Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

1. sarvarōganidānādhyāyaḥ

Adhikarana adhyAyopakramaH · Śloka

🔊 Audio coming soon

स०-श्रीगणेशाय नमः| अथ शरीरस्थानादनन्तरं निदानस्थानारम्भः| अस्य चायं सम्बन्धः| हेतुलिङ्गौषधस्कन्धलक्षणोऽयमायुर्वेदः प्रणीतः| तानि च हेतुलिङ्गौषधानि सूत्रस्थाने सूचितानि| शरीरलक्षणं चाधारं समुत्पाद्य तानि विस्तारेणोपदेष्टुं शक्यन्ते| तस्माच्छारीरस्थानं पूर्वमारब्धवान्| ननु, एवं सत्यौषधस्कन्ध एव प्राक् प्राधान्यादुपदेष्टुं न्याय्यः| नैवम्| हेतुलिङ्गाभ्यां ह्यामयं परीक्ष्यानन्तरं यथायोगमामयप्रशमनार्थमौषधं दातुमुचितम्| तस्माद्धेतुलिङ्गयोरेवोपादानं प्राग्युक्तम्, न त्वौषधस्य, इति चिकित्सितस्थानात् प्रागिदमेव स्थानमुपदेष्टुं युक्तम्| तथा चोक्तं मुनिना (च. सू. अ. २०|२४)- "रोगमादौ परीक्षेत ततोऽनन्तरमौषधम्|" इति| तस्मादौषधाद्धेतुलिङ्गयोरेवामयं प्रति प्राधान्यम्| अतो निदानस्थानारम्भः| तत्र च पूर्वं सर्वरोगनिदानमेवारब्धुं युक्तम्, प्राधान्यात्| प्राधान्यं च सर्वरोगकारणनिर्देशात्| तथा हि वातादय एव प्रकुपिताः सर्वरोगकारणम्| वक्ष्यति हि (श्लो. १२)- "सर्वेषामेव रोगाणां निदानं कुपिता मलाः|" इति|

Adhikarana sarvaroganidAnAdhyAyaH (2) · Śloka 2

तेषां च प्रकोपकारणमस्मिन्निर्दिश्यत इत्याह - अथातः सर्वरोगनिदानं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः| गद्यसूत्रे||२||

🔊 Audio coming soon

स०-अथात इत्यादि| सर्वे च ते रोगाश्च सर्वरोगाः, तेषां निदानं सर्वरोगनिदानम्| शेषमायुष्कामीयाध्यायवद्व्याख्येयम्| इतीत्यादिशब्दानामपि पूर्ववद्व्याख्या|

Adhikarana rogaparyAyAH (1) · Śloka 1

तत्र रोगाणां सामान्यं निदानं बिभणिषुस्तावद्रोगाणामेव पर्यायान् वदति| रोगपर्यायश्रवणेन हि शिष्याणां तत्र तत्र शास्त्रप्रदेशेषु सम्मोहो न भवति रोगः पाप्मा ज्वरो व्याधिर्विकारो दुःखमामयः| यक्ष्मातङ्कगदाबाधाः शब्दाः पर्यायवाचिनः||१||

🔊 Audio coming soon

स०-रोगादयः शब्दाः पर्यायवाचिनः-एकार्था इत्यर्थः| ननु च, एषां रोगादिशब्दानां प्रवृत्तिनिमित्तं प्रत्यर्थभेदोऽपि दृश्यते| यथा,-रुजतीति रोगः, दुःखस्य कर्तृत्वाद्दुःखस्याभिधायकः| पाप्मेति किल सर्वे रोगाः पापस्य कर्मणः फलमिति कृत्वा पाप्मेत्युच्यते| "ज्वरः प्रधानो रोगाणामुक्तः" (च. चि. अ. ३|४)| प्राधान्यं चास्य दुरुपक्रमत्वादतिदुःसहत्वाच्च| अत एव सर्वकायमनःसन्तापकत्वं ज्वरस्याहुः| तथा, "ज्यावयोहानौ" इत्यस्य धातोरौणादिके वरप्रत्यये सति ज्वरशब्दस्यार्थान्तरत्वमप्यापतति| विविधमाधिं-दुःखं, आदधाति शरीरे मनसि चेति-व्याधिः| विकारो बुद्धीन्द्रियमनःशरीराणां विकृतिं-अन्यथात्वं, जनयतीत्यर्थः| दुःखमित्यनेनोपतापकत्वमनुभवं गमयति| आमय इत्यस्यार्थः-किलाऽऽमसमुत्थाः सर्वे व्याधयः| प्रायेण हि लोकोऽखिल एव लौल्याददेशकालापथ्यातिमात्राशी भवति| तस्य चावश्यमामसम्भवाद्बाहुल्येनामसमुत्था व्याधयः| बाहुल्यं चाङ्गीकृत्य शब्दप्रवृत्तिः| यक्ष्मेव यक्ष्मा, यथा-"यक्ष्मा रोगसमूहानाम्" (च. सू. अ. २५|३९, सं. सू. अ. १३) इत्युक्तः| एवं सर्वोऽपि रोगो रोगसमूह इत्यनेन द्योतयति| तथा च, सर्वो विकार उत्पद्यमानोऽनेकैर्व्याधिलक्षणभूतैश्च युक्त उत्पद्यते| यथा,-ज्वरस्यालस्यारोचकादयः| आतङ्क इति "तकि कृच्छ्रजीवने" इत्यस्य धातोराङ्पूर्वस्य रूपम्| रोगोपतप्तत्वाद्धि स्त्रीपानभोजनादिभ्यो निवृत्ताः कृच्छ्रेण जीवन्ति| गद इव गदोऽनेककारणजन्यत्वात्| यथा हि गदोऽनेककारणजस्तथा गदोऽपीति गदशब्दस्यार्थः| आबाध इति आसमन्तात् कायमनसोर्बाधनं-पीडेत्यर्थः| एवं प्रवृत्तिनिमित्तं प्रत्यर्थभेददर्शनात् कथमुक्तं पर्यायवाचिनः इति| अत्राचक्ष्महे| एवमेवैतत्| किन्तु पीडाकारित्वसामान्यं प्रवृत्तिनिमित्तमुररीकृत्य पर्यायवाचिनः इत्युक्तम्|

Adhikarana rogavij~jAnaBedAH (2) · Śloka 2

निदानं पूर्वरूपाणि रूपाण्युपशयस्तथा| सम्प्राप्तिश्चेति विज्ञानं रोगाणां पञ्चधा स्मृतम्||२||

🔊 Audio coming soon

स०-निदानादयः सम्प्राप्त्यन्ता रोगाणां विज्ञानं पञ्चधा स्मृतम्, मुनीन्द्रैरिति शेषः| निदानादिविज्ञानेन सर्वे रोगा विशेषेण बुध्यन्त इत्यर्थः| उपशयस्तथेति यथा निदानादयो रोगाणां विज्ञानं तथोपशयोऽपीति तत्तुल्यकक्षतां द्योतयितुं तथाशब्दं तन्त्रकृत् प्रत्युक्तवान्| एवं सम्प्राप्तिश्चेत्यत्र चकारमपि| इति-परिसमाप्तौ, एतावदेव रोगाणां विज्ञानम्| निदानं द्विधा,-रोगाणामासन्नं विप्रकृष्टं च| तत्रासन्नं यथा-वातादयः प्रकुपिताः| विप्रकृष्टं कारणं यथा-वातादिचयप्रकोपकरमाहारविहारादि| तत्र निदानं-कटुकाम्लदध्यादिकं ज्वरस्य| पूर्वरूपं यथा-ज्वरस्यैवालस्यादयः| रूपं यथा-"आगमापगमक्षोभमृदुतावेदनोष्मणाम्| वैषम्यं तत्रतत्राङ्गे तास्ताः स्युर्वेदनाश्चलाः||" (हृ. नि. अ. २|१०) इत्यादि| उपशयो यथा ज्वरं स्नेहमर्दनादिनोपशाम्यन्तमुपलभ्य स तस्योपशय इत्युच्यते| सम्प्राप्तिस्तु-"यथादुष्टेन" (श्लो. ८) इत्यादिलक्षणा| विनिश्चितज्ञानकारणत्वाद्विज्ञानम्, कारणे कार्योपचारात्| निदानादीनामसमासनिर्देश एकैकस्यापि प्राधान्यमिति द्योतनाय| एवमेकैकस्योपलब्धिकारणत्वं भवति| उपचारादेव सङ्ख्यायां लब्धायां पञ्चधेत्युक्तं नियमार्थम्| पञ्चधैवैतानि तत्त्वतो नान्ये रोगावबोधहेतवः सन्तीत्यर्थः|

Adhikarana nidAnaparyAyAH (3) · Śloka 3

निमित्तहेत्वायतनप्रत्ययोत्थानकारणैः| निदानमाहुः पर्यायैः|३|

🔊 Audio coming soon

स०-निमित्तादिभिः षड्भिः पर्यायैर्निदानमाहुः-वदन्ति, मुनय इति शेषः| तत्र तत्र शास्त्रप्रदेशे निदानमेतैः पर्यायैर्वेद्यमित्यर्थः|

Adhikarana pUrvarUpalakShaNam (3-4) · Śloka 4

| प्राग्रूपं येन लक्ष्यते||३|| उत्पित्सुरामयो दोषविशेषेणानधिष्ठितः| |४|

🔊 Audio coming soon

स०-येन-आलस्यारुच्यादिना, उत्पित्सुः-उद्बुभूषुः, आमयो-ज्वरादिः, लक्ष्यते-ज्ञायते, तत्प्राग्रूपम्| दोषविशेषेण-वातादिना, अनधिष्ठितः-अनासादितो, 'व्यक्तरूपेण' इत्यत्रानुक्तमपि गम्यमानत्वादुक्तं बोध्यम्| तथा हि-वातादिदोषेणानधिष्ठितत्वाद्व्याधेरुत्पित्सुतैव न घटते, व्याधिकारणाभावात्| न हि वातादीन् विमुच्य व्याधेः प्रायेणान्यतः सम्भवः सम्भाव्यते| वक्ष्यति हि (श्लो. १२)- "सर्वेषामेव रोगाणां निदानं कुपिता मलाः|" इति| तस्माद्दोषविशेषानधिष्ठितत्वमुत्पित्सोरामयस्य यदुच्यते, तद्व्यक्तरूपदोषापेक्षमवगन्तव्यम्|

Adhikarana pUrvarUpasya sAmAnyarUpatvam (4) · Śloka 4

अत एवाह | लिङ्गमव्यक्तमल्पत्वाद्व्याधीनां तद्यथायथम्||४||

🔊 Audio coming soon

स०-तदित्यनेन प्राग्रूपं परामृश्यते| तत्-प्राग्रूपं, उत्पित्सूनां ज्वरादीनामल्पत्वात्-अनासादितबलत्वात्, अव्यक्तं लिङ्गं-अस्पष्टं लक्षणम्| यथायथं-यद्यस्य व्याधेर्ज्वराद्यन्यतमस्यात्मीयमात्मीयम्| तच्च प्राग्रूपं त्रिधा दृष्यते,- किञ्चिच्छारीरं किञ्चिन्मानसं किञ्चिच्छारीरमानसं च| तत्र शारीरं यथा-ज्वरस्यालस्यास्यवैरस्यगात्रगौरवजृम्भासास्राकुलाक्षितेत्येवंप्रायम्| मानसं च-अरतिर्हितोपदेशेष्वक्षान्तिरित्येवंप्रायम्| किञ्चिच्छारीरमानसं यथा-"प्रीतिरम्लपटूषणे| द्वेषः स्वादुषु भक्ष्येषु" (हृ. नि. अ. २|८) इत्येवंप्रायम्, शारीरमानसदोषजनितत्वात्|

Adhikarana rUpalakShaNam (5) · Śloka 5

इदानीं रूपं लक्षयितुमाह तदेव व्यक्ततां यातं रूपमित्यभिधीयते| संस्थानं व्यञ्जनं लिङ्गं लक्षणं चिह्नमाकृतिः||५||

🔊 Audio coming soon

स०-तदेव-प्राग्रूपं, व्यक्ततां यातं-व्यक्तदोषाधिष्ठितं सत्, रूपमित्यभिधीयते| तदेवेत्येवशब्देनैतत् द्योतयति,-यदेव शारीरं प्राग्रूपं पूर्वोपवर्णितं तदेवेह गृहीतव्यम्, स्थायित्वात्| तध्द्यामयानुबन्धि| मानसं शारीरमानसं चास्थायित्वान्न गृहीतव्यम्| तद्धि द्वयमप्युत्पन्नव्याधिसमनन्तरं प्रायेण नश्यतीति तद्व्यक्ततां न याति| अतः शारीरमेवोत्पित्सुव्याधिप्राग्रूपमिह पराम्रष्टुं युक्तम्| संस्थानादयः षट् रूपस्य पर्याया इत्यर्थः| इमे च पर्यायाः प्राग्रूपस्यापि योज्याः| यथा-पूर्वसंस्थानं पूर्वव्यञ्जनं पूर्वलिङ्गमित्यादि|

Adhikarana upaSayalakShaNam (6-7) · Śloka 7

हेतुव्याधिविपर्यस्तविपर्यस्तार्थकारिणाम्| औषधान्नविहाराणामुपयोगं सुख़ावहम्||६|| विद्यादुपशयं व्याधेः स हि सात्म्यमिति स्मृतः| |७|

🔊 Audio coming soon

स०-उपयुज्यत इत्युपयोगः-सेवनम्| सुखमावहति-उत्पादयतीति सुखावहः,-देहस्य सुखं करोतीत्यर्थः| य उपयोगः सुखावहस्तमुपशयं विद्यात्-जानीयात्, मुनीन्द्र इति शेषः| केषामुपयोगः ? औषधान्नविहाराणाम्| औषधं-हरीतक्यादि| अन्नं-रक्तशाल्यादि| विहारो-वाग्देहमनोनिर्वर्तितश्चेष्टाविशेषो व्यायामव्यवायजागरणाध्ययनगीतभाषणध्यानधारणादिरूपः| औषधं चान्नं च विहारश्चौषधान्नविहाराः, तेषामौषधान्नविहाराणाम्| तेषां किम्भूतानाम् ? हेतुव्याधिविपर्यस्तविपर्यस्तार्थकारिणाम्| हेतुव्याधिविपर्यस्तानां विपर्यस्तार्थकारिणां च| विपर्यस्ताः-विपरीताः, हेतुव्याध्योर्विपर्यस्ताः| हेतुश्च व्याधिश्च हेतुव्याधी, तयोर्विपर्यस्ता हेतुव्याधिविपर्यस्ताः,-निदानरोगयोर्विपरीताः| तथा विपर्यस्तानामर्थो विपर्यस्तार्थः, तं कुर्वन्तीति विपर्यस्तार्थकारिणः| हेतुव्याधिविपर्यस्ताश्च विपर्यस्तार्थकारिणश्च हेतुव्याधिविपर्यस्तविपर्यस्तार्थकारिणः, तेषाम्| केषां विपर्यस्तानामर्थं कुर्वन्ति ? अत्र प्रकृतत्वाद्धेतुव्याधिविपर्यस्तानाम्| तदयमर्थः-हेतुव्याध्योरविपरीता अपि हेतुरूपा इव भासमाना व्यार्धिरूपा इव भासमाना हेतुव्याधिविपर्यस्तानामर्थं व्याध्युपशमलक्षणं कुर्वन्ति| यथा हेतुविपरीतैर्व्याधिविपरीतैश्चौषधान्नविहारैर्व्याध्युपशमः क्रियते प्रतिपक्षत्वात्, तथा विपर्यस्तार्थकारिभिरपीत्यर्थः| सङ्ग्रहे तु जगाद (सू. अ. १२)- "उभयार्थकारि पुनर्दैवव्यपाश्रयम्| तथा छर्द्यां छर्दनमित्यादि| एवंविधं ह्यविपरीतमेव सत् भेषजं विपरीतमर्थं करोति|" इति| तत्र हेतुविपरीता औषधान्नविहारा यथा-गुरुस्निग्धशीतजे व्याधौ लघुरूक्षोष्णमौषधमन्नं वा| तथा, सन्तर्पणोत्थेऽपतर्पणम्, अपतर्पणोत्थे सन्तर्पणम्, जागरणोत्थे व्याधौ स्वापः, स्वापोत्थे जागरणम्, व्यायामोत्थे आसना, इत्यादि| तथा, व्याधिविपर्यस्ता औषधान्नविहारा यथा-वातजे ज्वरे सर्पिःपानमौषधम्| तस्मिन्नेव ज्वरेऽन्नं पेया| विहारश्च तस्मिन्नेव ज्वरे देहमनोव्यापारोपरमः| तथा, पाचनसाध्ये ज्वरे दोषानपेक्षमौषधं मुस्तापर्पटकम्| अन्नं रक्तशाल्यादि| प्रमेहे रजनी यवान्नं च| तथा च वक्ष्यति (हृ. चि. अ. १|७२)- "रक्ताद्याः शालयो जीर्णाः षष्टिकाश्च ज्वरे हिताः|" इत्यादि| विहारश्च यथा (हृ. चि. अ. १|१७१)- "ज्वरकालस्मृतिं चास्य हारिभिर्विषयैर्हरेत्|" इति| तथा मुनिरप्यवोचत् (च. चि. अ. ३|३१९)- "ज्वरकालं च वेगं च चिन्तयन् ज्वर्यते तु यः| तस्येष्टैश्च विचित्रैश्च विषयैर्नाशयेत्स्मृतिम्||" इति| विपर्यस्तार्थकारिणश्च द्वेधा भवन्ति,-व्याधिविपर्यस्तार्थकारिणो हेतुविपर्यस्तार्थकारिणश्च| तत्र व्याधिविपर्यस्तार्थकारुणो यथा-छर्दिव्याधौ तदर्थकार्यौषधं मदनादि| अन्नं च तदुपसृष्टं शाल्यादि| अथवा यदहृद्यमसात्म्यमपरिशुष्कं गुरु च| विहारोऽङ्गुल्युत्पलनालादिना तदुद्वमनम्| यथा चातिसारे विरेचनम्| वमनेन विरेचनेन च छर्द्यतीसारयोर्वृद्धिरेव कर्तुं युक्ता, तद्धेतुकत्वात्तस्य| इह च शमनकरणाद्विपर्यस्तार्थकारित्वम्| हेतुविपर्यस्तार्थकारिणश्च यथा-मद्योत्थे व्याधौ मद्यमेवोयुक्तं व्याधिं शमयत्यौषधत्वेन| एवमन्नविहारावप्यूह्यौ| मद्येन मदात्ययस्य वृद्धिरेव कर्तुं युक्ता, तद्धेतुकत्वात्तस्य| इह तु शमनकरणाद्विपर्यस्तार्थकारित्वम्| एतदेव च तदर्थकारीति वदन्ति| तच्च मात्राशितीये (हृ. सू. अ. ८|२४) व्याख्यातमेव| हि-यस्मात्, सः-उपशयो, व्याधेः-आमयस्य, सात्म्यमिति स्मृतः| मुनीन्द्रैरिति वाक्यशेषः| एवं व्याधिगुणविपरीतो य आहारो विहारश्च प्रायेण निदानविपरीतः स व्याधिसात्म्यम्| मुनिस्त्ववोचत् (च. सू. अ. ६|५०)- "देशानामामयानां च विपरीतगुणं गुणैः| सात्म्यमिच्छन्ति सात्म्यज्ञाश्चेष्टितं चाद्यमेव च||" इति|

Adhikarana anupaSayalakShaNam (7) · Śloka 7

उपशयलक्षणकथनप्रस्तावादनुपशयोऽपि लक्ष्य इत्याह | विपरीतोऽनुपशयो व्याध्यसात्म्याभिसंज्ञितः||७||

🔊 Audio coming soon

स०-अतो यथानिर्दिष्टलक्षणादुपशयाख्यात् यो विपरीतलक्षण औषधान्नविहाराणामुपयोगः-सेवनमसुखावहः, सोऽनुपशय उच्यते| स एव व्याधेरसात्म्यमित्यभिसंज्ञितः-आभिमुख्येन सङ्केतितः|

Adhikarana saMprAptilakShaNam (8) · Śloka 8

निदानप्राग्रूपरूपोपशयानुक्त्वा, सम्प्रति सम्प्राप्तिं लक्षयितुमाह यथादुष्टेन दोषेण यथा चानुविसर्पता| निर्वृत्तिरामयस्यासौ सम्प्राप्तिर्जातिरागतिः||८||

🔊 Audio coming soon

स०-येन प्रकारेण दुष्टः-कुपितो, वाताद्यन्यतमो दोषो-यथादुष्टः, तेन यथादुष्टेन दोषेण यथा चानुविसर्पता-देहमनुधावता सन्निवेशविशेषेण गच्छता, प्रत्यामयं वा निर्वृत्तिः-निष्पत्तिरुद्भव इति यावत्, निर्दिष्टा सा सम्प्राप्तिः| सा च जातिरागतिश्च कथ्यते| यथा ज्वरस्य-"मलास्तत्र (हृ. नि. अ. २|३) इत्यादिलक्षणलक्षिता| तत्र मलानामामाशयप्रवेशनेन, तथाऽऽमानुगमनेन, तथा स्रोतोरोधेन, तथा पक्तिस्थानाज्ज्वलननिरसनेन, तथा तेनैव जाठरेण वह्निना तेषामभिसर्पणेन, तथा सकलदेहतापेन, गात्रं चात्युष्णं कुर्वता, एवंविधया सम्प्राप्त्या ज्वरोऽयमिति निश्चीयते| एवं रक्तपित्तादिष्वपि चिन्त्या सम्प्राप्तिः|

Adhikarana saMprAptiBedAH (9-11) · Śloka 11

सङ्ख्याविकल्पप्राधान्यबलकालविशेषतः| सा भिद्यते, यथाऽत्रैव वक्ष्यन्तेऽष्टौ ज्वरा इति||९|| दोषाणां समवेतानां विकल्पोंऽशांशकल्पना| स्वातन्त्र्यपारतन्त्र्याभ्यां व्याधेः प्राधान्यमादिशेत्||१०|| हेत्वादिकार्त्स्न्यावयवैर्बलाबलविशेषणम्| नक्तंदिनर्तुभुक्तांशैर्व्याधिकालो यथामलम्||११||

🔊 Audio coming soon

स०-सा च-सम्प्राप्तिः, सङ्ख्यादिविशेषेण भिद्यते,- सङ्ख्या च विकल्पश्च प्राधान्यं च बलं च कालश्च त एवम्, तेषां विशेषः सङ्ख्याविकल्पप्राधान्यबलकालविशेषः, तस्मात्सा सम्प्राप्तिर्बहुधा सम्पद्यते| तत्र सङ्ख्याविशेषो यथा-[अत्रैव-]इहैव, वक्ष्यन्तेऽष्टौ ज्वराः, इति| एवमन्यत्र पञ्च कासाः, पञ्च श्वासाः, अष्टौ गुल्माः, इत्येवमादयः सङ्ख्याविशेषाः सम्प्राप्तिभेदाः| दोषाणां-वातादीनां, समवेतानां-एकस्मिन् व्याधौ सङ्घट्टितानां, या अंशांशकल्पना-भागेन भागेन कार्यानुमेयेन निरूपणा, स विकल्पः| अंशश्चांशश्चांशांशौ, ताभ्यां कल्पना-अनेकविधो विशेषः| यथा-अस्मिन् व्याधौ वातः कुपितः कदाचिदेकेन गुणेनाधिकेन रूक्षेण कदाचिल्लघुना कदाचिच्छीतेन कदाचिद्द्वाभ्यां त्रिभिर्वाऽधिकैर्दुष्यति| एवं पित्तं कट्वम्लादिना कुपितं कदाचिदेकेन गुणेन तीक्ष्णेन कदाचिदुष्णेन कदाचिद्द्वाभ्यां बहुभिर्वाऽधिकैर्दुष्यति| एवं कफेऽपि निरूप्यम्| तदेवंरूपो यो निश्चयः स विकल्प इति| यतश्चैवं ततः सर्वेषु रोगेषु तुल्याः कोपनप्रकारा न भवन्ति| तथा हि-रूक्षादयो गुणा वातस्य सदा कोपकाः, किन्तु कदाचित् कस्यचिद्गुणस्य प्रकृष्टत्वं कोपने कस्यचिन्न्यूनत्वमिति| अत एव हेतोर्गदानन्त्यं चिकित्सानन्त्यं च| दोषाणामिति बहुवचनोपादानादेव समवेतानामित्यर्थे लब्धे समवेतग्रहणं पृथग्द्वन्द्वसमस्तानामपि चांशांशकल्पना विकल्प उच्यत इति प्रतिपादनार्थम्| स्वातन्त्र्यं च पारतन्त्र्यं च, ताभ्यां व्याधेः प्राधान्यमादिशेत्-जानीयात्| तत्र स्वतन्त्रस्य व्याधेः प्राधान्यम्, यथा स्वनिर्दिष्टोपक्रमसाध्यत्वात्| अस्वतन्त्रस्य व्याधेरप्राधान्यम्, प्रधानव्याध्युपक्रमेण प्रायस्तस्याप्युपक्रम्यत्वात्| यद्यपि प्राधान्यविशेषादसौ सम्प्राप्तिर्भिद्यत इत्युक्तम्, तथाऽप्यप्राधान्यविशेषादप्यसौ सम्प्राप्तिर्भिद्यत इत्यर्थादुक्तं भवत्येव| प्राधान्याप्राधान्ययोः परस्परं सापेक्षत्वात्| तथा हि-अप्राधान्यं प्राधान्यमपेक्ष्य वक्तुं युज्यते, अप्रधान्यं चापेक्ष्य प्राधान्यमिति| कृत्स्नस्य भावः कार्त्स्न्यम्| कार्त्स्न्य चावयवाश्च कार्त्स्न्यावयवाः| हेत्वादिना कार्त्स्न्यावयवाः| आदिशब्देन प्राग्रूपादयो गृह्यन्ते| बलं चाबलं च बलाबले व्याधेः सम्बन्धिनी, तयोर्विशेषेणं-विशिष्टता, बलाबलविशेषणम्| तद्यथासङ्ख्येन हेत्वादिकार्त्स्न्यावयवैरादिशेत्| तत्र प्रतिरोगं यन्निदानत्वेनोपदिष्टं, तत्किं कार्त्स्न्येनास्य व्याधेरुत्पादकमुतावयवेन ? एवं प्राग्रूपमपि| तथा लक्षणमपि किं समस्तमस्य व्याधेर्लक्ष्यत उतावयवेन ? उपशयोऽप्यस्य व्याधेः सन्तर्पणापतर्पणरूपः, स किं कार्त्स्न्येन सुखानुबन्धं करोत्युतावयवेन ? तत्र कार्त्स्न्येन यथा-रक्तशाल्यादिमांसघृतक्षीरदधिवसामज्जतैलादिना| अवयवेन तु-रक्तशाल्यादिमांसाद्यन्यतमेन चैकैकेन| तथाऽपतर्पणरूपोऽपि यवश्यामाकगवेधुककोरदूषनीवारतक्रारनालादिः, स किं कार्त्स्न्येन सुखानुबन्धं करोत्युतावयवेन यवादिनैकैकेन ? एवमन्यदपि चिन्त्यम्| यथा च ज्वरस्य-आमाशयं प्रविश्य किं कार्त्स्न्येनाथांशेन ? तथाऽऽममनुगम्य किं कार्त्स्न्येनाथांशेन ? इत्यादि| तदेवंभूतैर्मलैरयं ज्वरो निर्वर्तित इत्येवं बलाबलविशेषणमादिशेदिति| नक्तं च दिनं च ऋतुश्च भुक्तं च, तानि नक्तंदिनर्तुभुक्तानि| तेषामंशाः-अवयवाः, नक्तंदिनर्तुभुक्तांशाः| व्याधेः कालो व्याधिकालः| यथामलं-यथादोषम्| यो यस्य दोषस्यात्मीयः कालस्तं नक्तंदिनर्तुभुक्तांशैर्व्याधिकालमादिशेत्| यथा-श्लेष्मज्वरस्य रात्रिमुखे पूर्वाह्णे वा वसन्ते ऋतावाहारे च भुक्तमात्रे बललाभो भवति| एवं मारुतपित्तयोरपि बललाभो निरूप्यः|

Adhikarana iti samAsena nidAnArthaH (12) · Śloka 12

इति प्रोक्तो निदानार्थः| |१२|

🔊 Audio coming soon

स०-इतिशब्दः प्रकारे, अनेन सङ्क्षेपाख्येन प्रकारेण यथानिर्दिष्टेन, निदानार्थो-निदानाभिधेयः, समासतः [ प्रोक्तः- ] प्रकर्षेणोक्तो, न तु व्यासतः|

Adhikarana tasya vistareNopadeSaH (12) · Śloka 12

अत एवाह - तं व्यासेनोपदेक्ष्यति| |१२|

🔊 Audio coming soon

स०-य एव निदानार्थः समासेन प्रोक्तः, तमेव व्यासेनोपदेक्ष्यति-तन्त्रकृदभिधास्यति|

Adhikarana sarveShAmeva rogANAM nidAnam (12-13) · Śloka 13

| सर्वेषामेव रोगाणां निदानं कुपिता मलाः||१२|| तत्प्रकोपस्य तु प्रोक्तं विविधाहितसेवनम्| |१३|

🔊 Audio coming soon

स०-सर्वेषामपि रोगाणां कुपिता मलाः-क्रुद्धा वातपित्तकफाः, निदानं-हेतुः| तदित्यनेन वातादयः परामृश्यन्ते| तस्य-वातादिप्रकोपस्य, निदानं विविधं-नानाप्रकारं, अहितसेवनं-अहितानुष्ठानं, प्रोक्तम्|

Adhikarana tridoShANAM prakopasya nidAnam (13) · Śloka 13

किं तत् ? इत्याह- | अहितं त्रिविधो योगस्त्रयाणां प्रागुदाहृतः||१३||

🔊 Audio coming soon

स०-त्रयाणां-कालार्थकर्मणां, त्रिविधो-हीनमिथ्यातिमात्रलक्षणो, योगोऽहितमिति प्राक्-सूत्रस्थाने, उदाहृतः-उक्तः| यथा (हृ.सू.अ.१२|३५)- "अर्थैरसात्म्यैः संयोगः कालः कर्म च दुष्कृतम्|" इत्यादि|

Adhikarana vAtaprakopasya nidAnam (14-15) · Śloka 15

इदानीं वातादीनामन्नपानविहारसहितं कोपकारणमाह तिक्तोषणकषायाल्परूक्षप्रमितभोजनैः| धारणोदीरणनिशाजागरात्युच्चभाषणैः||१४|| क्रियातियोगभीशोकचिन्ताव्यायाममैथुनैः| ग्रीष्माहोरात्रिभुक्तान्ते प्रकुप्यति समीरणः||१५||

🔊 Audio coming soon

स०-तिक्तादिभिः समीरणः कुप्यति| ननु, अल्पप्रमितभोजनशब्दयोः पर्यायशब्दत्वाद्द्वयोरुपादानमयुक्तम्| नैतदस्ति| भिन्नार्थत्वादनयोः| तथा हि-अल्पभोजनं हीनभोजनमुच्यते| प्रमितभोजनं तु तदुच्यते यदतिक्रान्तवेलं भुक्तम्| तथा चागमः-"धान्यं पुलाकनिष्पन्नं ज्ञेयं तत्प्रमिताशनम्| अतीतकालं यद्भुक्तं" इत्यादि| धारणोदीरणे-वातवेगादीनाम्| क्रियातियोगे-वमनविरेचनास्थापनादिक्रियाणामतिसेवनम्| ननु, आस्थापनेन च वायोः कोपोऽनुपपन्नः| तथा हि-"वाते बस्तिरिष्यते " (हृ. सू. अ. १९|१) इत्युक्तम्| नैवम्| आस्थापनातियोगो हि पित्तश्लेष्मादीनां धातूनामपचयकृत्| तदपचयाच्च वायोः कोपः| तथा चोक्तम्-"वायोर्धातुक्षयात् कोपो मार्गस्यावरणेन च|" इति| तस्माद्युक्तो वायोरास्थापनातियोगेन कोपः| तन्त्रकृताऽप्युक्तम् (हृ. सू. अ. १९|६५)- "स्नेहबस्तिं निरूहं वा नैकमेवातिशीलयेत्| उत्क्लेशाग्निवधौ स्नेहान्निरूहान्मरुतो भयम्||" इति| ग्रीष्मान्त इत्यन्तशब्दः समीपवचनो वेद्यः| तेन ग्रीष्मसमीपे वर्षाख्ये काले प्रकोप इति युज्यते| अन्यथा "चयप्रकोपप्रशमा वायोर्गीष्मादिषु त्रिषु|" (हृ. सू. अ. १२|२४) इत्येतद्व्याहन्येत|

Adhikarana pittaprakopasya nidAnam (16) · Śloka 16

पित्तं कट्वम्लतीक्ष्णोष्णपटुक्रोधविदाहिभिः| शरन्मध्याह्नरात्र्यर्धविदाहसमयेषु च||१६||

🔊 Audio coming soon

स०-पित्तं कट्वादिभिः कुप्यति| अर्धरात्रे पित्तस्य कालस्वभावात्कोपः|

Adhikarana kaPaprakopasya nidAnam (17-18) · Śloka 18

स्वाद्वम्ललवणस्निग्धगुर्वभिष्यन्दिशीतलैः| आस्यास्वप्नसुख़ाजीर्णदिवास्वप्नातिबृंहणैः||१७|| प्रच्छर्दनाद्ययोगेन भुक्तमात्रवसन्तयोः| पूर्वाह्णे पूर्वरात्रे च श्लेष्मा|१८|

🔊 Audio coming soon

स०-स्वाद्वादिभिः कफः कुप्यति|

Adhikarana dvandvaprakopasya nidAnam (18) · Śloka 18

| द्वन्द्वं तु सङ्करात्||१८||

🔊 Audio coming soon

स०-द्वन्द्वं-द्वयं, वातपित्ते वातकफौ पित्तकफाविति| सङ्करात्-मिश्रीभावात्तिक्तादीनां, कुप्यति| एतदुक्तं भवति,-येन तिक्तादिर्वातहेतुः सेवितः कट्वम्लादिश्च पित्तहेतुः, तस्य वातपित्ते प्रकुप्यतः| एवं शेषयोर्योज्यम्|

Adhikarana sannipAtaprakopasya nidAnam (19-23) · Śloka 23

मिश्रीभावात्समस्तानां सन्निपातस्तथा पुनः| सङ्कीर्णाजीर्णविषमविरुद्धाध्यशनादिभिः||१९|| व्यापन्नमद्यपानीयशुष्कशाकाममूलकैः| पिण्याकमृद्यवसुरापूतिशुष्ककृशामिषैः||२०|| दोषत्रयकरैस्तैस्तैस्तथाऽन्नपरिवर्तनात्| ऋतोर्दुष्टात्पुरोवाताद्ग्रहावेशाद्विषाद्गरात्||२१|| दुष्टान्नात् पर्वताश्लेषाद्ग्रहैर्जन्मर्क्षपीडनात्| मिथ्यायोगाच्च विविधात्पापानां च निषेवणात्||२२|| स्त्रीणां प्रसववैषम्यात्तथा मिथ्योपचारतः| |२३|

🔊 Audio coming soon

स०-समस्तानां-तिक्तादीनां, मिश्रीभावात् सन्निपातः कुप्यति| तथेति समुच्चये| सङ्कीर्णाशनादिभिश्च सन्निपातः कुप्यति| आदिशब्देन पर्युषितक्लिन्नादिभोजनादयो गृह्यन्ते| सङ्कीर्णाशनादीनां लक्षणं प्रागुक्तम्| दोषत्रयकरैस्तैस्तैरिति पूर्वोक्तैर्मन्दकदधिफाणितयवकपाटलव्रीहिसर्षपशाकादिभिः| तथेति न केवलमैतेः, अन्नपरिवर्तनादिभिश्चेति तथाशब्दस्यार्थः|

Adhikarana rogasaMprAptiH (1) · Śloka 1

प्रतिरोगमिति क्रुद्धा रोगाधिष्ठानगामिनीः||२३|| रसायनीः प्रपद्याशु दोषा देहे विकुर्वते| २३ १/२| इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां तृतीये निदानस्थाने सर्वरोगनिदानं नाम प्रथमोऽध्यायः||१||

🔊 Audio coming soon

स०-प्रत्यामयमिति-अनेन प्रकारेण, क्रुद्धाः-कुपिताः, दोषा आशु-द्रागेव, देहे विकुर्वते-शरीरे विकारं जनयन्ति| किं कृत्वा ? रसायनीः-नाडीः, प्रपद्य-प्राप्य| किम्भूताः ? रोगस्याधिष्ठानानि-स्थानानि रसरुधिरादीनि, तानि गन्तुं शीलं यासां ता रोगाधिष्ठानगामिन्यः, तास्तथाविधा नाडीः प्राप्य विकृतिभाजो दोषाः सम्पद्यन्त इत्यर्थः| इति श्रीमृगाङ्कदत्तपुत्रश्रीमदरुणदत्तविरचितायामष्टाङ्गहृदयटीकायां सर्वाङ्गसुन्दराख्यायां तृतीये निदानस्थाने सर्वरोगनिदानं नाम प्रथमोऽध्यायः समाप्तः|| १||