Adhikarana adhyAyopakramaH · Śloka
🔊 Audio coming soon
अर्शोनिदानादनन्तरमतिसारग्रहणीरोगनिदानारम्भः| यतो वक्ष्यति (हृ. चि. अ. ८|१६४) - "अर्शोतिसारग्रहणीविकाराः प्रायेण चान्योन्यनिदानभूताः|" इति|
Adhikarana adhyAyopakramaH · Śloka
🔊 Audio coming soon
अर्शोनिदानादनन्तरमतिसारग्रहणीरोगनिदानारम्भः| यतो वक्ष्यति (हृ. चि. अ. ८|१६४) - "अर्शोतिसारग्रहणीविकाराः प्रायेण चान्योन्यनिदानभूताः|" इति|
Adhikarana atIsAragrahaNIroganidAnAdhyAyaH (2) · Śloka 2
तस्मादतीसारग्रहणीरोगनिदानं प्रक्रम्यत इत्याह - - - - अथातोऽतीसारग्रहणीदोषनिदानं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः| (गद्यसूत्रे)||२||
🔊 Audio coming soon
स०-पूर्ववद्व्याख्या|
Adhikarana atIsAraH ShaDvidhaH (1) · Śloka 1
दोषैर्व्यस्तैः समस्तैश्च भयाच्छोकाच्च षड्विधः| अतीसारः|१|
🔊 Audio coming soon
स०-दोषैर्व्यस्तैः-पृथग्वातपित्तकफैः, समस्तैः-सन्निपातेन, तथा भयात् शोकाच्चेति षड्विधोऽतीसारः|
Adhikarana atIsArasya nidAnam (1-4) · Śloka 4
| स सुतरां जायतेऽत्यम्बुपानतः||१|| कृशशुष्कामिषासात्म्यतिलपिष्टविरूढकैः| मद्यरूक्षातिमात्रान्नैरर्शोभिः स्नेहविभ्रमात्||२|| कृमिभ्यो वेगरोधाच्च तद्विधैः कुपितोऽनिलः| विस्रंसयत्यधोऽब्धातुं हत्वा तेनैव चानलम्||३|| व्यापद्यानुशकृत्कोष्ठं पुरीषं द्रवतां नयन्| प्रकल्पतेऽतिसाराय|४|
🔊 Audio coming soon
स०-स च सुतरामत्यम्बुपानात् जायते| कृशशुष्कामिषादिभिस्तथा तद्विधैः-वातप्रकोपहेतुभिरिहानुक्तैरपि, अनिलः कुपितोऽब्धातुं शरीरगतमधो विस्रंसयति-अधस्तान्नयति| स्नेहविभ्रमः-स्नेहव्यापत्तिः| तेनैव-अब्धातुना, अनलं-जठराग्निं, हत्वा-मन्दत्वं नीत्वा, तथा कोष्ठं व्यापद्य-शून्यतां कोष्ठस्य कारयित्वा, अनुशकृत्-शकृतः समीपे, न तु सर्वं कोष्ठम्| पुरीषं च तेनैव धातुना द्रवतां नयन्-प्रापयन्| अतीसाराय कल्पते-सम्पद्यते| अनिल इति योज्यम्|
Adhikarana atIsArasya pUrvarUpam (4-5) · Śloka 5
| लक्षणं तस्य भाविनः||४|| तोदो हृद्गुदकोष्ठेषु गात्रसादो मलग्रहः| आध्मानमविपाकश्च|५|
🔊 Audio coming soon
स०-तस्य-अतीसारस्य, भाविनो-भविष्यतो लक्षणं, तोदो हृदादिषु गात्रसादादि च|
Adhikarana vAtajAnAM lakShaNam (5-7) · Śloka 7
| तत्र वातेन विड्जलम्||५|| अल्पाल्पं शब्दशूलाढ्यं विबद्धमुपवेश्यते| रूक्षं सफेनमच्छं च ग्रथितं वा मुहुर्मुहुः||६|| तथा दग्धगुडाभासं सपिच्छापरिकर्तिकम्| शुष्कास्यो भ्रष्टपायुश्च हृष्टरोमा विनिष्टनन्||७||
🔊 Audio coming soon
स०-[तत्र-] तेषु षडतीसारेषु, वातेनातीसारे विड्जलादिकं शुष्कमुखादिको नर उपवेश्यते| किं कुर्वन् ? विनिष्टनन्| कोऽर्थः ? निःकुथन्|
Adhikarana pittajAnAM lakShaNam (8-9) · Śloka 9
पित्तेन पीतमसितं हारिद्रं शाद्वलप्रभम्| सरक्तमतिदुर्गन्धं तृण्मूर्च्छास्वेददाहवान्||८|| सशूलं पायुसन्तापपाकवान्| |९|
🔊 Audio coming soon
स०-पित्तेन तृडादिमान्नरः पीतादिकमुपवेश्यते|
Adhikarana kaphajAnAM lakShaNam (9-11) · Śloka 11
श्लेष्मणा घनम्| पिच्छिलं तन्तुमच्छ्वेतं स्निग्धमामं कफान्वितम्||९|| अभीक्ष्णं गुरु दुर्गन्धं विबद्धमनुबद्धरुक्| निद्रालुरलसोऽन्नद्विडल्पाल्पं सप्रवाहिकम्||१०|| सरोमहर्षः सोत्क्लेशो गुरुबस्तिगुदोदरः| कृतेऽप्यकृतसंज्ञश्च|११|
🔊 Audio coming soon
स०-श्लेष्मणा घनादिगुणं नर उपवेश्यते| निद्रालुस्तथाऽलसोऽन्नद्वेषी च स्तोकं स्तोकं सह प्रवाहिकया वर्तते सप्रवाहिकं चोपवेश्यते| तथा, सरोमहर्षादिकः स्यात्| कृतेऽप्यकृतसंज्ञश्च-तथा कृतेऽप्यकृतसंज्ञश्च पुरीषोत्सर्गेऽकृतसंज्ञः कृतपुरीषोत्सर्ग इति संवेदना न भवति|
Adhikarana tridoShasya lakShaNam (11) · Śloka 11
| सर्वात्मा सर्वलक्षणः||११||
🔊 Audio coming soon
स०-सर्वात्मा-सन्निपातेन, सर्वदोषलिङ्गः|
Adhikarana bhayajasya lakShaNam (12-13) · Śloka 13
भयेन क्षोभिते चित्ते सपित्तो द्रावयेच्छकृत्| वायुस्ततोऽतिसार्येत क्षिप्रमुष्णं द्रवं प्लवम्||१२|| वातपित्तसमं लिङ्गैराहुः| |१३|
🔊 Audio coming soon
स०-भयेन चित्ते क्षोभिते सति पित्तसहितो वायुः शकृद्द्रावयेत्| ततोऽनन्तरमतिसार्येत, क्षिप्रादिगुणयुक्तं लिङ्गैर्वातपित्ततुल्यम्|
Adhikarana shokajasya lakShaNam (13) · Śloka 13
तद्वच्च शोकतः| |१३|
🔊 Audio coming soon
स०-तद्वच्च-भयेन तुल्यलिङ्गं, शोकादतिसार्यते|
Adhikarana ShaNNAmatIsArANAM pratyekaM dvaividhyadvikam (13-14) · Śloka 14
| अतीसारः समासेन द्विधा सामो निरामकः||१३|| सासृङ्निरस्रः| |१४|
🔊 Audio coming soon
स०-अतीसारः षोढा भवन् द्विप्रकारः सङ्क्षेपेण| एकः सामो द्वितीयो निरामकः| तथा, एकः सरक्तो द्वितीयो निरस्रः|
Adhikarana sAmasya lakShaNam (14) · Śloka 14
तत्राद्ये गौरवादप्सु मज्जति| शकृद्दुर्गन्धमाटोपविष्टम्भार्तिप्रसेकिनः||१४||
🔊 Audio coming soon
स०-तत्र-तस्मिन्, आद्ये-सामेऽतीसारे, गौरवादप्सु पतितं पुरीषं मज्जति-ब्रुडति, दुर्गन्धं च स्यात्| आटोपादियुतस्य पुंसः|
Adhikarana nirAmasya lakShaNam (15) · Śloka 15
विपरीतो निरामस्तु कफात्पक्वोऽपि मज्जति| |१५|
🔊 Audio coming soon
स०-निरामस्त्वतीसारोऽतो विपरीतः-अप्सु प्लवति, आटोपादिरहितस्य पुंसः| स०-कफात्पुनः स्वभावगुरुत्वात् पक्वोऽपि मज्जति|
Adhikarana grahaNIrogasya nidAnam (15-16) · Śloka 16
अथ ग्रहणीरोगं लक्षयति - - - - | अतीसारेषु यो नातियत्नवान् ग्रहणीगदः||१५|| तस्य स्यादग्निविध्वंसकरैरन्यस्य सेवितैः| |१६|
🔊 Audio coming soon
स०-अतीसारेषु योऽतियत्नवान्न भवति तस्य ग्रहणीगदो भवेदिति ग्रहण्या निदानम्| अन्यस्य-अनतिसारिणः, अग्निविध्वंसकरैः-वह्निमान्द्यहेतुभिरन्नपानैः, शीलितैर्ग्रहणीरोगः स्यात्|
Adhikarana atIsArasya medakalakShaNam (16-17) · Śloka 17
अतीसारग्रहणीरोगयोः समानाभासत्वात् को विशेषः ? इत्याह - - - - | सामं शकृन्निरामं वा जीर्णे येनातिसार्यते||१६|| सोऽतिसारोऽतिसरणादाशुकारी स्वभावतः| |१७|
🔊 Audio coming soon
स०-सामं पुरीषमथवा निरामं जीर्ण आहारे सति येन-व्याधिना, अतिसार्यते-अत्यर्थं बहिर्निःसार्यते, स व्याधिरतीसारः| अतिसरणाद्धेतोः| अतिसरणशब्दनिर्देशेन चास्यान्वर्थत्वं द्योतितम्| तदेवमतिसरणादतीसार इत्युच्यते| ननु, एवं सति यदा ग्रहणीदोषेऽप्यतिसरणं कथञ्चित्स्यात्तदा तस्याप्यतीसारत्वं स्यादित्याशङ्क्याह-आशुकारीत्यादि| प्रभावप्रधानोऽयं निर्देशः| हेतौ प्रथमा| स्वभावेनाशुकारित्वादतीसारो ग्रहणीदोषादन्य इत्यर्थः| ग्रहणीदोषो हि नाशुकारी, किन्तर्हि ? चिरकृत्| तथा चाह (श्लो. १८)- "चिरकृद्ग्रहणीदोषः" इति|
Adhikarana grahaNIrogasya medakalakShaNam (17-18) · Śloka 18
अथ ग्रहणीदोषस्य स्वरूपं वर्णयन्नतीसाराद्भूयो मेदमाह - - - - | सामं सान्नमजीर्णेऽन्ने जीर्णे पक्वं तु नैव वा||१७|| अकस्माद्वा मुहुर्बद्धमकस्माच्छिथिलं मुहुः| चिरकृद्ग्रहणीदोषः सञ्चयाच्चोपवेशयेत्||१८||
🔊 Audio coming soon
स०-ग्रहणीदोषोऽजीर्णेऽन्ने सामं कदाचित्सान्नं, कदाचिज्जीर्णेऽन्ने पक्वं तथा नैव वा| अकस्मात्-कदाचिन्निमित्तमन्तरेणापि, मुहुर्मुहुः-पुनःपुनर्बद्धं, कदाचिन्निमित्तं विना मुहुः शिथिलं, सञ्चयादुपवेशयेदिति योज्यम्| अयं तु ग्रहणीदोषश्चिरकृत्|
Adhikarana grahaNIrogashcaturdhA (19) · Śloka 19
स चतुर्धा पृथग्दोषैः सन्निपाताच्च जायते| |१९|
🔊 Audio coming soon
स०-सः-ग्रहणीदोषः, पृथग्दोषैः-वातपित्तकफैः, सन्निपातेन चेति चतुष्प्रकारो जायते|
Adhikarana grahaNIrogasya pUrvarUpam (19-20) · Śloka 20
| प्राग्रूपं तस्य सदनं चिरात्पचनमम्लकः||१९|| प्रसेको वक्क्रवैरस्यमरुचिस्तृट् क्लमो भ्रमः| आनद्धोदरता छर्दिः कर्णक्ष्वेडोऽन्त्रकूजनम्||२०||
🔊 Audio coming soon
स०-तस्य-ग्रहणीदोषस्य, प्राग्रूपं सदनं चिरात्पचनादि च|
Adhikarana grahaNIrogasya sAmAnyalakShaNam (21) · Śloka 21
सामान्यं लक्षणं कार्श्यं धूमकस्तमको ज्वरः| मूर्च्छा शिरोरुग्विष्टम्भः श्वयथुः करपादयोः||२१||
🔊 Audio coming soon
स०-चतुर्विधस्यास्य ग्रहणीगदस्य सामान्यं लक्षणं कार्श्यादिकम्|
Adhikarana vAtajasya lakShaNam (22-25) · Śloka 25
तत्रानिलात्तालुशोषस्तिमिरं कर्णयोः स्वनः| पार्श्वोरुवङ्क्षणग्रीवारुजाऽभीक्ष्णं विषूचिका||२२|| रसेषु गृद्धिः सर्वेषु क्षुत्तृष्णा परिकर्तिका| जीर्णे जीर्यति चाध्मानं भुक्ते स्वास्थ्यं समश्नुते||२३|| वातहृद्रोगगुल्मार्शःप्लीहपाण्डुत्वशङ्कितः| चिराद्दुःखं द्रवं शुष्कं तन्वामं शब्दफेनवत्||२४|| पुनःपुनः सृजेद्वर्चः पायुरुक्श्वासकासवान्| |२५|
🔊 Audio coming soon
स०-तत्र-तेषु चतुर्षु गदेषु मध्ये, वातात्तालुशोषादि स्यात्|
Adhikarana pittajasya lakShaNam (25-26) · Śloka 26
| पित्तेन नीलपीताभं पीताभः सृजति द्रवम्||२५|| पूत्यम्लोद्गारहृत्कण्ठदाहारुचितृडर्दितः| |२६|
🔊 Audio coming soon
स०-पित्तेन पीताभः सन् तथा पूत्यम्लोद्गाराद्यर्दितो नीलवर्णादिकं वर्चः सृजति|
Adhikarana kaphajasya lakShaNam (26-29) · Śloka 29
| श्लेष्मणा पच्यते दुःखमन्नं छर्दिररोचकः||२६|| आस्योपदेहेनिष्ठीवकासहृल्लासपीनसाः| हृदयं मन्यते स्त्यानमुदरं स्तिमितं गुरु||२७|| उद्गारो दुष्टमधुरः सदनं स्त्रीष्वहर्षणम्| भिन्नामश्लेष्मसंसृष्टगुरुवर्चःप्रवर्तनम्||२८|| अकृशस्यापि दौर्बल्यम्| |२९|
🔊 Audio coming soon
स०-श्लेष्मणा दुःखं-कृच्छ्रेण, अन्नं पच्यते| छर्द्यादि च स्यात्| तथा, हृदयं स्त्यानं-पिण्डितमिव, मन्यते| जठरं निश्चलं गुरु च| उद्गारश्च दुष्टमधुरः स्यात्| सदनं शरीरस्य| स्त्रीष्वहर्षणादि च स्यात्|
Adhikarana sannipAtajasya lakShaNam (29) · Śloka 29
सर्वजे सर्वसङ्करः| |२९|
🔊 Audio coming soon
स०-सर्वजे-सन्निपातजे, सर्वेषां लक्षणानां सङ्करो-मिश्रत्वं, भवति|
Adhikarana viShamAdyAstrayo~agnayo~api grahaNIdoShAH (29-30) · Śloka 30
| विभागेऽङ्गस्य ये चोक्ता विषमाद्यास्त्रयोऽग्नयः||२९|| तेऽपि स्युर्ग्रहणीदोषाः| |३०|
🔊 Audio coming soon
स०-अङ्गस्य विभागे च ये विषमाद्याः-विषमतीक्ष्णमन्दाः, त्रयोऽग्नय उक्तास्तेऽपि ग्रहणीदोषाः स्युः| ननु, एवं सति सप्त ग्रहणीदोषा इति प्राप्नोति| मैवम्| मुख्याः सप्राप्तिपूर्वरूपरूपनिर्देशादियुक्ताश्चत्वार एव ग्रहणीगदाः| ये तु विषमाद्यास्त्रयस्ते ग्रहणीरोगाभासा इति बोध्यम्|
Adhikarana samo~agniH svAsthyadaH (30) · Śloka 30
समस्तु स्वास्थ्यकारणम्| |३०|
🔊 Audio coming soon
स०-समः पुनरग्निः स्वास्थ्यस्य-आरोग्यस्य, कारणम्|
Adhikarana aShTau mahArogAH (8) · Śloka 8
वातव्याध्यश्मरीकुष्ठमेहोदरभगन्दराः| अर्शांसि ग्रहणीत्यष्टौ महारोगाः सुदुस्तराः||३०|| इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां तृतीये निदानस्थानेऽतीसारग्रहणीदोषनिदानं नामाष्टमोऽध्यायः||८||
🔊 Audio coming soon
स०-वातव्याध्यादयोऽष्टौ महारोगाः सुदुस्तराः-विषमाः| तस्मात्तेषु यत्नः कार्य इति| इति श्रीमृगाङ्कदत्तपुत्रश्रीमदरुणदत्तविरचितायामष्टाङ्गहृदयटीकायां सर्वाङ्गसुन्दराख्यायां तृतीये निदानस्थानेऽतिसारग्रहणीदोषनिदानं नामाष्टमोऽध्यायः समाप्तः|| ८||