Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

17. śvayathucikitsitādhyāyaḥ

Adhikarana adhyAyopakramaH · Śloka

🔊 Audio coming soon

पाण्डुरोगचिकित्सितादनन्तरं शोफचिकित्सितं व्याख़्यातुं प्रक्रम्यते| सम्बन्धश्चास्य निदान एवोक्त इत्याह-

Adhikarana shvayathucikitsitAdhyAyaH shvvayathau purA vishoShaNam shvvayathau tato laghuBojanam shvvayathau nAgarAdicUrNam shvvayathau vijayAdicUrNam shvvayathau navAyasam shvvayathau doShaDhaye mUtraharItakI shvvayathau doShADhye kaTukAdicUrNam shvvayathau doShADhye gugguluH shilAjatu ca (2-4) · Śloka 4

अथातः श्वयथुचिकित्सितं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः| (गद्यसूत्रे||२|| ) सर्वत्र सर्वाङ्गसरे दोषजे श्वयथौ पुरा| सामे विशोषितो भुक्त्वा लघु कोष्णाम्भसा पिबेत्||१|| नागरातिविषादारुविडङ्गेन्द्रयवोषणम्| अथवा विजयाशुण्ठीदेवदारुपुनर्नवम्||२|| नवायसं वा दोषाढ्यः शुद्ध्यै मूत्रहरीतकीः| वराक्वाथेन कटुकाकुम्भायस्त्र्यूषणानि वा||३|| अथवा गुग्गुलुं तद्वज्जतु वा शैलसम्भवम्| |४|

🔊 Audio coming soon

स०-सर्वत्र दोषजे श्वयथौ सर्वाङ्गजे तथा सामे विशोषितः सन् लघु भुक्त्वा कोष्णेन जलेन नागरादि पिबेत्| विशोषणमत्रोपवासः| अथवा, विजयादीन् कोष्णाम्भसा पिबेत्| दोषबहुलो नवायसं-पाण्डुरोगोक्तं (हृ. चि. १६|१४) , पिबेत्| शुध्यर्थं गोमूत्रेण हरीतकीः शीलयेत्| त्रिफलाक्वाथेन सह कटुकात्रिवृतालोहचूर्णत्रिकटुकाणि शीलयेत्| गुग्गुलुं वा शिलाजतु वा त्रिफलाक्वाथेनैव शीलयेत्|

Adhikarana shvvayathau mandAgnau AmapurIShAdau ca sauvarcalAdi yuktaM takraM shvvayathau dandAguDABayA guDanAgaraM ca (4-5) · Śloka 5

| मन्दाग्निः शीलयेदामगुरुभिन्नविबद्धविट्||४|| तक्रं सौवर्चलव्योषक्षौद्रयुक्तं गुडाभयाम्| तक्रानुपानमथवा तद्वद्वा गुडनागरम्||५||

🔊 Audio coming soon

स०-मन्दाग्निरामगुरुभिन्नविबद्धविट् सन् तक्रं सौवर्चलादियुतं शीलयेत्| गुडयुतामभयां तक्रानुपानां वा| तथैव गुडनागरं तक्रानुपानं शीलयेत्|

Adhikarana shvvayathau mandAgnau samaguDArdrakasya mAsaM prayogaH (6-7) · Śloka 7

आर्द्रकं वा समगुडं प्रकुञ्चार्धविवर्धितम्| परं पञ्चपलं मासं यूषक्षीररसाशनः||६|| गुल्मोदरार्शःश्वयथुप्रमेहान् श्वासप्रतिश्यालसकाविपाकान्| सकामलाशोषमनोविकारान् कासं कफं चैव जयेत्प्रयोगः||७||

🔊 Audio coming soon

स०-आर्द्रकं वा तुल्यगुडं पलार्धेन प्रतिदिनं वर्धितं परं पञ्चपलं यावत्| एकस्मिन्नेव दिने पलपञ्चकप्रमाणं स्यात्, पुनरपि ह्रासयेदर्धपलं यावत्| एवं मासं यावदेष प्रयोगः| यथोचितं कफपित्तवाताधिको यूषादिभोजी स्यात्| एष च प्रयोगो गुल्मादींश्चतुर्दश कफान्तान् जयेत्|

Adhikarana shvvayathau mandAgnau ArdrakanAgaraghRutam (8) · Śloka 8

घृतमार्द्रकनागरस्य कल्क- स्वरसाभ्यां पयसा च साधयित्वा| श्वयथुक्षवथूदराग्निसादै- रभिभूतोऽपि पिबन् भवत्यरोगः||८||

🔊 Audio coming soon

स०-घृतमार्द्रकनागरस्य कल्कस्वरसाभ्यां पयसा च साधयित्वा-पक्त्वा, पिबन् शोफादिभिरभिभूतोऽपि निरामयः स्यात्| आर्द्रकनागरमार्द्रकमुच्यते| उपजात्यौपच्छन्दसिके वृत्ते|

Adhikarana shvvayathau nirAme baddhapurIShe trikaTvAdipayaH shvvayathau nirAme gomahiShImUtraM sakShIram shvvayathau nirAme uShTrakShIravartanaH (9-10) · Śloka 10

निरामो बद्धशमलः पिबेच्छ्वयथुपीडितः| त्रिकटुत्रिवृतादन्तीचित्रकैः साधितं पयः||९|| मूत्रं गोर्वा महिष्या वा सक्षीरं क्षीरभोजनः| सप्ताहं मासमथवा स्यादुष्ट्रक्षीरवर्तनः||१०||

🔊 Audio coming soon

स०-निरामो बद्धपुरीषः शोफार्तः सन् त्रिवृता (त्रिकट्वा)- दिभिः साधितं पयः पिबेत्| गोर्महिष्या वा सम्बन्धि मूत्रं स[क्षीरं] क्षीरभोजनः सन् पिबेत्| तथा, उष्ट्रक्षीरभोजनः पानाहाराभ्यां विना सप्ताहमथवा मासं स्यात्| उष्ट्रक्षीरवर्तन इत्यत्र "कुक्कुट्यादीनामण्डादिषु" पुंवद्भावो वक्तव्य इत्युष्ट्रीशब्दस्य पुंवद्भावः| केचिदुष्ट्रीक्षीरेति जगुः|

Adhikarana shvvayathau yavAnakAdighRutam (11-12) · Śloka 12

यवानकं यवक्षारं यवानीं पञ्चकोलकम्| मरिचं दाडिमं पाठां धान्यकामम्लवेतसम्||११|| बालबिल्वं च कर्षांशं साधयेत्सलिलाढके| तेन पक्वो घृतप्रस्थः शोफार्शोगुल्ममेहहा||१२||

🔊 Audio coming soon

स०-यवानकादि कर्षांशं जलाढके पचेत्| तेन-क्वाथेन, घृतप्रस्थः पक्वः शोफादिहा स्यात्| ब्रह्मादिशब्दस्य प्रायिकत्वाच्छोफादिशब्दोत्तरादपि हन्तेः क्विप्|

Adhikarana shvvayathau citrakadadhno ghRutaM shvvayathau citrakatakrasiddhaM ghRutam (13) · Śloka 13

दध्नश्चित्रकगर्भाद्वा घृतं तत्तक्रसंयुतम्| पक्वं सचित्रकं तद्वद्गुणैः|१३|

🔊 Audio coming soon

स०-चित्रकगर्भाद्दध्नः-चित्रकचूर्णमिश्रितात्क्षीराद्यज्जातं दधि तस्मान्मथ्यमानात्, तत्तक्रेण-चित्रकतक्रेण, संयुक्तं पक्वं तद्वत्-यवानकादिघृतसदृशं, गुणैः|

Adhikarana shvvayathau AsthAdoShAdyanusAreNadhAnvantarAdigutAni (13-14) · Śloka 14

| युञ्ज्याच्च कालवित्||१३|| धान्वन्तरं महातिक्तं कल्याणमभयाघृतम्| |१४|

🔊 Audio coming soon

स०-कालवित्-अवस्थादोषादिवित्, धान्वन्तरं (हृ. चि. अ. १२|१९) , महातिक्तं (हृ. चि. अ.१९/८) कल्याणकं (हृ. उ. अ.६/२७) अभयाघृतं (हृ. चि. अ. १५|२८) युञ्ज्यात्|

Adhikarana shvvayathau dashamUlaharItakyaH (14-16) · Śloka 16

| दशमूलकषायस्य कंसे पथ्याशतं पचेत्||१४|| दत्त्वा गुडतुलां तस्मिन् लेहे दद्याद्विचूर्णितम्| त्रिजातकं त्रिकटुकं किञ्चिच्च यवशूकजम्||१५|| प्रस्थार्धं च हिमे क्षौद्रात्तन्निहन्त्युपयोजितम्| प्रवृद्धशोफज्वरमेहगुल्म- कार्श्यामवाताम्लकरक्तपित्तम्| वैवर्ण्यमूत्रानिलशुक्रदोष- श्वासारुचिप्लीहगरोदरं च||१६||

🔊 Audio coming soon

स०-दशमूलकषायस्याढके पथ्याशतं पचेत्| अत्र च सामान्यपरिभाषया क्वाथ्यद्रव्यस्य च दशमूलस्य द्वात्रिंशत् पलानि भवन्ति| एवं च तन्त्रान्तरे विरोधः| तथा च तत्रैवं कथ्यते, (च. चि. अ. १२|५०)- "द्विपञ्चमूलस्य तुलाकषाये कंसेऽभयानां च शतं गुडाच्च|" इति| तदेवं विरोधं पश्यन्तो व्याख़्यामेवंविधां विद्वांसो विदधति,-दशमूलस्य तुला, तस्याः कषायो दशमूलकषाय इति| मयूरव्यंसकादित्वादुत्तरपदलोपि समासः| एवं दशमूलस्य पलशतं तत्क्वाथस्याढके पथ्याशतं पचेत्| गुडतुलां दत्त्वा तस्मिन् लेहे विचूर्णितं त्रिजातकादि दद्यात्| एतेषां च प्रमाणं वासिष्ठलेहवेत् (हृ. चि. अ. ३|१३३) कल्प्यम्| यवक्षारस्य कर्षमात्रं देयम्| तन्त्रान्तरे ह्युक्तम्-"व्योषाच्चतुष्पलं दद्यात्त्रिपलं त्रिसुगन्धतः| कर्षमात्रं यवक्षारात्" इति| शीते च सति माक्षिकात् प्रस्थार्धं देयम्| तत्-एतत्, उपयोजितं प्रवृद्धशोफादीन् हन्ति| ख़रनादस्तु जगाद-"दशमूलाढकमभयाशतसहितं पाचयेदपां द्रोणे| अवशेषितचतुरंशे तस्मिन् पुनः प्रक्षिपेत् पथ्याः||" इति| उपजातिवृत्तम्|

Adhikarana shvvayathau dashamUlasiddhaM purANayavashAlyannam shvvayathau kShAravyoShAnvitamudgAdiyUShAH shvvayathau jA~ggalAdimAMsarasAH shvvayathau anamlatakraM sauShadhaM madyaM ca pAne (17-19) · Śloka 19

| पुराणयवशाल्यन्नं दशमूलाम्बुसाधितम्||१७|| अल्पमल्पपटुस्नेहं भोजनं श्वयथोर्हितम्| क्षारव्योषान्वितैर्मौद्गैः कौलत्थैः सकणै रसैः||१८|| तथा जाङ्गलजैः कूर्मगोधाशल्यकजैरपि| अनम्लं मथितं पाने मद्यान्यौषधवन्ति च||१९||

🔊 Audio coming soon

स०-श्वयथोः पुराणयवादि दशमूलाक्वाथसाधितमल्पं तथाऽल्पलवणस्नेहं भोजनं हितम्| कैः सह ? मौद्गै रसैः| किम्भूतैः ? क्षारत्र्यूषणयुक्तैः| तथा कौलत्थै रसैः| किम्भूतैः ? सपिप्पलीकैः| तथा च मुनिः (च. चि. अ. १२|६२)- "कुलत्थयूषस्तु सपिप्पलीको मौद्गस्तु सत्र्यूषणयावशूकः| रसस्तथा जाङ्गलविष्किराणां सकूर्मगोधाशिख़िशल्लकानाम्||" इति| अत्र च शिख़िनो जाङ्गलविष्किरत्वेन गृहीता अपि पथ्यतरत्वप्रतिपादनार्थं पुनरुपात्ताः| तथाऽयमेव तन्त्रकृदष्टाङ्गावतारेऽध्यगीष्ट (?)-"दशमूलाम्भसा सिद्धैर्व्योषक्षाररजोन्वितैः| रसैर्जाङ्गलजैर्मौद्नैः कौलत्थैर्मौलकैरपि||" इति| तथेत्यादि| तथा जाङ्गलमांसजैस्तथा कच्छपादिजैश्च| पाने मथितमनम्लं मद्यानि च सौषधानि हितानि|

Adhikarana shvvayathau ajAjyAdikRutA peyA (20-21) · Śloka 21

अजाजीशठीजीवन्तीकारवीपौष्कराग्निकैः| बिल्वमध्ययवक्षारवृक्षाम्लैर्बदरोन्मितैः||२०|| कृता पेयाऽऽज्यतैलाभ्यां युक्तिभृष्टा परं हिता| शोफातिसारहृद्रोगगुल्मार्शोल्पाग्निमेहिनाम्||२१||

🔊 Audio coming soon

स०-अजाजीप्रभृतिभिः पेया घृततैलाभ्यां युक्त्या भॄष्टाऽतिशयेन शोफादिमतां हिता|

Adhikarana shvvayathau pAThAkRutA pa~jcakolakRutA ca peyA (22) · Śloka 22

गुणैस्तद्वच्च पाठायाः पञ्चकोलेन साधिता| |२२|

🔊 Audio coming soon

स०-पञ्चकोलेन साधिता पेया गुणैस्तद्वच्च-पूर्वोक्तगुणा| तथैव पाठायाः साधिता पेया स्यात्|

Adhikarana shvvayathau shaileyAdiBiraBya~jjanaM tailaM lepaM snAnodakaM ca (22-24) · Śloka 24

| शैलेयकुष्ठस्थौणेयरेणुकागुरुपद्मकैः||२२|| श्रीवेष्टकनख़स्पृक्कादेवदारुप्रियङ्गुभिः| मांसीमागाधिकावन्यधान्यध्यामकवालकैः||२३|| चतुर्जातकतालीसमुस्तागन्धपलाशकैः| कुर्यादभ्यञ्जनं तैलं लेपं स्नानाय तूदकम्||२४||

🔊 Audio coming soon

स०-तथा शैलेयादिभिरभ्यञ्जनं तैलं लेपं स्नानार्थमुदकं च कुर्यात्|

Adhikarana shvayathau nimbvAdijalena vA snAnam (25) · Śloka 25

स्नानं वा निम्बवर्षाभूनक्तमालार्कवारिणा| |२५|

🔊 Audio coming soon

स०-निम्बादिवारिणा च (वा) स्नानं कुर्यात्|

Adhikarana ekA~ggaje shvayathau varShABvAdilepaH (25-27) · Śloka 27

| एकाङ्गशोफे वर्षाभूकरवीरककिंशुकैः||२५|| विशालात्रिफलारोध्रनलिकादेवदारुभिः| हिंस्राकोशातकीमाद्रीतालपर्णीजयन्तिभिः||२६|| स्थूलकाकादनीशालनाकुलीवृषपर्णिभिः| वृध्द्यार्द्धिहस्तिकर्णैश्च सुख़ोष्णैर्लेपनं हितम्||२७||

🔊 Audio coming soon

स०-एकाङ्गजे शोफे पुनर्नवादिभिर्जलपिष्टैः सुख़ोष्णैर्लेपो हितः| इति सामान्येन श्वयथोरुपक्रमः|

Adhikarana vAtaje shvayathau trivRutameraNDatailaM vA vAtaje shvyathau vAtaviDvibandhe eraNDatailaM vAtaje shvayathau vAtaghnAH svedABya~ggAH vAtaje shvayathau ekA~ggaje mAtulu~ggAdilepaH (28-30) · Śloka 30

अथानिलोत्थे श्वयथौ मासार्धं त्रिवृतं पिबेत्| तैलमेरण्डजं वातविड्विबन्धे तदेव तु||२८|| प्राग्भक्तं पयसा युक्तं रसैर्वा कारयेत्तथा| स्वेदाभ्यङ्गान् समीरघ्नान् लेपमेकाङ्गगे पुनः||२९|| मातुलुङ्गाग्निमन्थेन शुण्ठीहिंस्रामराह्वयैः| |३०|

🔊 Audio coming soon

स०-अनिलजे शोफे पक्षं यावत्त्रिवृतं तथैरण्डतैलं पिबेत्| वातविड्विबन्धे सति तदेव-पूर्वोक्तमौषधं, प्राग्भक्तं क्षीरेण मांसरसेन वा [युक्तं] पिबेत्| तथा, स्वेदाभ्यङ्गान् वातघ्नान् कारयेत्, 'वैद्यः' इति शेषः| तथा, अनिलोत्थ एकाङ्गगे शोफे मातुलुङ्गादिभिर्लेपं कारयेत्| हिंस्रा-सिंही|

Adhikarana pittaje shvayathau tiktaM nyagrodhAdi vA ghRutam pittaje shvayathau tRuDdAhamohe kShIraM shItalASca lepABya~ggAH (30-31) · Śloka 31

| पैत्ते तिक्तं पिबेत्सर्पिर्न्यग्रोधाद्येन वा शृतम्||३०|| क्षीरं तृड्दाहमोहेषु लेपाभ्यङ्गाश्च शीतलाः| |३१|

🔊 Audio coming soon

स०-पित्तश्वयथौ तिक्तकाख्यं घृतं पिबेत्| न्यग्रोधादिगणेन (हृ. सू. अ. १५|४१) वा शृतं पिबेत्| तथा, तृडादिषु क्षीरं पिबेत्| तथा, लेपाभ्यङ्गाः शीता हिताः|

Adhikarana pittaje shvayathau tRuD paTolamUlAdikvAthaH (31-33) · Śloka 33

| पटोलमूलत्रायन्तीयष्ट्याह्वकटुकाभयाः||३१|| दारु दार्वी हिमं दन्ती विशाला निचुलं कणा| तैः क्वाथः सघृतः पीतो हन्त्यन्तस्तापतृड्भ्रमान्||३२|| ससन्निपातवीसर्पशोफदाहविषज्वरान्| |३३|

🔊 Audio coming soon

स०-पटोलादीनां क्वाथो घृतसहितः पीतोऽन्तस्तापतृष्णादीन् हन्ति|

Adhikarana kaPaje shvayathau AragdhAditailam (33) · Śloka 33

| आरग्वधादिना सिद्धं तैलं श्लेष्मोद्भवे पिबेत्||३३||

🔊 Audio coming soon

स०-कफोद्भवे शोफे आरग्वधादिना सिद्धं तैलं पिबेत्|

Adhikarana kaPaje srotovibandhAdau kShAra cUrNAsavAdayaH (34) · Śloka 34

स्रोतोविबन्धे मन्देऽग्नावरुचौ स्तिमिताशयः| क्षारचूर्णासवारिष्टमूत्रतक्राणि शीलयेत्||३४||

🔊 Audio coming soon

स०-स्रोतोविबन्धे सति वह्नौ च मन्देऽरोचके च सति स्तिमिताशयः सन् क्षारादीन् शीलयेत्|

Adhikarana kaPaje praleponmardane kRuShNAdikalkaH (35) · Śloka 35

कृष्णापुराणपिण्याकशिग्रुत्वक्ऽऽसिकतातसीः| प्रलेपोन्मर्दने युञ्ज्यात्सुख़ोष्णा मूत्रकल्किताः||३५||

🔊 Audio coming soon

स०-कृष्णादीन् कोष्णान् प्रलेप उन्मर्दने च मूत्रकल्कितान् युञ्जीत|

Adhikarana kaPaje snAne kuShThAdisiddhaM jalaM mUtraM ca kaPaje caNDA~agurUlepaH (36) · Śloka 36

स्नानं मूत्राम्भसी सिद्धे कुष्ठतर्कारिचित्रकैः| कुलत्थनागराभ्यां वा चण्डाऽगुरु विलेपने||३६||

🔊 Audio coming soon

स०-मूत्रजले कुष्ठादिभिः सिद्धे स्नानाय हिते| कुलत्थशुण्ठीभ्यां वा क्वथिते गोमूत्रजले हिते| विलेपने चण्डागुरुणी हिते|

Adhikarana kaPaje ekA~ggage kAlAdilepaH (37) · Śloka 37

कालाजशृङ्गीसरलबस्तगन्धाहयाह्वयाः| एकैषिका च लेपः स्याच्छ्वयथावेकगात्रगे||३७||

🔊 Audio coming soon

स०-कालाजशृङ्ग्यादय एकाङ्गगे शोफे लेपः स्यात्| काला-नीलिनी| बस्तगन्धा-कारवी| एकैषिका-त्रिवृता|

Adhikarana kaPaje shuddhiH shleShmAtisArevasecanaM ca miSradoShe shvayathau adhikadoShAnusAreNa kriyA (38) · Śloka 38

यथादोषं यथासन्नं शुद्धिं रक्तावसेचनम्| कुर्वीत, मिश्रदोषे तु दोषोद्रेकबलात्क्रियाम्||३८||

🔊 Audio coming soon

स०-यथादोषं-दोषानुसारेण, शुद्धिं तथा रक्तावसेचनं यथासन्नं कुर्वीत| संसर्गजे तु यथाभ्यधिकदोषानुसारेण क्रियां कुर्यात्|

Adhikarana tridoShaje shvayathau ajAjyAdi cUrNam (39) · Śloka 39

अजाजिपाथाघनपञ्चकोल- व्याघ्रारजन्यः सुखतोयपीताः| शोफं त्रिदोषं चिरजं प्रवृद्धं निघ्नन्ति भूनिम्बमहौषधे च||३९||

🔊 Audio coming soon

स०-अजाज्यादयः कोष्णजलपीताः शोफं त्रिदोषोत्थं चिरकालोत्पन्नं वृद्धिं गतं निघ्नन्ति| भूनिम्बनागरे च 'हतः' इति वचनविपरिणामेन सम्बन्धः| उपजातिवृत्तम्|

Adhikarana tridoShaje shvayathau amRutAdi cUrNam (12)) · Śloka 40

अमृताद्वितयं सिवाटिका सुरकाष्ठं सपुरं सगोजलम्| श्वयथूदरकुष्ठपाण्डुता- कृमिमेहोर्ध्वकफानिलापहम्||४०||

🔊 Audio coming soon

स०-अमृतायुगलादिकं गुग्गुलुसहितं गोमूत्रेण पीतं शोफादीन् हन्ति| वैतालीयम्| "षड्विषमेऽष्टौ समे कलास्ताश्च समे स्युर्नो निरन्तराः| न समाऽत्र पराश्रिता कला वैतालीयेऽन्ते रलौ गुरुः|" (वृ. र. अ. २|१२)|

Adhikarana kShataje shvayathau raktashodhanam viShaje shvayathau viShAjit (41) · Śloka 41

इति निजमधिकृत्य पथ्यमुक्तं क्षतजनिते क्षतजं विशोधनीयम्| स्रुतिहिमघृतलेपसेकरेकै- र्विषजनिते विषजिच्च शोफ इष्टम्||४१||

🔊 Audio coming soon

स०-इति-पूर्वोक्तेन प्रकारेण, निजं शोफं-दोषजमधिकृत्य, [पथ्यं-] चिकित्सितमुक्तम्| क्षतोत्थे शोफे क्षतजं-असृक्, विशोध्यम्| कैः ? रक्तस्रावादिभिः| विषजनिते शोफे विषहरमिष्टम्| पुष्पिताग्रा|

Adhikarana shvayathau varjyANi (17) · Śloka 17

ग्राम्याब्जानूपं पिशितमबलं शुष्कशाकं तिलान्नं गौडं पिष्टान्नं दधि सलवणं विज्जलं मद्यमम्लम्| धाना वल्लूरं समशनमथो गुर्वसात्म्यं विदाहि स्वप्नं चारात्रौ श्वयथुगदवान् वर्जयेन्मैथुनं च||४२|| इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां चतुर्थे चिकित्सितस्थाने श्वयथुचिकित्सितं नाम सप्तदशोऽध्यायः||१७||

🔊 Audio coming soon

स०-ग्राम्यादिमंसादि शोफी वर्जयेत्| "म्तौ न्यौ यौ ज्ञेया कुसुमितलतावेल्लिताऽक्षर्तुलोकैः|" इति श्रीमृगाङ्कदत्तपुत्रश्रीमदरुणदत्तविरचितायामष्टाङ्गहृदयटीकायां सर्वाङ्गसुन्दराख़्यायां चतुर्थे चिकित्सितस्थाने श्वयथुचिकित्सितं नाम सप्तदशोऽध्यायः समाप्तः|| १७||