Adhikarana adhyAyopakramaH · Śloka
श्रेएगणेशाय नमः| चिकित्सितस्थानादन्तरं कल्पस्थानमारभ्यते चिकित्सितस्थानस्य कल्पस्थानापेक्षत्वात्| तथा हि प्रागध्यगेएष्ट (हृ. चि. अ. १/८) - "तर्पणेन रसेनेक्षोर्मद्यैः कल्पोदितानि वा| वमनानि प्रयुज्येत" इति| तदेवमाद्युपदेशात् सपेक्षत्वमस्य| तस्मात् कल्पस्थानमुच्यत इत्याह --
Adhikarana vamanakalpAdhyAyaH (2) · Śloka 2
तस्मात् कल्पस्थानमुच्यत इत्याह अथातो वमनकल्पं व्याख्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः|
(गद्यसूत्रे)||२||
स०-वमनं-ऊर्ध्वं मुखेन दोषहरणम् , तस्य कल्प:-कल्पनं योजनमित्यर्थ:| शेषमायुष्कामीयाध्यायवद्व्याख्येयम्|
Adhikarana madanakalpaH,vamane madanaM shreShTham virecane trivRunmUlaM shreShTham,vyAdhivashAjjImUtAdervishiShTatA (1) · Śloka 1
प्राधान्याच्च वमनकल्पे मदनमेव शस्यत इत्याह अथ मदनकल्पः|
वमने मदनं श्रेष्ठं, त्रिवृन्मूलं विरेचने|
नित्यमन्यस्य तु व्याधिविशेषेण विशिष्टता||१||
स०-वमनविषये नित्यं मदनं श्रेष्ठम् , निरपायित्वादन्यद्रव्यविषयेऽपि वा तस्योपयोगात् सर्वत्रानिषिद्धप्रसरत्वाच्च| लाघवमिच्छंश्च तन्त्रकृदिदमवोचत्-`त्रिवृन्मूलं विरेचने'इति| यथा मदनं वमने नित्यं श्रेष्ठं , तथा त्रिवृन्मूलं विरेचने , निरपायित्वादिहेतुना| मदनं वर्जयित्वा व्याधिवशादन्यस्य-जीमूतादेः , विशिष्टता| वक्ष्यति हि (श्लो. १९)- "जीमूतं तु विशेषतः| प्रयोक्तव्यं ज्वरश्वासकासहिध्मादिरोगिणाम्| " इति| एवं त्रिवृन्मूलं वर्जयित्वा परस्य विरेचनद्रव्यस्य व्याधिविशेषेण विशिष्टत्वम्, न तु त्रिवृन्मूलवत्सर्वत्रानिषिद्धप्रसरत्वं निरपायित्वं च| तथा चोक्तम् (सङ्ग्रहे सू. अ. १३)- "त्रिवृत्सुखविरेचनानाम्| " इति| तदेवं वमने मदनं श्रेष्ठं त्रिवृन्मूलं विरचने सर्वदेति स्थितम्|
Adhikarana madanaphalAnAM saMskAraH (2-6) · Śloka 6
फलानि नातिपाण्डूनि न चातिहरितान्यपि|
आदायाह्नि प्रशस्तर्क्षे मध्ये ग्रीष्मवसन्तयोः||२||
प्रमृज्य कुशमुत्तोल्यां क्षिप्त्वा बध्वा प्रलेपयेत्|
गोमयेनानु मुत्तोलीं धान्यमध्ये निधापयेत्||३||
मृदुभूतानि मध्विष्टगन्धानि कुशवेष्टनात्|
निष्कृष्टानि गतेऽष्टाहे शोषयेत्तान्यथातपे||४||
तेषां ततः सुशुष्काणामुद्धृत्य फलपिप्पलीः|
दधिमध्वाज्यपललैर्मृदित्वा शोषयेत्पुनः||५||
ततः सुगुप्तं संस्थाप्य र्कायकाले प्रयोजयेत्|
|६|
स०-अथशब्दोऽत्र प्रस्तुतौ मदनस्य प्रस्तावे| मदनस्य फलानि पाण्डूनि गृहीत्वा, न त्वतिपाण्डून्यतिक्रान्तपाकत्वात्, न चातिहरितान्यामत्वात्| कदाऽऽदाय ? प्रशस्तनक्षत्रे दिवसे| कस्मिन्नृतौ ? मध्ये ग्रीष्मवसन्तयोः| एवमृतुसन्धौ गृहीतानि प्रमृज्य-व्यपगतमलादिदोषाणि कृत्वा, कुशमय्यां मुत्तोल्यां-मूटिकायां, क्षिप्त्वा पुनरुपरिष्टाद्बद्ध्द्वा च ततो गोमयेन तां मुत्तोलीं लिम्पेत्| अनन्तरं धान्यमध्ये निधापयेत्-स्थापयेत्| कुशानां समूहो रचनाविशेषनिष्पादितः कुशमुत्तोलीत्युच्यते| मृदुभीतानि तानि मध्विष्टगन्धानि- कदाचिन्मधुगन्धानि कदाचिदिष्टगन्धानि,कुशवेष्टनादष्टाहेन ज्ञात्वा अनन्तरमष्टाहेऽतिक्रान्ते कुशमुत्तोल्याः निष्कृष्टानि-बहिष्कृतानि, अनन्तरमातपे शोषयेत्| ततः-अनन्तरं तेषां-मदनफलानां, [सुष्ठु] शुष्काणां फलपिप्पलीरुद्धृत्य दधिमध्वाज्यपललैर्मृदित्वा-सङ्क्षुद्य,पुनरातपे शोषयेत्| ततः-अनन्तरं, सुष्ठु गुप्तं धारयित्वा कार्यकाले-वमनावसरे, ताः प्रयोजयेत्|
Adhikarana madanaprayogaH (6-9) · Śloka 9
|
अथादाय ततो मात्रां जर्जरीकृत्य वासयेत्||६||
शर्वरीं मधुयष्ट्या वा कोविदारस्य वा जले|
कर्बुदारस्य बिम्ब्या वा नीपस्य विदुलस्य वा||७||
शणपुष्प्याः सदापुष्प्याः प्रत्यक्पुष्प्युदकेऽथवा|
ततः पिबेत्कषायं तं प्रातर्मृदितगालितम्||८||
सूत्रोदितेन विधिना साधु तेन तथा वमेत्|
|९|
स०-अथ-अनन्तरं, ततः-पिप्पिलीभ्यो, मात्रां-परिमाणं प्रायेण देशकालादिवशाद्वा मात्रां, विकल्प्यानन्तरं तां मात्रां जर्जरीकृत्य-सञ्चूर्ण्य, मधुयष्टयादीनामन्यतमस्य जले शर्वरीं-सकलां रात्रिं, वासयेदभिषवणाय| ततः-अनन्तरं, [प्रातः] तं कषायं मृदितगालितं पूर्वं मृदितं पश्चाद्गालितं-वस्त्रपूतं कृत्वा, सूत्रोदितेन विधिना-"श्वो वम्यं" (सू. अ. १८|१२) इत्यादिग्रन्थोक्तेन, पिबेत्| [तथा-] एवं कृते सति, तेन साधु वमेत्|
Adhikarana shleShmajvarAdau visheShaH (9-10) · Śloka 10
|
श्लेष्मज्वरप्रतिश्यायगुल्मान्तर्विद्रधीषु च||९||
प्रच्छर्दयेद्विशेषेण यावत्पित्तस्य दर्शनम्|
|१०|
स०-विशेषेण श्लेष्मज्वरादिषु वमेत्| यावत्पित्तस्य दर्शनम्|
Adhikarana jvarArucyAdiShu vamanayogaH (10-11) · Śloka 11
|
फलपिप्पलिचूर्णं वा क्वाथेन स्वेन भावितम्||१०||
त्रिभागत्रिफलाचूर्णं कोविदारादिवारिणा|
पिबेज्ज्वरारुचिष्ठेवग्रन्थ्यपच्यर्बुदोदरी||११||
स० -अथवा मदनफलपिप्पलीचूर्णं स्वेन-फलपिप्पलीक्वाथेन, भावितं त्रिभागत्रिफलाचूर्णान्वितं कोविदारादिजलेन पिबेत्, ज्वरादिषूदरान्तेषु|
Adhikarana kaphasthAnage pitte (12) · Śloka 12
पित्ते कफस्थानगते जीमूतादिजलेन तत्|
|१२|
स०-पित्ते कफस्थानगते सति ग्रन्थ्या (ज्वरा) दिमान्नरस्तत्-मदनफलं, जीमूतादिजलेन पिबेत्|
Adhikarana hRuddAhAdau vamanayogaH (12-13) · Śloka 13
|
हृद्दाहेऽधोस्त्रपित्ते च क्षीरं तत्पिप्पलीशृतम्||१२||
क्षैरेयीं वा|
|१३|
स०-हृदयदाहेऽधोगे रक्तपिते [च] तस्य-मदनफलस्य, पिप्पलीभिः क्वथितं क्षीरं क्षैरेयीं वा पिबेत्| तन्त्रान्तरे च क्षीरश्रपणविधिरुक्तः-"द्रव्यादष्टगुणं क्षीरं क्षीरात्तोयं चतुर्गुणम्| क्षीरावशेषः कर्तव्यः क्षीरपाके त्वयं विधिः||" इति| अस्रपित्त इत्येतावत्युक्त ऊर्ध्वगोभयगयोरस्रपित्तयोर्वमनायोग्यत्वादेवाधोग्रहणे सिद्धे पुनरधोग्रहणं सुखतरप्रतिपत्त्यर्थम्| क्षैरेयीमिति "क्षीराड् ढञ्" इति ढञ्, "टिड् ढाण" इति ङीप्|
Adhikarana kaphacchardyAdau vamanayogaH (13) · Śloka 13
कफच्छर्दिप्रसेकतमकेषु तु|
दध्युत्तरं वा दधि वा तच्छृतक्षीरसम्भवम्||१३||
स०-कफच्छर्दिप्रसेकतमकेषु दध्युत्तरं-दधिसरमेव हितम्| अथवा दधि हितम्| उभयमपि वमने हितं तच्छृतक्षीरसम्भवम्| तच्छृतं-मदनपिप्पलीशृतम्|
Adhikarana sukhakArako vamanayogaH (14) · Śloka 14
फलादिक्वाथकल्काभ्यां सिद्धं तत्सिद्धदुग्धजम्|
सर्पिः कफाभिभूतेऽग्नौ शुष्यद्देहे च वामनम्||१४||
स०-क्वाथश्च कल्कश्च क्वाथकल्कौ, फलादीनां-मदनफलजीमूतकेक्ष्वादीनां क्वाथकल्कौ, ताभ्यां सिद्धं-पक्वं, सर्पिः कफेनाभिभूतेऽग्नौ शुष्यच्छरीरे च वामनं हितम्| किम्भूतं सर्पिः ? तत्सिद्धदुग्धजम् ,- तैश्च-फलादिभिः शृतं(सिद्धं), तत्सिद्धं च तद्दुग्धं च तस्मादुद्भूतम्|
Adhikarana bhakShyabhojyeShu vamanayogaH (15-16) · Śloka 16
स्वरसं फलमज्ज्ञो वा भल्लातकविधिशृतम्|
आदर्वीलेपनात्सिद्धं लीढ्वा प्रच्छर्दयेत्सुखम्||१५||
तं लेहं भक्ष्यभोज्येषु तत्कषायांश्च योजयेत्|
|१६|
स०-फलमज्ज्ञो वा स्वरसं भल्लातकविधानेन शृतं दर्वीलेपं यावत् पक्त्वा लीढ्वा सुखं वमेत्| तं च लेहं भक्ष्यादिषु तथा तस्य-मदनफलस्य, कषायान् योजयेत्|
Adhikarana santarpaNavyAdhiShu vamanayogaH (16-17) · Śloka 17
|
वत्सकादिप्रतीवापः कषायः फलमज्जजः||१६||
निम्बार्कान्यतरक्वाथसमायुक्तो नियच्छति|
बद्धमूलानपि व्याधीन् सर्वान् सन्तर्पणोद्भवान्||१७||
स०-मदनफलमज्जजो वा कषायो वत्सकादिगणप्रतीवापो (हृ. सू. अ. १५|३३) निम्बार्कान्यतरक्वाथसंयुक्तो व्याधीन् समूलानपि नियच्छति| कीद्दशान् ? सन्तर्पणजान्|
Adhikarana phalAbhAve puShpaM shalATu vA (18-2) · Śloka 2
राठपुष्पफलश्लक्ष्णचूर्णैर्माल्यं सुरूक्षितम्|
वमेन्मण्डरसादीनां तृप्तो जिघ्रन् सुखं सुखी||१८||
एवमेव फलाभावे कल्प्यं पुष्पं शलाटु वा|
|१९|
इति मदनकल्पः||२||
स०-मदनपुष्पफलसूक्ष्मचूर्णैः सुरूक्षितं-तद्रजसाऽतिधूसरितं, पुष्पं जिघ्रन् मण्डरसादीनां तृप्तः , आदिग्रहणात् कृशराक्षीरयवागूनां परिग्रहः , तथाविधो जिघ्रन् सुखी-क्लेशमसहिष्णुः , सुखेन वमेत्| एवमेव-अनेनैव क्रमेण, फलाभावे सति पुष्पं प्रकृतत्वान्मदनस्य, कल्पनीयम्| "अथादाय ततो मात्रां जर्जरीकृत्य वासयेत्| शर्वरीं मधुयष्ट्या वा कोविदारस्य वा जले||" (श्लो. ६) इत्यादिविधिना शलाटु वा-बालमदनं अपक्वं फलं वा, एवं कल्पनीयम्|
Adhikarana jImUtakalpaH (19) · Śloka 19
अथ जीमूतकल्प:|
|
जीमूताद्याश्च फलवत्|१९|
स०-जीमूततुम्बीकोशातक्याद्याः कुटजफलपर्यन्ताः फलवत्-मदनफलतुल्यविधिना, कल्प्याः|
Adhikarana jvarashvAsAdau jImUto yojyaH (19-20) · Śloka 20
|
जीमूतं तु विशेषतः||१९||
प्रयोक्तव्यं ज्वरश्वासकासहिध्मादिरोगिणाम्|
|२०|
स०-विशेषेण तु जीमूतो ज्वरादिषु योज्यः|
Adhikarana tumbIkoshAtakIShvapIyaM kalpanA (20-22) · Śloka 22
|
पयः पुष्पेऽस्य निर्वृत्ते, फले पेया पयस्कृता||२०||
लोमशे क्षीरसन्तानं, दध्युत्तरमलोमशे|
शॄते पयसि दध्यम्लं जातं हरितपाण्डुके||२१||
आसुत्य वारुणीमण्डं पिबेन्मृदितगालितम्|
कफादरोचके कासे पाण्डुत्वे राजयक्ष्मणि||२२||
स०-अस्य-जीमूतस्य, पुष्पे सम्पन्ने पयः-क्षीरं, जीमूतकशृतं प्रयोज्यम्| फलेऽस्य निष्पन्ने पयस्कृता-जीमूतशृतक्षीरनिष्पादिता, पेया योज्या| जीमूतफलस्य लोमशालोमशतया मृदुकठिनभेदेन द्वैविध्यम्| लोमशे तस्मिन् जीमूतफले शृतक्षीरस्य या सन्तानिका-शीतीभूतस्योपरिष्टाद्धनोऽवयवः , तं वमने पिबेत्| अलोमशे जीमूतफले-काठिन्यमागते, तच्चूर्णयुतं दध्युत्तरं-दधिसरं, पिबेत्| शृते पयसि प्रकृतत्वाज्जीमूतफलैः शृते| किम्भूते ? हरितपाण्डुके,-लोमशालोमशयोर्मध्यमावस्थां प्राप्ते सति, दध्यम्लं जातं पिबेत्| अम्लमेव दधि-दध्यम्लम्, केचित्तु मस्तु दध्यम्लमित्याहुः| जीमूतफलेन वाऽऽसुत्य वारुणीमण्डं पिबेत्| किम्भूतम् ? मृदितगालितं,-पूर्वं मृदितं खजादिना, पश्चाद् गालितं-प्रस्रतम्| केषु ? कफारोचकादिषु|
Adhikarana vAtapittArdite vamanayogaH (23) · Śloka 23
इयं च कल्पना कार्या तुम्बीकोशातकीष्वपि|
|२३|
स०-इयं च कल्पना-'पयः पुष्पेऽस्य निर्वृत्ते' इत्यादिका 'आसुत्य वारुणीमण्डं' इतिपर्यन्ता, तुम्बीकोशातकीष्वपि कार्या|
Adhikarana pittashleShmajvare vamanayogaH (23-25) · Śloka 25
|
पर्यागतानां शुष्काणां फलानां वेणिजन्मनाम्||२३||
चूर्णस्य पयसा शुक्तिं वातपित्तार्दितः पिबेत्|
द्वे वा त्रीण्यपि वाऽऽपोथ्य क्वाथे तिक्तोत्तमस्य वा||२४||
आरग्वधादिनवकादासुत्यान्यतमस्य वा|
विमृद्य पूतं तं क्वाथं पित्तश्लेष्मज्वरी पिबेत्||२५||
स०-पर्यागतानां-प्राप्तसम्यक्पाकानां, फलानां वेणिजन्मनां-देवदाल्युत्पन्नानां, चूर्णस्य शुक्तिं-अर्धपलं, पयसा वातपित्ताभ्यामर्दितः-आतुरः , पिबेत्| द्वे वा त्रीण्यपि वा जीमूतफलन्यापोथ्य-जर्जरीकृत्य, तिक्तोत्तमस्य-निम्बस्य, क्वाथं पित्तश्लेष्मज्वरी पिबेत्| अथवा, आरग्वधादिनवकात्-आरग्वधवर्गादाद्यौषधनवकात्, अन्यतमस्य क्वाथे द्वे वा त्रीण्यपि वा जीमूतफलान्यासुत्य-सन्धाय, तथा विमृद्य पूतं क्वाथ पित्तश्लेष्मज्वरी पिबेत्| गरागरी च वेणी च देवदाली च जीमूतं चेति पर्यायाः|
Adhikarana pittjvarAdau vamanayogaH (26-2) · Śloka 2
जीमूतकल्कं चूर्णं वा पिबेच्छीतेन वारिणा|
ज्वरे पैत्ते, कवोष्णेन कफवातात्कफादपि||२६||
इति जिमूतकल्पः||२||
स०-जीमूतचुर्णं-फलमपि कल्कीकृत्याथवा तच्चूर्णं पित्तजज्वरे शीतेन जलेनालोड्य पिबेत्| तस्यैव कल्कं चूर्णं वा कफवातात् कफाच्चोद्भूते ज्वरे कवोष्णेन वारिणा पिबेत्|
Adhikarana kAsashvAsAdau ikShvAkuHshastaH (27) · Śloka 27
अथेक्ष्वाकुकल्पः|
कासश्वासविषच्छर्दिज्वरार्ते कफकर्शिते|
इक्ष्वाकुर्वमने शस्तः प्रताम्यति च मानवे||२७||
स०-कासाद्यार्ते कफार्दिते पुरुषे वमने-वमनविषये, इक्ष्वाकुः शस्तः| प्रताम्यति च मानवे प्रतमकाक्रान्तत्वाद्यः प्रताम्यति नरस्तस्मिंश्च, शस्तः|
Adhikarana pittashleShmajvarAdou ikShvAku prayogaH (28) · Śloka 28
फलपुष्पविहीनस्य प्रवालैस्तस्य साधितम्|
पित्तश्लेष्मज्वरे क्षीरं पित्तोद्रिक्ते प्रयोजयेत्||२८||
स०-फलपुष्पविहीनस्य-असञ्जातफलपुष्पस्य, [तस्य-] इक्ष्वाकोः, किसलयैः क्षीरं साधितं पित्तश्लेष्मज्वरे पित्तोद्रिक्ते प्रयोजयेत्| फलपुष्पविहीनस्येत्यनेन कोमलत्वं प्रतिपादयति इक्ष्वाकोस्तन्त्रकृत्| अन्यथा "प्रवालैः साधितं क्षीरं पित्तोद्रिक्ते प्रयोजयेत्|" इति ब्रूयात्| इक्ष्वाकुफलस्य जरठावस्तस्य प्रयोगमाह-
Adhikarana kaphakAsAdau vamanayogaH (29) · Śloka 29
हॄतमध्ये फले जीर्णे स्थितं क्षीरं यदा दधि|
स्यात्तदा कफजे कासे श्वासे वम्यं च पाययेत्||२९||
इक्ष्वाकुफलस्य जरठावस्थस्य प्रयोगमाह स०-हृतमध्ये जीर्णे-सुपक्वे, तस्मिन् इक्ष्वाको: फले हृतमध्यभागत्वाच्छून्यमध्ये क्षीरं स्थितं सत् यदा दधि जातं स्यात्तदा कफकासादिषु वमनार्थं पाययेत्|
Adhikarana pANDukuShThAdau vamanayogaH (30) · Śloka 30
मस्तुना वा फलान्मध्यं पाण्डुकुष्ठविषार्दितः|
तेन तक्रं विपक्वं वा पिबेतत्समधुसैन्धवम्||३०||
स०-इक्षाकुफलमध्यं वा मस्तुना पाण्ड्वाद्यर्दितः पिबेत्| तेन-इक्ष्वाकुफलमध्येन, तक्रं वा विपक्वं मधुसैन्धवयुतं पिबेत्| समधुसैन्धवमित्युक्तं स्पष्टार्थम् वमनविधौ हि समधुसैन्धवस्य वमनस्यानुज्ञानात्|
Adhikarana viShagulmAdau vamanayogaH (31) · Śloka 31
भावयित्वाऽऽजदुग्धेन बीजं तेनैव वा पिबेत्|
विषगुल्मौदरग्रन्थिगण्डेषु श्लीपदेषु च||३१||
स०-अजादुग्धेन तद्बीजं भावयित्वा तेनैव-छगलीक्षीरेण, विषगुल्मादिषु पिबेत्|
Adhikarana kaphajvarAdau vamanayogaH (32) · Śloka 32
सक्तुभिर्वा पिबेन्मन्थं तुम्बीस्वरसभावितैः|
कफोद्भवे ज्वरे कासे गलरोगेष्वरोचके||३२||
स०-सक्तुभिः-यवसक्तुभिः, तुम्बीस्वरसभावितैर्मन्थं वा पिबेत्| कफोद्भवेषु ज्वरादिषु|
Adhikarana gulmajvarAdau vamanayogaH (33) · Śloka 33
गुल्मे ज्वरे प्रसक्ते च कल्कं मांसरसैः पिबेत्|
नरः साधु वमत्येवं न च दौर्बल्यमश्नुते||३३||
स०-कल्कं तुम्ब्या मांसरसैः पिबेत्| गुल्मे तथा ज्वरे प्रसक्ते-दीर्घकालानुबन्धिनि| एवं सति पुरुषः साधुकृत्वा वमति| दौर्बल्यं च न प्राप्नोति|
Adhikarana sukhiShu AdhrApako vamanayogaH (34-3) · Śloka 3
तुम्ब्याः फलरसैः शुष्कैः सपुष्पैरवचूर्णितम्|
छर्दयेन्माल्यमाघ्राय गन्धसम्पत्सुखोचितः||३४||
इतीक्ष्वाकुकल्पः||३||
स-(तुम्ब्याः फलरसैः पुष्परसैश्चावचूर्णितं शुष्कैः-शोषितैः,तुम्बिफलरसैस्तुम्बिपुष्पचूर्णमिश्रितैरवचूर्णितं माल्यामाघ्राय सुखं वमेत्| गन्धसम्पत्-गन्धसम्पत्तिमत्|)
Adhikarana kAsagulmAdau dhAmArgavaH iShTaH (35-36) · Śloka 36
अथ धामार्गवकल्पः|
कासगुल्मोदरगरे वाते श्लेष्माशयस्थिते|
कफे च कण्ठवक्त्रस्थे कफसञ्चयजेषु च||३५||
धामार्गवो गदेष्विष्टः स्थिरेषु च महत्सु च|
|३६|
स०-कासादिषु, तथा कफस्थानस्थे वाते, श्र्लेष्मणि गलस्थे मुखस्थे च तथा कफसञ्चयजेष्वरोचकदिषु तथा,स्थिरेषु-दीर्घकालप्ररूढेषु, महत्सु-चात्यन्तं प्रवृद्धेषु, रोगेषु धामार्गवः-कोशफलाख्यः,इष्टः|
Adhikarana kAsAdau dhAmArgavaprayogaH (36-38) · Śloka 38
|
जीवकर्षभकौ वीरा कपिकच्छूः शतावरी||३६||
काकोली श्रावाणी मेदा महामेदा मधूलिका|
तद्रजोभिः पृथग्लेहा धमार्गवरजोन्विताः||३७||
कासे हृदयदाहे च शस्ता मधुसिताद्रुताः|
|३८|
स०-जीवकर्षभादीनां पृथक्-प्रयेकं, तेषां रजोभिश्चूर्णैर्मधुसिताभ्यामत्यन्तं द्रुताः-द्रवीकृताः, धामार्गवरजोन्विताः तच्चूर्णमिश्राः, लेहाः कासे हृदयदाहे च शस्ताः| मधूलिका मधुयष्टिः|
Adhikarana sapittoShme kaPe prayogaH (38) · Śloka 38
|
ते सुखाम्भोनुपानाः स्युः पित्तोष्मसहिते कफे||३८||
स०-त एव-पूर्वोक्ता लेहाः, उष्णोदकानुपाना वमनाय भवेयुः| कफे पित्तोष्मसहिते सति-पित्तेन तथा पित्तकार्येणोष्मणा युक्ते|
Adhikarana viShApahaH prayogaH (39) · Śloka 39
धान्यतुम्बरुयूषेण कल्कस्तस्य विषापहः|
|३९|
स०-तस्य-धामार्गवस्य, कल्को धान्यतुम्बरुभ्यां यूषेण क्वाथेन,उपयुक्तो विषघ्नः स्यात्|
Adhikarana mAnasaroge prayogaH (39-4) · Śloka 4
|
बिम्याः पुनर्नवाया वा कासमर्दस्य वा रसे||३९||
एकं धामार्गवं द्वे वा मानसे मृदितं पिबेत्|
तच्छृतक्षीरजं सर्पिः साधितं वा फलादिभिः||४०||
इति धामार्गवकल्पः||४||
स०-बिम्ब्यादीनामन्यतमस्य रसे-क्वाथे, धामार्गवफलमेकं मृदितं कृत्वा, अथवा द्वे फले, मानसे-मानोविकारे, वमनं ( नार्थं) पिबेत्| अथवा, तच्छृतक्षीरजं सर्पिः-धामार्गवफलसाधितं क्षीरोद्भवं [घृतं], फलादिभिः साधितं-मदनफलजीमूतकेक्ष्वाकुधामार्गवकोशातकीकुटजैः षड्भिः पक्वं,मानसे वमनार्थं पिबेत्|
Adhikarana kuShThAdau kShveDaH shasyate (41) · Śloka 41
अथ क्ष्वेडकल्पः|
क्ष्वेडोऽतिकटुतीक्ष्णोष्णः प्रगाढेषु प्रशस्यते|
कुष्ठपाण्ड्वामयप्लीहशोफगुल्मगरादिषु||४१||
स०-क्ष्वेडः-तिक्तकोशातकी, अतितीक्ष्णोष्ण्कटुकत्वात् कुष्ठादिषु प्रगाढेषु-अत्यन्तचिरकालजत्वाद् दृढेषु प्ररूढेषु,प्रशस्यते|
Adhikarana kShveDasya vamanaprayogaH (42) · Śloka 42
पृथक् फलादिषट्कस्य क्वाथे मांसमनूपजम्|
कोशातक्या समं सिद्धं तद्रसं लवणं पिबेत्||४२||
स०-पृथक् फलादिषट्कस्य- मदनफलेक्ष्वाक्वादिकस्य, क्वाथे मांसमनूपजं कोशातक्या समं-तया तुल्यं, सिद्धं-पक्वं,तद्रसं तस्य मांसस्य रसं, लवणान्वितं पिबेत् |
Adhikarana kShveDasya anyaH prayogaH (43) · Śloka 43
फलादिपिप्पलीतुल्यं सिद्धं क्ष्वेडरसेऽथवा|
|४३|
स०-फलादिपिप्पल्यो- मदनफलजीमूतेक्ष्वाकुफलमध्यबीजानि, ताभिस्तुल्यमानूपं मांसं समक्ष्वेडरसेन सिद्धं वा पिबेत्|
Adhikarana kShveDasya anyaH prayogaH (43-4) · Śloka 4
|
क्ष्वेडक्वाथं पिबेतत्सिद्धं मिश्रमिक्षुरसेन वा||४३||
इति क्ष्वेडकल्पः||४||
स०-यद्वा, इक्षुरसेन मिश्रं क्षेडक्वाथे सिद्धमानूपजं मांसरसं सलवणं पिबेत्|
Adhikarana sukumArAdiShu kauTajaM shreShTham (44) · Śloka 44
अथ कुटजफलकल्पः|
कौटजं सुकुमारेषु पित्तरक्तकफोदये|
ज्वरे विसर्पे हृद्रोगे खुडे कुष्ठे च पूजितम्||४४||
स०-कुटजं सुकुमारेषु-अत्यन्तवमनासहिष्णुषु, पित्तरक्तकफोदये-अतिशयेनाधिके तस्मिन्, तथा ज्वरादिषु, वमने श्रेष्ठम्|
Adhikarana kauTajasya vamanaprayogaH (45-5) · Śloka 5
सर्षपाणां मधूकानां तोयेन लवणस्य वा|
पाययेत्कौटजं बीजं युक्तं कृशरयाऽथवा||४५||
सप्ताहं वाऽर्कदुग्धाक्तं तच्चूर्णं पाययेत्पृथक्|
फलजीमूतकेक्ष्वाकुजीवन्तीजीवकोदकैः||४६||
इति कुटजफलकल्पः||५||
स०-सर्षपादीनां पृथक् तोयेन-क्वाथेन, सैन्धवस्य च जलेन, कुटजबीजं पाययेत्| अथवा,कृशरया सह कौटजं पाययेत्| अथवा, सप्ताहमर्कदुग्धाक्तं कुटजबीजचूर्णं पॄथक् मदनफलाद्युदकैः पाययेत्|
Adhikarana vamanayogAnAmupasaMhAraH (1) · Śloka 1
वमनौषधमुख्यानामिति कल्पदिगीरिता|
बीजेनानेन मतिमानन्यान्यपि च कल्पयेत्||४७||
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां पञ्चमे कल्पसिद्धिस्थाने वमनकल्पो नाम प्रथमोऽध्यायः||१||
स०- वमनौषधमुख्यानां-छर्दिषि प्राधनानामौषधानां,इति एवं प्रकारेण, कल्पस्य दिक्-गतिः,ईरिता-कल्पमार्ग उदितः| अनेन बीजेन-अनया दिशा, सुमतिरन्यान्यपि वमनौषधानि कल्पयेदिति| इति श्रीमृगाङ्कदत्तपुत्रश्रीविरचितायामष्टाङ्गहृदयटीकायां सर्वाङ्गसुन्दराख्यायां पञ्चमे कल्पसिद्दिस्थाने वमनकल्पो नाम् प्रथमोऽध्यायः समाप्तः||१||