Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

9. mūtrāghātanidānādhyāyaḥ

Adhikarana adhyAyopakramaH · Śloka

🔊 Audio coming soon

अतीसारग्रहणीरोगनिदानादनन्तरं मूत्राघातनिदानमेकसम्बन्धनत्वादुच्यत इत्याह - - - -

Adhikarana mUtrAghAtanidAnAdhyAyaH (2) · Śloka 2

अतीसारग्रहणीरोगनिदनानन्तरं मूत्राघातनिदानमेकसम्बन्धनत्वादुच्यत इत्याह - - - - अथातो मूत्राघातनिदानं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः| (गद्यसूत्रे)||२||

🔊 Audio coming soon

०००००

Adhikarana bastyAdaya ekasambandhanAH (1) · Śloka 1

बस्तिबस्तिशिरोमेढ्रकटीवृषणपायवः| एकसम्बन्धनाः प्रोक्ता गुदास्थिविवराश्रयाः||१||

🔊 Audio coming soon

स०-बस्त्यादीनां द्वन्द्वः| बस्त्यादय एकसम्बन्धनाः प्रोक्ताः| एकं सम्बन्धनं-ग्रन्थनं, येषां त एवम्| तदेवैकसम्बन्धनत्वमेषां प्रकटयति-गुदेत्यादि| गुदास्थिविवरमाश्रयो येषां त एवम्, तत्राश्रिता इत्यर्थः|

Adhikarana mUtrAghAtasaMprAptiH (2-3) · Śloka 3

ननु, अत्र मूत्राश्रिता दोषा अवश्यं बस्तिं प्राप्य विकुर्वते| बस्तेश्चाधोमुखत्वान्मूत्रान्तःप्रवेशो बस्तिमुखेन न सम्भाव्यते, तस्मान्मूत्राघातानुत्पत्तिरेव, इत्याशङ्क्याह - - - - अधोमुखोऽपि बस्तिर्हि मूत्रवाहिसिरामुखैः| पार्श्वेभ्यः पूर्यते सूक्ष्मैः स्यन्दमानैरनारतम्||२|| यैस्तैरेव प्रविश्यैनं दोषाः कुर्वन्ति विंशतिम्| मूत्राघातान् प्रमेहांश्च कृच्छ्रान्मर्मसमाश्रयान्||३||

🔊 Audio coming soon

स०-हिर्यस्मादर्थे| अपिश्च हेत्वभ्युपगमे| यद्यप्यधोमुखो बस्तिस्तथाऽपि जलमध्यस्थिताधोमुखनवमृत्कुम्भवत्| हि-यस्मात्, पार्श्वेभ्यो मूत्रवाहिसिरामुखैः-स्रोतोद्गारैः, सूक्ष्मैः प्रकृतत्वान्मूत्रं स्यन्दमानैः-स्रवद्भिः, अनारतं-अनवरतं, यैरेव मूत्रस्रोतोद्वारैर्बस्तिः पूर्यते तैरेव मूत्रस्रोतोद्वारैर्दोषा एनं-बस्तिं, प्रविश्य विंशतिं मूत्राघातान् कुर्वन्ति तावतश्च प्रमेहान्| किम्भूतान् ? बस्त्याख्यमर्मसमाश्रयान्| हेतौ द्वितीया| मर्मसमाश्रितत्वात् कृच्छ्रान्-कृच्छ्रसाध्यान्|

Adhikarana vAtajasya lakShaNam (4) · Śloka 4

बस्तिवङ्क्षणमेड्रार्तियुक्तोऽल्पाल्पं मुहुर्मुहुः| मूत्रयेद्वातजे कृच्छ्रे|४|

🔊 Audio coming soon

स०-अत्र चत्वारो मूत्राघाता वातपित्तकफसन्निपातात्मकाः| तत्र वातजे कृच्छ्रे-मूत्राघाते, बस्त्याद्यर्तियुक्तः पुमानल्पाल्पं कृत्वा मुहुर्मुहुर्मूत्रयेत्|

Adhikarana pittajasya lakShaNam (4-5) · Śloka 5

| पैत्ते पीतं सदाहरुक्||४|| रक्तं वा| |५|

🔊 Audio coming soon

स०-पैत्ते कृच्छ्रे पुमान् मूत्रं पीतं सदाहरुङ्मूत्रयेत्, अथवा रक्तम्|

Adhikarana kaphajasya lakShaNam (5) · Śloka 5

कफजे बस्तिमेड्रगौरवशोफवान्| सपिच्छं सविबन्धं च|५|

🔊 Audio coming soon

स०-कफजे कृच्छ्रे बस्तिमेड्रगौरवशोफयुक्तः सन् सपिच्छं सविबन्धः च-रुद्ध्वा रुद्ध्वा, मूत्रं मूत्रयेत्|

Adhikarana tridoShajasya lakShaNam (5) · Śloka 5

| सर्वैः सर्वात्मकं मलैः||५||

🔊 Audio coming soon

स०-सर्वैः-त्रिभिर्दोषैः सन्निपतितैर्जाते कृच्छ्रे, सर्वात्मकं-दोषत्रयलक्षणलिङ्गितं, मूत्रं मूत्रयेत्|

Adhikarana ashmarIsaMprAptiH (6-7) · Śloka 7

इदानीमश्मरीं लक्षयति - - - - यदा वायुर्मुखं बस्तेरावृत्य परिशोषयेत्| मूत्रं सपित्तं सकफं सशुक्रं वा तदा क्रमात्||६|| सञ्जायतेऽश्मरी घोरा पित्ताद्गोरिव रोचना| श्लेष्माश्रया च सर्वा स्यात्|७|

🔊 Audio coming soon

स०-यदा-यस्मिन् काले, वायुः कुपितो बस्तेर्मुखमावृत्य-रुद्ध्वा, परिशोषयेन्मूत्रं केवलं कदाचित्सपित्तं कदाचित्सकफमथवा सशुक्रं मूत्रं तदा सञ्जायतेऽश्मरी| क्रमात्-यथोत्तरम्, घोरा मूत्राश्मरी, घोरतरा पित्ताश्मरी, घोरतमा श्लेष्माश्मरी, ततोऽपि घोरा शुक्राश्मरी, इति क्रमशब्दस्यार्थः| वायुना पित्तं संशोष्य गोर्यथा रोचना सञ्जायते तथाऽश्मरीति| सर्वा चाश्मरी श्लेष्माश्रया| श्लेष्मा आश्रयः-आधारो, यस्याः सैवम्| कफमाश्रित्य सर्वाऽश्मरी स्यादित्यर्थः|

Adhikarana ashmaryAH pUrvarUpam (7-8) · Śloka 8

| अथास्याः पूर्वलक्षणम्||७|| बस्त्याध्मानं तदासन्नदेशेषु परितोऽतिरुक्| मूत्रे च बस्तगन्धत्वं मूत्रकृच्छ्रं ज्वरोऽरुचिः||८||

🔊 Audio coming soon

स०-अथ-अनन्तरं, अस्याः पूर्वलक्षणं-प्राग्रूपं, बस्त्याध्मानादि|

Adhikarana ashmaryAH sAmAnyalakShaNam (9-10) · Śloka 10

सामान्यलिङ्गं रुड्नाभिसेवनीबस्तिमूर्धसु| विशीर्णधारं मूत्रं स्यात्तया मार्गनिरोधने||९|| तह्यपायात्सुखं मेहेदच्छं गोमेदकोपमम्| तत्सङ्क्षोभात्क्षते सास्रमायासाच्चातिरुग्भवेत्||१०||

🔊 Audio coming soon

स०-सामान्यं लक्षणं नाभ्यादिषु रुग्भवति| तया-अश्मर्या, मार्गनिरोधे सति मूत्रं विशीर्णधारं-विच्छिन्नधारं, भवेत्| तह्यपायात्-अश्मर्यपगमात्, नरः सुखं-अकृच्छ्रेण, मेहेत्-मूत्रं मुञ्चेत्| कीदृशम् ? अच्छं-अकलुषम्, गोमेदकोपमम्, गोमेदको-रत्नविशेषः, उपमा यस्य तदेवम्| तस्याः सङ्क्षोभस्तत्सङ्क्षोभाद्यत्क्षतं भवति तस्मिन्क्षते सति सास्रं-सलोहितं, मेहेत्| आयासात्-अध्वादिकृतात् श्रमात्, अतिरुग्भवेत्|

Adhikarana vAtajAyA lakShaNam (11-12) · Śloka 12

तत्र वाताद्भृशार्त्यार्तो दन्तान् खादति वेपते| मृद्गाति मेहनं नाभिं पीडयत्यनिशं क्वणन्||११|| सानिलं मुञ्चति शकृन्मुहुर्मेहति बिन्दुशः| श्यावा रूक्षाऽश्मरी चास्य स्याच्चिता कण्टकैरिव||१२||

🔊 Audio coming soon

स०-तत्र-तास्वश्मरीषु मध्ये, वाताद्याऽश्मरो तस्यामुत्पन्नायां सत्यां पुमान् भृशार्त्यार्तः-अत्यन्तं पीडया पीडितो, दन्तान् खादति| तथा, वेपते-कम्पते| मेहनं-मेढ्रं, मृद्गाति-मलयति| नाभिं च हस्ताभ्यां पीडयति| किं कुर्वन् ? अनिशं-अनवरतं, क्वणन्-नानाविधदुःखोद्भावकं शब्दं विदधत्| तथा, सहानिलेन-वातसहितं, शकृन्मुञ्चति| तथा, मुहुर्मेहति-मूत्रं पुनःपुनः सृजति| बिन्दुशो-बिन्दुं बिन्दुं कृत्वा| अस्य च-नरस्य, अश्मरी श्यावा वर्णतः, तथा रूक्षा कण्टकैश्चितेव-व्याप्ता, भवेत्|

Adhikarana pittajAyA lakShaNam (13) · Śloka 13

पित्तेन दह्यते बस्तिः पच्यमान इवोष्मवान्| भल्लातकास्थिसंस्थाना रक्ता पीताऽसिताऽश्मरी||१३||

🔊 Audio coming soon

स०-पित्तेन याऽश्मरी तया बस्तिर्दह्यते| पच्यमान इव ऊष्मवान्-सन्तापयुक्तो भवति| सा चाश्मरी भल्लातकास्थिसंस्थाना-तदाकारा स्यात्| तथा, वर्णतो रक्ता पीता तथाऽसिता-कृष्णच्छाया|

Adhikarana kaphajAyA lakShaNam (14) · Śloka 14

बस्तिर्निस्तुद्यत इव श्लेष्मणा शीतलो गुरुः| अश्मरी महती श्लक्ष्णा मधुवर्णाऽथवा सिता||१४||

🔊 Audio coming soon

स०-श्लेष्मणा जातायामश्मर्यां बस्तिर्निस्तुद्यत इव शीतलो गुरुश्च स्यात्| अश्मरी च महती-स्थूला वातपित्तोत्थाभ्यां सकाशात्| तथा, श्लक्ष्णा-कोमला| मधुवर्णा-माक्षिकाभा| अथवा, सिता-शुक्ला|

Adhikarana etAstisro bAlAnAM bhavanti (15) · Śloka 15

एता भवन्ति बालानां तेषामेव च भूयसा| आश्रयोपचयाल्पत्वाद्ग्रहणाहरणे सुखाः||१५||

🔊 Audio coming soon

स०-एताः-तिस्रोऽश्मर्यो, बालानामेव भवन्ति| तथा च तन्त्रान्तरे (सुश्रुते नि. अ. ३|११)- "तिस्रोऽश्मर्यो दिवास्वप्नशीलनाध्यशनशीतस्निग्धमधुराहारप्रियत्वाद्बालानामेव भवन्ति|" इति| तेषां च बालानां जातास्ता भूयसा ग्रहणाहरणे सुखाः| ग्रहणं-बडिशादिना, आहरणं-शस्त्रादिना, तस्मिन् सुखाः-सुखोपायाः| अत्रैव हेतुमाह-आश्रयेत्यादि| आश्रयः-आधारः, उपचयो-वृद्धिः, तयोरल्पत्वं, तस्माद्धेतोर्बलानामश्मर्या आश्रयोऽल्पो भवति, यत्रासावश्मरी जायते| अत एव चाश्रयानुसारेणोपचयोऽप्यश्मर्या बालानामल्पो भवति| अतस्ता ग्रहणाहरणे सुखाः| महतां तु यथोक्तहेत्वभावाद्ग्रहणाहरणे ता दुःखावहाः|

Adhikarana shukrAshmarI mahatAmeva, shukrAshmaryAH saMprAptiH, shukrAshmaryAH lakShaNam (16-18) · Śloka 18

शुक्राश्मरी तु महतां जायते शुक्रधारणात्| स्थानाच्च्युतममुक्तं हि मुष्कयोरन्तरेऽनिलः||१६|| शोषयत्युपसङ्गृह्य शुक्रं तच्छुष्कमश्मरी| बस्तिरुक्कृच्छ्रमूत्रत्वमुष्कश्वयथुकारिणी||१७|| तस्यामुत्पन्नमात्रायां शुक्रमेति विलीयते| पीडिते त्ववकाशेऽस्मिन्|१८|

🔊 Audio coming soon

स०-तुरवधारणे| महतामेव शुक्राश्मरी जायते, न बालानाम्, तथाविधस्य तेषां शुक्रस्याभावात्| कुतो जायते ? शुक्रधारणात्-हर्षाद्युदीरणात्स्थानच्युतस्य शुक्रस्य धारणात्| अत एवाह-स्थानादित्यादि| यस्मात्स्थानाच्च्युतं-परिभ्रष्टं, बहिरमुक्तं-अत्यक्तं, तदानीं वायुर्मुष्कयोः-वृषणयोः, अन्तरे-मध्ये, शोषयति| किं कृत्वा ? उपसङ्गृह्य,-शुक्रं सर्वतो गृहीत्वा| तच्च शुष्कं सदश्मरीति भण्यते| सा च बस्तिरुगादिकारिणी| तस्यामुत्पन्नमात्रायां-न चिरकालोत्पन्नायां, पीडिते-हस्तादिनाऽभिभूते, अस्मिन्नवकाशे-शुक्राश्मरीस्थाने, शुक्रमेति-आगच्छति, तथा विलीयते च, इति चशब्दो लुप्तनिर्दिष्टो बोध्यः| विशेषेण लीयते-तत्रैव सुष्ठु श्लिष्यते, कठिनत्वात्|

Adhikarana sharkarAyAH lakShaNam (18-19) · Śloka 19

| अश्मर्येव च शर्करा||१८|| अणुशो वायुना भिन्ना सा त्वस्मिन्ननुलोमगे| निरेति सह मूत्रेण प्रतिलोमे विबध्यते||१९||

🔊 Audio coming soon

स०-अश्मर्येव च पवनेनाणुशो भिन्ना सती शर्करा स्यात्, न तु तस्या अन्यदुपादानकारणमित्यर्थः| सा-शर्करा, अस्मिन्-पवने, अनुलोमगे-अनुलोमं कृत्वा स्थिते सति, मूत्रेण सह निरेति-बहिर्निष्क्रामति| प्रतिलोमे वायौ सा सर्करा विबध्यते- न तु बहिर्निष्क्रामति| अश्मरी त्वनुलोमगेऽपि मरुति न निरेति-मूत्रेण सह न निष्क्रामति, इत्यनयोर्भेदः| अश्मरीणां भल्लातकादिसंस्थाननिर्देशस्तदनुसारेणाहरणार्थं बस्त्यवयवविपाटनमुपयुज्यते| श्यावादिवर्णनिर्देशश्च बहिर्निष्क्रान्तानां श्यावादिवर्णनिदर्शनेन वातादीननुमाय तत्कृतानां व्रणानां चिकित्सार्थमुपयुज्यते| ननु च, संस्थानेनैव वाताद्यनुमानमश्मरीव्रणस्य भविष्यतीति वर्णनिर्देशोऽनर्थकः| मैवम्| संस्थानं प्रायिकमिति केचिन्मन्यन्ते, तस्माद्वर्णनिर्देशोऽपि वाच्यः| प्रायिकत्वे च तद्द्वयोरुपादानं लिङ्गम्|

Adhikarana vAtabasteH lakShaNam (20-23) · Śloka 23

अथ वातबस्त्यादीनाह - - - - मूत्रसन्धारिणः कुर्याद्बुद्ध्वा बस्तेर्मुखं मरुत्| मूत्रसङ्गं रुजं कण्डूं कदाचिच्च स्वधामतः||२०|| प्रच्याव्य बस्तिमुद्वृत्तं गर्भाभं स्थूलविप्लुतम्| करोति तत्र रुग्दाहस्पन्दनोद्वेष्टनानि च||२१|| बिन्दुशश्च प्रवर्तेत मूत्रं बस्तौ तु पीडते| धारया द्विविधोऽप्येष वातबस्तिरिति स्मृतः||२२|| दुस्तरो दुस्तरतरो द्वितीयः प्रबलानिलः| |२३|

🔊 Audio coming soon

स०-मूत्रसन्धारिणः पुरुषस्य बस्तेः-मूत्रधारस्य, मुखं-द्वारं, रुद्ध्वा मारुतो मूत्रसङ्गं कुर्याद्रुजं कण्डूं च| स वातबस्तिर्मूत्राघातविशेषः| कदाचित्-अदृष्टवशात्, वायुस्तं बस्तिं स्वधामतः-स्वस्थानात्, प्रच्याव्य-च्यावयित्वा, उद्वृत्तं-ऊर्ध्वमुखं, गर्भाभं-गर्भसदृशं, स्थूलं-स्वप्रमाणात् प्रवृद्धं, तथा विप्लुतं-चञ्चलं, करोति| चशब्दान्न केवलं बस्तिभ्रंशमेवंविधं करोति, यावत्तत्र रुगादीनपि| मूत्रं च बिन्दुशः-बिन्दुबिन्दुः प्रवर्तते| बस्तौ च पीडिते-हस्तादिना, मूत्रं धारया-अविच्छिन्नं, प्रवर्तते| एष द्विविधो वातबस्तिरिति नाम्ना स्मृतः| स च प्रथमो दुस्तरो-दुःखेन कृच्छ्रेण तरितुं शक्यते| द्वितीयो वातबस्तिर्दुस्तरतरो यतः प्रबलानिलः| अत एव चात्र प्रबलानिलत्वान्मूत्रस्य बिन्दुशः प्रवर्तनम्|

Adhikarana vAtAShThIlAyAH lakShaNam (23-24) · Śloka 24

| शकृन्मार्गस्य बस्तेश्च वायुरन्तरमाश्रितः||२३|| अष्ठीलाभं घनं ग्रन्थिं करोत्यचलमुन्नतम्| वाताष्ठीलेति साऽऽध्मानविण्मूत्रानिलसङ्गकृत्||२४||

🔊 Audio coming soon

स०-शकृन्मार्गस्य-गुदस्य, बस्तेश्चान्तरं-मध्यं, वायुराश्रितः सन् ग्रन्थिमष्ठीलाभं घनमचलमुन्नतं करोति| सा वाताष्ठीलेत्युच्यते| सा चाध्मानादिकृत्|

Adhikarana vAtakuNDalikAyAH lakShaNam (25-26) · Śloka 26

विगुणः कण्डलीभूतो बस्तौ तीव्रव्यथोऽनिलः| आविध्य मूत्रं भ्रमति सस्तम्भोद्वेष्टगौरवः||२५|| मूत्रमल्पाल्पमथवा विमुञ्चति शकृत्सृजन्| वातकुण्डलिकेत्येषा|२६|

🔊 Audio coming soon

स०-विगुणः-कुपितो न त्वनुलोमगः, तथा दोषदेशादिसहकारिकारणवशात् कुण्डलाकारगतिः, तथा तीव्रव्यथः, कार्ये कारणोपचारादेवमुक्तः, तथा सह स्तम्भेन-स्तब्धतया, तथोद्वेष्टेन गौरवेण च वर्तते| स एवंभूतो वायुर्मूत्रमाविध्य-क्षोभयित्वा बस्तौ भ्रमति| अथवा न मूत्रमाविध्य भ्रमति| किम्भूतस्तर्हि ? शकृत्-पुरीषं, सृजन्-विसर्गं कुर्वन्, मूत्रमल्पाल्पं-स्तोकं स्तोकं कृत्वा, विमुञ्चति| एवंरूपा वातकुण्डलिकोच्यते|

Adhikarana mUtrAtItasya lakShaNam (26-27) · Śloka 27

| मूत्रं तु विधृतं चिरम्||२६|| न निरेति विबद्धं वा मूत्रातीतं तदल्परुक्| |२७|

🔊 Audio coming soon

स०-मूत्रं तु चिरं विधृतं न निरेति-न प्रवर्तते| अथवा पवनवशाद्विबद्धं निर्गच्छत्यल्परुक् तन्मूत्रातीतं कथ्यते|

Adhikarana mUtrajaTharasya lakShaNam (27-29) · Śloka 29

| विधारणात्प्रतिहितं वातोदावर्तितं यदा||२७|| नाभेरधस्तादुदरं मूत्रमापूरयेत्तदा| कुर्यात्तीव्ररुगाध्मानमपक्तिं मलसङ्ग्रहम्||२८|| तन्मूत्रजठरम्| |२९|

🔊 Audio coming soon

स०-विधारणात्-मूत्रवेगस्य रोधात्, प्रतिहितं मूत्रं कर्तृभूतं वातेनोदावर्तितं यदा नाभेरधस्तादुदरं कर्मभूतमापूरयेत् तदा तीव्ररुजादिकं कुर्यात्, तन्मूत्रजठरमित्युच्यते|

Adhikarana mUtrotsa~ggasya lakShaNam (29-30) · Śloka 30

छिद्रवैगुण्येनानिलेन वा| आक्षिप्तमल्पं मूत्रं तद्बस्तौ नालेऽथवा मणौ||२९|| स्थित्वा स्रवेच्छनैः पश्चात्सरुजं वाऽथ नीरुजम्| मूत्रोत्सङ्गः स विच्छिन्नतच्छेषगुरुशेफसः||३०||

🔊 Audio coming soon

स०-छिद्रवैगुण्येन-मूत्रद्वारदोषेण, अनिलेन वा तथाभूतेन, यदाक्षिप्तं मूत्रमल्पं-किञ्चिच्छेषं मूत्रं, तद्बस्तौ स्थितमथवा नाले मणिकन्दे वा स्थितम्| तत्र स्थित्वा पश्चात्-अनन्तरं, शनैः-मन्दं मन्दं कृत्वा, सरुजमथवा नीरुजं स्रवेत्| पुंसः किम्भूतस्य ? विच्छिन्नतच्छेषगुरुशेफसः| तदति प्रकृतं मूत्रं परामृश्यते, तस्य-मुक्तमूत्रस्य, शेषस्तच्छेषः, विच्छिन्नश्चासौ तच्छेषश्च विच्छिन्नतच्छेषः, तेन गुरुशेफो-गुरु मेढ्रं, यस्य स विच्छिन्नतच्छेषगुरुशेफाः, तस्य विच्छिन्नतच्छेषगुरुशेफसः| स एवंविधः सन् मूत्रोत्सङ्ग उच्यते|

Adhikarana mUtragrantheH lakShaNam (31) · Śloka 31

अन्तर्बस्तिमुखे वृत्तः स्थिरोऽल्पः सहसा भवेत्| अश्मरीतुल्यरुक् ग्रन्थिर्मूत्रग्रन्थिः स उच्यते||३१||

🔊 Audio coming soon

स०-बस्तेर्मुखस्य मध्ये ग्रन्थिर्वृत्तो-वर्तुलः, तथा स्थिरोऽल्पश्च सहसा-झटित्येव, भवेत्| अश्मरीतुल्यरुग् ग्रन्थिः स मूत्रग्रन्थिरुच्यते|

Adhikarana mUtrashukrasya lakShaNam (32-33) · Śloka 33

मूत्रितस्य स्त्रियं यातो वायुना शुक्रमुद्धतम्| स्थानाच्च्युतं मूत्रयतः प्राक् पश्चाद्वा प्रवर्तते||३२|| भस्मोदकप्रतीकाशं मूत्रशुक्रं तदुच्यते| |३३|

🔊 Audio coming soon

स०-सञ्जातमूत्रस्य पुंसः स्त्रियं गच्छतो मूत्रयतो-मूत्रं कुर्वतः, स्थानाच्च्युतं शुक्रं वायुनोद्धतं-ध्मातं, भस्मोदकेन प्रतीकाशं-तुल्यं, प्राक् मूत्रितात् पश्चाद्वा यत् प्रवर्तते शुक्रं तन्मूत्रशुक्रमुच्यते|

Adhikarana viDvighAtasya lakShaNam (33-34) · Śloka 34

| रूक्षदुर्बलयोर्वातादुदावर्तं शकृद्यदा||३३|| मूत्रस्रोतोऽनुपर्येति संसृष्टं शकृता तदा| मूत्रं विट्तुल्यगन्धं स्याद्विड्विघातं तमादिशेत्||३४||

🔊 Audio coming soon

स०-रूक्षदुर्बलयोः पुंसोर्वातादुदावर्तं-पीडितं, शकृद्यदा मूत्रस्रोतोऽनुपर्येति-मूत्रस्रोतोऽभित आगच्छति, तदा शकृता संसृष्टं मूत्रं पुरीषसदृशगन्धं स्यात्, तं विड्विघातमित्यादिशेत्|

Adhikarana uShNavAtasya lakShaNam (35-36) · Śloka 36

पित्तं व्यायामतीक्ष्णोष्णभोजनाध्वातपादिभिः| प्रवृद्धं वायुना क्षिप्तं बस्त्युपस्थार्तिदाहवत्||३५|| मूत्रं प्रवर्तयेत्पीतं सरक्तं रक्तमेव वा| उष्णं पुनःपुनः कृच्छ्रादुष्णवातं वदन्ति तम्||३६||

🔊 Audio coming soon

स०-पित्तं कर्तृ व्यायामादिभिः प्रवृद्धं तथा वातेन क्षिप्तं बस्त्युपस्थार्तिदाहयुक्तं मूत्रं कर्मभूतं प्रवर्तयेत्| किम्भूतम् ? पीतं तथा सह रक्तेन सरक्तं रक्तमेव वा केवलं तथोष्णं मुहुर्मुहुः कृच्छ्रेण मूत्रयेत्, तं उष्णवातं वदन्ति|

Adhikarana mUtrakShayasya lakShaNam (37) · Śloka 37

रूक्षस्य क्लान्तदेहस्य बस्तिस्थौ पित्तमारुतौ| मूत्रक्षयं सरुग्दाहं जनयेतां तदाह्वयम्||३७||

🔊 Audio coming soon

स०-रूक्षस्य पुंसस्तथा क्लान्तदेहस्य-ग्लानशरीरस्य, बस्तिस्थौ पित्तमारुतै सरुग्दाहं मूत्रस्य क्षयं जनयेतां-उत्पादयेताम्| तदाह्वयं-मूत्रक्षयसंज्ञम्, मूत्रक्षयमित्यर्थः|

Adhikarana mUtrasAdasya lakShaNam (38-39) · Śloka 39

पित्तं कफो द्वावपि वा संहन्येतेऽनिलेन चेत्| कृच्छ्रान्मूत्रं तदा पीतं रक्तं श्वेतं घनं सृजेत्||३८|| सदाहं रोचनाशङ्खचूर्णवर्णं भवेच्च तत्| शुष्कं समस्तवर्णं वा मूत्रसादं वदन्ति तम्||३९||

🔊 Audio coming soon

स०-पित्तमथवा कफो व्यस्तोऽनिलेन संहन्यते-समन्तात्पीड्यत आक्रम्यते| अथवा द्वावपि-संसर्गरूपौ, तेन हन्येते यदि, तदा कृच्छ्रेण मूत्रं पीतादिनैकैकेन वर्णेन श्वेतान्तेन युक्तं घनं सदाहं सृजेत्-मुञ्चेत्| तच्च शुष्कं कालान्तरेण रोचनाशङ्खचूर्णवर्णं भवेत्, कदाचिद्रोचनाचूर्णवर्णं कदाचिच्छङ्खचूर्णवर्णं कदाचित्पीतादिसमस्तवर्णं वा स्यात्, तं मूत्रसादं वदन्ति|

Adhikarana mUtrapravRuttijAnAmupasaMhAraH (9) · Śloka 9

इति विस्तरतः प्रोक्ता रोगा मूत्राप्रवृत्तिजाः| निदानलक्षणैरूर्ध्वं वक्ष्यन्तेऽतिप्रवृत्तिजाः||४०|| इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां तृतीये निदानस्थाने मूत्राघातनिदानं नाम नवमोऽध्यायः||९||

🔊 Audio coming soon

स०-इति-एवं, विस्तरेण मूत्राप्रवृत्तिः-अप्रवर्तनं, ततो जाता रोगाः, निदानानि च लक्षणानि च, तैः प्रकर्षेणोक्ताः| ऊर्ध्वमित्यतोऽध्यायादनन्तरं तुल्यस्थानसङ्ख्यादित्वात् मूत्रातिप्रवृत्तिजाः-प्रमेहाख्याः, रोगा वक्ष्यन्ते-वदिष्यन्ते| अनेनास्य ग्रन्थकृता युक्त्या सम्बन्धोऽभिहित इति| इति श्रीमृगाङ्कदत्तपुत्रश्रीमदरुणदत्तविरचितायामष्टाङ्गहृदयटीकायां सर्वाङ्गसुन्दराख्यायां तृतीये निदानस्थाने मूत्राघातनिदानं नाम नवमोऽध्यायः समाप्तः|| ९||