Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

5. rājayakṣmādinidānādhyāyaḥ

Adhikarana adhyAyopakramaH · Śloka

🔊 Audio coming soon

श्वासहिध्मनिदानादनन्तरं राजयक्ष्मादिनिदानारम्भेऽयं सम्बन्धः| कासादुपेक्षया "श्वासक्षयच्छर्दि" (हृ. नि. अ. ३|३८) इत्युक्तम्| हिध्माश्वासयोश्चैकयोगक्षेमत्वात् श्वासहिध्मानिदानानन्तरं राजयक्ष्मनिदानमारभ्यते -

Adhikarana rAjayakShmAdinidAnAdhyAyaH (2) · Śloka 2

अथातो राजयक्ष्मादिनिदानं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः| गद्यसूत्रे||२||

🔊 Audio coming soon

स०-पूर्ववदत्र व्याख्या| आदिशब्देन स्वरभेदादीनां ग्रहणम्|

Adhikarana rAjayakShmaNo nAmacatuShTayam (1) · Śloka 1

राजयक्ष्मा क उच्यते ? यस्येदं निदानम्, इत्याह - - - - अथ राजयक्ष्मनिदानम्| अनेकरोगानुगतो बहुरोगपुरोगमः| राजयक्ष्मा क्षयः शोषो रोगराडिति च स्मृतः||१||

🔊 Audio coming soon

स०-अनेकैःज्वरातीसारादिभिः, परिवृतः| तथा, बहूनां रोगाणां-गुल्मातीसारादीनां, पुरोगमः-प्रधानश्च| यथा हि राजा प्राक् पश्चात् रथेभाश्वजनैरनुगम्यते, तथाऽयं रोगो रोगैः| राजयक्ष्मेत्यादयश्चतस्रः संज्ञाः|

Adhikarana nAmanirvacanam (2-3) · Śloka 3

तत्राद्यां संज्ञां व्युत्पादयन्नाह - - - - नक्षत्राणां द्विजानां च राज्ञोऽभूद्यदयं पुरा| यच्च राजा च यक्ष्मा च राजयक्ष्मा ततो मतः||२|| देहौषधक्षयकृतेः क्षयस्तत्सम्भवाच्च सः| रसादिशोषणाच्छोषो रोगराट् तेषु राजनात्||३||

🔊 Audio coming soon

स०-नक्षत्राणां-अश्चिन्यादीनां, तथा द्विजानां-ब्राह्मणानां च, यो राजा-चन्द्रः, तस्य पुरा-पूर्वं, अभवत्| पूर्वकल्पे हि रोहिण्यामतिसक्तस्य चन्द्रस्य श्वशुरं दक्षमनृतवादेन वञ्चयतोऽपमानितदुहितृस्नेहवशादुद्भूतक्रोधात् प्रजापतेर्दक्षतः राजयक्ष्माऽभवदिति श्रूयते| तस्माद्राज्ञो यक्ष्मा राजयक्ष्मेत्युच्यते षष्ठीसमासव्युत्पत्त्या| यच्च-यस्माच्च, राजा च यक्ष्मा च-राजाच रोगाणां मध्ये अनेकरोगानीकपरिवृतत्वेन यक्ष्मा च, ततो राजा चासौ यक्ष्मा च राजयक्ष्माऽभिमतो मुनीनामिति शेषः| तथा देहश्चौषधं च, तयोः क्षयः, तस्य कृतिः-कारणं, ततो देहौषधक्षयकृतेः क्षय इत्युच्यते| अनेन चास्य व्याधेर्बहुकालस्थायित्वं द्योतयति| किलायं व्याधिर्बहुतरं कालमवतिष्ठते न च शान्तिं गच्छति| यावद्देहः क्षीयते, औषधान्यपि क्षीयन्ते, न पुनरयं व्याधिः, इति देहौषधक्षयकृतेः क्षय इत्युच्यते| तत्सम्भावाच्च सः| तदित्यनेन देहौषधक्षयः प्रत्यवमृश्यते| स सम्भवो-जन्म, यस्यासौ तत्सम्भवः, तस्मादपि क्षय इत्युच्यते| एवमन्योऽपि यो व्याधिर्देहौषधक्षयकारी, सोऽपि क्षयाख्यस्य व्याधेः सम्भवः-कारणम्, तस्माज्जायत इत्यर्थः| रसादीनां शोषणात् शोष इति भण्यते| रोगेत्यादि| बहुषु रोगेषु मध्ये रोगत्वेनैष एव भ्राजते, तस्माद्रोगराडित्युच्यते|

Adhikarana rAjayakShmaNo hetucatuShTayam (4) · Śloka 4

साहसं वेगसंरोधः शुक्रौजःस्नेहसङ्क्षयः| अन्नपानविधित्यागश्चत्वारस्तस्य हेतवः||४||

🔊 Audio coming soon

स०-साहसं-कायेन वाचा वाऽयथाबलमारम्भः| वेगसंरोधो-वातविण्मूत्रादीनामुन्मुखीभूतानां धारणम्| शुक्रं च ओजश्च स्नेहश्च तेषां सङ्क्षयो-विनाशः| अत्र स्नेहशब्देन देहस्नेहो ग्राह्यः, देहशब्दलोपं कृत्वाऽयं निर्दिष्टः| तथा च मुनिः (च. चि. अ. ८|२)- "देहस्नेहपरिक्षयात्" इति| तथा, अन्नपानयोर्यथाशास्त्रं यो विधिस्तस्य त्यागो-अन्यथासेवनमन्यथाऽभ्यवहारः| तस्य-राजयक्ष्मणः, चत्वारः साहसादयो हेतवः| पाठादेव चतुःसङ्ख्यात्वे लब्धे चतुर्ग्रहणं नियमार्थम्| यद्यपि साहसादय एते प्रत्येकमनेकप्रकारतया भिन्नाः, तथाऽपि साहसादिचतुष्टयं नातिक्रामन्तीत्यर्थः| तथाऽस्मिन् राजयक्ष्माख्ये साहसजे वेगसंरोधजे शुक्रौजःस्नेहसङ्क्षयजेऽन्नपानविधित्यागजे वा चतुर्विधे विशेषेण पवनो हेतुः|

Adhikarana rAjayakShmaNo saMprAptiH (5-6) · Śloka 6

अत एवाह - - - - तैरुदीर्णोऽनिलः पित्तं कफं चोदीर्य सर्वतः| शरीरसन्धीनाविश्य तान् सिराश्च प्रपीडयन्||५|| मुखानि स्रोतसां रुद्ध्वा तथैवातिविवृत्य वा| सर्पन्नूर्ध्वमधस्तिर्यग्यथास्वं जनयेद्गदान्||६||

🔊 Audio coming soon

स०-तैः-साहसादिभिः, उदीर्णोऽनिल इदमिदं कुर्वन् यथास्वं गदान् जनयेत्| उदीर्णः-उल्बणः पित्तश्लेष्मभ्यामधिकः| अत एव पित्तमुदीर्य-स्वस्थानाच्च्यावयित्वा, तथा कफं सर्वतः-सर्वस्मात् उदीर्य, तथा शरीरसन्धीन्-दशाधिकशतद्वयसङ्ख्यातान् आत्रेयमतेन तु द्विसहस्रसङ्ख्यातान्, आविश्य-तेषामन्तः-प्रवेशं कृत्वा, ताश्चं-सन्धीन्, प्रपीडयन्-प्रकर्षेण मर्दयन्निव, तथा सिरा अपि सकलशरीरगाः प्रपीडयन्, तथाऽन्येषां स्रोतसां मुखानि-द्वाराणि रुद्ध्वा, तथैव तानि वा अतिविवृत्य-प्रसार्य स्रोतोमुखानि| सर्पन्नित्यादि| ऊर्ध्वं सर्पन् वायुः पीनसादीन् व्याधीन् जनयेत्, अधः सर्पन् विड्भ्रंशं विट्शोषं वा कुर्यात्, तिर्यक् सर्पन् पार्श्वरुजं वा कुर्यात्, इति यथास्वंशब्दस्यार्थः|

Adhikarana rAjayakShmaNaH pUrvarUpam (7-13) · Śloka 13

रूपं भविष्यतस्तस्य प्रतिश्यायो भृशं क्षवः| प्रसेको मुखमाधुर्यं सदनं वह्निदेहयोः||७|| स्थाल्यमत्रान्नपानादौ शुचावप्यशुचीक्षणम्| मक्षिकातृणकेशादिपातः प्रायोऽन्नपानयोः||८|| हृल्लासश्छर्दिररुचिरश्नतोऽपि बलक्षयः| पाण्योरवेक्षा पादास्यशोफोऽक्ष्णोरतिशुक्लता||९|| बाह्वोः प्रमाणजिज्ञासा काये बैभत्स्यदर्शनम्| स्त्रीमद्यमांसप्रियता घृणित्वं मूर्द्धगुण्ठनम्||१०|| नखकेशातिवृद्धिश्च, स्वप्ने चाभिभवो भवेत्| पतङ्गकृकलासाहिकपिश्वापदपक्षिभिः||११|| केशस्थितुषभस्मादिराशौ समधिरोहणम्| शून्यानां ग्रामदेशानां दर्शनं शुष्यतोऽम्भसः||१२|| ज्योतिर्गिरीणां पततां ज्वलतां च महीरुहाम्| |१३|

🔊 Audio coming soon

स०-तस्य-राजयक्ष्मणः, भविष्यतः उत्पित्सोः, रूपं-अग्ररूपं, प्रतिश्यायादि| वह्नेः सदनं-पाकासामर्थ्यम्| देहस्य सादो-निर्बलता| स्थाल्यमत्रान्नपानादीनां शुद्धानामप्यशुचिदर्शनमिति तदानीं पुरुषस्य मिथ्याज्ञानं जायत इत्यर्थः| पाण्योरवेक्षा-भूयसा स्वपाणी पश्यति| बाह्वोः प्रमाणजिज्ञासा-कियत्प्रमाणौ मे बाहू इति ज्ञातुमिच्छति| काये-शरीरे शोभनेऽपि, बैभत्स्यदर्शनमिति मिथ्याज्ञानं तदानीं रोगस्वभावादस्योत्पद्यते| मूर्ध्रः-मस्तकस्य, गुण्ठनं-वस्त्रादिना सञ्छादनम्| स्वप्ने च तस्य यक्ष्मिणः पतङ्गादिभिरभिभवो भवेत्-पतङ्गाद्यैः पराभूयते| पतङ्गः-कीटभेदः| तथा, केशादिराशिष्वधिरोहणं तथा शून्यग्रामदेशादीनां दर्शनं स्वप्ने भवेत्|

Adhikarana rAjayakShmaNo rUpam (13-15) · Śloka 15

प्राग्रूपमुक्त्वा सम्प्रत्येकादशरूपमधिकृत्याह - - - - | पीनसश्वासकासां समूर्द्धस्वररुजोऽरुचिः||१३|| ऊर्ध्वं, विड्भ्रंशसंशोषावधः, च्छर्दिश्च कोष्ठगे| तिर्यक्स्थे पार्श्वरुद्गोषे, सन्धिगे भवति ज्वरः||१४|| रूपाण्येकादशैतानि जायन्ते राजयक्ष्मिणः| |१५|

🔊 Audio coming soon

स०-अंसौ च मूर्द्धा च स्वरश्च तेषां रुजोंऽसमूर्द्धस्वररुजः| पीनसश्च श्वासश्चांसमूर्द्धस्वररुजश्च ताः, तथा अरुचिः, इत्यूर्ध्वं-ऊर्ध्वस्थिते दोषे, भवति| अरुचेरेषः पृथगुपन्यासः प्राधान्यख्यापनार्थः| यथा,-अस्मिन् व्याधावतिभयावहोऽरुच्याख्य उपद्रवो न तथा पीनसादय इति| अधःस्थिते दोषे विशः-पुरीषस्य, भ्रंशसंशोषौ विड्भ्रंशसंशोषौ भवतः| "विड्भ्रंशो-भिन्नवर्चस्त्वं, विट्शोषो-बद्धविट्कता|" एतयोश्च परस्परं विरुद्धत्वान्न तुल्यकालं सम्भवः| तस्मात्कदाचिद्विड्भ्रंशः कदाचिद्विट्शोषो भवति| छर्दिस्तु कोष्ठस्थिते दोषे स्यात्| तिर्यक्स्थे दोषे पार्श्वरुक् भवति| सन्धिगे ज्वरो भवति| एतानि पीनसादीन्येकादश रूपाणि शोषिण उत्पद्यन्ते| मुनिस्त्वेवमवोचत् (च. चि. अ. ८|२३)- "प्रतिश्यायं ज्वरं कासमङ्गमर्दं शिरोरुजम्| श्वासं विड्भेदमरुचिं पार्श्वशूलं स्वरक्षयम्|| कुरुते चांससन्तापमेकादशं" इत्यादि|

Adhikarana rAjayakShmaNo upadravAH (15-16) · Śloka 16

| तेषामुपद्रवान् विद्यात्कण्ठोद्ध्वंसमुरोरुजम्||१५|| जृम्भाङ्गमर्दनिष्ठीववह्निसादास्यपूतिताः| |१६|

🔊 Audio coming soon

स०-तेषां-एकादशसङ्ख्यानां पीनसादीनां पूर्वोत्पन्नानां, कण्ठोद्ध्वंसादीन् पश्चादुत्थितान् सप्तोपद्रवान् जानीयात्| "व्याधेरुपरि यो व्याधिर्भवत्युत्तरकालजः| उपक्रमविघाती च स ह्युपद्रव उच्यते||" इत्युपद्रवलक्षणम्|

Adhikarana vAtajasya rUpam (16-17) · Śloka 17

| तत्र वाताच्छिरःपार्श्वशूलमंसाङ्गमर्दनम्||१६|| कण्ठोद्ध्वंसः स्वरभ्रंशः| |१७|

🔊 Audio coming soon

स०-तत्र-तस्मिन् राजयक्ष्माख्ये व्याधौ, वातादधिकात् शिरःशूलादयः स्युः|

Adhikarana pittajasya rUpam (17) · Śloka 17

पित्तात्पादांसपाणिषु| दाहोऽतिसारोसृक्ऽऽछर्दिर्मुखगन्धो ज्वरो मदः||१७||

🔊 Audio coming soon

स०-पित्तादधिकात् पादादिषु दाहः स्यात्| तथा, अतीसारादयश्च स्युः|

Adhikarana kaphajasya rUpam (18) · Śloka 18

कफादरोचकश्छर्दिः कासो मूर्द्धाङ्गगौरवम्| प्रसेकः पीनसः श्वासः स्वरसादोऽल्पवह्निता||१८||

🔊 Audio coming soon

स०-कफादधिकादरोचकादयो दश स्युः|

Adhikarana trayANAM sAmAnyaM rUpam (19-22) · Śloka 22

यक्ष्मिणो मांसा(अन्ना)द्यभ्यवहारतोऽपि धातुक्षयो जायते, न धातुपुष्टिः, इत्यत्र युक्तिमाह - - - - दोषैर्मन्दानलत्वेन सोपलेपैः कफोल्बणैः| स्रोतोमुखेषु रुद्धेषु धातूष्मस्वल्पकेषु च||१९|| विदह्यमानः स्वस्थाने रसस्तांस्तानुपद्रवान्| कुर्यादगच्छन्मांसादीनसृक् चोर्ध्वं प्रधावति||२०|| पच्यते कोष्ठ एवान्नमन्नपक्त्रैव चास्य यत्| प्रायोऽस्मान्मलतां यातं नैवालं धातुपुष्टये||२१|| रसोऽप्यस्य न रक्ताय मांसाय कुत एव तु| उपस्तब्धः स शकृता केवलं वर्तते क्षयी||२२||

🔊 Audio coming soon

स०-दोषैः-वातपित्तकफैः, कफोल्बणत्वात् स्रोतोद्वारेषु रुद्धेषु-पिहितेषु सत्सु, रसः स्वस्थान एव विदह्यमानो-न सम्यग्रक्ततां प्राप्नुवन्, तांस्तान्-अनेकान् कण्ठोद्ध्वंसादीन्, उपद्रवान् कुर्यात्| किम्भूतैर्दोषैः ? कफोल्बणैः-श्लेष्माधिकैः| अत एव कफाधिकत्वात् सहोपलेपेन श्लेष्मलेपेन सह वर्तन्ते सोपलेपाः, तैस्तथाविधैर्दोषैस्तदानीं मन्दानलत्वं क्रियते| तेनैव च मन्दानलत्वेन हेतुना धातूष्मसु-रसाद्यग्निषु, अल्पकेषु-अतिशयेनाल्पेषु| एवमनेककारणसद्भावाद्रसः स्वस्थान एव विदह्यमानः-पित्तकारिणीं मध्यमां पाकावस्थामनुभवन् सम्यक् पाकमगच्छन्, यथोचितान् विकारांस्तांस्तान् कुर्वन्, मांसादीन्-मांसप्रभृतिकान् धातून्, अगच्छन्-अप्राप्नुवन्, विदह्यमानतया रक्ततामापन्नः, तदसृक् चोर्ध्वं प्रधावति-ऊर्ध्वं प्रसर्पति, केवलं निष्ठीवनसहितं वा| तस्मात् क्षयिणो न तन्मांसादिधातुपुष्टये| किञ्चास्मादपि हेतोः स रसो न धातुपुष्टये| [यत्-] यस्मात्, [अन्नं] पच्यते-अन्नं सारकिट्टत्वं नीयते, अन्नपक्त्रैव-जाठराग्निना, कोष्ठ एव-आमपक्वाशयाख्ये| उभयत्रेवकारोऽवधारणे| कोष्ठ एव-न धातुषु, जाठराग्निनैव-न धात्वग्निभिः, इति| यत एवं ततोऽस्मात्-प्राङ्निरूपिताद्धेतुकदम्बकात्, प्रायो मलतां-आधिक्येन मूत्रपुरीषतां, प्राप्तमन्नं नैव धातुपुष्टयेऽलं-समर्थम्| धातुपुष्टिग्रहणेनैतत्सूचयति,-अभिनवमृत्कुम्भजललवस्यन्दनन्यायेन सूक्ष्मस्रोतोनुप्रवेशितया सोऽन्नरसो धात्वाप्यायनमात्रं करोत्येव, अन्यथा वर्षगणानुबन्धि जीवितं क्षयिणो न सम्भाव्येत| तस्माद्धातुस्थितिमात्रं भवति न तु धातुपोषणमिति स्थितम्| रसः-उभयरूपोऽन्नरसो धातुरसो वा, अस्य-क्षयिणः, निकटस्य रक्तधातोर्न पुष्टये, मांसधातोर्विप्रकृष्टस्य तु कुत एव स्यात् ? एवं न सम्भाव्यत इत्यपिशब्दार्थः| ननु, यद्येवं तत्कथमन्येभ्यो धातुभ्यो विशेषेण धारणस्वभावेभ्यो विना क्षयी जीवेत्? इत्याशङ्क्याह-उपस्तब्ध इति| सः-क्षयी, शकृता-पुरीषेण, केवलमुपस्तब्धः-कृतावष्टम्भो, वर्तते-प्राणिति, पूर्वोक्तन्यायेन किञ्चिदाहाररसाप्यायितैर्धातुभिर्धारणस्वभावैर्धृतमात्रः| ननु, "विदह्यमानः स्वस्थाने रसस्तांस्तानुपद्रवान्| कुर्यादगच्छन्मांसादीनसृक् चोर्ध्वं प्रधावति||" इत्यनेन रक्तस्य सत्ता प्रदिपादिता| "रसोऽप्यस्य न रक्ताय" इत्यनेन क्षयिणो रक्तस्य़ाभावः प्रत्यपादि| तदिमे वाक्ये परस्परं व्याघ्नाते| अत्रोच्यते| नानयोर्वाक्ययोः परस्परं विरोधः| यतः " असृक् चोर्ध्वं प्रधावति" इत्यनेन न तद्धातुरूपतां प्राप्तमुक्तम्| किन्तर्हि ? रसस्य विदह्यमानतया स्वस्थानस्थितस्य रक्तधात्वाशयमगच्छतो रक्तोद्भूतिरुक्ता| अनेनैवाभिप्रायेणोत्तरत्र वाक्ये "रसोऽप्यस्य न रक्ताय" इत्युवाच| अनेन हि रसो धातुरूपाय रक्ताय शोषिणो न सम्पद्यते इति प्रत्यपादि|

Adhikarana asAdhyalakShaNam (23) · Śloka 23

अथास्य क्षयिणः साध्यासाध्यताम् निरूपयति - - - - लिङ्गेष्वल्पेष्वपि क्षीणं व्याध्यौषधबलाक्षमम्| वर्जयेत्|२३|

🔊 Audio coming soon

स०-क्षयिणं बलमांसाभ्यां क्षीणं लिङ्गेषु-पीनसादिषु, अल्पेष्वपि सत्सु-न सर्वेषूत्पन्नेषु, वर्जयेत्-नोपक्रमेत्| कि तम् ? व्याध्यौषधबलाक्षमम्| व्याध्यौषधयोर्बलं व्याध्यौषधबलम्, तस्याक्षमम्| क्षयाख्यस्य व्याधेर्यद्बलं तथाऽस्य शमनोपायस्यौषधस्य यद्बलं तत्राक्षमं-असहं, यतस्ततो वर्जयेदित्यर्थः|

Adhikarana sAdhyalakShaNam (23-1) · Śloka 1

| साधयेदेव लिङ्गेषु सर्वेष्वपि ततोऽन्यथा||२३|| इति राजयक्ष्मनिदानम्||१||

🔊 Audio coming soon

स०-अ(त)तोऽन्यथा-विपरीतलक्षणं राजयक्ष्मिणं बलमांसाभ्यामक्षीणमत एव व्याध्यौषधबलक्षमं, सर्वेष्वपि-पीनसादिषु लिङ्गेष्वपि सत्सु, साधयेदेव| किंपुनर्द्वित्रादिष्वेषु साधयेदित्यपिशब्दार्थः|

Adhikarana svarabhedaH ShaDvidhaH (24) · Śloka 24

अथास्य व्याधेरुपद्रवभूतानामादिशब्दगृहीतानां पञ्चानां स्वरभेदादीनां रोगाणां निदानान्याह - - - - अथ स्वरभेदनिदानम्| दोषैर्व्यस्तैः समस्तैश्च क्षयात् षष्ठश्च मेदसा| स्वरभेदो भवेत्|२४|

🔊 Audio coming soon

स०-दोषैः-पृथग्वातपित्तकफैः, समस्तैः-सन्निपतितैः, तथा क्षयात्, तथा षष्ठः स्वरभेदो मेदसा, स्यात्|

Adhikarana vAtajasya lakShaNam (24-25) · Śloka 25

| तत्र क्षामो रूक्षश्चलः स्वरः||२४|| शूकपर्णाभकण्ठत्वं स्निग्धोष्णोपशयोऽनिलात्| |२५|

🔊 Audio coming soon

स०-तत्र-तेषु षट्सु स्वरभेदेषु मध्ये, वातात्स्वरभेदे सति क्षामादिमान् स्वरः स्यात्| तथा, शूकपूर्णसदृशगलत्वं स्निग्धोष्णोपशयश्च भवति|

Adhikarana pittajasya lakShaNam (25) · Śloka 25

| पित्तात्तालुगले दाहः शोष उक्तावसूयनम्||२५||

🔊 Audio coming soon

स०-पित्तात् स्वरभेदे सति तालुनि गले च दाहः, तथा शोषः, प्रकृतत्वात्तालुगलयोरेव| तथा, उक्तावसूयनं-वाक्यविषयेऽसहनम्, पित्तस्वरभेदी वाक्यं वक्तुमसमर्थ इत्यर्थः|

Adhikarana kaphajasya lakShaNam (26) · Śloka 26

लिम्पन्निव कफात्कण्ठं मन्दः खुरखुरायते| स्वरो विबद्धः|२६|

🔊 Audio coming soon

स०-कफात्स्वरभेदे कण्ठं लिम्पन्निव-उपलेपमिव गलस्य कुर्वन्, खुरखुरायते-प्रकृतत्वात् कण्ठस्यैव खुरखुरमित्यव्यक्तं शब्दं करोति| तथा, सर्वेभ्यः स्वरभेदेभ्योऽयं मन्दः स्वरो-नोच्चैः श्रूयते| तथा, विबद्धो-वदतो मध्ये स्खलनरूपः|

Adhikarana tridoShasya lakShaNam (26) · Śloka 26

| सर्वैस्तु सर्वलिङ्गः|२६|

🔊 Audio coming soon

स०-सर्वैः-त्रिभिर्दोषैः समुदितैः, सर्वलिङ्गः-त्रिदोषलक्षणः, सर्वभेदो भवति|

Adhikarana kShayasya lakShaNam (26-27) · Śloka 27

| क्षयात्कषेत्||२६|| धूमायतीव चात्यर्थम्| |२७|

🔊 Audio coming soon

स०-क्षयात् स्वरभेदः कषेत्-हिंस्यात्, कण्ठमर्मघटनादित्यर्थः| अनुक्तमपि प्रकृतत्वात् कण्ठमिति लभ्यते| तथा, क्षयस्वरभेदी धूमायतीवातिशयेन| अत्यर्थशब्देन पित्तस्वरभेदेऽपि धूमायनं भवतीति गमयति| धूमायतीति धूमनिःसरणमिव नासिकादिदेशेष्वनुभवति|

Adhikarana medojasya lakShaNam (27) · Śloka 27

मेदसा श्लेष्मलक्षणः| कृच्छ्रलक्ष्याक्षरश्च|२७|

🔊 Audio coming soon

स०-मेदसा स्वरभेदः श्लेष्मस्वरभेदलक्षणः| तथा, कृच्छ्रेण-कथञ्चित्, लक्ष्याणि-ज्ञेयानि, अक्षराणि यत्र स एवम्| एतदेव कृच्छ्रलक्ष्याक्षरत्वं कफस्वरभेदादधिकम्|

Adhikarana eShAM sAdhyAsAdhyatvam (27-2) · Śloka 2

| अत्र सर्वैरन्त्यं च वर्जयेत्||२७|| इति स्वरभेदनिदानम्||२||

🔊 Audio coming soon

स०-सर्वैर्दोषैर्यः स्वरभेदः, तथाऽन्ते पठितत्वान्मेदःस्वरभेदः-अन्त्यः, तं च वर्जयेत्| चतुरस्त्वन्यान् साधयेदित्यर्थादवगम्यते|

Adhikarana arocakaH pa~jcavidhaH (28) · Śloka 28

अथारोचकनिदानम्| अरोचको भवेद्दोषैर्जिह्वाहृदयसंश्रयैः| सन्निपातेन मनसः सन्तापेन च पञ्चमः||२८||

🔊 Audio coming soon

स०-जिह्वा च हृदयं च जिह्वाहृदयम्, तत्संश्रयः-आश्रयो, येषां तैस्तत्रस्थैः पृथग्वातपित्तकफैररोचकः स्यात्| तथा, सन्निपातेनार्थाज्जिह्वाहृदयसंश्रितेनारोचकः स्यादिति योज्यम्| तथा, मनसः सन्तापेन-अनेकविधेन क्रोधशोकादिनोपतप्तेन, पञ्चमोऽरोचक आगन्तुर्भवेत्| अत्रापि यथास्वं दोषाणां जिह्वाहृदयसंश्रितत्वमवश्यमाश्रयणीयम्| उपादानादेव पञ्चत्वे लब्धे मनःसन्तापजः पञ्चम एवेति नियमार्थं पञ्चमग्रहणम्| मन्युशोकाद्यनेकप्रकारमनःसन्तापत्वेऽप्येक एव मनःसन्तापजोऽरोचक इत्यर्थः|

Adhikarana pa~jcAnAmarocakAnAM lakShaNAni (29-3) · Śloka 3

कषायतिक्तमधुरं वातादिषु मुखं क्रमात्| सर्वोत्थे विरसं शोकक्रोधादिषु यथामलम्||२९|| इत्यरोचकनिदानम्||३||

🔊 Audio coming soon

स०-वाताद्युद्भवेष्वरोचकेषु मुखं-आस्यं, क्रमेण कषायतिक्तमधुरं भवति| व्याधिस्वभावात् पित्तारोचकेऽपि तिक्तवक्त्रता भवति, न कटुकास्यत्वम्| सर्वोत्थे-सन्निपातजेऽरोचके, विरसमास्यं भवति-निश्चितरसाज्ञानम्| शोकक्रोधादिसमुत्थेष्वरोचकेषु यथामलं-यथादोषं, मुखं भवेत्| तत्र शोकभयकामलोभेर्ष्यादिसन्तप्तमनःसमुत्थे वातप्रकोपात् कषायम्, क्रोधसन्तप्तमनःसमुत्थे वातप्रकोपात् तिक्तम्, ग्रहोपतप्तमनःसमुत्थे सन्निपातप्रकोपात् विरसास्यत्वम्, इति यथामलशब्दस्यार्थः|

Adhikarana chardiH pa~jcavidhA (30) · Śloka 30

अथ छर्दिनिदानम्| छर्दिर्दोषैः पृथक्सर्वैर्द्विष्टैरर्थैश्च पञ्चमी| |३०|

🔊 Audio coming soon

स०-पृथक्-प्रत्येकं, दोषैः-वातपित्तकफैः, छर्दिर्भवेत्| सन्निपतितैस्त्रिभिरपि छर्दिः स्यात्| तथा, द्विष्टैः-अनभिप्रेतैः शब्दादिभिश्च, पञ्चमी छर्दिर्भवेत्| पूर्ववत् पञ्चमीत्येतन्नियमार्थम्| द्विष्टानां ह्यर्थानां बहुत्वात् बह्व्यश्छर्दयो भवन्तीत्याशङ्क्यते तथा शङ्कानिवृत्तये द्विष्टार्थयोगजा एकैव छर्दिरित्युक्तम्|

Adhikarana chardyAH saMprAptiH (30) · Śloka 30

| उदानो विकृतो दोषान् सर्वास्वप्यूर्ध्वमस्यति||३०||

🔊 Audio coming soon

स०-उदानाख्यो वायुर्विकृतः सर्वानपि दोषान्-वातपित्तकफान्, ऊर्ध्वमस्यति-क्षिपति| अपिशब्द एवार्थे, सर्वास्वेव छर्दिष्वित्यर्थः|

Adhikarana chardyAH pUrvarUpam (31) · Śloka 31

तासूत्क्लेशास्यलावण्यप्रसेकारुचयोऽग्रगाः| |३१|

🔊 Audio coming soon

स०-तासु-छर्दिषु, उत्क्लेशादयोऽग्रगाः-अग्रे गच्छन्ति प्राग्रूपतयोद्भवन्ति| उत्क्लेशः-स्वस्थान एव मूर्तस्य दोषस्योदयो बुद्बुदवदुत्थानम्|

Adhikarana vAtajAyA lakShaNam (31-33) · Śloka 33

| नाभिपृष्ठं रुजन् वायुः पार्श्वे चाहारमुत्क्षिपेत्||३१|| ततो विच्छिन्नमल्पाल्पं कषायं फेनिलं वमेत्| शब्दोद्गारयुतं कृष्णमच्छं कृच्छ्रेण वेगवत्||३२|| कासस्याशोषहृन्मूर्द्धस्वरपीडाक्लमान्वितः| |३३|

🔊 Audio coming soon

स०-वायुः कासादिमान् इदमिदं कुर्वन् वमेत्-छर्दिं करोति| नाभिं पृष्ठं च रुजन्-पीडयन्, पार्श्वे च रुजन्, आहारमुत्क्षिपेत्-ऊर्ध्वं प्रेरयेत्| ततः-तस्मादाहारस्योर्ध्वगमनादनन्तरं, विच्छिन्नं कृत्वा-न निरन्तरं, अल्पाल्पं-अल्पं कृत्वा, कषायं वमेत्-न मधुराद्यन्यतमम्| तथा, फेनिलं-फेनयुक्तम्| फेनिलमिति "फेनादिलच्च" इतीलच्| तथा, शब्दयुतमुद्गारयुतम्| तथा, कृष्णं-कृष्णवर्णम्| तथा, अच्छं-तनु| तथा, कृच्छ्रेण-कथंकथञ्चित् न यथासुखम्| तथा, वेगवत्-वेगयुतम्|

Adhikarana pittajAyA lakShaNam (33-34) · Śloka 34

| पित्तात्क्षारोदकनिभं धूम्रं हरितपीतकम्||३३|| सासृगम्लं कटूष्णं च तृण्मूर्च्छातापदाहवत्| |३४|

🔊 Audio coming soon

स०-पित्तात् क्षारोदकसदृशादिकं वमेत्| तथा, तृण्मूर्छातापदाहा विद्यन्ते यस्मिंस्तदेवं तृष्णादियुक्तं यथा भवति तथा वमेत्|

Adhikarana kaphajAyA lakShaNam (34-35) · Śloka 35

| कफात् स्निग्धं घनं शीतं श्लेष्मतन्तुगवाक्षितम्||३४|| मधुरं लवणं भूरि प्रसक्तं लोमहर्षणम्| मुखश्वयथुमाधुर्यतन्द्राहृल्लासकासवान्||३५||

🔊 Audio coming soon

स०-कफात्स्निग्धादिकं वमेत्| तथा, श्लेष्मणः सम्बन्धिना तन्तुजालेन गवाक्षितम्| तथा, मुखश्वयथ्वादिमान्| तथा, मधुरादिकं वमेत्|

Adhikarana sannipAtajAyAH lakShaNam (36) · Śloka 36

सर्वलिङ्गा मलैः सर्वै रिष्टोक्ता या च तां त्यजेत्| |३६|

🔊 Audio coming soon

स०-सर्वलिङ्गा छर्दिः सर्वैर्मलैः-वातपित्तकफैः सन्निपतितैः, भवेत्| न केवलं त्रिभिर्दोषैः सर्वलिङ्गा, या च रिष्टोक्ता-विकृतिविज्ञानीयाध्याये (हृ. शा. अ. ५|७७) - "छर्दिर्वेगवती" इत्यादिना ग्रन्थेनोक्ता, साऽपि सर्वलिङ्गा-दोषत्रयलक्षणोपेता, तां त्यजेत्-न चिकित्सेत्| न तु रिष्टोक्ता या छर्दिस्तां त्यजेदिति व्याख्येयम्, तस्या रिष्टत्वेनैवासाध्यत्वस्य प्रतिपादितत्वात्|

Adhikarana dviShTArthajAyAH lakShaNam (36-37) · Śloka 37

| पूत्यमेध्याशुचिद्विष्टदर्शनश्रवणादिभिः||३६|| तप्ते चित्ते हृदि क्लिष्टे छर्दिर्द्विष्टार्थयोगजा| |३७|

🔊 Audio coming soon

स०-पूत्यादिभिस्तप्ते चित्ते-उपतप्ते मनसि, तथा तैरेव पूत्यादिभिः क्लिष्टे-पीडिते, हृदि या जायते छर्दिः सा द्विष्टार्थयोगजा छर्दिरुच्यते| आदिः-प्रकारे, यथा-आकृतिगणेषु|

Adhikarana kRumitRuShNAmadaurhRudajAnAM chardInAM vAtAdijAsvevAntarbhAvaH (37-4) · Śloka 4

ननु, कृम्यादिजान्यन्यानि छर्दींषि सम्भवन्त्येव| तेषां लक्षणं कस्मान्नोक्तम् ? इत्याह - - - - | वातादीनेव विमृशेत्कृमितृष्णामदौहृदे||३७|| शूलवेपथुहृल्लासैर्विशेषात् कृमिजां वदेत्| कृमिहृद्रोगलिङ्गैश्च|३८| इति छर्दिनिदानम्||४||

🔊 Audio coming soon

स०-कारणे कार्योपचारात् कृम्यादिशब्दैरेव छर्दय उच्यन्ते| कृमितृष्णामगर्भिणीदौहृदजे छर्दिषि वातादीनेव यथा यथं स्वलक्षणैर्विमृशेत्-विचारयेल्लक्षयेत्| न हि वातादीनन्तरेणैताः छर्दयः कथञ्चिदपि सम्भवन्ति| अत एवैवकारोऽवधारणार्थोऽत्र व्यधायि| एवं कृमिजां कदाचिद्वायुच्छर्दिलक्षणोपेतामथवा पित्तच्छर्दिलक्षणोपेतां कफच्छर्दिलक्षणोपेतां वा यथायथं लक्षयेत्| एवं तृष्णामदौहृदच्छर्दिषि वातादीन् विमृशेत्| विशेषेण शूलवेपथुहृल्लासैः कृमिजां वदेत्| कृमिहृद्रोगलक्षणैश्च-अनन्तरमेव वक्ष्यमाणैः, कृमिजां वदेत्|

Adhikarana hRudrogaH pa~jcavidhaH, hRudrogANAM nidAnam (38-39) · Śloka 39

अधुना हृद्रोगं लिलक्षयिषुराह - - - - अथ हृद्रोगनिदानम्| | स्मृताः पञ्च तु हृद्गदाः||३८|| तेषां गुल्मनिदानोक्तैः समुत्थानैश्च सम्भवः| |३९|

🔊 Audio coming soon

स०-हृद्गदाः पञ्च स्मृताः, तन्त्रकृद्भिरिति शेषः| [तेषां-हृद्रोगाणां, गुल्मनिदानोक्तैः-वक्ष्यमाणैः, समुत्थानैः-कारणैः, सम्भवः-उत्पत्तिः| ]

Adhikarana vAtajAyA lakShaNam (39-41) · Śloka 41

| वातेन शूल्यतेऽत्यर्थं युद्यते स्फुटतीव च||३९|| भिद्यते शुष्यति स्तब्धं हृदयं शून्यता द्रवः| अकस्माद्दीनता शोको भयं शब्दासहिष्णुता||४०|| वेपथुर्वेष्टनं मोहः श्वासरोधोऽल्पनिद्रता| |४१|

🔊 Audio coming soon

स०-वातेन हृद्रोगेऽत्यर्थं हृदयं शूल्यते| अत्यर्थशब्देनेदं गमयति,-अन्येष्वपि हृद्रोगेषु हृदयं शूल्यतेऽतिशयेन तु वातजे हृद्रोगे इति| तथा, तुद्यते-प्राजनेनेव| शूलं-सन्तता पीडा| तोदो-विच्छिन्नोऽतिशयेन रुगुद्भवः| तथा, हृदयं स्फुटतीत्यादिक्रियादियुतं भवति| तथा, शून्यता द्रवत्वं च, प्रकृतत्वाद्धृदयस्यैव स्यादिति बोध्यम्|

Adhikarana pittajAyA lakShaNam (41-42) · Śloka 42

| पित्ता त्तृष्णा भ्रमो मूर्च्छा दाहः स्वेदोऽम्लकः क्लमः||४१|| छर्दनं चाम्लपित्तस्य धूमकः पीतता ज्वरः| |४२|

🔊 Audio coming soon

स०-पित्तात्-पित्तेन, तृष्णादय स्युः|

Adhikarana kaphajAyA lakShaNam (42-43) · Śloka 43

| श्लेष्मणा हृदयं स्तब्धं भारिकं साश्मगर्भवत्||४२|| कासाग्निसादनिष्ठीवनिद्रालस्यारुचिज्वराः| |४३|

🔊 Audio coming soon

स०-श्लेष्मणा हृद्रोगे हृदयं स्तब्धं, तथा भारिकं-गुरु, भवति| कथम् ? साश्मगर्भवत्-विद्यमानाश्मगर्भसदृशम्| तथा, कासादयः स्युः|

Adhikarana tridoShasya lakShaNam (43) · Śloka 43

| सर्वलिङ्गस्त्रिभिर्दोषैः|४३|

🔊 Audio coming soon

स०-सर्वलिङ्गो हृद्रोगस्त्रिभिर्दोषैः स्यात्|

Adhikarana kRumijasya lakShaNam (43-5) · Śloka 5

| कृमिभिः श्यावनेत्रता||४३|| तमःप्रवेशो हृल्लासः शोषः कण्डूः कफस्रुतिः| हृदयं प्रततं चात्र क्रकचेनेव दार्यते||४४|| चिकित्सेदामयं घोरं तं शीघ्रं शीघ्रकारिणम्| |४५| इति हृद्रोगनिदानम्||५||

🔊 Audio coming soon

स०-कृमिभिश्च हृद्रोगे श्यावाक्षिताद्याः स्युः| अत्र-कृमिहृद्रोगे, हृदयं क्रकचेनेव-करपत्रेणेव, [ प्रततं- ] सन्ततं, दार्यते| तं-कृमिहृद्रोगाख्यमामयं, घोरं-अतिदुःसहं, शीघ्रकारिणं-आशुविघातकारिणं, शीघ्रं-आश्वेव, चिकित्सेत्| महामर्मणो हृदयस्य कृमिभिर्भक्षणात्|

Adhikarana tRuShNA ShaDvidhA (45-48) · Śloka 48

उक्ता हृद्रोगाः| शीघ्रकारित्वसामान्यात् तृष्णाऽन्तरं व्याख्यायते - - - - अथ तृष्णानिदानम्| | वातात्पित्तात्कफात्तृष्णा सन्निपाताद्रसक्षयात्||४५|| षष्ठी स्यादुपसर्गाच्च वातपित्ते तु कारणम्| सर्वासु ते एव वातपित्ते हेतुः| कुत एवम् ? इत्याह - - - - तत्प्रकोपो हि सौम्यधातुप्रशोषणात्||४६|| सर्वदेहभ्रमोत्कम्पतापतृड्दाहमोहकृत्| सौम्यधातुप्रशोषणपूर्वकं तृष्णानां यतो जन्म, तस्मादिदमाह - - - - जिह्वामूलगलक्लोमतालुतोयवहाः सिराः||४७|| संशोष्य तृष्णा जायन्ते| |४८|

🔊 Audio coming soon

स०-वातादिभिः पञ्च तृष्णाः स्युः| षष्ठी स्यादुपसर्गाच्च| उपादानादेव षट्सङ्ख्याया लब्धत्वात् षष्ठीत्येतद्वचनं नियमार्थम्| आमोद्भवाद्या या वक्ष्यमाणास्तृष्णास्ताः सर्वास्तृष्णानां षट्त्वं नातिक्रामन्ति, वातपित्तजत्वात्| प्रायेण तासामास्वेवान्तर्भावः| स०-सर्वासु-पूर्वोक्तासु वक्ष्यमाणासु च तृष्णासु, वातपित्ते कारणम्| स०-हि-यस्मात्, सौम्यस्य शरीरगतस्य धातोः-श्लेष्मणो रसादेर्धातोः, आहारविहारादिना यत्प्रशोषणं तस्मात्, तयोः-वातपित्तयोः, प्रकोपो 'जायते' इत्यध्याहार्यम्| किम्भूतः प्रकोपः ? सर्वदेहभ्रमोत्कम्पतापतृड्दाहमोहकृत्| स०-जिह्वादिसिराः संशोष्य तृष्णाः समुत्पद्यन्ते|

Adhikarana tRuShNAnAM sAmAnyalakShaNam (48-49) · Śloka 49

तासां सामान्यलक्षणम्| मुखशोषो जलातृप्तिरन्नद्वेषः स्वरक्षयः||४८|| कण्ठौष्ठजिह्वाकार्कश्यं जिह्वानिष्क्रमणं क्लमः| प्रलापश्चित्तविभ्रंशस्तृङ्ग्रहोक्तास्तथाऽऽमयाः||४९||

🔊 Audio coming soon

स०-मुखशोषादिकं तृङ्ग्रहोक्तामयपर्यन्तं निर्दिष्टं तासां-तृष्णानां, सामान्यलक्षणम्| तृङ्ग्रहोक्ताः-रोगानुत्पादनीयोक्ताः (हृ. सू. अ. ४|१०) शोषाङ्गसादबाधिर्यादयः|

Adhikarana vAtajAyA lakShaNam (50-51) · Śloka 51

मारुतात् क्षामता दैन्यं शङ्ख़तोदः शिरोभ्रमः| गन्धाज्ञानास्यवैरस्यश्रुतिनिद्राबलक्षयाः||५०|| शीताम्बुपानाद्दृद्धिश्च| |५१|

🔊 Audio coming soon

स०-वातात्तृष्णायां क्षामताद्याः स्युः|

Adhikarana pittajAyA lakShaNam (51) · Śloka 51

पित्तान्मूर्च्छास्यतिक्तता| रक्तेक्षणत्वं प्रततं शोषो दाहोऽतिधूमकः||५१||

🔊 Audio coming soon

स०-पित्तात्तृष्णायां मूर्च्छादयो भवन्ति|

Adhikarana kaphajAyA lakShaNam (52-54) · Śloka 54

कफतृष्णामाह - - - - कफो रुणद्धि कुपितस्तोयवाहिषु मारुतम्| स्रोतःसु स कफस्तेन पङ्कवच्छोष्यते ततः||५२|| शुकैरिवाचितः कण्ठो निद्रा मधुरवक्क्रता| आध्मानं शिरसो जाड्यं स्तैमित्यच्छर्द्यरोचकाः||५३|| आलस्यमविपाकश्च| |५४|

🔊 Audio coming soon

स०-कफः कुपितो जलवाहिषु स्रोतःसु यदा मारुतं रुणद्धि तदा स च कफस्तेन-मरुता, पङ्क इव शोष्यते| ततः-तस्मिन्कफे शुष्के सति, कण्ठः शूकैरिवाचितो-व्याप्तः, स्यात्| तथा, निद्रादयश्च स्युः|

Adhikarana sannipAtajAyAH lakShaNam (54) · Śloka 54

सर्वैः स्यात्सर्वलक्षणा| |५४|

🔊 Audio coming soon

स०-सर्वैः-सन्निपतितैः, सर्वलिङ्गा तृष्णा स्यात्|

Adhikarana tRuShNAntarANAmantarbhAvaH (54-56) · Śloka 56

| आमोद्भवा च, भक्तस्य संरोधाद्वातपित्तजा||५४|| उष्णक्लान्तस्य सहसा शीताम्भो भजतस्तृषम्| ऊष्मा रुद्धो गतः कोष्ठं यां कुर्यात्पित्तजैव सा||५५|| या च पानातिपानोत्था, तीक्ष्णाग्नेः स्नेहजा च या| स्निग्धगुर्वम्ललवणभोजनेन कफोद्भवा||५६||

🔊 Audio coming soon

स०-आमोद्भवा च तृष्णा भक्तस्याहारस्य संरोधात् स्यात्| सा च वातपित्तजा| उष्णेन म्लानस्य नरस्य सहसा-झटित्येव, शीतं जलं सेवमानस्योष्मा रुद्धः कोष्ठं गतो यां तृषं-तृष्णां, कुर्यात् सा पित्तजैव तृष्णा, न त्वन्या बोध्या| या च तृट् पानस्य-मद्यपानस्य, अतिपानोद्भवा साऽपि पित्तजैव| या च तीक्ष्णाग्नेः पुरुषस्य स्नेहजा तृट् साऽपि पित्तजैव| स्निग्धादिगुणयुक्तेन भोजनेन या तृट् स्यात् सा कफसम्भवा वेद्या|

Adhikarana rasakShayajAyAH lakShaNam (57) · Śloka 57

तृष्णा रसक्षयोक्तेन लक्षणेन क्षयात्मिका| |५७|

🔊 Audio coming soon

स०-रसक्षयोक्तेन लक्षणेन-"रसे रौक्ष्यं श्रमः" (हृ. सू. अ. ११|१७) इत्यादिग्रन्थनिर्दिष्टेन लक्षणेन, क्षयात्मिका तृष्णा बोध्या|

Adhikarana upasargajAyAH lakShaNam (5) · Śloka 5

| शोषमेहज्वराद्यन्यदीर्घरोगोपसर्गतः||५७|| या तृष्णा जायते तीव्रा सोपसर्गात्मिका स्मृता| ५७ १/२| इति तृष्णानिदानम्| इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां तृतीये शरीरस्थाने राजयक्ष्मादिनिदानं नाम पञ्चमोऽध्यायः||५||

🔊 Audio coming soon

स०-शोषमेहज्वराद्यन्यतमदीर्घरोगोपसर्गात्-दीर्घकालानुबन्धात्, या तृष्णा स्यात् सोपसर्गात्मिका स्मृता, मुनीन्द्रैरिति शेषः| इति श्रीमृगाङ्कदत्तपुत्रश्रीमदरुणदत्तविरचितायामष्टाङ्गहृदयटीकायां सर्वाङ्गसुन्दराख्यायां तृतीये निदानस्थाने राजयक्ष्मादिनिदानं नाम पञ्चमोऽध्यायः समाप्तः|| ५||