Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

2. virēcanakalpādhyāyaḥ

Adhikarana adhyAyopakramaH · Śloka

🔊 Audio coming soon

वमनादनन्तरं विरेचनस्योपयोग इति वमनकल्पादनन्तरं विरेचनकल्पः प्रक्रम्यत इत्याह-

Adhikarana virecanakalpAdhyAyaH (2) · Śloka 2

अथातो विरेचनकल्पं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः| (गद्यसूत्रे)||२||

🔊 Audio coming soon

स०-कल्पनं कल्पो-योजना| विरेचनं-अधोभागेन दोषनिर्हरणम्, तस्य कल्पो-विरेचनकल्पः, तं व्याख्यास्यामः| शेषं पूर्ववत्| दन्तीद्रवन्त्यादिभ्यः सर्वेभ्योऽपि विरेचनद्रव्येभ्यो निरपायित्वाद्विरेचनसाध्ये व्याधावनिषिद्धप्रसरत्वात्[च] पूर्वं त्रिवृताया उपन्यासः|

Adhikarana trivRucchyAmayoH kalpaH trivRuto guNAshca (1) · Śloka 1

अथ त्रिवृच्छ्यामयोः कल्पः| कषायमधुरा रूक्षा विपाके कटुका त्रिवृत्| कफपित्तप्रशमनी रौक्ष्याच्चानिलकोपनी||१||

🔊 Audio coming soon

स०-अनेनास्याः स्वरूपकथनम्|

Adhikarana trivRutaH saMyogAdikRutA guNAH (2) · Śloka 2

सेदानीमौषधैर्युक्ता वातपित्तकफापहैः| कल्पवैशेष्यमासाद्य जायते सर्वरोगजित्||२||

🔊 Audio coming soon

स०-सा-एवंगुणा त्रिवृत्, अधुना वातपित्तकफघ्नैरौषधैर्युक्ता कल्पविशेषत्वं प्राप्य विरेचनसाध्यव्याधिविषये सर्वरोगजिज्जायते|

Adhikarana trivRuto Bedadvayam (3) · Śloka 3

द्विधा ख्यातं च तन्मूलं श्यामं श्यामाऽरुणं त्रिवृत्| |३|

🔊 Audio coming soon

स० - तस्याः-त्रिवृतो, मूलं द्विप्रकारम्,-एकं श्याममपरमरुणम्| श्यामं मूलं श्यामा, त्रिवृदरुणामिति व्याख्यं द्विसंज्ञम्|

Adhikarana arUNasya viShayaH (3-4) · Śloka 4

| त्रिवृदाख्यं वरतरं निरपायं सुखं तयोः||३|| सुकुमारे शिशौ वृद्धे मृदुकोष्ठे च तद्धितम्| |४|

🔊 Audio coming soon

स० -तयोः-श्यामारुणयोः, यदरुणं मूलं तद्वरतरम्| सामर्थ्यात् श्यामं वरम्| अरुणं यन्मूलं तन्निरपायत्वात् सुकुमारादिषु हितम्, न श्यामं सापायत्वात्|

Adhikarana shyAmasya viShayaH (4-5) · Śloka 5

सापायत्वे विशेषेण हेतुमाह | मूर्च्छासम्मोहहृत्कण्ठकषणक्षणनप्रदम्||४|| श्यामं तीक्ष्णाशुकारित्वादतस्तदपि शस्यते| क्रूरे कोष्ठे बहौ दोषे क्लेशक्षमिणि चातुरे||५||

🔊 Audio coming soon

स० - श्यामं मूलं मूर्च्छादिहृत्कण्ठकषणक्षणनप्रदम्| तत्तीक्ष्णत्वादाशुकारित्वाच्च सापायत्वमस्य| तदेवंरूपमपि श्यामं शस्यते क्रूरकोष्ठादिविषये|

Adhikarana grahaNavidhiH (6) · Śloka 6

गम्भीरानुगतं श्लक्ष्णमतिर्यग्विसृतं च यत्| गृहीत्वा विसृजेत्काष्ठं त्वचं शुष्कां निधापयेत्||६||

🔊 Audio coming soon

स० -गम्भीरानुगतं-गूढं कृत्वा भूमावन्तःप्रविष्टम्, तथा श्लक्ष्णं-अपरुषम्, तथाऽतिर्यग्यातं(विसृतं)-स्पष्टं कृत्वा भूमौ गतम्, एवंविधं त्रिवृताया मूलं गृहीत्वा तत्काष्ठं विसृजेत्| त्वचं शुष्कां कृत्वा निधापयेत्-स्थापयेत्|

Adhikarana vAtaroge virecanayogaH (7) · Śloka 7

अथ काले ततश्चूर्णं किञ्चिन्नागरसैन्धवम्| वातामये पिबेदम्लैः|७|

🔊 Audio coming soon

स०-अथ-अनन्तरम्, काले-विरेचनप्रस्तावे, ततः-मूलत्वचः, चूर्णमीषन्नागरसैन्धवमम्लैः-काञ्जिकादिभिः, वातविकारे पिबेत्|

Adhikarana pittaroge virecanayogaH (7-8) · Śloka 8

| पैत्ते साज्यसितामधु||७|| क्षीरद्राक्षेक्षुकाश्मर्यस्वादुस्कन्धवरारसैः| |८|

🔊 Audio coming soon

स०-पैत्ते विकारे सहघृतशर्करामधु तच्चूर्णं क्षीरेण द्राक्षादिरसैर्वा पिबेत्|

Adhikarana kaParoge virecanayogaH (8-9) · Śloka 9

| कफामये पीलुरसमूत्रमद्याम्लकाञ्जिकैः||८|| पञ्चकोलादिचूर्णैश्च युक्त्या युक्तं कफापहैः| |९|

🔊 Audio coming soon

स०-कफविकारे तच्चूर्णं पीलुरसादिभिः पिबेत्| पञ्चकोलादिभिश्चूर्णैश्च कफघ्नैर्युक्तम्| कथम् ? युक्त्या,-पञ्चकोलादिचूर्णानां योगे नातिव्याप्तिर्न वाऽव्याप्तिः, पञ्चकोलादिचूर्णेन त्रिवृताचूर्णस्य सम्यग्योगः स्यादित्यर्थः| आदिशब्देनान्येषां पाचनदीपनानां पञ्चकोलसदृशानां चित्रका(मरिचा)दीनां ग्रहणम्|

Adhikarana hRudyo virecanayogaH (9-10) · Śloka 10

| त्रिवृत्कल्ककषायाभ्यां साधितः ससितो हिमः||९|| मधुत्रिजातसंयुक्तो लेहो हृद्यं विरेचनम्| |१०|

🔊 Audio coming soon

स०-त्रिवृतः कल्केन कषायेण च साधितः सशर्करो लेहः शीतो मधुत्रिजातसंयुक्तो हृद्यं विरेचनं स्यात्| अत्र च कासचिकित्सितोक्तकण्टकारिकालेहवत् (हृ. चि. अ. ३/६३) प्रमाणं निरूपयितव्यम्|

Adhikarana sannipAtajvarAdau virecanayogaH (10-11) · Śloka 11

| अजगन्धा तवक्षीरी विदारी शर्करा त्रिवृत्||१०|| चूर्णितं मधुसर्पिर्भ्यां लीढ्वा साधु विरिच्यते| सन्निपातज्वरस्तम्भपिपासादाहपीडितः||११||

🔊 Audio coming soon

स०-अजगन्धादिचूर्णं मधुसर्पिर्भ्यां लीढ्वा साधु विरिच्यते| सन्निपातज्वरादिपीडितः सन्|

Adhikarana sannipAtajvarAdau anyo virecanayogaH (12) · Śloka 12

लिम्पेदन्तस्त्रिवृतया द्विधाकृत्वेक्षुगण्डिकाम्| एकीकृत्य च तत्स्विन्नं पुटपाकेन भक्षयेत्||१२||

🔊 Audio coming soon

स०-इक्षुगण्डिकां द्विधाकृत्य(त्वा)-पाटयित्वा, त्रिवृतयाऽन्तर्लिम्पेत्| अनन्तरमेकीकृत्य पुटपाकेन स्विन्नं भक्षयेत्|

Adhikarana vAtarogAdiShu nirapAyo virecanayogaH (13-14) · Śloka 14

भृङ्गैलाभ्यां समा नीली तैस्त्रिवृत्तैश्च शर्करा| चूर्णं फलरसक्षौद्रसक्तुभिस्तर्पणं पिबेत्||१३|| वातपित्तकफोत्थेषु रोगेष्वल्पानलेषु च| नरेषु सुकुमारेषु निरपायं विरेचनम्||१४||

🔊 Audio coming soon

स०-त्वगेलाभ्यां तुल्या नीली, तैश्च तुल्या त्रिवृत्, सर्वैश्च तुल्या सिता, चूर्णं फलरसक्षौद्रसक्तुभिस्तर्पणं पिबेत्| वातपित्तकफोत्थेषु रोगेष्वल्पाग्निषु च नरेषु तथा सुकुमारेषु विरेचनमेतन्निरपायम्|

Adhikarana gulmAdiShu virecanayogaH (15-16) · Śloka 16

विडङ्गतण्डुलवरायावशूककणास्त्रिवृत्| सर्वतोऽर्धेन तल्लीढं मध्वाज्येन गुडेन वा||१५|| गुल्मं प्लीहोदरं कासं हलीमकमरोचकम्| कफवातकृतांश्चान्यान् परिमार्ष्टि गदान् बहून्||१६||

🔊 Audio coming soon

स०-विडङ्गतण्डुलादयः समांशाः, सर्वेभ्योऽर्धेन त्रिवृत्, तदेतच्चूर्णं मधुघृताभ्यां लीढं गुडेन वाऽऽस्वादितं गुल्मादीन् कफवातोत्थांश्चान्यानपि गदान् बहून् परिमार्ष्टि-पराकरोति|

Adhikarana kalyANakaguDaH kuShThAdiShu (17-21) · Śloka 21

विडङ्गपिप्पलीमूलत्रिफलाधान्यचित्रकान्| मरीचेन्द्रयवाजाजीपिप्पलीहस्तिपिप्पलीः||१७|| दीप्यकं पञ्चलवणं चूर्णितं कार्षिकं पृथक्| तिलतैलत्रिवृच्चूर्णभागौ चाष्टपलोन्मितौ||१८|| धात्रीफलरसप्रस्थांस्त्रीन् गुडार्धतुलान्वितान्| पक्त्वा मृद्वग्निना खादेत्ततो मात्रामयन्त्रणः||१९|| कुष्ठार्शःकामलागुल्ममेहोदरभगन्दरान्| ग्रहणीपाण्डुरोगांश्च हन्ति पुंसवनश्च सः||२०|| गुडः कल्याणको नाम सर्वेष्वृतुषु यौगिकः| |२१|

🔊 Audio coming soon

स०-विडङ्गादीनि कार्षिकाणि, त्रिवृताचूर्णतिलतैले पृथगष्टपलप्रमाणे, आमलकफलरसप्रस्थांस्त्रीन्, गुडपलानि पञ्चाशत्, मृद्विग्निना पक्त्वा तस्मान्मात्रामयन्त्रणः-यन्त्रणारहितः सन्, भक्षयेत्| स च भक्षितः कुष्ठादीन् हन्ति पुंसवनश्च स्यात्| गुडोऽयं कल्याणकसंज्ञः सर्वेषु च ऋतुषु यौगिकः-युज्यते|

Adhikarana avipattiyogo mUtrakRucCrAdiShu (21-23) · Śloka 23

| व्योषत्रिजातकाम्भोदकृमिघ्नामलकैस्त्रिवृत्||२१|| सर्वैः समा समसिता क्षौद्रेण गुटिकाः कृताः| मूत्रकृच्छ्रज्वरच्छर्दिकासशोषभ्रमक्षये||२२|| तापे पाण्ड्वामयेऽल्पेऽग्नौ शस्ताः सर्वविषेषु च| अविपत्तिरयं योगः प्रशस्तः पित्तरोगिणाम्||२३||

🔊 Audio coming soon

स०-व्योषादिभिः समभागैः सर्वैर्द्रव्यैस्त्रिवृत्समा, सा च त्रिवृत् तुल्यशर्करा, एवमेताः क्षौद्रेण गुटिकाः कृता मूत्रकृच्छ्रादिषु शस्यन्ते| अविपत्तिरयं योगः पित्तरोगिणां प्रशस्तः|

Adhikarana varShAsu virecanayogaH (24) · Śloka 24

त्रिवृता कौटजं बीजं पिप्पली विश्वभेषजम्| क्षौद्रद्राक्षारसोपेतं वर्षाकाले विरेचनम्||२४||

🔊 Audio coming soon

स०-त्रिवृतादिकं क्षौद्रद्राक्षारससंयुक्तं प्रावृषि विरेचनम्|

Adhikarana sharadi virecanayogaH (25) · Śloka 25

त्रिवृद्दुरालभामुस्तशर्करोदीच्यचन्दनम्| द्राक्षाम्बुना सयष्ट्याह्वसातलं जलदात्यये||२५||

🔊 Audio coming soon

स०-त्रिवृद्दुरालभादिकं द्राक्षाजलेन शरदि विरेचनम्|

Adhikarana hemante virecanayogaH (26) · Śloka 26

त्रिवृतां चित्रकं पाठामजाजीं सरलं वचाम्| स्वर्णक्षीरीं च हेमन्ते चूर्णमुष्णाम्बुना पिबेत्||२६||

🔊 Audio coming soon

स०-त्रिवृतादिकं चूर्णमुष्णाम्बुना सह हेमन्ते पिबेत्|

Adhikarana grIShme virecanayogaH (27) · Śloka 27

त्रिवृता शर्करातुल्या ग्रीष्मकाले विरेचनम्| |२७|

🔊 Audio coming soon

स०-त्रिवृच्छर्करासमा ग्रीष्मर्तौ विरेचनम्|

Adhikarana snigdhAnAM sarvartuko virecanayogaH (27-28) · Śloka 28

| त्रिवृत्त्रायन्तिहपुषासातलाकटुरोहिणीः||२७|| स्वर्णक्षीरीं च सञ्चूर्ण्य गोमूत्रे भावयेत्त्र्यहम्| एष सर्वर्तुको योगः स्निग्धानां मलदोषहृत्||२८||

🔊 Audio coming soon

स०-त्रिवृदादीनि सञ्चूर्ण्य त्र्यहं गोमूत्रे भावयेत्| एष योगः सर्वर्तुष्वपि स्निग्धानां नराणां मलदोषस्य हारकः स्यात्|

Adhikarana rUkShANAM sarvartuko virecanayogaH (29-1) · Śloka 1

श्यामात्रिवृद्दुरालम्भाहस्तिपिप्पलिवत्सकम्| नीलिनीकटुकामुस्ताश्रेष्ठायुक्तं सुचूर्णितम्||२९|| रसाज्योष्णाम्बुभिः शस्तं रूक्षाणामपि सर्वदा| |३०| इति त्रिवृच्छ्यामयोः कल्पः||१||

🔊 Audio coming soon

स०-श्यामाद्यं चूर्णीकृतं मांसरसघृतोष्णाम्बुभी रूक्षाणामपि सर्वकालं शस्तम्| अपिशब्दात् स्निग्धानां शस्तमेव|

Adhikarana rAjavRukShakalpaH jvarAdiShu virecanayogaH (30-31) · Śloka 31

अथ राजवृक्षकल्पः| | ज्वरहृद्रोगवातासृगुदावर्तादिरोगिषु||३०|| राजवृक्षोऽधिकं पथ्यो मृदुर्मधुरशीतलः| |३१|

🔊 Audio coming soon

स०-ज्वरादिष्वन्येभ्यस्तद्विषयोक्तेभ्यो विरेचनद्रव्येभ्यो राजवृक्षोऽतिशयेन पथ्यः| किम्भूतः ? मृदुर्मधुरः शीतलश्च|

Adhikarana bAlAdiShu visheSheNa yogaH (31-32) · Śloka 32

| बाले वृद्धे क्षते क्षीणे सुकुमारे च मानवे||३१|| योज्यो मृद्वनपायित्वाद्विशेषाच्चतुरङ्गुलः| |३२|

🔊 Audio coming soon

स०-बालादौ मृदुत्वादनपायित्वाच्च विशेषेण चतुरङ्गुलो योज्यः|

Adhikarana grahaNavidhiH (32-34) · Śloka 34

| फलकाले परिणतं फलं तस्य समाहरेत्||३२|| तेषां गुणवतां भारं सिकतासु विनिक्षिपेत्| सप्तरात्रात्समुद्धृत्य शोषयेदातपे ततः||३३|| ततो मज्जानमुद्धृत्य शुचौ पात्रे निधापयेत्| |३४|

🔊 Audio coming soon

स०-तस्य-शम्याकस्य, फलकाले परिणतं-पक्वं, फलं समाहरेत्-सङ्गृह्णीयात्| तेषां-फलानां, गुणवतां-सुनिष्पन्नानां, भारं-पलशतविंशतिः, वालुकासु विनिक्षिपेत्| सप्तरात्रादूर्ध्वं सिकताभ्य उद्धृत्यानन्तरमातपे शोषयेत्| ततः-अनन्तरं, तेभ्यः फलेभ्यो मज्जानमुद्धृत्य-गृहीत्वा, पात्रे-भाण्डे, शुचौ शुद्धे, स्थापयेत्|

Adhikarana dAhodAvartayoH virecanayogaH (34-35) · Śloka 35

| द्राक्षारसेन तं दद्याद्दाहोदावर्तपीडिते||३४|| चतुर्वर्षे सुखं बाले यावद्द्वादशवार्षिके| |३५|

🔊 Audio coming soon

स०-तं-मज्जानं, द्राक्षारसेन दद्यात्| दाहाद्यार्ते नरे चतुर्वर्षे बाले सुखेनैतद्विरेचनम्, यावद्द्वादशवार्षिके बाले सुखं विरेचनमिदम्|

Adhikarana dAhodAvartayoH anye pa~jca yogAH (35-36) · Śloka 36

| चतुरङ्गुलमज्ज्ञो वा कषायं पाययेद्धिमम्||३५|| दधिमण्डसुरामण्डधात्रीफलरसैः पृथक्| सौवीरकेण वा युक्तम् कल्केन त्रैवृतेन वा||३६||

🔊 Audio coming soon

स०-अथवा राजवृक्षमज्ज्ञो हिमं [कषायं]-शीतकषायं, दधिमण्डादिभिः पृथग्युक्तमथवा काञ्जिकेनाथवा कल्केन त्रिवृतासम्बन्धिना युक्तं पाययेत्|

Adhikarana rAjavRukShAriShTaM virecanayogaH (37-2) · Śloka 2

दन्तीकषाये तन्मज्ज्ञो गुडं जीर्णं च निक्षिपेत्| तमरिष्टं स्थितं मासं पाययेत् पक्षमेव वा||३७|| इति राजवृक्षकल्पः||२||

🔊 Audio coming soon

स०-दन्तीकषाये तन्मज्ज्ञः-कर्णिकारस्य मध्यानि, गुडं जीर्णं च विनिक्षिपेत्| तमरिष्टं मासं स्थितं पाययेत्| पक्षं वा स्थितम्|

Adhikarana tilvakakalpaH tilvakamUlacUrNasya yogaH (38-40) · Śloka 40

अथ तिल्वककल्पः| त्वचं तिल्वकमूलस्य त्यक्त्वाऽऽभ्यन्तरवल्कलम्| विशोष्य चूर्णयित्वा च द्वौ भागौ गालयेत्ततः||३८|| रोध्रस्यैव कषायेण तृतीयं तेन भावयेत्| कषाये दशमूलस्य तं भागं भावितं पुनः||३९|| शुष्कं चूर्णं पुनः कृत्वा ततः पाणितलं पिबेत्| मस्तुमूत्रसुरामण्डकोलधात्रीफलाम्बुभिः||४०||

🔊 Audio coming soon

स०-तिल्वकमूलस्य त्वचं त्यक्त्वा मध्यवल्कलं विशोष्य तथा चूर्णयित्वा ततश्चूर्णात् द्वौ भागौ रोध्रस्यैव कषायेण गालयेत्| ततः-अनन्तरम्, अवशिष्टो यस्तृतीयो भागस्ततश्चूर्णात्, तं तेन कषायेण वस्त्रगालितेन भावयेत्| अनन्तरं वस्त्रगालितकषायेण भावितं पुनः कषाये दशमूलस्य भावितमनन्तरं शुष्कचूर्णं [कृत्वा] ततश्चूर्णात् पाणितलं-कर्षं, मस्तुगोमूत्रादिकेन पिबेत्| (कोलं-बदरम्, धात्रीफलं-आमलकम्, तयोरम्बुनी स्वरसौ|) तद्भावनौषधप्रमाणं च शिलाजतुनः कल्पवत् कल्पयेत्| शिलाजतुकल्पं च वक्ष्यति (हृ. उ. अ. ३९/१३५)- "समगिरिजमष्टगुणिते निःक्वाथ्यं भावनौषधं तोये|" इत्यादि| तस्मादत्र तिल्वकत्वचो भाव्यौषधस्य रोध्रश्च(ध्रंच)भावनौषधं समं देयम्, ततोऽष्टगुणं जलं देयम्, तच्च क्वथनेनाष्टांशशेषं कार्यमिति| एवमन्यत्राप्यनिर्दिष्टप्रमाणानां भाव्यद्रव्यभावनाद्रव्यतोयावशिष्टानां परिमाणं बोध्यम्|

Adhikarana tilvakamUlakalkasya yogaH (41-3) · Śloka 3

तिल्वकस्य कषायेण कल्केन च सशर्करः| सघृतः साधितो लेहः स च श्रेष्ठं विरेचनम्||४१|| इति तिल्वककल्पः||३||

🔊 Audio coming soon

स०-रोध्रस्य कषायेण कल्केन च सशर्करो घृतान्वितो लेहः स्यात्| स च लेहः श्रेष्ठं विरेचनम्|

Adhikarana sudhAkalpaH sudhAkShIrasya virecanayogaH (42-47) · Śloka 47

अथ सुधाकल्पः| सुधा भिनत्ति दोषाणां महान्तमपि सञ्चयम्| आश्वेव कष्ठविभ्रंशान्नैव तां कल्पयेदतः||४२|| मृदौ कोष्ठेऽबले बाले स्थविरे दीर्घरोगिणि| कल्प्या गुल्मोदरगरत्वग्रोगमधुमेहिषु||४३|| पाण्डौ दूषीविषे शोफे दोषविभ्रान्तचेतसि| सा श्रेष्ठा कण्टकैस्तीक्ष्णैर्बहुभिश्च समाचिता||४४|| द्विवर्षां वा त्रिवर्षां वा शिशिरान्ते विशेषतः| तां पाटयित्वा शस्त्रेण क्षीरमुद्धारयेत्ततः||४५|| बिल्वादीनां बृहत्योर्वा क्वाथेन सममेकशः| मिश्रयित्वा सुधाक्षीरं ततोऽङ्गारेषु शोषयेत्||४६|| पिबेत्कृत्वा तु गुटिकां मस्तुमूत्रसुरादिभिः| |४७|

🔊 Audio coming soon

स०-सुधा-गुडा, दोषाणां महान्तमपि सञ्चयं हन्ति| एवंगुणामपि तां-सुधां, भिषक् मृदुकोष्ठादिषु अतो न कल्पयेत्| शीघ्रमेव कष्टविभ्रंशादिति| कल्पयेदित्यतिसर्जने लिङ्| तर्हि क्वेयं प्रयोज्या ? इत्याह-कल्प्येति| गुल्मादिषु कल्प्या सास्नुक्, तीक्ष्णैर्बहुभिः कण्टकैश्चिता श्रेष्ठा स्यात्| तां-सुधां, द्विवर्षामथवा त्रिवर्षां विशेषेण शिशिरान्ते कार्यवशादन्यस्मिन्नपि ऋतौ शस्त्रेण पाटयित्वा ततः-सुधातः, क्षीरमुद्धारयेत्| द्वे वर्षे प्रमाणमस्या इति ठक्| तस्य रसाल्लुगिति लुक्| ततश्च टाप्| ततः-अनन्तरं, बिल्वादीनां कण्टकारीमहोटिकयोर्वा क्वाथेन एकशः-एकेनैकेन, समं मेलयित्वा सुधाक्षीरमनन्तरमङ्गारेषु तदुभयमपि शोषयेत्| ततो गुटिकां कृत्वा यथायोगं मस्त्वादिभिः पिबेत्|

Adhikarana sudhAkShIrasya anyo virecanayogaH (47-4) · Śloka 4

| त्रिवृतादीन्नव वरां स्वर्णक्षीरीं ससातलाम्||४७|| सप्ताहं स्नुक्पयः पीतान् रसेनाज्येन वा पिबेत्| तद्वद्व्योषोत्तमाकुम्भनिकुम्भाग्नीन् गुडाम्बुना||४८|| इति सुधाकल्पः||४||

🔊 Audio coming soon

स०-त्रिवृतादीन्नवेति 'त्रिवृच्छ्यामा राजवृक्षस्तिल्वकश्च तथा सुधा| शङ्खिनी सप्तला दन्ती द्रवन्तीति [स्मृता नव||]' इति| तदेतान् त्रिवृतादींस्तथा त्रिपालां स्वर्णक्षीरीं सातलां च सप्त वासरान् स्नुक्पयः पीतान्-स्नुक्क्षीरभावितान्, मांसरसेन घृतेन वा पिबेत्| तथैव व्योषादीन् गुडाम्बुना पिबेत्|

Adhikarana sha~gkhinIphalasya kalpaH saptalAmUlasya kalpaH (49-5) · Śloka 5

अथ शङ्खिनीसप्तलयोः कल्पः| नातिशुष्कं फलं ग्राह्यं शङ्खिन्या निस्तुषीकृतम्| सप्तलायास्तथा मूलं ते तु तीक्ष्णविकाषिणी||४९|| श्लेष्मामयोदरगरश्वयथ्वादिषु कल्पयेत्| अक्षमात्रं तयोः पिण्डं मदिरालवणान्वितम्||५०|| हृद्रोगे वातकफजे तद्वद्गुल्मेऽपि योजयेत्| |५१| इति शङ्खिनीसप्तलयोः कल्पः||५||

🔊 Audio coming soon

स०-शङ्खिन्याः फलं निस्तुषीकृतं नातिशुष्कं ग्राह्यम्| सप्तलायाश्च मूलं ग्राह्यम्| ते च-शङ्खिनीफलसातलामूले, तीक्ष्णविकाषिणी-तैक्ष्ण्यात् विकाशित्वाच्च, श्लेष्मामयाद्येषु कल्पयेत्| तयोः-शङ्खिनीसप्तलयोः पूर्वोक्तयोः, कर्षमात्रं पिण्डं सुरालवणयुक्तं वातकफजहृद्रोगादिषु कल्पयेत्|

Adhikarana dantIdravantyoH kalpaH praklinnadehAdiShu kalpaH (51-57) · Śloka 57

अथ दन्तीद्रवन्त्योः कल्पः| | दन्तिदन्तस्थिरं स्थूलं मूलं दन्तीद्रवन्तिजम्||५१|| आताम्रश्यावतीक्ष्णोष्णमाशुकारि विकाशि च| गुरु प्रकोपि वातस्य पित्तश्लेष्मविलायनम्||५२|| तत्क्षौद्रपिप्पलीलिप्तं स्वेद्यं मृद्दर्भवेष्टितम्| शोष्यं मन्दातपेऽग्न्यर्कौ हतो ह्यस्य विकाशिताम्||५३|| तत्पिबेन्मस्तुमदिरातक्रपीलुरसासवैः| अभिष्यण्णतनुर्गुल्मी प्रमेही जठरी गरी||५४|| गोमृगाजरसैः पाण्डुः कृमिकोष्ठी भगन्दरी| सिद्धं तत्क्वाथकल्काभ्यां दशमूलरसेन च||५५|| विसर्पविद्रध्यलजीकक्षादाहान् जयेद्धृतम्| तैलं तु गुल्ममेहार्शोविबन्धकफमारुतान्||५६|| महास्नेहः शकृच्छुक्रवातसङ्गानिलव्यथाः| इति दन्तीद्रवन्त्योः कल्पः| विरेचने मुख्यतमा नवैते त्रिवृतादयः||५७||

🔊 Audio coming soon

स०-दन्तिनो दन्तः, तद्वत्स्थिरं स्थूलं च दन्तीद्रवन्त्युद्भवं मूलं किञ्चित्ताम्रश्यावतीक्ष्णोष्णमाशुकारि विकाशि चेत्यादिना तत्स्वरूपोक्तिः| तच्च क्षौद्रपिप्पलीभ्यां लिप्तं मृद्दर्भवेष्टितं स्वेदितं पश्चान्मन्दातपे शोष्यम्| किमेवं क्रियते ? इत्याह यस्मादग्न्यर्कावस्य विकाशितां हतः| तच्च मस्त्वादिभिः पिबेत्| अभिष्यण्णदेहादिः पाण्ड्वामयी कृमिकोष्ठी भगन्दरी च गोमृगाजमांसरसैः पिबेत्| तस्य मूलस्य क्वाथकल्काभ्यां दशमूलरसेन च सिद्धं घृतं विसर्पादीन् जयेत्| तैलं तु सिद्धं गुल्मादीन् जयेत्| महास्नेहः शकृतादिसङ्गादीन् जयेत्| स०-एते त्रिवृतादयो विरेचने नव श्रेष्ठतमाः|

Adhikarana harItakIkalpaH grahaNyAdiShu kalpaH (58-6) · Śloka 6

अथ हरीतकीकल्पः| हरीतकीमपि त्रिवृद्विधानेनोपकल्पयेत्| गुडस्याष्टपले पथ्याविंशतिः स्यात्पलं पलम्||५८|| दन्तीचित्रकयोः कर्षौ पिप्पलीत्रिवृतोर्दश| प्रकल्प्य मोदकानेकं दशमे दशमेऽहनि||५९|| उष्णाम्भोऽनु पिबेत्खादेत्तान् सर्वान्विधिनाऽमुना| एते निष्परिहाराः स्युः सर्वव्याधिनिबर्हणाः||६०|| विशेषाद्ग्रहणीपाण्डुकण्डूकोठार्शसां हिताः| |६१| इति हरीतकीकल्पः||६||

🔊 Audio coming soon

स०-यथा त्रिवृताया विधानमुक्तं "अथ काले ततश्चूर्णं किञ्चिन्नागरसैन्धवम्|"(श्लो.७) इत्यादि, तथैव हरीतक्या अपि विधातव्यमित्यर्थः| स०-गुडस्याष्टपले पथ्याविंशतिर्दन्तीचित्रकयोः पलं पलं प्रत्येकं स्यात्| पिप्पलीत्रिवृतयोः कर्षावुभौ| दश मोदकानेवं प्रकल्प्यैकमेकं मोदकं दशमे दशमे दिने योजयेत्| पश्चादुष्णाम्बु पिबेत्| अमुना विधिना सर्वान् मोदकान् भक्षयेत्| एते मोदका निष्परिहारास्तथाऽशेषव्याधिनिबर्हणाः स्युः| विशेषेण ग्रहण्यादीनां हिताः| सम्बन्धमात्रस्य विवक्षितत्वादत्र षष्ठी, अन्यथा तु हितयोगे चतुर्थी स्यात्|

Adhikarana uktAnAM virecanakalpAnAM ki~jcidvisheShaH (2) · Śloka 2

अल्पस्यापि महार्थत्वं प्रभूतस्याल्पकर्मताम्||६१|| कुर्यात्संश्लेषविश्लेषकालसंस्कारयुक्तिभिः| ६१ १/२| त्वक्केसराम्रातकदाडिमैला- सितोपलामाक्षिकमातुलुङ्गैः| मद्येन तैस्तैश्च मनोनुकूलै- र्युक्तानि देयानि विरेचनानि| ६२ १/२| इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचिता यामष्टाङ्गहृदयसंहितायां पञ्चमे कल्पसिद्धिस्थाने विरेचनकल्पो नाम द्वितीयोऽध्यायः||२||

🔊 Audio coming soon

स०-अल्पस्य-वीर्येण मात्रया वा कदाचिदल्पौषधयोगस्य, केनचित्तत्तद्योग्यौषधसंश्लेषेण तस्य महार्थत्वं कार्यम्| तथा कालेन-मध्याह्नादिना, तथा संस्कारेण-तद्योग्येन गुणान्तरोत्पादनेन, तथा युक्त्या-योजनाप्रकारविशेषेण, तथा वीर्येण प्रभूतस्य-मात्रयाऽथवा महार्थस्य, कदाचित् केनचिद्द्रव्येण विश्लेषं कृत्वा तस्याल्पकर्मत्वं कार्यम्| तथा कालेन प्रत्यूषादिना मन्दवीर्येण, तथा संस्कारेण-गुणान्तराधानेन, तथा युक्त्या-तादृश्या, अल्पशक्तित्वलक्षणं कर्म कार्यम्| त्वक्केसरादिभिस्तैस्तैः-अन्यैश्च तथाविधैः, मनोनुकूलैः-मानसप्रियैः, औषधैर्युक्तानि विरेचनानि देयानि| एवं कृते सति सम्यग्योगो विरेचनस्य स्यादिति| उपजातिर्वृत्तम्| इति श्रीमृगाङ्कदत्तपुत्रश्रीमदरुणदत्तविरचितायामष्टाङ्गहृदयटी- कायां सर्वाङ्गसुन्दराख्यायां पञ्चमे कल्पसिद्धिस्थाने विरे- चनकल्पो नाम द्वितीयोऽध्यायः समाप्तः|| २||