Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

4. śvāsahidhmānidānādhyāyaḥ

Adhikarana adhyAyopakramaH · Śloka

🔊 Audio coming soon

स०-कासनिदानादनन्तरं श्वासनिदानारम्भोऽयं सम्बन्धः| कासादुपेक्षया श्वासो भवति| तथाऽनन्तरमुक्तम् (हृ. नि. अ. ३|३८) - "कासाच्छ्वासक्षयच्छर्दि" इत्यादि| तस्माच्छ्वासनिदानारम्भो युक्तः| श्वासेन तु सहैकीकृत्य हिध्मायाः कथने युक्त्या तन्त्रकृत् कारणं वक्ष्यति (श्लो. १८) - "श्वासैकहेतुप्राग्रूप" इत्यादिना|

Adhikarana shvAsahidhmAnidAnAdhyAyaH (2) · Śloka 2

अथातः श्वासहिध्मानिदानं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः| गद्यसूत्रे|२|

🔊 Audio coming soon

स०-पूर्ववदेतद्व्याख्येयम्|

Adhikarana shvAsasya nidAnam (1-2) · Śloka 2

अथ श्वासस्य निदानानि लक्षयति - - - - कासवृद्ध्या भवेच्छ्वासः पूर्वैर्वा दोषकोपनैः| आमातिसारवमथुविषपाण्डुज्वरैरपि||१|| रजोधूमानिलैर्मर्मघातादतिहिमाम्बुना| |२|

🔊 Audio coming soon

स०-कासाधिक्येन श्वासो जायते, इत्येतदस्य प्रधानं निदानम्| तथा, पूर्वैर्वा-सर्वरोगनिदानोक्तैः, वातादिदोषकोपनैः-तिक्तोषणादिभिः| न केवलमेतैर्यावदामातिसारादिभिः| आमातिसारेण वमथुना विषेण पाण्डुरोगेण ज्वरेण च|

Adhikarana shvAsabhedAH (2) · Śloka 2

| क्षुद्रकस्तमकश्छिन्नो महानूर्ध्वश्च पञ्चमः||२||

🔊 Audio coming soon

स०-श्वासः क्षुद्रकादित्वेन पञ्चविधो भवेत्|

Adhikarana shvAsasaMprAptiH (3-4) · Śloka 4

अधुना श्वासस्य पञ्चविधस्यापि सम्प्राप्तिमाह - - - - कफोपरुद्धगमनः पवनो विष्वगास्थितः| प्राणोदकान्नवाहीनि दुष्टः स्रोतांसि दूषयन्||३|| उरःस्थः कुरुते श्वासमामाशयसमुद्भवम्| |४|

🔊 Audio coming soon

स०-कफेनोपरुद्धं-स्थगितं, गमनं-मार्गो, यस्य स एवम्| तथा, विष्वगास्थितः-समन्ताद्देहं व्याप्य स्थितः, श्वासं कुरुते| किं कुर्वन् ? प्राणाश्चोदकं चान्नं च, तानि वोढुं शीलं येषां तानि स्रोतांसि दूषयन्-दुष्टानि विदधत्| यतो दुष्टः-कुपितः| तथा, उरसि तिष्ठतीत्युरःस्थः| किम्भूतं श्वासम् ? आमाशयसमुद्भवम्| आमाशयात् समुद्भवो-जन्म, यस्य तमाशयसमुद्भवम्| शास्त्रकारश्चैवंविधां सम्प्राप्तिं दर्शयन् यदौषधं वातजित् पाचनदीपनं तदत्र शस्तमिति द्योतयति| एवं सर्वरोगाणामपि सम्प्राप्त्यनुरूपमौषधं रोगोपशान्त्यै इति वेद्यम्| पवनो विष्वगास्थित इत्यनेनैवोरःस्थत्वे लब्धे उरःस्थग्रहणं प्रकर्षार्थम्; अतिशयेनोरःस्थितः श्वासं करोतीत्यर्थः|

Adhikarana shvAsapUrvarUpam (4-5) · Śloka 5

| प्राग्रूपं तस्य हृत्पार्श्वशूलं प्राणविलोमता||४|| आनाहः शङ्खभेदश्च| |५|

🔊 Audio coming soon

स०-तस्य पञ्चविधस्यापि श्वासस्य पूर्वरूपं हृच्छूलादिकं शङ्खभेदावसानम्|

Adhikarana kShudrashvAsasya lakShaNam (5) · Śloka 5

तत्रायासातिभोजनैः| प्रेरितः प्रेरयेत् क्षुद्रं स्वयं संशमनं मरुत्||५||

🔊 Audio coming soon

स०-तत्र-पञ्चसु श्वासेषु मध्ये, मरुत्-पवनः, आयासातिभोजनैः क्षुद्राख्यं श्वासं करोति| आयासो-व्यायामादिरूपः, तेन तथाऽतिभोजनेन प्रेरितः-प्रकर्षेणेरित उन्मार्गगामीकृतः, कोपित इत्यर्थः| किम्भूतं श्वासम् ? स्वयं संशमनं,-चिकित्सां विना किञ्चित्कालातिवाहनेन शाम्यतीत्यर्थः, अचिरकालावस्थायित्वात्| स्वयं संशमनादल्पबलत्वाच्च क्षुद्रसंज्ञोऽयम्|

Adhikarana tamakashvAsasya lakShaNam (6-10) · Śloka 10

अथ तमकं लक्षयति - - - - प्रतिलोमं सिरा गच्छन्नुदीर्य पवनः कफम्| परिगृह्य शिरोग्रीवमुरः पार्श्वे च पीडयन्||६|| कासं घुर्घुरकं मोहमरुचिं पीनसं तृषम्| करोति तीव्रवेगं च श्वासं प्राणोपतापिनम्||७|| प्रताम्येत्तस्य वेगेन निष्ठ्यूतान्ते क्षणं सुखी| कृच्छ्राच्छयानः श्वसिति निषण्णः स्वास्थ्यमृच्छति||८|| उच्छ्रिताक्षो ललाटेन स्विद्यता भृशमर्तिमान्| विशुष्कास्यो मुहुःश्वासी काङ्क्षत्युष्णं सवेपथुः||९|| मेघाम्बुशीतप्राग्वातैः, श्लेष्मलैश्च विवर्द्धते| स याप्यस्तमकः, साध्यो नवो वा बलिनो भवेत्||१०||

🔊 Audio coming soon

स०- पवनः प्रतिलोमं-विपर्ययं कृत्वा, शिराः-स्रोतांसि, गच्छन् श्वासं करोति| तथा कफमुदीर्य-ऊर्ध्वं प्रेर्य, तथा शिरो ग्रीवां च परिगृह्य-समन्ताद्गृहीत्वा, तथोरः पार्श्वे च पीडयन्-निर्मन्थयन्, कासादीन् श्वासं च तीव्रवेगं तथा प्राणोपतापिनं करोति| प्राणाख्यो वायुरुपतप्यते येन तच्छीलत्वादसौ प्राणोपतापी श्वासः| तस्य-तमकस्य, वेगेन-बलेन, पुरुषः प्रताम्येत्-दुःखी सम्पद्यते, श्लेष्मणा रुद्धमार्गत्वात्| अत एवाह-निष्ठ्यूतान्ते क्षणं सुखीति| स च तमकश्वासी शयानः-शय्यामासीनः, कृच्छ्रात्-दुःखेन, श्वासिति-श्वासं मुञ्चति| निषण्णः-उपविष्टः सन्, स्वास्थ्यमृच्छति-नीरुक्ऽऽत्वं प्राप्नोति| उच्छ्रितेऽक्षिणी यस्य स उच्छ्रिताक्षः, "बहुव्रीहौ सक्थ्यक्षणोः" इति षच्| उच्छ्रिताक्षः-ऊर्ध्वदृक्| ललाटेन स्विद्यता-स्वेदयुक्तेनोपलक्षितः भृशं-अतिशयेन, अर्तिमान्-पीडावान्| तथा विशुष्कमास्यं यस्य स एवम्| मुहुः-पुनःपुनः, श्वासो यस्य स मुहुःश्वासी| उष्णं काङ्क्षति-अभिलषति| तथा, सवेपथुः-कम्पवान्| स च तमको मेघादिभिः पृथक् तथा श्लेष्मलैः-गुडादिभिः, वर्द्धते-वृद्धिं याति| मेघशब्देनात्रोभयं गृह्यते, मेघोन्नमनं वर्षणं च| तेन मेघोन्नमनेन वर्द्धते तदुपलक्षितेन कालेन वर्षाख्येन च वर्द्धते| एवं शीतशब्देनापि द्वयं गृह्यते,-शीतलक्षणः कालो हेमन्तशिशिराख्यः, शीतगुणयुक्त औषधाहारविहारादिः, तेनोभयेनापि विवर्द्धते| स तमकः श्वासो याप्यो-नासौ सुखसाध्यः, कृच्छ्रसाध्यो वा दुर्बलस्य पुंसः| स एवाभिनवोत्पन्नो बलवतः पुंसः साध्यो वा भवेत्| सम्भावनायां लिङ्, साध्यत्वेन सम्भाव्यत इत्यर्थः|

Adhikarana pratamakashvAsasya lakShaNam (11) · Śloka 11

ज्वरमूर्छायुतः शीतैः शाम्येत्प्रतमकस्तु सः| |११|

🔊 Audio coming soon

स०-स एव-तमकाख्यो ज्वरमूर्च्छायुतो यदा भवति, शीतैश्चोषधाहारविहारैः शाम्येत्-शमं याति न तमकवत् वर्द्धते, तदा स च प्रतमक उच्यते| अयं च तमकस्यैव भेद इति षट्त्वं श्वासानां नाशङ्क्यम्|

Adhikarana chinnashvAsasya lakShaNam (11-13) · Śloka 13

अथ छिन्नं लक्षयति - - - - | छिन्नाच्छ्वसिति विच्छिन्नं मर्मच्छेदरुजार्दितः||११|| सस्वेदमूर्च्छः सानाहो बस्तिदाहनिरोधवान्| अधोदृग्विप्लुताक्षश्च मुह्यन् रक्तैकलोचनः||१२|| शुष्कास्यः प्रलपन् दीनो नष्टच्छायो विचेतनः| |१३|

🔊 Audio coming soon

स०-छिन्नाख्याच्छ्वासात् विच्छिन्नं कृत्वा नरः श्वसिति-न निरन्तरम्| मर्मच्छेदतुल्यया रुजयाऽर्दितः| तथा, सह स्वेदमूर्च्छाभ्यां वर्तते सस्वेदमूर्च्छः| तथा, आध्मान्वान्| दाहश्च निरोधश्च दाहनिरोधौ, बस्तौ दाहनिरधौ बस्तिदाहनिरोधौ, तौ विद्येते यस्य स एवम्| अधः-अधस्तात्, दृक्-दृष्टिः, यस्य स एवम्| तथा, विप्लुते-एकत्रानवस्थिते, अक्षिणी यस्य स एवम्| तथा, मुह्यन्-मोहं गच्छन्| तथा, रक्तमेकं लोचनं यस्य स एवम्| तथा, शुष्कास्यः सन् दीनं प्रलपन्| तथा, नष्टकान्तिर्विचेताश्च|

Adhikarana mahAshvAsasya lakShaNam (13-15) · Śloka 15

अधुना महदाख्यं श्वासं लक्षयति - - - - | महता महता दीनो नादेन श्वसिति क्रथन्||१३|| उद्धूयमानः संरब्धो मत्तर्षभ इवानिशम्| प्रणष्टज्ञानविज्ञानो विभ्रान्तनयनाननः||१४|| वक्षः समाक्षिपन् बद्धमूत्रवर्चा विशीर्णवाक्| शुष्ककण्ठो मुहुर्मुह्यन् कर्णशङ्खशिरोतिरुक्||१५||

🔊 Audio coming soon

स०-महता श्वासेनार्तः पुरुषो महता नादेन-शब्देन, श्वसिति यावत्कर्णशङ्खशिरोतिरुगिति| क्रथन्-क्वणन्| उद्धूयमानः-उत्कम्प्यमानः| संरब्धः-सङ्क्षुभितः| ज्ञानं-तत्त्वावबोधः| विज्ञानं-कर्मसु कौशलम्|

Adhikarana UrdhvashvAsasya lakShaNam (16-17) · Śloka 17

अथोर्ध्वलक्षणार्थमाह - - - - दीर्घमूर्ध्वं श्वसित्यूर्ध्वान्न च प्रत्याहरत्यधः| श्लेष्मावृतमुखस्रोताः क्रुद्धगन्धवहार्दितः||१६|| ऊर्ध्वदृग्वीक्षते भ्रान्तमक्षिणी परितः क्षिपन्| मर्मसु च्छिद्यमानेषु परिदेवी निरुद्धवाक्||१७||

🔊 Audio coming soon

स०-ऊर्ध्वाख्याच्छ्वासात् दीर्घमूर्ध्वं श्वसिति| ऊर्ध्वं श्वासं मुक्त्वा पुनरधो निश्वासवन्न तं श्वासं प्रत्याहरति| यथा,-अन्येषु श्वासेषु नर ऊर्ध्वं दीर्घं श्वासं मुक्त्वा पुनरधः प्रत्याहरति-पुनरन्तः प्रवेशयितुं शक्नोति, नैवमस्मिन्नूर्ध्वश्वास इत्यर्थः| किम्भूतो नरोऽत्र स्यात् ? इत्याह-श्लेष्मेत्यादि| श्लेष्मणाऽऽवृतानि मुखानि येषां तान्येवम्, श्लेष्मावृतमुखानि स्रोतांसि यस्य स एवम्| तथा, क्रुद्धगन्धवहेन-कुपितमरुता, अर्दितः-पीडितः| तथा, ऊर्ध्व दृग्-दृष्टिः, यस्य स ऊर्ध्वदृक्| तथा, अक्षिणी परितः-समन्तात्, क्षिपन् भ्रान्तं कृत्वा वीक्षते| तथा, मर्मसु छिद्यमानेष्विव परिदेवी-दुःखार्तः, सम्पद्यते| तथा, निरुद्धवाक्-अन्तःप्रविष्टवागित्यर्थः|

Adhikarana chinnamahordhvashvAsAnAM sAdhyatvAdi (18-1) · Śloka 1

एते सिद्ध्येयुरव्यक्ता व्यक्ताः प्राणहरा ध्रुवम्| |१८| इति श्वासनिदानम्||१||

🔊 Audio coming soon

स०-एते-तमकादयः श्वासाः, अव्यक्ताः-अस्फुटरूपाः, सिध्द्येयुश्चिकित्स्यमानाः| व्यक्ताः-स्फुटलक्षणाः, पुनर्ध्रुवं-निश्चितं, प्राणहराः स्युः|

Adhikarana hidhmAyAH shvAsatulyatvam (18-19) · Śloka 19

अथ हिध्मास्वरूपं लक्षयति - - - - अथ हिध्मानिदानम्| | श्वासैकहेतुप्राग्रूपसङ्ख्याप्रकृतिसंश्रयाः||१८|| हिध्माः| |१९|

🔊 Audio coming soon

स०-एकशब्दस्तुल्यार्थः| श्वासानां तुल्या हेत्वादयो यासां-हिध्मानां, ताः श्वासैकहेतुप्राग्रूपसङ्ख्याप्रकृतिसंश्रयाः| श्वासानां हेतुः-"कासवृद्ध्या भवेच्छ्वासः" (श्लो. १) इत्यादिग्रन्थेन प्रतिपादितः, स एव हिध्मानां हेतुः| श्वासानां प्राग्रूपं-"हृत्पार्श्वशूलं" (श्लो. ४) इत्यादि, तदेव हिध्मानाम्| तथा, श्वासाः पञ्च, हिध्मा अपि पञ्च| श्वासानां प्रकृतिः-आसन्नं कारणम्,-"कफोपरुद्धगमनः" (श्लो. ३) इत्यादिविशेषणविशिष्टः पवनः, तादृश एव वातो हिध्मानां प्रकृतिः| श्वासानां संश्रयः-आश्रयः, यमधिष्ठाय सम्भवन्ति श्वासाः| यथा,-"आमाशयसमुद्भवम्" (श्लो. ४) इति, स एव हिध्मानाम्| प्रायिकत्वं वाऽस्य बोध्यम्| जत्रुमूलादप्युत्पतेः क्षुद्रायाः| तदेवं श्वासानां तुल्या हेत्वादयो हिध्मानाम्|

Adhikarana pa~jcAnAM hidhmAnAM nAmAni (19) · Śloka 19

भक्तोद्भवा क्षुद्रा यमला महतीति च| गम्भीरा च|१९|

🔊 Audio coming soon

स०-भक्तोद्भवाद्याः पञ्च हिध्माः| इतिशब्दो व्यवच्छेदे, चः समुच्चये| एवं गम्भीरा चेत्यत्रापि|

Adhikarana bhaktodbhavAhidhmAyA lakShaNam (19-21) · Śloka 21

भक्तोद्भवां लक्षयितुमाह - - - - | मरुत्तत्र त्वरयाऽयुक्तिसेवितैः||१९|| रूक्षतीक्ष्णखरासात्म्यैरन्नपानैः प्रपीडितः| करोति हिध्मामरुजां मन्दशब्दां क्षवानुगां||२०|| शमं सात्म्यान्नपानेन या प्रयाति च साऽन्नजा| |२१|

🔊 Audio coming soon

स०-तत्र-तासु हिध्मासु मध्ये, अन्नजां हिध्मामेवंप्रकारां मरुत् करोति| किम्भूतो मरुत् ? अन्नपानैः प्रपीडितो-बाधितः| किम्भूतैः ? रूक्षतीक्ष्णखरासात्म्यैः, सामर्थ्यादभ्यवहृतैः| तथा, त्वरया-क्रममनपेक्ष्य, अयुक्त्या-यथेच्छया, वा सेवितैः| किम्भूतां हिध्माम् ? अरुजां-पीडया रहितां| तथा, मन्दशब्दां-मन्दवेगां| तथा, क्षवेन-क्षुत्या, अनुगतां-अनुबद्धाम्| न केवलमेवंलक्षणोपेता या साऽन्नजा, या च सात्म्येनान्नपानेन शमं याति साऽप्यन्नजैव| अत्र चान्नपानैरिति हेतुनिर्देशः| अरुजं मन्दशब्दां क्षवानुगामिति लक्षणनिर्देशः| शमं सात्म्यान्नपानेनेत्युपशयनिर्देशः|

Adhikarana kShudrAhidhmAyAH lakShaNam (21-22) · Śloka 22

अथ क्षुद्राख्यां लक्षयितुमाह - - - - | आयासात्पवनः क्षुद्रः क्षुद्रां हिध्मां प्रवर्तयेत्||२१|| जत्रुमूलप्रविसृतामल्पवेगां मृदुं च सा| वृद्धिमायास्यतो याति भुक्तमात्रे च मार्दवम्||२२||

🔊 Audio coming soon

स०-आयासात्-व्यायामात्, पवनः स्वल्पात् प्रकोपात् क्षुद्रः-अल्पः, क्षुद्रं हिध्मां प्रवर्तयेत्-विदध्यात्| किम्भूताम् ? जत्रुमूलात् प्रकर्षेण विसृतां-जाताम्| अत एव क्षुद्रत्वादल्पवेगाम्, तथा मृदुं-नातिरुजाकरीम्| सा चायास्यतः-आयासं कुर्वतो, वृद्धिं याति| भुक्तमात्रे च-सद्यो भुक्ते, मार्दवं-मृदुत्वं, याति|

Adhikarana yamalAhidhmAyAH lakShaNam (23-25) · Śloka 25

अधुना यमलां व्याचष्टे - - - - चिरेण यमलैर्वेगैराहारे या प्रवर्तते| परिणामोन्मुखे वृद्धिं परिणामे च गच्छति||२३|| कम्पयन्ती शिरोग्रीवमाध्मातस्यातितृष्यतः| प्रलापच्छर्द्यतीसारनेत्रविप्लुतिजृम्भिणः||२४|| यमला वेगिनी हिध्मा परिणामवती च सा| |२५|

🔊 Audio coming soon

स०-चिरेण कालेन, आहारे परिणामोन्मुखे-प्रत्यासन्नपरिणामे, तथा परिणामे चाहारस्य, या वृद्धिं गच्छति, यमलैश्च वेगैः-न केवलैः, या प्रवर्तते सा यमलवेगप्रवर्तनात्-यमलाख्या हिध्मा| किं कुर्वती सा प्रवर्तते ? शिरश्च ग्रीवां च कम्पयन्ती| किम्भूतस्य नरस्य ? आध्मातस्य तथाऽतितृष्यतः-तृडार्तस्य, तथा प्रलापादिमतः| सैव च यमला वेगिनी, सैव परिणामवती, इत्येवं संज्ञात्रयमस्या बोध्यम्|

Adhikarana mahAhidhmAyAH lakShaNam (25-27) · Śloka 27

महाहिध्मां व्याचिख्यासुराह - - - - | स्तब्धभ्रूशङ्खयुग्मस्य सास्रविप्लुतचक्षुषः||२५|| स्तम्भयन्ती तनुं वाचं स्मृतिं संज्ञां च मुष्णती| रुन्धती मार्गमन्नस्य कुर्वती मर्मघट्टनम्||२६|| पृष्ठतो नमनं शोषं महाहिध्मा प्रवर्तते| महामूला महाशब्दा महावेगा महाबला||२७||

🔊 Audio coming soon

स०-स्तब्धं भ्रूयुग्मं शङ्खयुग्मं च यस्य तस्य तथाविधस्य पुरुषस्य महाहिध्मा प्रवर्तते| तथा, सास्रे विप्लुते-चले, चक्षुषी यस्य तस्य, तथेदमिदं कुर्वाणा प्रवर्तते| तनुं-देहं, स्तम्भयन्ती-निश्चलं कुर्वती, तथा वाचं स्तम्भयन्ती-मूकत्वं च कुर्वाणा, स्मृतिं संज्ञा च मुष्णती-स्मृतिसंज्ञयोरपहरणं विदधती, तथाऽन्नस्य-चतुर्विधस्यापि, मार्गं रुन्धती, तथा मर्मणां-हृदयादीनां, घट्टनं-चालनं, कुर्वती, तथा पृष्ठतो नमनं तथा शोषं शरीरस्य कुर्वती, महाहिध्मा प्रवर्तत इति योज्यम्| तथा, महत् मूलं-उत्पत्तौ कारणं, यस्याः सा महामूला| तथा, महाशब्दा महावेगा महाबला चेयं भवति| एतैश्च विशेषणैरस्याः शिघ्रप्राणहारित्वं द्योत्यते|

Adhikarana gambhIrAhidhmAyAH lakShaNam (28-29) · Śloka 29

अथ गम्भीरां लक्षयति - - - - पक्वाशयाद्वा नाभेर्वा पूर्ववद्या प्रवर्तते| तद्रूपा सा मुहुः कुर्याज्जृम्भामङ्गप्रसारणम्||२८|| गम्भीरेणानुनादेन गम्भीरा| |२९|

🔊 Audio coming soon

स०-पक्वाशयात्-नाभेरधस्तात्, अथवा नाभेः-नाभिदेशात्, या प्रवर्तते, सा पूर्ववदिति महाहिध्मावत्| यथा,-महाहिध्मा "स्तब्धभ्रूशङ्खयुग्मस्य" (श्लो. २५) इत्यादिविशेषणविसिष्टा प्रवर्तते तथैवेयं तथाभूतस्य पुरुषस्येत्यर्थः| तथा, तद्रूपा-तस्या महाहिध्मायाः सदृशं रूपं-लक्षणं, यस्याः सा तद्रूपा| महाहिध्मातोऽस्या इदमधिकं लक्षणम्,-मुहुर्मुहुर्जृम्भां तथा मुहुर्मुहुरङ्गप्रसारणं कुर्यात्| गम्भीरेणानुनादेनेति| अनुनादः-अनुरणनम्, घण्टादीनामिव| गम्भीरेणानुनादेन हेतुना गम्भीराख्येयम्|

Adhikarana hidhmAnAM sAdhyatvAdi (29-2) · Śloka 2

तासु साधयेत्| आद्ये द्वे, वर्जयेदन्त्ये सर्वलिङ्गां च वेगिनीम्||२९|| सर्वाश्च सञ्चितामस्य स्थविरस्य व्यवायिनः| व्याधिभिः क्षीणदेहस्य भक्तच्छेदक्षतस्य वा||३०|| इति हिध्मानिदानम्||२||

🔊 Audio coming soon

स०-तासु-पञ्चसु हिध्मासु मध्ये, आद्ये द्वे ये हिध्मे-भक्तोद्भवाक्षुद्राख्ये, ते साधयेत्-चिकित्सेत्, साध्यत्वात्| अन्त्ये ये द्वे-महाहिध्मागम्भीराख्ये, ते वर्जयेत्-नोपक्रमेत्, असाध्यत्वात्| आदौ भवे आद्ये, एवमन्त्ये, "दिगादित्वात् (दिभ्यो यत्" इति) यत्| तथा वेगिनीं च-यमलाख्यां, सर्वलिङ्गां यथोक्तलक्षणां वर्जयेत्| न केवलमेता एव वर्जयेत्, यावत्सर्वा अपि हिध्मा एवंभूतस्य पुरुषस्य जाता वर्जयेत्| किम्भूतस्य ? [सञ्चितामस्य-] चिरकालसम्भृतामस्य, तथा स्थविरस्य-वृद्धस्य, तथा व्यवायिनः-स्त्रीगमनशीलस्य. [तथा व्याधिभिः क्षीणदेहस्य,] तथा भक्तस्य छेदो भक्तच्छेदो,-भोजननिवृत्तिः, तेन क्षतः-क्षीणो दुर्बलो, भक्तच्छेदक्षतः, तस्य च वर्जयेत्|

Adhikarana hidhmAshvAsayoH shIghranAshakatvam (4) · Śloka 4

अधुना हिध्माश्वासयोः शीघ्रकारित्वमाह - - - सर्वेऽपि रोगा नाशाय न त्वेवं शीघ्रकारिणः| हिध्माश्वासौ यथा तौ हि मृत्युकाले कृतालयौ||३१|| इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां तृतीये निदानस्थाने श्वासहिध्मानिदानं नाम चतुर्थोऽध्यायः||४||

🔊 Audio coming soon

स०-सर्वे रोगा नाशाय-अभावाय, स्युः| न केवलं हिध्माश्वासावित्युपदर्शनार्थोऽपिशब्दः| न पुनरेवं शीघ्रविनाशकारिणः सर्वे, यथा हिध्माश्वासौ शीघ्रविनाशकारिणौ| यस्मात्तौ मृत्युकाले-मरणावसरे, कृतालयौ-विहितवसती, तस्मिन् काले तयोरवश्यंभावित्वात्| शीघ्रमारणस्वभावत्वादनयोस्तु चिकित्सायां सत्वरं यतितव्यमिति| इति श्रीमृगाङ्कदत्तपुत्रश्रीमदरुणदत्तविरचितायामष्टाङ्गहृदयटीकायां सर्वाङ्गसुन्दराख्यायां तृतीये निदानस्थाने श्वासहिध्मानिदानं नाम चतुर्थोऽध्यायः समाप्तः|| ४||