्वमपि, अयोगार्हत्वात्| अत एवाह-तान् मांसरसान् ईषदम्लानम्लाभिलाषिणः, अनम्लाभिलाषिणोऽनम्लानेव| तथा, घृतभृष्टान् सशर्करान्-शर्करायुक्तान्|
Adhikarana dhAnyAni shAkAni ca (21) · Śloka 21
शूकशिम्बीभवं धान्यं रक्ते शाकं च शस्यते|
अन्नस्वरूपविज्ञाने यदुक्तं लघु शीतलम्||२१||
स०-तथा, शूकशिम्बीजं, धान्यं शाकं च रक्तपित्ते शस्यते| अन्नस्वरूपविज्ञानीयेऽध्याये (सू.अ. ६) यदुक्तं लघु च शीतलं च|
Adhikarana pAnArthamudakam (22) · Śloka 22
पूर्वोक्तमम्बु पानीयं पञ्चमूलेन वा शृतम्|
लघुना शृतशीतं वा मध्वम्भो वा फलाम्बु वा||२२||
स०-पूर्वोक्तमम्बु-षडङ्गं शुण्ठीरहितं, पानीयं-पातव्यम्| अथवा लघुना पञ्चमूलेन शृतम्| पानीयस्य श्रपणे तन्त्रकारैर्विधिरुक्तः| यथा-"कर्षं गृहीत्वा द्रव्यस्य क्वाथयेत्प्रास्थिकेऽम्भसि| अर्धशृतं प्रयोक्तव्यं जलपाके त्वयं विधिः||" इति| केवलं वा जलं शृतशीतं हितम्| मध्वम्भो-माक्षिकयुक्तं पानीयम्| फलाम्बु वा-द्राक्षाभिर्वा पित्तघ्नैः फलैः कृतम्|
Adhikarana vibaddhe mAMsarasatrayam (23) · Śloka 23
शशः सवास्तुकः शस्तो विबन्धे|
|२३|
स०-शशः-शशस्य मांसं, सहवास्तुकेन विड्विबन्धे सति रक्तपित्तिनः शस्तः|
Adhikarana mArutAdhike mAMsarasatrayam (23-24) · Śloka 24
तित्तिरिः पुनः|
उदुम्बरस्य निर्यूहे साधितो मारुतेऽधिके||२३||
प्लक्षस्य बर्हिणस्तद्वन्न्यग्रोधस्य च कुक्कुटः|
|२४|
स०-तित्तिरिस्तु मारुतेऽधिक उदुम्बरस्य क्वाथे साधितः शस्तः| प्लक्षस्य क्वाथे साधितो बर्हिणो-मयूरः, तद्वत्-मारुतेऽधिके शस्तः| बर्हिण इति "फलबर्हाभ्यामिनच्|" तथैवन्यग्रोधस्य निर्यूहे कुक्कुटः शस्तः| उदुम्बरादिक्वाथसाधनं तित्थिर्यादीनामौष्ण्यं प्रतिहन्तुम्|
Adhikarana varjanIyam (24) · Śloka 24
|
यत्किञ्चिद्रक्तपित्तस्य निदानं तच्च वर्जयेत्||२४||
स०-यत्किञ्चिद्रक्तपित्तस्य कारणं-येन सेवितेन तज्जातं, तच्च वर्जयेत्-परिहरेत्|
Adhikarana shamanauShadhatrayam (25-26) · Śloka 26
वासारसेन फलिनीमृद्गोध्राञ्जनमाक्षीकम्|
पित्तासृक् शमयेत्पीतं, निर्यासो वाऽटरूषकात्||२५||
शर्करामधुसंयुक्तः केवलो वा, शृतोऽपि वा|
वृषः सद्यो जयत्यस्रं, स ह्यस्य परमौषधम्||२६||
सं-वासकस्य रसेन फलिन्यादिकं पीतं रक्तपित्तं शमयति| अथवा, अटरूषकस्य रसः शर्करामधुयुक्तः पीतो रक्तपित्तं जयेत्| अथवा केवलो वासारसः| अथवा क्वथितो वृषः शीघ्रं रक्तं जयेत्| स वृषो यस्मादस्य-रक्तस्य, परमौषधम्|
Adhikarana kvAthatrayam (27-28) · Śloka 28
पटोलमालतीनिम्बचन्दनद्वयपद्मकम्|
रोध्रो वृषस्तन्दुलीयः कृष्णा मृन्मदयन्तिका||२७||
शतावरी गोपकन्या काकोल्यौ मधुयष्टिका|
रक्तपित्तहराः क्वाथास्त्रयः समधुशर्कराः||२८||
स०-पटोलादयोऽर्धश्लोकास्त्रयः क्वाथा मधुशर्करायुता रक्तपित्तं जयन्तीति योज्यम्| अत्र च वासक आर्द्रोऽपि द्विगुणो न योज्यः| एवं ह्युक्तं तन्त्रान्तरे-"वासाकुटजकूष्माण्डशतपुष्पासहाचराः| नित्यमार्द्राः प्रयोक्तव्यास्तथाऽपि द्विगुणा न ते||" इति|
Adhikarana kvAthAntaram lehaH (29) · Śloka 29
पलाशवल्कक्वाथो वा सुशीतः शर्करान्वितः|
लिह्याद्वा मधुसर्पिभ्यां गवाश्वशकृतो रसम्||२९||
स०-अथवा पलाशत्वक्क्वाथः शीतः शर्करायुतः पूर्वोक्तगुणः| अथवा मधुसर्पिभ्यां गवाश्वशकृतो रसं पिबेत्| गवाश्चेति "अवड् स्फोटायनस्य" इत्यवङादेशः|
Adhikarana grathite rakte lehaH (30) · Śloka 30
सक्षौद्गं ग्रथिते रक्ते लिह्यात्पारावताच्छकृत्|
|३०|
स०-ग्रथिते-ग्रन्थिमति, रक्तपित्ते पारावतस्य शकृत् क्षौद्गेण सह लिह्यात्|
Adhikarana atiyoge rUdhirapAnam atiyoge yakRuBakShaNam (30-31) · Śloka 31
|
अतिनिः स्रुतरक्तश्च क्षौद्गेण रुधिरं पिबेत्||३०||
जाङ्गलं, भक्षयेद्वाऽऽजमामं पित्तयुतं यकृत्|
|३१|
स०-अतिनिःस्रुतरक्तश्च जाङ्गलं रक्तं क्षौद्गेण सह पिबेत्| आजं यकृदपक्वं पित्तयुतं भक्षयेत्|
Adhikarana atiyoge shItakaShAyaH (31-32) · Śloka 32
|
चन्दनोशीरजलदलाजमुद्गकणायवैः||३१||
बलाजले पर्युषितैः कषायो रक्तपित्तहा|
|३२|
स०-चन्दानादिभिर्बलाजले पर्युषितैः कषायो रक्तपित्तजित्|
Adhikarana atiyoge shItakaShAyAntaradvayam (32-34) · Śloka 34
|
प्रसादश्चन्दनाम्भोजसेव्यमृद्भृष्टलोष्टजः||३२||
सुशीतः ससिताक्षौद्रः शोणितातिप्रवृत्तिजित्|
आपोथ्य वा नवे कुम्भे प्लावयेदिक्षुगण्डिकाः||३३||
स्थितं तद्गुप्तमाकाशे रात्रिं प्रातः स्रुतं जलम्|
मधुमद्विकचाम्भोजकृतोत्तंसं च तद्गुणम्||३४||
स०-चन्दनादिजः प्रसाद सुशीतः शर्करामाक्षिकाभ्यां सह रक्तस्यातिप्रवृत्तिं जयेत्|सं-इक्षुगण्डिका आपोथ्य भृशमादौ सङ्कुट्य जले प्लावयेत्| नवे कुम्भे रात्रिमाकाशे गुप्तं-कीटाद्युपहतं यथा न स्यात्तथा. स्थितं तत्-इक्षुगण्डिकाजलं, प्रातः स्रुतं समाक्षिकं विकसितपद्मेन कृतशेख़रं तद्गुणं-पूर्ववद्गुणमित्यर्थः|
Adhikarana pittajvaroktASca kaShAyAH (35) · Śloka 35
ये च पित्तज्वरे चोक्ताः कषायास्तांश्च योजयेत्|
|३५|
स०-पित्तज्वरे च ये कषाया उक्ताः-"शक्रयवाग़नम्| कटुका चेति सक्षौद्गा" (हृ. चि. अ. १/५२) इत्यादयः, तांश्च-कषायान्, अत्र योजयेत्|
Adhikarana jIrNaraktapittacikitsA CAgakShIraprayogaH,gavyakShIraprayogatrayam (35-38) · Śloka 38
|
कषायैर्विविधैरेभिर्दीप्तेऽग्नौ विजिते कफे||३५||
रक्तपित्तं न चेच्छाम्येत्तत्र वातोल्बणे पयः|
युञ्जयाच्छागं शृतं, तद्वद्गव्यं पञ्चगुणेऽम्भसि||३६||
पञ्चमूलेन लघुना शृतं वा ससितामधु|
जीवकर्षभकद्राक्षाबलागोक्षुरनागरैः||३७||
पृथक्पृथक्शृतं क्षीरं सघृतं सितयाऽथवा|
|३८|
स०-एभिर्विविधैः-नानाप्रकारैः कषायैः, अग्नौ दीप्ते कफे च विजिते सति यदि रक्तपित्तं न शाम्यति, तदा तत्र वातोल्बणे रक्तपित्ते सति पञ्चगुणेऽम्भसि शृतं छागं पयो युञ्जयात्| पञ्चगुणेऽम्भसि गव्यं क्षीरं क्वथितं तद्वत्-तेन छागेन समानगुणं, तच्च युञ्जयात्| अथवा लघुना पञ्चमूलेन शृतं गव्यं सशर्करामधु तद्गुणम्| तथा, जीवकर्षभकादिभिः पृथक् पृथक् शृतं सह घृतेनाथवा शर्करया सह तद्गुणम्|
Adhikarana mUtramArgage kShIram (38-39) · Śloka 39
|
गोकण्टकाभीरुशृतं पर्णिनीभिस्तथा पयः||३८||
हन्त्याशु रक्तं सरुजं विशेषान्मूत्रमार्गगम्|
|३९|
स०-गोकण्टकादिभिस्तथा [ पर्णिनीभिः-] शालिपर्णीपृश्निपर्णीमुद्गपर्णीमाषपर्णीभिः, शृतं शीघ्रमेव रक्तं सवेदनं हन्ति| विशेषेण मूत्रमार्गगतम्| विषेषग्रहणादन्यमार्गगमपि रक्तं हन्तीति द्योतयति|
Adhikarana viNmArgage kShIracatuShTayam (39-40) · Śloka 40
|
विण्मार्गगे विशेषेण हितं मोचरसेन तु||३९||
वटप्ररोहैः शुङ्गैर्वा शुण्ठ्युदीच्योत्पलैरपि|
|४०|
स०-विण्मार्गगे-गुदगते, रक्तपित्ते तु विशेषेण मोचरसेन शृतं क्षीरं हितम्| वटप्ररोहैर्वा शृतं क्षीरं, अथवा वटशुङ्गैः-प्रथमोद्भूतमुकुलितैः पल्लवप्रायैः, शुण्ठ्युदीच्योत्पलैर्वा शृतं पयो हितम्|
Adhikarana raktAkaShAyAH sapayaskAH (40) · Śloka 40
|
रक्तातिसारदुर्नामचिकित्सां चात्र कल्पयेत्||४०||
स०-रक्तशब्दस्यातिसारदुर्नाम्रोः सम्बन्धः| रक्तातिसारस्य रक्तार्शसश्च, या चिकित्सा तामत्र-रक्ते, योजयेत्|
Adhikarana pUrvoktakaShAyasiddhAni ghRutAni (41) · Śloka 41
पीत्वा कषायान् पयसा भुञ्जीत पयसैव च|
कषाययोगैरेभिर्वा विपक्वं पाययेद्धृतम्||४१||
स०-कषायान्-पूर्वोक्तान्, पयसा पीत्वा पयसैवाश्नियात्| स०-एतैर्वा कषायाख्यैर्योगैर्विपक्वं घृतं रक्तपित्तिनं पाययेत्|
Adhikarana vAsAghRutam (42-44) · Śloka 44
समूलमस्तकं क्षुण्णं वृषमष्टगुणेऽम्भसि|
पक्त्वाऽष्टांशावशेषेण घृतं तेन विपाचयेत्||४२||
तत्पुष्पगर्भं तच्छीतं सक्षौद्गं पित्तशोणितम्|
पित्तगुल्मज्वरश्वासकासहृद्रोगकामलाः||४३||
तिमिरभ्रमवीसर्पस्वरसादांश्च नाशयेत्|
|४४|
स०-मूलपल्लवादियुक्तं क्षुण्णं-चूर्णितं, वृषमष्टगुणे जले पक्त्वा तेन-आष्टाशावशेषेण क्वाथेन, घृतं विपाचयेत्| किम्भूतम् ? तत्पुष्पगर्भम्| तस्य-वृषस्य, पुष्पाणी गर्भः-कल्को, यस्य तदेवम्| तच्च शीतिभूतं क्षौद्गेण सह पित्तशोणितादीन्नाशयेत्|
Adhikarana palAshaghRutam trAyamANAghRutam (44-45) · Śloka 45
|
पलाशवृन्तस्वरसे तद्गर्भं च ग़ृतं पचेत्||४४||
सक्षौद्रं तच्च रक्तघ्नं, तथैव त्रायमाणया|
|४५|
स०-पलाशवृन्तानां स्वरसे तद्गर्भं-पलाशवृन्तकल्कं, ग़ृतं पचेत्| तच्च क्षौद्रेण सह रक्तघ्नं भवति| तद्वदेव त्रायमाणया शृतं रक्तपित्तघ्नम्|
Adhikarana raktapittavisheShe kShAracatuShTayam (45-46) · Śloka 46
|
रक्ते सपिच्छे सकफे ग्रथिते कण्ठमार्गगे||४५||
लिह्यान्माक्षिकसर्पिर्भ्यां क्षारमुत्पलनालजम्|
पृथक्पृथक् तथाऽम्भोजरेणुश्यामामधूकजम्||४६||
स०-रक्ते पिच्छावति, पिच्छा-शाल्मल्या रससदृशी, तथा सकफे, तथा ग्रथिते-ग्रन्थिसदृशे, तथा कण्ठमार्गगे सति, क्षारमुत्पलनालजं माक्षिकसर्पिर्भ्यां लिह्यात्| ननु, क्षारस्य तैक्ष्ण्यादिगुणयोगाद्रक्तपित्ते न युक्त उपयोगः| तत्कथमिह तमनुमेने तन्त्रकृत् ? ब्रूमः| उत्पलादीनि शीतस्वभावानि| तत्समुत्थश्च क्षारः सयोनिमनुकरोति| तथा चोक्तम् (हृ.शा.अ. १/४)- "कारणानुविधायित्वाकार्याणां तत्स्वभावता|" इति| क्षारस्वरूपं च विष्यन्दनात्मकं धत्ते| तदेवं कण्ठमार्गगस्य कफानुबन्धस्य ग्रथितस्य रक्तस्य क्षारो घृतमाक्षिकाभ्यां संयुक्तो विष्यन्दनपूर्वं शोधयत्येव, न तु तस्य कोपाय स्यादिति युक्तोऽत्र क्षारोपयोगः| अम्भोजरेण्वादिजं च पृथक् पृथक् तथा माक्षिकघृताभ्यां लिह्यात्|
Adhikarana gudapravRutte rakte bastiH (47) · Śloka 47
गुदागमे विशेषेण शोणिते बस्तिरिष्यते|
|४७|
स०-गुदागमे रक्ते विशेषेण बस्तिरिष्यते|
Adhikarana ghrANapravRutte rakte nasyam (47-49) · Śloka 49
|
घ्राणगे रुधिरे शुद्धे नावनं चानुषेचयेत्||४७||
कषाययोगान् पूर्वोक्तान् क्षीरेक्ष्वादिरसाप्लुतान्|
क्षीरादीन्ससितांस्तोयं केवलं वा जलं हितम्||४८||
रसो दाडिमपुष्पाणामाम्रास्थ्नः शाड्वलस्य वा|
|४९|
स०-घ्राणगे रुधिरे शुद्धे सति नावनमनुषेचयेत्-नस्यं दद्यात्| कषाययोगान् पूर्वोक्तान्-वासकादीन्, घ्राणगेऽनुषेचयेत्| किम्भूतान्? क्षीरेक्ष्वादिरसेनाप्लुतान्-सद्रवान्| आदिशब्देन मांसरसघृतादि गृह्यते| क्षीरादीन् वा सशर्करान् दद्यात्| तथा तोयमर्थात्ससितं, वा केवलं जलं हितमिति| तथा दाडिमपुष्पाणां रसः, तथा चूतफलास्थ्नः, तथा दूर्वाया रसो, नस्यं पृथक्पृथक् हितम्|
Adhikarana pradehABya~jjanAdayaH (49) · Śloka 49
|
कल्पयेच्छीतवर्गं च प्रदेहाभ्यञ्जनादिषु||४९||
स०-शीतवीर्यवर्गं च प्रलेपाभ्यञ्जनादिषु कल्पयेत्|
Adhikarana pittajvarauShadhaM kShatakShINauShadhaM ca raktapitte hitam (2) · Śloka 2
यच्च पित्तज्वरे प्रोक्तं बहिरन्तश्च भेषजम्|
रक्तपित्ते हितं तच्च क्षतक्षीणे हितं च यत्||५०||
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचिता- यामष्टाङ्गहृदयसंहितायां चतुर्थे चिकित्सित स्थाने रक्तपित्तचिकित्सितं नाम द्वितीयोऽध्यायः||२||
स०-यच्च पित्तज्वरेऽभिहितमौषधं बहिरन्तरे, तच्च रक्तपित्ते हितम्| तथा, यच्च क्षते क्षीणे च हितं तदपि रक्तपित्ते हितमिति| इति श्रीमृगाङ्कदत्तपुत्रश्रीमदरुणदत्तविरचितायामष्टाङ्गहृदयटी- कायां सर्वाङ्गसुन्दराख़्यायां चतुर्थे चिकित्सितस्थाने रक्तपित्तचिकित्सितं नाम द्वितीया- ध्यायः समाप्तः|| २||