Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

16. pāṇḍurōgacikitsitādhyāyaḥ

Adhikarana adhyAyopakramaH · Śloka

🔊 Audio coming soon

अस्मादनन्तरं पाण्डुरोगचिकित्सितं व्याख़्यातुमुपक्रम्यते| सम्बन्धश्चास्य निदान एवोक्तः|

Adhikarana pANDurogacikitsitAdhyAyaH pANDuroge Adau kalyANakA sarpiH pAnam (2-1) · Śloka 1

अथातः पाण्डुरोगचिकित्सितं व्याख़्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः| (गद्यसूत्रे|२| ) पाण्ड्वामयी पिबेत्सर्पिरादौ कल्याणकाह्वयम्| पञ्चगव्यं महातिक्तं शृतं वाऽऽरग्वधादिना||१||

🔊 Audio coming soon

स०-पाण्ड्वातुरः कल्याणकाख्यं (हृ. उ. अ. ६|२७) , सर्पिरादौ पिबेत्| आदावित्यनेनैतद्गमयति,-अस्मिन् व्याधौ प्राधान्येन पित्तचिकित्सा कार्या, तदनु वातकफयोः| तथा च पित्तस्यैवैतद्व्याधिकर्तृत्वे प्राधान्यम्| अत एव च निदानेऽध्यगीष्ट (हृ. नि. अ. १३|१)- "पित्तपधानाः कुपिताः" इत्यादि| तस्मात् पित्तस्योपशान्त्यै सर्पिःपानं युक्तम्| पञ्चगव्यं घृतं-अपस्मारप्रतिषेधोक्तम् (हृ. उ. अ. ७|२०)| महातिक्तं-कुष्ठचिकित्सितोक्तम् (हृ. चि. अ. १९|८)| आरग्वधादिगणेन (हृ. सू. अ. १५|१७) वा पक्वं घृतं पिबेत्|

Adhikarana pANDuroge dADimAdisiddhaM ghRutam pANDurogesnehite vamanam (2-4) · Śloka 4

दाडिमात्कुडवो धान्यात्कुडवार्धं पलं पलम्| चित्रकाच्छृङ्गबेराच्च पिप्पल्यर्धपलं च तैः||२|| कल्कितैर्विंशतिपलं घृतस्य सलिलाढके| सिद्धं हृत्पाण्डुगुल्मार्शःप्लीहवातकफार्तिनुत्||३|| दीपनं श्वासकासघ्नं मूढवातानुलोमनम्| दुःखप्रसविनीनां च बन्ध्यानां च प्रशस्यते||४||

🔊 Audio coming soon

स०-दाडिमस्य कुडवम्, धान्यकात्कुडवार्धम्, चित्रकशुण्ठ्योः प्रत्येकं पलम्, पिप्पल्या द्वौ कर्षौ, तैः पिष्ठैर्घृतस्य पलानि विंशतिं तोयाढके पचेत्| तच्च सिद्धं हृदयाद्यर्तिजित्, दीपनादिगुणयुक्तं च| दुःखप्रसविनीनां स्त्रीणां वन्ध्यानां-अप्रसविनीनां च, शस्यते|

Adhikarana pANDurogepunaH snigdhe virecanam (5) · Śloka 5

स्नेहितं वामयेत्तीक्ष्णैः पुनः स्निग्धं च शोधयेत्| पयसा मूत्रयुक्तेन बहुशः केवलेन वा||५||

🔊 Audio coming soon

स०-स्नेहितं पाण्डुरोगिणं तीक्ष्णैर्वामयेत्| पुनरपि स्निग्धं च बहुशः क्षीरेण शोधयेत्| केवलेन वा पयसा शोधयेत्|

Adhikarana pANDurogedantIPalAsAdayo virecanayogAH (6-7) · Śloka 7

दन्तीफलरसे कोष्णे काश्मर्याञ्जलिमासुतम्| द्राक्षाञ्जलिं वा मृदितं तत् पिबेत् पाण्डुरोगजित्||६|| मूत्रेण पिष्टां पथ्यां वा तत्सिद्धं वा फलत्रयम्| |७|

🔊 Audio coming soon

स०-दन्तीफलरसे कोष्णे काश्मर्याञ्जलिमासुतं पिबेत्, तदेतदुभयमपि पाण्डुरोगघ्नम्| गोमूत्रेण पिष्टां हरितकीं वा पिबेत्| तेन-गोमूत्रेण, सिद्धं-क्वथितं, फलत्रयं वा पिबेत्|

Adhikarana pANDurogesvarNakShIryAdayaH (7-8) · Śloka 8

| स्वर्णक्षीरीत्रिवृच्छ्यामाभद्रदारुमहौषधम्||७|| गोमूत्राञ्जलिना पिष्टं श्रृतं तेनैव वा पिबेत्| साधितं क्षीरमेभिर्वा पिबेद्दोषानुलोमनम्||८||

🔊 Audio coming soon

स०-स्वर्णक्षीर्यादिकं गोमूत्राञ्जलिना पिष्टमथवा तेनैव-गोमूत्रेण, श्रृतं पिबेत्| एभिर्वा स्वर्णक्षीर्यादिभिर्द्रव्यैः क्षीरं साधितं दोषानुलोमकरं पिबेत्|

Adhikarana pANDurogegomUtraBAvitamayorajaH (9) · Śloka 9

मूत्रे स्थितं वा सप्ताहं पयसाऽयोरजः पिबेत्| जीर्णे क्षीरेण भुञ्जीत रसेन मधुरेण वा||९||

🔊 Audio coming soon

स०-गोमूत्रे सप्ताहं स्थितं लोहचूर्णं क्षीरेण पिबेत्| जीर्णे तस्मिन् दुग्धेन सहान्नं भुञ्जीत| मांसरसेन वा मधुरेण-न त्वम्लेन|

Adhikarana pANDuroge shodhite pathyA (10) · Śloka 10

शुद्धश्चोभयतो लिह्यात्पथ्यां मधुघृतद्रुताम्| |१०|

🔊 Audio coming soon

स०-शुद्धश्चोभयतः-पायुतो मूर्धतश्च, हरीतकीं मध्घृतद्रुतां लिह्यात्|

Adhikarana pANDuroge vishAlAdi cUrNam (10-12) · Śloka 12

| विशालाकटुकामुस्ताकुष्ठदारुकलिङ्गकाः||१०|| कर्षांशा द्विपिचुर्मूर्वा कर्षार्धांशा घुणप्रिया| पीत्वा तच्चूर्णमम्भोभिः सुखैर्लिह्यात्ततो मधु||११|| पाण्डुरोगं ज्वरं दाहं कासं श्वासमरोचकम्| गुल्मानाहामवातांश्च रक्तपित्तं च तज्जयेत्||१२||

🔊 Audio coming soon

स०-विशालादय, षट् कर्षमात्राः, मूर्वा द्विकर्षप्रमाणा, अर्धकर्षद्घ्नी अतिविषा तदेतच्चूर्णं कोष्णाम्बुना पीत्वा माक्षिकं लिह्यात्| एतच्च पाण्डुरोगादीन् हन्ति|

Adhikarana pANDuroge vAsAdikvAthaH (13) · Śloka 13

वासागुडूचीत्रिफलाकट्वीभूनिम्बनिम्बहः| क्वाथः क्षौद्रयुतो हन्ति पाण्डुपित्तास्रकामलाः||१३||

🔊 Audio coming soon

स०-वासादिक्वाथो मधुयुतः पाण्ड्वादीन् हन्ति|

Adhikarana pANDuroge vyoShAdi cUrNam (14-15) · Śloka 15

व्योषाग्निवेल्लत्रिफलामुस्तैस्तुल्यमयोरजः| चूर्णितं तक्रमध्वाज्यकोष्णाम्भोभिः प्रयोजितम्||१४|| कामलापाण्डुहृद्रोगकुष्ठार्शोमेहनाशनम्| |१५|

🔊 Audio coming soon

स०-व्योषादिभिस्तुल्यमयोरजश्चूर्णितं तक्रादिभिरुपयोजितं कामलादिनाशनम्|

Adhikarana pANDuroge guDAdi guTikA (15-16) · Śloka 16

| गुडनागरमण्डूरतिलांशान् मानतः समान्||१५|| पिप्पलीद्विगुणान् दद्याद्गुटिकां पाण्डुरोगिणे| |१६|

🔊 Audio coming soon

स०-गुडादिकान् समभागान् पिप्पलीद्विगुणानिमां गुटिकां पाण्डुरोगिणे दद्यात्|

Adhikarana pANDuroge maNDUravaTakAH (16-20) · Śloka 20

| ताप्यं दार्व्यास्त्वचं चव्यं ग्रन्थिकं देवदारु च||१६|| व्योषादिनवकं चैतच्चूर्णयेद् द्विगुणं ततः| मण्डूरं चाञ्जननिभं सर्वतोऽष्टगुणेऽथ तत्||१७|| पृथग्विपक्वे गोमूत्रे वटकीकरणक्षमे| प्रक्षिप्य वटकान् कुर्यात्तान् ख़ादेत्तक्रभोजनः||१८|| एते मण्डूरवटकाः प्राणदाः पाण्डुरोगिणां| कुष्ठान्यजरकं शोफमूरुस्तम्भरोचकम्||१९|| अर्शांसि कामलां मेहान् प्लीहानं शमयन्ति च| |२०|

🔊 Audio coming soon

स०-ताप्यादिकं व्योषादिनवकं च-पूर्वोक्तं, चूर्णयेत्| ततः-तेभ्यो, द्विगुणं मण्डूरमञ्जनसदृशं सर्वेभ्योऽष्टगुणे मूत्रे पृथक् विपक्वे च वटकीकरणक्षमे-घने सति, प्रक्षिप्य वटकान् कुर्यात्| तांश्च तक्रप्रधानभोजनः सन् प्राश्र्नीयात्| एते मण्डूरवटकाः पाण्ड्वामयिनां प्राणादास्तथा कुष्ठादीन् घ्नन्ति|

Adhikarana pANDuroge tApyAdicUrNam (20-23) · Śloka 23

| ताप्याद्रिजतुरौप्यायोमलाः पञ्चपलाः पृथक्||२०|| चित्रकत्रिफलाव्योषविडङ्गैः पालिकैः सह| शर्कराष्टपलोन्मिश्राश्चूर्णिता मधुना द्रुताः||२१|| पाण्डुरोगं विषं कासं यक्ष्माणं विषमं ज्वरम्| कुष्ठान्यजरकं मेहं शोफं श्वासमरोचकम्||२२|| विशेषाद्धन्त्यपस्मारं कामलां गुदजानि च| |२३|

🔊 Audio coming soon

स०-ताप्यादयः पृथक् पञ्चपलाश्चित्रकादिभिः पालिकैः सह शर्कराष्टपलयुताश्चूर्णीकृता मधुना द्रवीकृताः पाण्डुरोगादीन् घ्नन्ति| विशेषेणापस्मारादींश्च|

Adhikarana pANDuroge kauTajAdiguDAH (23-29) · Śloka 29

| कौटजत्रिफलानिम्बपटोलघननागरैः||२३|| भावितानि दशाहानि रसैर्द्वित्रिगुणानि वा| शिलाजतुपलान्यष्टौ तावती सितशर्करा||२४|| त्वक्ऽऽक्षीरीपिप्पलीधात्रीकर्कटाख्याः पलोन्मिताः| निदिग्ध्याः फलमूलाभ्यां पलं युक्त्या त्रिजातकम्||२५|| मधुत्रिपलसंयुक्तान् कुर्यादक्षसमान् गुडान्| दाडिमाम्बुपयः पक्षिरसतोयसुरासवान्||२६|| तान् भक्षयित्वाऽनु पिबेन्निरन्नो भुक्त एव वा| पाण्डुकुष्ठज्वरप्लीहतमकार्शोभगन्दरम्||२७|| हृन्मूत्रपूतिशुक्राग्निदोषशोषगरोदरम्| कासासृग्दरपित्तासृक्शोफगुल्मगलामयान्||२८|| मेहवर्ध्मभ्रमान् हन्युः सर्वदोषहराः शिवाः| |२९|

🔊 Audio coming soon

स०-काटजादिभिर्द्रव्यै रसैः-रसतां गतः, क्वाथीकृतैरित्यर्थः| शिलाजतुपलान्यष्टौ दशाहानि द्विगुणानि त्रिगुणानि वा भावितानि| अहःशब्दो वारोपलक्षणार्थः| तदयमात्रार्थोऽवतिष्ठते,-शिलाजतुपलाष्टकं केवलं जलधौतं कौटजादिकं तत्तुल्यमष्टगुणिते जले क्वथितं ततोऽष्टभागावशेषरसं गृहीत्वा तेन रसेन दश वारान् द्विगुणान् त्रिगुणान् वा भावयेदिति| तावती-अष्टपलप्रमाणा सितशर्करा, त्वक्क्षीर्यादिकं पलोन्मितं कण्टकार्याः फलमूलयोः पलम्| त्रिजातकं युक्त्या-यावता त्रिजातकेनातिसौगन्ध्यं हीनसौगन्ध्यं वा न स्यात्, एवं न हीनमात्रमत्रैतद्देयमव्यापकत्वात्, न वाऽतिमात्रमप्यतिव्यापकत्वेनायोगार्हत्वात्| मधुनस्त्रिभिः पलैः संयुक्तान् कार्षिकान् गुडान् विदध्यात्| तान् गुडान् भक्षयित्वाऽनु-पश्चात्, दाडिमजलादीनि यथायोगं पिबेत् निरन्नः कृताहारो वा| ते च वटकाः पाण्ड्वादीन् हन्युः| सर्वदोषहराः शिवाश्च स्युः|

Adhikarana pANDuroge drAkShAdilehaH (29-31) · Śloka 31

| द्राक्षाप्रस्थं कणाप्रम्थं शर्करार्धतुलां तथा||२९|| द्विपलं मधुकं शुण्ठीं त्वक्षीरीं च विचूर्णितम्| धात्रीफलरसद्रोणे तत्क्षिप्त्वा लेहवत्पचेत्||३०|| शीतान्मधुप्रस्थयुताद् लिह्यात्पाणितलं ततः| हलीमकं पाण्डुरोगं कामलां च नियच्छति||३१||

🔊 Audio coming soon

स०-द्राक्षायाः षोडशपलानि पिप्पल्याश्च| शर्करायाः पलानि पञ्चशत्| यष्ठ्यादिकं रजीकृतं द्विपलप्रमाणम्| धात्रीफलरसस्य द्रोणे सर्वमेतत्क्षिप्त्वा लेहमिव पचेत्| तस्माल्लेहाच्छीतात्सतो मधुनः प्रस्थयुतात् पाणितलं-कर्षमात्रं, लिह्यात्| स च लेहो हलीमकादीन्नियच्छति-पराकरोति|

Adhikarana pANDuroge pAnaBojane hRusvapa~jjamUlajalam pANDuroge kAmAlAyAM hRusvadrakShAmalakarasaH (32) · Śloka 32

कनीयःपञ्चमूलाम्बु शस्यते पानभोजने| पाण्डूनां, कामलार्तानां मृद्वीकामलकाद्रसः||३२||

🔊 Audio coming soon

स०-पाने भोजने च शस्यते ह्रस्वपञ्चमूलजम्| मृद्वीकारस आमलकरसश्च पाण्डुरोगिणां कामलार्तानां च शस्यते|

Adhikarana pANDuroge sAmAnyamauShadham (33) · Śloka 33

इति सामान्यतः प्रोक्तं पाण्डुरोगे भिषग्ऽऽजितम्| विकल्प्य योज्यं विदुषा पृथग्दोषबलं प्रति||३३||

🔊 Audio coming soon

स०-इति-एवं, पाण्डुरोगे सामान्येन भिषगजितं-औषधं, प्रोक्तम्| भिषज्धातुः कण्ड्वादौ भिषज्यते स्मक्तः भिषग्जितम्| तदभिज्ञेन वैद्येन विकल्प्य-निरूप्य, पृथग्दोषबलं लक्षणीकृत्य योज्यम्|

Adhikarana pANDuroge vAtaje snehaprAyam pANDuroge pittaje tiktashItam pANDuroge kaPaje kaTurUkShoShNam pANDuroge tridoShaje miSram (34) · Śloka 34

स्नेहप्रायं पवनजे तिक्तशीतं तु पैत्तिके| श्लैष्मिके कटुरूक्षोष्णं विमिश्रं सान्निपातिके||३४||

🔊 Audio coming soon

स०-पवनजे पाण्डौ स्नेहप्रायं-स्नेहभूयिष्ठं, भेषजम्| तिक्तशीतप्रायं तु पैत्तिके| श्लैष्मिके तु कटुरूक्षोष्णभूयिष्ठम्| सन्निपातिके विमिश्रं चिकित्सितम्|

Adhikarana pANDuroge mRuttikAje tIkShNaM virecanam pANDuroge mRutti shuddhakoShThe ghRutani (35) · Śloka 35

मृदं निर्यापयेत्कायात्तीक्ष्णैः संशोधनैः पुरः| बलाधानानि सर्पींषि शुद्धे कोष्ठे तु योजयेत्||३५||

🔊 Audio coming soon

स०-कायात्-शरीरात्, मृदं-शल्यभूतस्थितां, तीक्ष्णैः संशोधनैः-स्नुहीक्षीरादिभिः, निर्हरेत् पुरः-पूर्वम्| शुद्धे तु कोष्ठे बलाधानानि घृतानि योजयेत्| तान्येवाह-

Adhikarana pANDuroge mRuttikAje vyoShAdighRutam (36-37) · Śloka 37

व्योषबिल्वद्विरजनीत्रिफलाद्विपुनर्नवम्| मुस्तान्ययोरजः पाठा विडङ्गं देवदारु च||३६|| वृश्चिकाली च भार्गी च सक्षीरेस्तैः शृतं घृतम्| सर्वान् प्रशमयत्याशु विकारान् मृत्तिकाकृतान्||३७||

🔊 Audio coming soon

स०-व्योषादिभिर्घृताच्चतुर्थांशैह् शृतानि समेन क्षीरेण तच्चतुर्गुणजलेन घृतं सर्वान् विकारान् मृत्तिकाकृतान् शमयति|

Adhikarana pANDuroge mRuttikAje kesarAdi ghRutam (38) · Śloka 38

तद्वत्केसरयष्ट्याह्वपिप्पलीक्षीरशाड्वलैः| |३८|

🔊 Audio coming soon

स०-केसरादिभिः पक्वं सर्पिस्तद्वत्-पूर्वगुणम्|

Adhikarana pANDuroge mRuddheShaNaya vellAdiBAvitA mRut (38-39) · Śloka 39

| मृद्द्वेषणाय तल्लोल्ये वितरेद्भावितां मृदम्||३८|| वेल्लाग्निनिम्बप्रसवैः पाठया मूर्वयाऽथवा| |३९|

🔊 Audio coming soon

स०-मृद्द्वेषणार्थे तस्यां मृदि लौल्ये-लोलुपत्वे सति, वेल्लादिभिर्भावितां मृदं दद्यात्|

Adhikarana pANDuroge mRuddhedoShAnunugamAdBeShajam (39) · Śloka 39

| मृद्भेदभिन्नदोषानुगमाद्योज्यं च भेषजम्||३९||

🔊 Audio coming soon

स०-मृदो भेदो-विशेषः कृष्णपाण्डुरादिः, तेन भिन्नो-विशेषितो, यो दोषस्तस्य वातादेर्ज्ञानात्| "मृत्कषायाऽनिलं पित्तमूषरा मधुरा कफम्| दूषयित्वा" (हृ. नि. अ. १३|१३) एवं लक्षणाद्दोषानुगमद्भेषजं योज्यम्| नैवमेव मृद्भक्षणमात्रविज्ञानेन मृन्निर्हरणौषधं चैतद्धेतुविपरीतमेवेत्यवेहि| यतो मृदा हेतुभूतया यः पाण्डुरोग उदभूत तस्य मृन्निर्हरणं विपरीतमेव|

Adhikarana pANDuroge kAmalAyAM pittaghnam (40) · Śloka 40

कामलायां तु पित्तघ्नं पाण्डुरोगाविरोधि यत्| |४०|

🔊 Audio coming soon

स०-कामलायां पित्तहरमौषधं यत् पाण्डुरोगाविरोधि तद्देयम्|

Adhikarana pANDuroge pathyAghRutam (40-41) · Śloka 41

| पथ्याशतरसे पथ्यावृन्तार्धशतकल्कितः||४०|| प्रस्थः सिद्धो घृताद्गुल्मकामलापाण्डुरोगनुत्| |४१|

🔊 Audio coming soon

स०-पथ्याशतक्वाथे पथ्यावृन्तञ्चाशत्कल्कीकृतो घृतप्रस्थः पक्वः कामलादिघ्नः|

Adhikarana pANDuroge AragvadhayogaH (41-42) · Śloka 42

| आरग्वधं रसेनेक्षोर्विदार्यामलकस्य वा||४१|| सत्र्यूषणं बिल्वमात्रं पाययेत्कामलापहम्| |४२|

🔊 Audio coming soon

स०-इक्षो रसेन विदार्या रसेनामलकरसेन वा सहत्रिकटुकं पलप्रमाणमारग्वधं कामलापहं पाययेत्|

Adhikarana pANDuroge dantIkalkaH pANDuroge dravantIcUrNam (42-43) · Śloka 43

| पिबेन्निकुम्भकल्कं वा द्विगुडं शीतवारिणा||४२|| कुम्भस्य चूर्णं सक्षौद्रं त्रैफलेन रसेन वा| |४३|

🔊 Audio coming soon

स०-निकुम्भकल्कं वा पलद्वयप्रमाणं शिशिरजलेन पिबेत्| कुम्भचूर्णं क्षौद्रसहितं वा त्रैफलेन क्वाथेन पिबेत्|

Adhikarana pANDuroge triPalAdirasaH (43-44) · Śloka 44

| त्रिफलाया गुडूच्या वा दार्व्या निम्बस्य वा रसम्||४३|| प्रातः प्रातर्मधुयुतं कामलार्ताय योजयेत्| |४४|

🔊 Audio coming soon

स०-त्रिफलाद्यन्यतमरसं मधुयुतं प्रातः कामलिने योजयेत्|

Adhikarana pANDuroge nishAdya~jjanam (44) · Śloka 44

| निशागैरिकधात्रीभिः कामलापहमञ्जनम्||४४||

🔊 Audio coming soon

स०-निशादिभिरञ्जनं कामलाहृत्|

Adhikarana pANDuroge tilapiShTaniBemale kaPaharam (45) · Śloka 45

तिलपिष्टनिभं यस्तु कामलावान् सृजेन्मलम्| कफरुद्धपथं तस्य पित्तं कफहरैर्जयेत्||४५||

🔊 Audio coming soon

स०-यः पुनः कामलावान् मलं तिलपिष्टसदृशं मुञ्चेत् तस्य कफरुद्धमार्गं तस्यातुरस्य कफघ्नैर्द्रव्यैः पित्तं जयेत्|

Adhikarana pANDuroge shAkhAshrayakAraNaM li~ggacikitsA ca (46-52) · Śloka 52

रूक्षशीतगुरुस्वादुव्यायामबलनिग्रहैः| कफसम्मूर्च्छितो वायुर्यदा पित्तं बहिः क्षिपेत्||४६|| हारिद्रनेत्रमूत्रत्वक्ऽऽश्वेतवर्चस्तदा नरः| भवेत्साटोपविष्टम्भो गुरुणा हृदयेन च||४७|| दौर्बल्याल्पाग्निपार्श्वार्तिहिध्माश्वासारुचिज्वरैः| क्रमेणाल्पेऽनुषज्येत पित्ते शाख़ासमाश्रिते||४८|| रसैस्तं रूक्षकट्वमलिः शिख़ितित्तिरिदक्षजैः| शुष्कमूलकजैर्यूषैः कुलत्थोत्थैश्च भोजयेत्||४९|| भृशाम्लतीक्ष्णकटुकलवणोष्णं च शस्यते| सबीजपूरकरसं लिह्याद्व्योषं तथाऽऽशयम्||५०|| स्वं पित्तमेति तेनास्य शकृदप्यनुरज्यते| वायुश्च याति प्रशमं सहाटोपाद्युपद्रवैः||५१|| निवृत्तोपद्रवस्यास्य कार्यः कामलिको विधिः| |५२|

🔊 Audio coming soon

स०-रूक्षादिभिः पवनः कुपितः कफेन मिश्रितो यदा पित्तं बहिः क्षिपेत् तदा हारिद्रनेत्रादिः पुरुषो भवेत् आटोपादिमांश्च| हृदयेन च गुरुणा युक्तः| दौर्बल्यादिभिः क्रमेण कुपितो वायुरल्पे पित्ते शाख़ासमाश्रितेऽनुषज्येत| अनुषज्येतेति कर्मकर्तरि| तं-तादृशं नरं, रसै रूक्षकट्वम्लैर्मयूरादिमांसजैस्तथा शुष्कमूलकोद्भवैर्यूषैस्तथा कुलत्थोत्थैर्भोजयेत्| भृशाम्लादिकं च भोजनं शस्यते| तथा बीजपूरकरससहितं व्योषं लिह्यात्| एवं कृते सत्यस्य पित्तं स्वमाशयमेति, शकृच्चानुरज्यते, वायुश्च प्रशमं यात्याटोपान्त्रकूजनादिभिरुपद्रवैः सह| अस्य-आतुरस्य, अपगतोपद्रवस्य सतः कामलाविहितो विधिः कार्यः|

Adhikarana kumBakamalAyAM shilAjatu kumBa mAkShikadhAtuH suvarNaM vA (52-53) · Śloka 53

| गोमूत्रेण पिबेत्कुम्भकामलायां शिलाजतु||५२|| मासं माक्षिकधातुं वा किट्टं वाऽथ हिरण्यजम्| |५३|

🔊 Audio coming soon

स०-कुम्भकामलायां गोमूत्रेणालोडितं शिलाजतु पिबेत्| धातुमाक्षिकं वा गोमूत्रेण आसं यावत् पिबेत्| हिरण्यजं [किट्टं]-रूप्योत्थं मलं वा, गोमूत्रेण पिबेत्|

Adhikarana halImake guDucIghRutena snehanam halItato trivRutayA viretayA virecatam halIvirikte madhuraM vAtapittandhaM cAdyAt halIdrAkShAleho madhuradhRutAni halIyApanAH kShIrabastayo sAnuvAsanAH halI agnivRuddhaye mArddhIkAriShTayogAH halIaBayAlehAdi sarvaM yathAdoShabalam (53-57) · Śloka 57

| गुडूचीस्वरसक्षीरसाधितेन हलीमकी||५३|| महिषीहविषा स्निग्धः पिबेद्धात्रीरसेन तु| त्रिवृतां तद्विरिक्तोऽद्यात्स्वादु पित्तानिलापहम्||५४|| द्राक्षालेहं च पूर्वोक्तं सर्पींषि मधुराणि च| यापनान् क्षीरबस्तींश्च शीलयेत्सानुवासनान्||५५|| मार्द्वीकारिष्टयोगांश्च पिबेद्युक्त्याऽग्निवृद्धये| कासिकं चाभयालेहं पिप्पलीं मधुकं बलाम्||५६|| पयसा च प्रयुञ्जीत यथा दोषं यथा बलम्| |५७|

🔊 Audio coming soon

स०-हलीमकवान् गुडूचीस्वरसक्षीरपक्वेन महिषीघृतेन स्निग्धः सन् त्रिवृतां धात्रीरसेन पिबेत्| गुडूचीस्वरसोऽत्र घृताच्चतुर्गुणः क्षीरं घृतसममिति पाकक्रमः| तया-त्रिवृतया, विरिक्ते सति मधुरं वातपित्तघ्नं चाद्यात्| प्रागुक्तं च द्राक्षालेहं (श्लो. २९) भक्षयेत्| मधुरद्रव्यसाधितानि घृतानि चाद्यात्| यापनान्-प्राणकारिणः (हृ. क. अ. ४|३७) , क्षीरबस्तींश्च शीलयेदनुवासनसहितान्| मार्द्वीकारिष्टयोगांश्च युक्त्या वह्निवृद्धये पिबेत्| अभयालेहं च-आगस्त्यं कासचिकित्सितोक्तं "प्रस्थोन्मिते यवक्वाथे विंशतिर्विजयाः" इत्यादि, शीलयेत्| क्षीरेण च पिप्पलीं मधुयष्टिकां बलां च प्रयुञ्जीत यथादोषाद्बलाच्च|

Adhikarana pANDurogeShu shophoktashca kriyAkramaH (16) · Śloka 16

| पाण्डुरोगेषु कुशलः शोफोक्तं च क्रियाक्रमम्||५७|| इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां चतुर्थे चिकित्सितस्थाने पाण्डुरोगचिकित्सितं नाम षोडशोऽध्यायः||१६||

🔊 Audio coming soon

स०-पाण्डुरोगेषु शोफचिकित्सितं(तोक्तं) च क्रियाक्रमं सुधीः प्रयुञ्जीत| इति श्रीमृगाङ्कदत्तपुत्रश्रीमदरुणदत्तविरचितायामष्टाङ्गहृदयटीकायां सर्वाङ्गसुन्दराख़्यायां चतुर्थे चिकित्सितस्थाने पाण्डुरोगचिकित्सितं नाम षोडशोऽध्यायः समाप्तः|| १६||