Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

2. jvaranidanādhyāyaḥ

Adhikarana adhyAyopakramaH · Śloka

🔊 Audio coming soon

स०-सर्वरोगनिदानादनन्तरं ज्वरनिदानारम्भेऽयं सम्बन्धः| उक्तं सर्वरोगनिदानम्| अतोऽनन्तरमवश्यं कस्यचिद्विशिष्टस्य रोगस्य निदानं वक्तुमुचितम्| रोगेषु च ज्वरः प्रधानः| तथा च मुनिः (च. सू. अ.२५|४०) - "ज्वरो रोगाणाम्|" इति| स्वयमेव चास्य प्राधान्यं तन्त्रकृत् प्रतिपादयिष्यतीति ज्वरनिदानमेवारब्धुं युक्तम्|

Adhikarana jvaranidAnAdhyAyaH (2) · Śloka 2

अथातो ज्वरनिदानं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः| गद्यसूत्रे|२|

🔊 Audio coming soon

स०-अथादिशब्दानां पूर्ववद्व्याख्या|

Adhikarana jvaraparyAyAH, jvaraprabhAvaH (1-2) · Śloka 2

ज्वरो रोगपतिः पाप्मा मृत्युरोजोशनोऽन्तकः| क्रोधो दक्षाध्वरध्वंसी रुद्रोर्ध्वनयनोद्भवः||१|| जन्मान्तयोर्मोहमयः सन्तापात्माऽपचारजः| विविधैर्नामभिः क्रूरो नानायोनिषु वर्तते||२||

🔊 Audio coming soon

स०-रोगाणां पती रोगपतिः-सर्वरोगप्रधानः| पाप्मा-पापस्वभावः| तथा, मृत्युः-सर्वप्राणिनां हि मरणेनासावेव योजयति यथा, न तथाऽन्ये रोगाः| सर्वधात्वाप्यायकं यदोजस्तदशनं भोजनं यस्येत्योजोशनः| अन्तकोमारणहेतुसामान्यात्| क्रोधो-भगवतो महेश्वरस्य दक्षापमानितस्य लोकान्निदिधक्षोर्ललाटान्निर्गतः| अत एवाह-दक्षाध्वरध्वंसी रुद्रोर्ध्वनयनोद्भव इति| जन्मान्तयोर्मोहमय इति ज्वरस्य सन्तापात्मकत्वं लिङ्गम्, जन्मान्तयोश्च क्वचित्सन्तापानुपलब्धेर्मोहमय इत्युक्तम्, मोहस्वभावादेवान्यजन्मजं कर्म प्राणी न स्मरति| यश्चापचारजः-तथाविधादाहारविहारादुद्भूतः, स सन्तापस्वभावः, स च क्रूरो-दुश्चिकित्स्यः| नानायोनिषु-हस्त्यश्वगोपक्ष्यादिषु च, विविधैर्नामभिर्वर्तते| [यथा-"-पाकलस्तद्यथेभानामभितापो हयेषु च| गवां गोकर्णकश्चैव पक्षिणां मकरस्तथा|| वान्तादानामलर्कः स्यादब्जेष्विन्द्रमदः स्मृतः| ओषधीषु तथा ज्योतिश्चूर्णको धान्यजातिषु|| जलेषु नीलिका भूमा वूषो नॄणां ज्वरो मतः| 'ॠते देवमनुष्येभ्यो नान्यो विषहते तु तम्|| शेषाः सर्वे विपद्यन्ते तिर्यग्योन्यो ज्वरार्दिताः| कर्मणा लभते जन्तुर्देवत्वं मानुषादपि|| पुनश्चैव च्युतः स्वर्गान्मानुष्यमभिपद्यते| तस्मात्स देवभावाच्च सहते मानवो ज्वरम्' (सु. उ. अ. ३९|११)||" इति| ] यथा-दन्तिशरीरे पाकलो नाम ज्वरः, अश्वशरीरेऽभितापकः, गोशरीरे गोकर्णकः, पक्षिशरीरे मकरः, श्वशरीरेऽलर्कः, [ मत्स्येष्विन्द्रमदः, ओषधीषु ज्योतिः, धान्येषु चूर्णकः, ] अप्सु नीलिका, [ भूमावूषः, ] मानुषेषु ज्वरः, इति| ननु, यदि रोद्रोर्ध्वनयनोद्भवः, तर्ह्यपचारज इति कथमुक्तम् ? ब्रूमः| पूर्वं कृतयुगे ललाटजलोचनादुत्पन्नो ज्वरः| त्रेतायुगे तु सम्प्राप्ते परिग्रहदोषाद्धर्मस्य पादोऽन्तर्हित इत्यपचारेणासौ प्रथमं प्राणिषूद्भूतोऽपचारज इत्युच्यते| कलियुगेऽप्यन्नपानौषधाद्यपचारेण जात इत्यपचारज उच्यते, इति न किञ्चिदत्रायुक्तम्|

Adhikarana jvaraBedAH (3) · Śloka 3

स चापचारजो ज्वरः किमेको वाऽनेकविधः ? इत्याह स जायतेऽष्टधा दोषैः पृथङ्मिश्रैः समागतैः| आगन्तुश्च|३|

🔊 Audio coming soon

स०-सः-सन्तापलक्षणो ज्वरः, अष्टधा-अष्टप्रकारः, सम्पद्यते| कथम् ? पृथग्दोषैः-वातपित्तकफैः, तथा मिश्रैः-द्वाभ्यां द्वाभ्याम्, तथा समागतैः-सन्निपतितैस्त्रिभिः, तथाऽऽगन्तुकारणजनितो ज्वरः, एवं पृथग्दोषैस्त्रयो मिश्रैस्त्रयः सन्निपतितैरेक आगन्तुश्चैक इत्यष्टौ|

Adhikarana jvarasaMprAptiH (3-6) · Śloka 6

सम्प्राप्तिमस्याधुना वक्ति | मलास्तत्र स्वैः स्वैर्दुष्टाः प्रदूषणैः||३|| आमाशयं प्रविश्याममनुगम्य पिधाय च| स्रोतांसि पक्तिस्थानाच्च निरस्य ज्वलनं बहिः||४|| सह तेनाभिसर्पन्तस्तपन्तः सकलं वपुः| कुर्वन्तो गात्रमत्युष्णं ज्वरं निर्वर्तयन्ति ते||५|| स्रोतोविबन्धात्प्रायेण ततः स्वेदो न जायते| |६|

🔊 Audio coming soon

स०-तत्रेति निर्धारणे, तेष्वष्टसु ज्वरेषु मध्ये निजानां ज्वराणामुत्पत्तिर्निर्धार्यते| मलाः-वातादयः, स्वैः स्वैः प्रदूषणैः-कोपनैः, दुष्टाः-कुपिताः, ज्वरं निर्वर्तयन्ति-उत्पादयन्ति| तत्र यथा-वातस्तिक्तादिभिः, पित्तं कटुकादिभिः, कफः स्वाद्वादिभिः, एवं संसर्गे सन्निपाते च चिन्त्यम्| आगन्तुना च केनचित् प्रकुपिता दोषा ज्वरं निर्वर्तयन्ति| यद्यपि चागन्तुज्वरस्तद्धेतुकः, तथाऽपि तत्रापि वातादय एव हेतवः| न हि वातादीन् विमुच्य व्याधेः समुद्भवः कथमपि सम्भाव्यते| एतावांस्तु विशेषः,-दोषजे व्याधौ पूर्वं वातादयः कुप्यन्ति पश्चात्कायस्य पीडा भवति| आगन्तुके तु व्याधौ पूर्वं शरीरस्य व्यथा भवति पश्चाद्वातादिकोप इति| कयाऽऽनुपूर्व्या ज्वरं निर्वर्तयन्ति ? इत्याह-आमाशयमित्यादि| आमाशयं प्रविश्य-नाभिस्तनान्तरे स्थित्वा, तथाऽऽमं-पूर्वोक्तलक्षणलक्षितं, अनुगम्य तेन चामेनानुगताः स्रोतांसि-रसादिवाहीनि, पिधायछादयित्वा, तथा ज्वलनं पक्तिस्थानाद्बहिर्निरस्य-निष्कास्य| पक्तिग्रहणमत्र जाठराग्नेर्निःसन्देहेन ग्रहणार्थम्, अन्यथा त्रयोदशानामग्नीनां मध्यात् कतमं ज्वलनं स्थानाद्बहिर्निरस्येति सन्दिह्येत| तेन च-निरस्तवह्निना, सह-एकलोलीभूताः, सकलं वपुरभिसर्पन्तस्तपन्तो गात्रमत्युष्णं कुर्वन्तो ज्वरं निर्वर्तयन्ति| अत्युष्णग्रहणेनैवं प्रतिपादयति,-अत्युष्णगात्रत्वेनैव ज्वरसम्भवः, नोष्णगात्रमात्रेण| तथा च निरामयस्यापि हि प्राणिनो जीवतो गात्रमुष्णं भवत्येव| ननु, वायुकृते ज्वरे वायोर्योगवाहित्वात् पित्तकृतेऽपि ज्वरे पित्तस्य वह्निना समानगुणत्वात् सन्तापोपलब्धिर्युक्ता| श्लेष्मज्वरे तु श्लेष्मणो वह्निप्रतिपक्षत्वात् कथमिव सन्तापकत्वं युक्तम् ? इति केचित्| अत्रोच्यते| स्वभावादुपपन्नमेतत्| ज्वरस्य ह्ययमचिन्त्यः स्वभावः, येनावश्यं सन्तापमुत्पादयति| एवं वातस्यामूर्तित्त्वेऽपि गुल्मादिषु श्यावारुणत्वोपलब्धिः| तस्माद्व्याधीनामेवं स्वभावविशेषान्न्याय्यमेवेदम्| स०-यत एव स्रोतःपिधानं तत एव हेतोः स्वेदो न जायते| प्रायोग्रहणात् क्वचित्पित्तज्वरादौ स्वेदो जायत एवेत्यर्थः| तथा चानन्तरमेव तन्त्रकृदधीते (श्लो. २०)- "स्वेदो निःश्वासवैगन्ध्यं" इत्यादि|

Adhikarana jvarapUrvarUpam (6-10) · Śloka 10

पूर्वरूपं लक्षयितुमाह | तस्य प्राग्रूपमालस्यमरतिर्गात्रगौरवम्||६|| आस्यवैरस्यमरुचिजृम्भा सास्राकुलाक्षिता| अङ्गमर्दोऽविपाकोऽल्पप्राणता बहुनिद्रता||७|| रोमहर्षो विनमनं पिण्डिकोद्वेष्टनं क्लमः| हितोपदेशेष्वक्षान्तिः प्रीतिरम्लपटूषणे||८|| द्वेषः स्वादुषु भक्ष्येषु तथा बालेषु तृड् भृशम्| शब्दाग्निशीतवाताम्बुच्छायोष्णेष्वनिमित्ततः||९|| इच्छा द्वेषश्च| |१०|

🔊 Audio coming soon

स०-तस्य-ज्वरस्य, प्राग्रूपम्| आलस्यं-वाङ्मनःकायकर्मस्वनुद्यमः| सुश्रुते चोक्तम्| यथा (शा. अ. ४|५२)- "सुख़स्पर्शप्रसङ्गित्वं दुःख़द्वेषणलोलता| शक्तस्य चाप्यनुत्साहः कर्मण्यालस्यमुच्यते||" इति| अरतिः-एकत्रानवस्थितिश्चेतसः| तथा, अङ्गगुरुत्वम्| आस्यवैरस्यं-वक्त्रविरसता| अरुचिः-अन्नाभिलाषाभावः| जृम्भा-जृम्भणम्| सहास्रेण वर्तेत इति सास्रे, आकुले अक्षिणी यस्य स एवम्, तस्य भावः सास्रकुलाक्षिता| अङ्गमर्दः-अङ्गभङ्गः| अविपाकः-अन्नस्याविपक्तिः| अल्पप्राणता-स्तोकबलत्वम्| तथा, बहुनिद्रता| "त्वतलोर्गुणवचनस्य पुंवद्भावो वक्तव्यः" इत्यत्र पुंवद्भावः| रोमहर्षो-रोमाञ्चः| विनमनं-अङ्गानां विनामः| पिण्डिकयोरुद्वेष्टनं-उद्वेष्टः| क्लमो-ग्लानिः| हितस्य-गुरुपित्रादेः, उपदेशास्तेषु, अक्षान्तिः-असहनत्वम्, तदुपदिष्टं न क्षमते| प्रीतिरित्यादि| अम्लादिषु द्रव्येषु प्रीतिः-भक्तिः| स्वादुषु भक्ष्येषु-मधुरेषु द्रव्येषु, द्वेषो भवति| तथा, बालेषु-शिशुषु सकललोकवल्लभेष्वपि, ज्वरस्वभावाद्द्वेषो भवति| तथा, तृड् भ्रुशं-तृष्णाऽत्यर्थम्| शब्दादिष्वनिमित्ततः-कारणं विना, सज्वरस्य प्रीत्यप्रीती जायेते| कदाचिदप्रियमपि शब्दं न द्वेष्टि, कदाचित् प्रियमपि वेणुवीणादिजनितं द्वेष्टि| एवं शीतार्तोऽपि कदाचिदग्निं द्वेष्टि, कदाचिदशीतार्तोऽप्यग्निमभिलषति| एवं शीतादिष्वपि योज्यम्| एवं प्राग्रूपं-अव्यक्तलिङ्गम्|

Adhikarana tadanurUpotpattiH (10) · Śloka 10

तदनु ज्वरस्य व्यक्तता भवेत्| |१०|

🔊 Audio coming soon

स०-एतस्य चानु (तदनु)- प्राग्रूपाणां पश्चात् ज्वरस्य व्यक्तता-स्फुटता भवेत्, स्पष्टलिङ्गोत्पत्तिः| वातज्वरोऽयं पित्तज्वरोऽयं श्लेष्मज्वरोऽयं संसर्गजोऽयं सन्निपातजोऽयमिति व्यक्तीभवति|

Adhikarana vAtajvaralakShaNam, pittajvaralakShaNam (10-20) · Śloka 20

| आगमापगमक्षोभमृदुतावेदनोष्मणाम्||१०|| वैषम्यं तत्रतत्राङ्गे तास्ताः स्युर्वेदनाश्चलाः| पादयोः सुप्तता स्तम्भः पिण्डिकोद्वेष्टनं श्रमः||११|| विश्लेष इव सन्धीनां साद ऊर्वोः कटीग्रहः| पृष्ठं क्षोदमिवाप्नोति निष्पीड्यत इवोदरम्||१२|| छिद्यन्त इव चास्थीनि पार्श्वगानि विशेषतः| हृदयस्य ग्रहस्तोदः प्राजनेनेव वक्षसः||१३|| स्कन्धयोर्मथनं बाह्वोर्भेदः पीडनमंसयोः| अशक्तिर्भक्षणे हन्वोर्जृम्भणं कर्णयोः स्वनः||१४|| निस्तोदः शङ्ख़योर्मूर्ध्नि वेदना विरसास्यता| कषायास्यत्वमथवा मलानामप्रवर्तनम्||१५|| रूक्षारुणत्वगास्याक्षिनख़मूत्रपुरीषता| प्रसेकरोचकाश्रद्धाविपाकास्वेदजागराः||१६|| कण्ठौष्ठशोषस्तृट् शुष्कौ छर्दिकासौ विषादिता| हर्षो रोमाङ्गदन्तेषु वेपथुः क्षवथोर्ग्रहः||१७|| भ्रमः प्रलापो ग़र्मेच्छा विनामश्चानिलज्वरे| ||१८|| अथ पित्तज्वरलक्षणार्थमाह युगपद्व्याप्तिरङ्गानां प्रलापः कटुवक्त्रता||१८|| नासास्यपाकः शीतेच्छा भ्रमो मूर्च्छा मदोऽरतिः| विट्स्रंसः पित्तवमनं रक्तष्ठीवनमम्लकः||१९|| रक्तकोठोद्गमः पीतहरितत्वं त्वगादिषु| स्वेदो निःश्वासवैगन्ध्यमतितृष्णा च पित्तजे||२०||

🔊 Audio coming soon

स०-आगमादीनां वैषम्यमनिलज्वरे लिङ्गमिति योज्यम्| ज्वरस्यागमः-सन्तापारम्भः-तस्य वैषम्यं शिरःप्रभृतीनामङ्गानां न युगपत्सन्तापः, अपि तु कदाचिदस्य शिरसि पूर्वमागच्छति कदाचिदंसयोः पादयोर्वेति| अपगमो-ज्वरस्य मोक्षः, तस्य वैषम्यं-कदाचिदस्य पूर्वं पादयोः सन्तापमोक्षः कदाचित्त्रिके कदाचिच्छिरसि सन्तापस्य मुक्तिरिति| तथा, क्षोभमृदुतयोर्वैषम्यं-कदाचित्तीव्रः सन्तापः कदाचिन्मृदुरिति| वेदना ज्वरस्य तास्ताः, तासां वैषम्यं-न युगपत्सर्वाङ्गीणो वेदनोपलम्भः, अपि तु क्वचित् कदाचित् कस्मिंश्चिदङ्ग इति| तथा, ज्वरस्य य ऊष्मा-सन्तापः, तस्यापि वैषम्यात् कदाचिच्छिरस्यस्य सन्ताप उपलभ्यते कदाचित् पादाद्यन्यतमेऽङ्गे| तत्रतत्राङ्गे-बाहुशिरःप्रभृतौ, तास्ता वेदनाः-पादयोः सुप्तताद्या वक्ष्यमाणाः, चलाः-अनवस्थिताः स्युः, वायोश्चलरूपत्वात्| ता एवाह-पादयोरित्यादि| पादयोः सुप्तिः-निश्चेतनत्वम्, नख़क्षतादिकमपि न चेतयेतां तावित्यर्थः| स्तम्भः-स्तब्धता, तयोरेव| पिण्डिकयोरुद्वेष्टनं-उद्वेष्टः| श्रमः-ख़ेदः| सन्धीनां विच्छेदनमिव| ऊर्वोः सादः-स्वक्रियायामसमर्थत्वम्| कट्या ग्रहः-स्तम्भ इव| पृष्ठं क्षोदमिव-संक्षुण्णतामिव, आप्नोति, संक्षुण्णसस्यादिवत्| निष्पीड्यत इवोदरं-पिण्याकादिवत्| छिद्यन्त इवास्थीनि-करपत्रादिना काष्ठादिवत्| अतिशयेन पार्श्वगान्यस्थीनि छिद्यन्त इव| तथा, हृदयस्य ग्रहणम्| वक्षसः-उरसः, प्राजनेनेव-प्रतोदेनेव, तोदो-व्यथनम्| स्कन्धयोर्मन्थनं-अरणेरिव| बाह्वोर्भेदो-विदारणमिव| अंसयोः पीडनं-तैलादिपीडनकाष्ठैरिव| हन्वोर्भक्षणेऽसामर्थ्यम्| तथा, जृम्भणादीनि स्युः| विरसास्यता-अव्यक्तरसत्वं, मुख़स्य भवति, येन मधुराद्यन्यतमं रसं न निश्चिनोति| अथवा कषायरसत्वं वक्त्रस्य| मलानां-मूत्रपुरीषादीनां, अप्रवर्तनं-अविसर्गः| रूक्षत्वमरुणत्वं च त्वगादीनां भवति, रोगस्वभावात्| तथा, प्रसेकादयः स्युः| अथ, अरोचकाश्रद्धयोः को विशेषः| ब्रूमः| अरोचकेन वक्त्रस्थमपि न भुङ्क्ते| अश्रद्धया तु केवलं नाभिलषति मुख़स्थं तु भक्षयत्येवेति विशेषः| विषादिता-विषण्णत्वं दुःख़ितत्वम्| रोमादीनां हर्षो, वेपथ्वादयश्च वातज्वरे स्युः| स०-पित्तज्वरे युगपत्-तुल्यकालं, अङ्गानां व्याप्तिः-शिरः-प्रभृतीन्यङ्गानि सन्तापेनैककालं व्याप्यन्ते| न तु वातज्वर इवागमादीनां वैषम्यमिति व्याप्तिग्रहणेन द्योतयति| प्रलापः-असम्बद्धवचनस्योक्तिः| कटुवक्त्रता-कटुकरसत्वमास्ये| तथा, नासायामास्ये च पाकः| तथा, शीतेच्छादयोऽत्र भवन्ति| मण्डलाकारा निर्मुख़ाः पिटिकाः कोठा इत्युच्यन्ते| ननु, दोषास्त्रयोऽपि ज्वरं निवर्तयन्तीत्युक्तम्| पित्तज्वरे च पित्तेन युक्तस्य कायाग्नेर्भूयो वृद्ध्या भाव्यम्, नाग्निमान्द्येन, "वृद्धिः समानैः सर्वेषां" (हृ. सू. अ. १|१४) इति वचनात्| एवं चाग्निमान्द्याभावात् ज्वरस्य सम्भवेऽप्युपपत्तिरयुक्ता| नैवम्| स्वस्थानाच्चालनेनाग्नेर्मान्द्यापत्तेः| स्थानवशाद्वाऽन्यथात्वस्यापि क्रियासामर्थ्यं दृष्टम्| तथा चाष्टाङ्गसङ्ग्रहे (?) (चरके) शोषनिदाने वक्ष्यति (च. नि. अ. ६|५)- "योंऽशः [ तस्य ] शरीरसन्धीनाविशति तेन [ अस्य ] जृम्भा ज्वरश्चोपजायते|" इत्यादि| तस्मात्स एवाग्निः क्वचिदेव देशे पुक्तं शक्तो भवति, न सर्वत्र| उष्णगुणेन तु पित्तेन युक्तः पक्ता भवत्येवोष्णतरः| अत एव सन्तापादीनधिकतरान् करोतीति न किञ्चिदत्रानुपपन्नम्|

Adhikarana kaPajvaralakShaNam (21-22) · Śloka 22

कफज्वरलक्षणमाह विशेषादरुचिर्जाड्यं स्रोतोरोधोऽल्पवेगता| प्रसेको मुख़माधुर्यं हृल्लेपश्वासपीनसाः||२१|| हृल्लासश्छर्दनं कासः स्तम्भः श्वैत्यं त्वगादिषु| अङ्गेषु शीतपिटिकास्तन्द्रोदर्दः कफोद्भवे||२२||

🔊 Audio coming soon

स०-सर्वज्वरेऽरुचिर्भवत्येव, अतिशयेन तु कफजे| तथा, जाड्यादयः स्युः| त्वगादिष्वित्यादिशब्द आस्याक्षिनख़ादीनां ग्रहणाय| [ त्वगादिषु श्वैत्यं-श्वेतता| अङ्गेषु-शिरःपाण्यादिषु, शीतपिटिकाः-श्लेष्मपिटिकाः| निद्रार्तस्येव विषयाग्रहणं-तन्द्रा| ] उदर्दस्य लक्षणं तन्त्रान्तरं उक्तम्-"शीतपानीयसंस्पर्शाच्छीतकाले विशेषतः| श्वयथुः शिशिरार्तानामुदर्दः कफसम्भवः||" इति|

Adhikarana jvarANAM kAlasaMprAptiH (23) · Śloka 23

एवं त्रयाणां दोषाणां पृथक् लिङ्गान्यभिधाय सामान्यलिङ्गान्यधुना कथयति काले यथास्वं सर्वेषां प्रवृत्तिर्वृद्धिरेव वा| |२३|

🔊 Audio coming soon

स०-कालः-पूर्वाह्णादिको वर्षादिको वा यो वातादेः, तस्मिन् काले, यथास्वं-यथायथं वातादिज्वराणामप्रवृत्तानां, प्रवृत्तिः-उत्पत्तिः, उत्पन्नानामाधिक्यं वा स्यात्, तदा वातादिज्वरोऽयमित्यवबुध्येत|

Adhikarana jvarANAM upaSayAnupaSayau (23) · Śloka 23

इदानीं सामान्येनान्यदपि लिङ्गद्वयमाह | निदानोक्तानुपशयो विपरीतोपशायिता|२३|

🔊 Audio coming soon

स०-निदानानि च तान्युक्तानि च,- तिक्तोषणादीनि वातादिज्वरकारणानि, तैरनुपशयो यस्मिन् ज्वरे स एवम्| रोगवृद्ध्या हि रोगिणो दुःख़ावहत्वम्| ननु, निदानानुपशय इत्येतावदस्तु| किमुक्तग्रहणेन ? उच्यते| उक्तग्रहणं स्वनिदानग्रहणार्थम्| उक्तग्रहणमन्तरेण यानिकानिचिन्निदानानि रक्तपित्तश्वासादीनां, तेषामनुपशय इत्येवं प्राप्नुयात्| उक्तशब्दोच्चारणसामर्थ्यात्तु यान्येव वातज्वर उक्तानि तान्येव तत्र ज्वरे गृह्यन्ते, नेतराणि| एवं पित्तकफादिज्वरादिषु| तस्मादुक्तग्रहणं कर्तव्यम्| विपरीतोपशायितेति| उपशेतेऽवश्यमित्युपशायि, विपरीतैरुपशायि-विपरीतोपशायि, तस्य भावो विपरीतोपशायिता,-सुख़ानुबन्धि आरोग्यलक्षणा| कस्माद्विपरीतैः ? प्रकृतत्वान्निदानस्यैव| एवं ज्वरनिदानप्रतिपक्षभूतैः सर्वेषां ज्वराणामुपशयः सुख़ानुबन्धो विपरीतोपशायितेति बोध्यम्| ननु, "निदानोक्तानुपशयः" इतीदमेवास्तु, किं "विपरीतोपशायिता" इत्यनेन ? यस्य हि निदानोक्तानुपशयः, तस्यावश्यं विपरीतोपशायितया भाव्यम्| नैवम्| अनैकान्तिकत्वात्| तथा हि,- अतीसारादिषु निदानोक्तानुपशय उपलभ्यते| न च सामावस्थायां विपरीतं सङ्ग्राह्युपशेते| अपि च मद्योत्थानां विकाराणां मद्यमेव प्रसाधकमित्युक्तम्| न चैवं "विपरीतोपशायिता" इति ग़टते| तस्मान्न्याय्यमुभयोरुपादानम्| एवं हि लक्षणं सम्यगुक्तं भवति|

Adhikarana saMsargajvaralakShaNam (23) · Śloka 23

| यथास्वं लिङ्गसंसर्गे ज्वरः संसर्गजः|२३|

🔊 Audio coming soon

स०-यद्यत्स्वं यथास्वं, यानि यस्य ज्वरस्य स्वानि लिङ्गानि वातज्वरस्य पित्तज्वरस्य श्लेष्मज्वरस्य वा, तेषां संसर्गो लिङ्गसंसर्गः,-संसृष्टलिङ्गत्वं, तस्मिन्सति संसर्गजो ज्वरो वेद्यः| अत्रापि "काले यथास्वं" इत्यादि सर्वं लक्षणं बोध्यम्|

Adhikarana vAtapittajvaralakShaNam (23-24) · Śloka 24

न चैतावदेव संसर्गलक्षणमित्याह | अपि च||२३|| शिरोर्तिमूर्च्छावमिदाहमोहकण्ठास्यशोषारतिपर्वभेदाः| उन्निद्रतातृड्भ्रमरोमहर्षा जृम्भातिवाक्त्वं च चलात्सपित्तात्||२४||

🔊 Audio coming soon

स०-चलात्सपित्तात्-वातपित्तसंसर्गजे, शिरोर्त्यादयः स्युः| कण्ठास्ययोः शोषेण सम्बन्धः| वातज्वरे शिरोर्त्यादीनि प्रायो दृष्टानि, कानिचित्तु पित्तज्वरे दृष्टानि, तानि च वातपित्तज्वरे दृश्यन्ते| तथा, अन्यान्यप्यधिकान्यत्र वातपित्तज्वरे दृश्यन्ते, यानि न केवले वातज्वरे नापि पित्तज्वरे दृष्टानि| एवमन्ययोः संसर्गज्वरयोर्योज्यम्| उपजातिवृत्तम्|

Adhikarana vAtaSleShmajvaralakShaNam (25) · Śloka 25

इदानीं कफानिलसंसर्गलक्षणमाह तापहान्यरुचिपर्वशिरोरुक् पीनसश्वसनकासविबन्धाः| शीतजाड्यतिमिरभ्रमतन्द्राः श्लेष्मवातजनितज्वरलिङ्गम्||२५||

🔊 Audio coming soon

स०-तापहान्यादि श्लेष्मवातकृतस्य ज्वरस्य लिङ्गम्| तापहानिः-तापभावः| विबन्धो-मूत्रपुरीषादीनामप्रवृत्तिः| स्वागतावृत्तम्|

Adhikarana pittaSleShmajvaralakShaNam (26) · Śloka 26

अधुना कफपित्तसंसर्गज्वरं लक्षयति शीतस्तम्भस्वेददाहाव्यवस्था तृष्णाकासश्लेष्मपित्तप्रवृत्तिः| मोहस्तन्द्रालिप्ततिक्तास्यता च ज्ञेयं रूपं श्लेष्मपित्तज्वरस्य||२६||

🔊 Audio coming soon

स०-शीतादीनामव्यवस्था-अनियमः| तथा, तृष्णाप्रवृत्त्यादिकं च श्लेष्मपित्तज्वरस्य रूपं ज्ञेयं-वेद्यम्| शालिनीवृत्तम्| अथ, द्विदोषजानां ज्वराणां किमागमापगमवैषम्यादीनां क्रमेणोत्पत्तिः ? युगपत्सर्वशरीरप्राप्त्या वा ? इत्यत्र संशयः| तत्र संसर्गजत्वादेककालं द्वयोरपि पक्षयोः सम्भवो युक्तः| किन्त्वेतयोः पक्षयोर्विरोधाद्युगपदसम्भव इति| अत्रोच्यते| यदि संसर्गजे ज्वरे बलवान् वायुः स्यात् तदा आगमापगमवैषम्यादिना क्रमेण, अथ पित्तस्य बलीयस्त्वं तदा युगपत्सर्वशरीरव्याप्तिक्रमेण ज्वरो भवति| समौ यदा द्वावपि भवतः, तदाऽपि यस्य देशकालादिना बललाभस्तदा तस्यैवोत्पत्तिक्रमेण ज्वरो भवति| सन्निपाते तु युगपदेव शरीरव्याप्तिक़् २ः|

Adhikarana sannipAtajvaralakShaNam (27-33) · Śloka 33

अथ सन्निपातज्वरस्य लक्षणमाह सर्वजो लक्षणैः सर्वैर्दाहोऽत्र च मुहुर्मुहुः| तद्वच्छीतं महानिद्रा दिवा जागरणं निशि||२७|| सदा वा नैव वा निद्रा महास्वेदोऽति नैव वा| गीतनर्तनहास्यादिविकृतेहाप्रवर्तनम्||२८|| साश्रुणी कलुषे रक्ते भुग्ने लुलितपक्ष्मणी| अक्षिणी पिण्डिकापार्श्वमूर्द्धपर्वास्थिरुग्भ्रमः||२९|| सस्वनौ सरुजौ कर्णौ कण्ठः शूकैरिवाचितः| परिदग्धा ख़रा जिह्वा गुरुः स्रस्ताङ्गसन्धिता||३०|| रक्तपित्तकफष्ठीवो लोलनं शिरसोऽतिरुक्| कोठानां श्यावरक्तानां मण्डलानां च दर्शनम्||३१|| हृद्व्यथा मलसंसङ्गः प्रवृत्तिर्वाऽल्पशोऽति वा| स्निग्धास्यता बलभ्रंशः स्वरसादः प्रलापिता||३२|| दोषपाकश्चिरात्तन्द्रा प्रततं कण्ठकूजनम्| |३३|

🔊 Audio coming soon

स०-सर्वेभ्यो जातो वातपित्तकफसमुत्थः-सर्वजः, सर्वैर्लक्षणैर्युतो भवति| यथा,-अत्र च-सन्निपातज्वरे, दाहो मुहुर्मुहुः, तद्वत्-दाहवत् पुनः पुनः, शीतं भवति| अहनि महती निद्रा| रात्रौ तु जागरणम्| सदा वा-दिवसे निशि च, नैव वेति द्वयोरपि नक्तंदिवसयोर्निद्रा न भवति| तथा, बहुस्वेदोऽतिशयेन नैव वा स्वेदः| तथा,गीतादिकाया विकृताया ईहायाः- चेष्टायाः, प्रवर्तनम्| तथा, नयने सास्रे भवतः| तथा, कलुषे रक्ते तथा कुटिले| तथा, लुलिते पक्ष्मणी ययोस्त एवम्| तथा, पिण्डिकादिरुक्| भ्रमो-मोहः| कर्णौ सशब्दौ सरुजौ-सपीडौ, च| कण्ठः शूकैः-किंशारुभिरिव, व्याप्तः| जिह्वा परिदग्धा, तथा ख़रा-अमृदुः, तथा गुरुः| तथा, स्रस्ताङ्गसन्धित्वम्| रक्तादिष्ठीवनम्| मूर्ध्नो लोलनं-चलनम्| तथा, अतिरुक्| कोठानां श्यावरक्तानां मण्डलानां च दर्शनम्| नैव वेत्यत्रापि योज्यम्| तथा, हृदि पीडा| मलानां-मूत्रपुरीषादीनां, [ संसङ्गः- ] अप्रवृत्तिः| अल्पशो वा प्रवृत्तिरतिशयेनाथवा| तथा, स्निग्धास्यतादि भवति|

Adhikarana sannipAtajvarasya nAmAni (33) · Śloka 33

अथास्य सन्निपातस्य नामद्वयमाह | सन्निपातमभिन्यासं तं ब्रूयाच्च हृतौजसम्||३३||

🔊 Audio coming soon

स०-तं सन्निपातमभिन्यासं हृतौजसं च ब्रूयात्| तत्र "ओजस्तु तेजो धातूनां" (हृ. सू. अ. ११|३७) इत्याद्योजोलक्षणम्| हृतमोजो येन स हृतौजाः, तं हृतौजसम्|

Adhikarana asAdhyasannipAtajvaralakShaNam (34) · Śloka 34

दोषे विबद्धे नष्टेऽग्नौ सर्वसम्पूर्णलक्षणः| असाध्यः|३४|

🔊 Audio coming soon

स०- [ ननु, ] दोषे विबद्ध इत्येकवचनमयुक्तम्| दोषाणां ह्यत्र च बहुत्वाद्बहुवचनं न्याय्यं स्यात्| अत्रोच्यते| जात्यभिप्रायाददोषः| जात्याख़्यायामेकस्य बहुत्वसिद्धेर्दोष इत्युक्ते बहुत्वं गम्यते| यथा-निष्पन्नो यव इति| तस्माद्दोषे विबद्ध इति युक्तम्| नष्टेऽग्नावित्यसत्| सर्वज्वरेष्वेव ह्यग्निनाशस्य प्रागभिधानात्| तस्मादयुक्तमेतदुच्यते| न| विशेषाभिप्रायात्| कामं सर्वज्वरेष्वग्निनाश उक्तः| अस्मिंस्तु सान्निपातिके विशेषेणाग्निनाश इत्यभिप्रायः| दोषे-वातपित्तकफमूत्रपुरीषादिके, विबद्धे-अप्रवृत्तिशीले, अग्नौ नष्टे सति, सर्वसम्पूर्णलक्षणः सन्निपातोऽसाध्यः-साधयितुमशक्यः|

Adhikarana kRucCrasAdhyasannipAtajvaralakShaNam (34) · Śloka 34

| सोऽन्यथा कृच्छ्रो भवेद्वैकल्यदोऽपि वा||३४||

🔊 Audio coming soon

स०-अन्यथा-असम्पूर्णलक्षणत्वेन, सः-ज्वरः, कृच्छ्रो भवेत् वैकल्यदो वा भवेत्|

Adhikarana amiSrIBUtadoShajasannipAtajvaraH (35-36) · Śloka 36

किमेष एव सन्निपातज्वरप्रकारः सम्भवति ? उतान्योऽपि सम्भवति ? इत्याह अन्यच्च सन्निपातोत्थो यत्र पित्तं पृथक् स्थितम्| त्वचि कोष्ठेऽथवा दाहं विदधाति पुरोऽनु वा||३५|| तद्वद्वातकफौ शीतं, दाहादिर्दुस्तरस्तयोः| |३६|

🔊 Audio coming soon

स०-अन्यशब्दार्थोऽन्यदित्ययं निपातः| अपरोऽयं सन्निपातोत्थो ज्वरः| यत्र सन्निपाते पित्तं वातकफाभ्यां पृथक्-भिन्नं, स्थितं सत् त्वच्यथवा कदाचित् कोष्ठे दाहं करोति| कथम् ? पुरोऽनु वा,-पूर्वं पश्चाद्वा| अथवेति स्थानविशेषाभिधायिपदसमीपे श्रूयमाणं स्थानविशेषे विकल्पं करोति| पुरोऽनुवेत्यत्र कालविशेषाभिधायिपदसमीपे श्रूयमाणं कालं विकल्पयति| तत्र चायं विशेषः-त्वचि स्थितं बहिरधिकं दाहं करोति, अन्तरल्पम्| कोष्ठे तु स्थितमन्तरधिकम्, बहिः स्वल्पमिति| तदित्यनेन पित्तं परामृश्यते| [तद्वत्- ] पित्तेन तुल्यम्| यथा,-पित्तं पृथक् स्थितं त्वचि कोष्ठेऽथवा दाहं करोति पुरोऽनु वा, तथैव वातकफौ त्वचि कोष्ठेऽथवा पुरोऽनु वा शीतं विदधतः, इति द्विविधोऽयं सन्निपातः| तयोः-शीतादिदाहाद्योः सन्निपातयोर्मध्ये, यो दाहादिः सन्निपातः स दुस्तरः-कृच्छ्रसाध्य इत्यर्थः| केचित्तु शीतादिः शीतार्तो दाहादिर्दाहार्त इति द्विधा (चतुर्धा) सन्निपातं समगिरन्|

Adhikarana SItAdisannipAtajvaralakShaNam (36-37) · Śloka 37

ननु, अस्मिन् शीतादौ दाहादौ च ज्वरे को विशेषः ? इत्याह | शीतादौ तत्र पित्तेन कफे स्यन्दितशोषिते||३६|| शीते शान्तेऽम्लको मूर्च्छा मदस्तृष्णा च जायते| |३७|

🔊 Audio coming soon

स०-शीतादौ तत्र-तस्मिन् सन्निपाते, पित्तेन कर्त्रा कफे स्यन्दिते-स्राविते, शोषिते च ग्रीष्म इव ख़रदिनकरकरतापेन हिम इव, तथा शीते शान्ते चार्थाद्दाह उपजायते| अम्लकादयश्च चत्वारः स्युः| पित्तेनेति कर्तरि तृतीया| अत एव च बलवत्त्वेन प्राधान्यात् कफं स्रावयति शोषयति चेति| अम्लोद्गिरणं-अम्लकः|

Adhikarana dAhAdisannipAtajvaralakShaNam (37) · Śloka 37

| दाहादौ पुनरन्ते स्युस्तन्द्राष्ठीववमिक्लमाः||३७||

🔊 Audio coming soon

स०-दाह आदिर्यस्मिन् स दाहादिः| शीतावसान इत्यर्थाद्गम्यते| दाहादौ च सन्निपातेऽस्य दाहस्यान्ते-अवसाने, तन्द्रादयो भवन्ति| दाहकारिपित्तस्यन्दितेनैव कफेन शमिते पित्ते कफोद्रेकादेव कफजास्तन्द्रादयो भवन्ति|

Adhikarana AgantujvaraBedAH (38) · Śloka 38

आगन्तुरभिघाताभिषङ्गशापाभिचारतः| चतुर्धा|३८|

🔊 Audio coming soon

स०-आगन्तुज्वरश्चतुर्धा भवति, अभिघातजोऽभिषङ्गजोऽभिशापजोऽभिचारजश्च|

Adhikarana abhighAtajAgantujvarabhedau (38-39) · Śloka 39

| अत्र क्षतच्छेददाहाद्यैरभिग़ातजः||३८|| श्रमाच्च| |३९|

🔊 Audio coming soon

स०-अत्र-अस्मिन्नागन्तौ ज्वरे, अभिघातजो यो ज्वरः स क्षतच्छेदाद्यैः-शस्त्रप्रहाराद्यैः, जायते| तथा, श्रमाच्च-अध्वादिकृतादायासाच्च|

Adhikarana tasya dvividhasya lakShaNam (39) · Śloka 39

तस्मिन्पवनः प्रायो रक्तं प्रदूषयन्| सव्यथाशोफवैवर्ण्यं, सरुजं कुरुते ज्वरम्||३९||

🔊 Audio coming soon

स०-तस्मिन्-अभिघातजे ज्वरे, प्रायो-बाहुल्येन, पवनो-वायुः, ज्वरं कुरुते| किं कुर्वन् ? रक्तं प्रदूषयन्| कीदृशं ज्वरम् ? सव्यथेत्यादि| व्यथादियुक्तं तथा सरुजम्| प्रायोग्रहणं क्वचिदभिघातजेऽन्योऽपि दोषः कुप्यति, बाहुल्येन तु वायुरिति द्योतयति|

Adhikarana abhiSha~ggajAgantujvarabhedAH (40) · Śloka 40

ग्रहावेशौषधिविषक्रोधाभिशोककामजः| अभिषङ्गात्|४०|

🔊 Audio coming soon

स०-ग्रहादिजो ज्वरोऽभिषङ्गाद्भवति|

Adhikarana grahAveSajalakShaNam (40) · Śloka 40

इदानीं ग्रहोत्पन्नस्य लिङ्गमाह | ग्रहेणास्मिन्नकस्माद्धासरोदने||४०||

🔊 Audio coming soon

स०-ग्रहेण-देवदानवादिनाऽष्टादशभेदभिन्नेन, यो ज्वरो भवति, अस्मिन्-ज्वरे, अकस्मात्-निर्निमित्तमेव, हासरोदने भवतः|

Adhikarana oShadhijalakShaNam (41) · Śloka 41

ओषधीगन्धजे मूर्च्छा शिरोरुग्वमथुः क्षवः| |४१|

🔊 Audio coming soon

स०-विषौषधीपुष्पगन्धेन वायुनोपनीतेन यो ज्वरस्तस्मिन् मूर्च्छादयो जायन्ते|

Adhikarana viShajalakShaNam (41) · Śloka 41

| विषान्मूर्च्छातिसारास्यश्यावतादाहहृद्गदाः||४१||

🔊 Audio coming soon

स०-विषाज्जाते तस्मिन् ज्वरे मूर्च्छादयो जायन्ते| आस्यश्यावता-कृष्णमुखत्वम्| हृद्गदो-हृदये पीडा|

Adhikarana krodhajalakShaNam (42) · Śloka 42

क्रोधात्कम्पः शिरोरुक् च| |४२|

🔊 Audio coming soon

स०-क्रोधात्-कोपात्, सञ्जाते ज्वरे कम्पो-वेपथुर्जायते| तथा, शिरोरुक्-शिरोर्तिश्च|

Adhikarana bhayashokajalakShaNam (42) · Śloka 42

प्रलापो भयशोकजे| |४२|

🔊 Audio coming soon

स०-भयशोकजे ज्वरे प्रलापः|

Adhikarana kAmajalakShaNam (42) · Śloka 42

| कामाद्भ्रमोऽरुचिर्दाहो ह्रीनिद्राधीधृतिक्षयः||४२||

🔊 Audio coming soon

स०-कामादुद्भूते ज्वरे भ्रमादयो भवन्ति| ह्रीः-लज्जा, निद्रा-स्वप्नः, धीः-बुद्धिः, धृतिः-धैर्यम्, तेषां [ क्षयो ]-विघातः|

Adhikarana abhiSha~ggajAnAM doShAnubandhaH (43) · Śloka 43

ग्रहादौ सन्निपातस्य भयादौ मरुतस्त्रये| कोपः कोपेऽपि पित्तस्य|४३|

🔊 Audio coming soon

स०-ग्रहादौ त्रये-ज्वरे ग्रहावेशौषधिविषजे, सन्निपातस्य कोपः| भयादौ त्रये-भीशोककामजे ज्वरे, मारुतस्य कोपः| कोपे पित्तस्य [ कोपः ]| अपिशब्दाद्वातस्यापि कोप इति|

Adhikarana shApAbhicArajayorlakShaNam (43-44) · Śloka 44

| यौ तु शापाभिचारजौ||४३|| सन्निपातज्वरौ घोरौ तावसह्यतमौ मतौ| |४४|

🔊 Audio coming soon

स०-तमशब्देनैतद्दर्शयति,-अन्येऽपि ये सन्निपातज्वरास्तेऽप्यसह्याः-सोढुमशक्याः, एतौ पुनः शापाभिचारजावतिशयेन सोढुमशक्याविति|

Adhikarana abhicArajasya visheShaH (44-45) · Śloka 45

| तत्राभिचारिकैर्मन्त्रैर्हूयमानस्य तप्यते||४४|| पूर्वं चेतस्ततो देहस्ततो विस्फोटतृड्भ्रमैः| सदाहमूर्च्छैर्ग्रस्तस्य प्रत्यहं वर्द्धते ज्वरः||४५||

🔊 Audio coming soon

स०-अभिचारिकैर्मन्त्रैः-अथर्ववेदाद्युपदिष्टैः, हूयमानस्य पुंसः, यन्नामोद्देशेन हविःप्रक्षेपः स हूयमान उच्यते, अभिचारमधिकृत्य प्रणीत इति "प्राग्वहतेष्ठक्" इति ठक्| हूयमानस्य पुंसः प्रथमं चेतस्तप्यते-सदुःखं जायते| ततः-अनन्तरं, देहः-शरीरम्, तप्यते-सज्वरं सम्पद्यते| ततः-अनन्तरं, विस्फोटतृड्भ्रमैर्दाहमूर्च्छायुतैर्ग्रस्तस्य-आक्रान्तस्य, प्रत्यहं ज्वरो वर्द्धते-ज्वरस्याधिक्यं भवति| तनवः स्फोटा एव विस्फोटा भण्यन्ते|

Adhikarana aShTavidhajvaropasaMhAraH (46) · Śloka 46

इति ज्वरोऽष्टधा दृष्टः| |४६|

🔊 Audio coming soon

स०-इति-पूर्वोक्तेन प्रकारेण निजः सप्तप्रकार आगन्तुश्चेति, अष्टप्रकारो ज्वरो दृष्टः, मुनीन्द्रैरिति शेषः|

Adhikarana aShTAnAM jvarANAM pratyekaM dvaividhyaShaTkam (46-47) · Śloka 47

समासाद्द्विविधस्तु सः| शारीरो मानसः सौम्यस्तीक्ष्णोऽन्तर्बहिराश्रयः||४६|| प्राकृतो वैकृतः साध्योऽसाध्यः सामो निरामकः| |४७|

🔊 Audio coming soon

स०-तुर्विशेषे| समासात्-सङ्क्षेपात्, तु-पुनः, सः-ज्वरो, द्विविधः| तदेव द्वैविध्यमाह-शारीरो मानस इत्येकं द्विकम्| सौम्यस्तीक्ष्ण इति द्वितीयम्| अन्तराश्रयो बहिराश्रय इति तृतीयम्| प्राकृतो वैकृत इति चतुर्थम्| साध्योऽसाध्य इति पञ्चमम्| सामो निराम इति षष्ठम्| इति द्वैविध्यमेषां द्विकानाम्|

Adhikarana shArIrasya lakShaNam, mAnasasya lakShaNam (47) · Śloka 47

सम्प्रत्येतानेव ज्वरान् व्याचष्टे | पूर्वं शरीरे शारीरे तापो, मनसि मानसे||४७||

🔊 Audio coming soon

स०-शारीरे ज्वरे प्रथमं शरीरे तापो भवति, पश्चान्मनसीति पूर्वशब्दस्य सम्बन्धिशब्दत्वाद्गम्यते| एवं मानसे ज्वरे पूर्वं मनसि तापो-दुःखम्, पश्चाद्देहे तापः-पीडाविशेषो जायते|

Adhikarana saumyasya lakShaNam (96)) · Śloka 48

इदानीं सौम्यतीक्ष्णौ व्याचष्टे- पवने योगवाहित्वाच्छीतं श्लेष्मयुते भवेत्| |४८|

🔊 Audio coming soon

स०-पवने श्लेष्मयुते योगवाहित्वाद्धेतोः शीतं भवेत्| तस्माद्वात श्लेष्मज्वरः सौम्य इति बोध्यम्| श्लेष्मा हि "सोमः" इति प्रागुक्तम् (हृ. शा. अ. ३|९६)|

Adhikarana tIkShNasya lakShaNam (48) · Śloka 48

तीक्ष्णमिदानीं वक्ति | दाहः पित्तयुते, मिश्रं मिश्रे|४८|

🔊 Audio coming soon

स०-दाहः पित्तसम्बन्धे पवने योगवाहित्वाद्भवेत्| इत्येवं मिश्रे-पित्तश्लेष्मयुते पवने, योगवाहित्वाच्च पवनस्य मिश्रं-दाहशीतं भवेत्, मुहुर्दाहो मुहुः शीतमिति| तदयं सौम्यतीक्ष्णव्यामिश्रस्तृतीयो ज्वर इति वेद्यम्| सौम्यस्तीक्ष्ण इति द्वैविध्यकथनं तु समासादिति मन्तव्यम्| योगं वहति तच्छीलो योगवाहि, येन येन युक्तो भवति तस्य तस्य स्वभावं भजत इत्यर्थः| एवं च सति स्वयं नोष्णो न च शीतो वायुरित्यभ्युपगतम्| तदेवमिह योगवाहित्वात् कफेन युक्ते वायौ शीतं भवेदित्युक्तम्, असौ वायुः शीतं करोतीत्यर्थः| पित्तयुक्तेऽस्मिन् दाहो भवेत्, असौ दाहं करोतीति| एवं स्वयं नोष्णो न शीत इत्यवतिष्ठते| "तत्र रूक्षो लघुः शीतः " इत्यत्र च शीत इत्युच्यते| तदिमे वचसी परस्परं व्याजघ्नाते| नैवम्| "तत्र रूक्षो लघु शीतः खरः सूक्ष्मश्चलोऽनिलः|" (हृ. सू. अ. १|११) इत्यत्रैवायमर्थस्तथा व्याख्यातो यथा न पूर्वापरव्याहतत्वं भवेत्| तेनेह पुनर्न प्रतन्यते|

Adhikarana antarAshrayasya lakShaNam (48-49) · Śloka 49

| अन्तःसंश्रये पुनः||४८|| ज्वरेऽधिकं विकाराः स्युरन्तः क्षोभो मलग्रहः| |४९|

🔊 Audio coming soon

स०-अन्तराश्रये तु ज्वरेऽधिकं कृत्वाऽन्तर्विकाराः स्युः, न बहिरेव| तथा, क्षोभः-तीव्रदाहत्वम्| मलानां-मूत्रपुरीषादीनां, ग्रहो-विबन्धः|

Adhikarana bahirAshrayasya lakShaNam (49) · Śloka 49

| बहिरेव बहिर्वर्गे तापोऽपि च सुसाध्यता||४९||

🔊 Audio coming soon

स०-बहिर्वर्गे तु बहिरेव तापः, न त्वन्तरे| अपिचेत्यन्तः-क्षोभमलग्रहावप्यत्र न स्त इति समुच्चिनोति| तत्र च बहिर्वेगेऽत एव सुसाध्यता-सुखसाध्यत्वं, भवति| अन्तराश्रये तु दुःसाध्यतेत्यर्थादुक्तं भवति|

Adhikarana prAkRutasya lakShaNam, vaikRutasya lakShaNam (50) · Śloka 50

सम्प्रति प्राकृतवैकृतौ लक्षयति - - - - वर्षाशरद्वसन्तेषु वाताद्यैः प्राकृतः क्रमात्| वैकृतोऽन्यः स दुःसाध्यः प्रायश्च प्राकृतोऽनिलात्||५०||

🔊 Audio coming soon

स०- वर्षादिषु त्रिषु ऋतुषु यथाक्रमं वाताद्यैस्त्रिभिर्दोषैर्यो ज्वरो जायते स प्राकृतः| वर्षासु वातज्वरः प्राकृतः, शरदि पित्तज्वरो, वसन्ते कफज्वरः, इति परिभाष्यते| अत एव वातप्रकृतेन यो ज्वरः, पित्तप्रकृतेः पित्तेन, श्लेष्मप्रकृतेः श्लेष्मणेति, स प्रकृतिभवत्वेन प्राकृत इत्युच्यते| वैकृतोऽन्य इति| यो ज्वरो वर्षादिभ्य ऋतुभ्योऽन्यत्र काले जातो वर्षादिष्वपि वा न यथाक्रमं वाताद्यैर्जनितः, स यथोक्तप्राकृतलक्षणादन्यः, स वैकृत उच्यते| स च दुःसाध्यः-कृच्छ्रसाध्यः| प्राकृतस्तु सुसाध्य इत्यर्थाद्गम्यते| प्राय इत्यादि| प्रायो-बाहुल्येन, प्राकृतोऽपि यो ज्वरोऽनिलाज्जायते सोऽपि दुःसाध्यः| प्रायोग्रहणेनैतद् द्योतयति| कदाचिद्दैवानुकूलत्वात्सुसाध्य एव भवति| ननु, वर्षास्व(शरद्य)पि प्राकृतोऽपि ज्वरो यथा विकृतिविज्ञानीये कथितस्तथाऽसाध्य एव| "ज्वरो निहन्ति बलवान्" (हृ. शा. अ. ५|७१) इत्यादि| तदेतत्पूर्वापरव्याहतमिव दृश्यते| नैवम्| अनयोर्वचसोः सामान्यविशेषरूपत्वात्| तथा चेह सामान्येनोक्तम्, विकृतिविज्ञानीये तु विशेषेणेति| एतदेव च स्फुटीकर्तुं वक्ष्यति (श्लो. ५३)- "विकृतिज्ञाने प्रागसाध्य उदाहृतः|" इति|

Adhikarana viruddhAviruddhopakramaj~jAnArthaM prAkRutAnAM saMprAptiH (51-52) · Śloka 52

सम्प्रति वर्षासु प्राकृतस्य ज्वरस्य स्वरूपं निरूपयति - - - - - वर्षासु मारुतो दुष्टः पित्तश्लेष्मान्वितो ज्वरम्| कुर्यात् पित्तं च शरदि तस्य चानुबलं कफः||५१|| तत्प्रकृत्या विसर्गाच्च तत्र नानशनाद्भयम्| कफो वसन्ते तमपि वातपित्तं भवेदनु||५२||

🔊 Audio coming soon

स०-प्रावृषि पवनः [ दुष्टः- ] कुपितः, पित्तश्लेष्मयुतो ज्वरं कुर्यात्| प्रावृषि प्राकृतो ज्वरो वातप्रधानः पित्तश्लेष्माणौ त्वनुबलत्वेन वातस्य स्थितौ, न तु सन्निपात इव स्वयं ज्वरकारकावित्यर्थः| साम्प्रतं शरदि प्राकृतस्य ज्वरस्य दोषबलाबलं लक्षयति-पित्तं चेत्यादि| पित्तं शरदि [ दुष्टं ] प्राकृतं ज्वरं कुर्यादित्यनुवर्तते| प्रावृट्सञ्चितस्य पित्तस्य तदा कोपसद्भावात्| तस्य च पित्तस्यानुबलं-अनुबन्धि बलं, कफः| अनुबलमिवानुबलम्| यथा,-कस्यचित् स्वतन्त्रस्य राज्ञो गजतुरगरथपुरुषादिबलवतो वैरिभिः सह युध्यमानस्य पश्चादन्यद्बलं तच्छक्तेरनुबृंहणार्थमागच्छति, एवं स्वतन्त्रस्य पित्तस्य ज्वरं कुर्वतो बलोपबृंहणं शरदि कफः करोति| तत्प्रकृत्येति तच्छब्देन वर्षाशरदुद्भूतौ मारुतज्वरपित्तज्वरौ परामृश्येते| तयोः प्रकृतिस्तत्प्रकृतिः, तया तत्प्रकृत्या,- तत्स्वभावेन, तत्र-प्राकृते ज्वरे, अनशनात्-लङ्ग़नात्, भयं न 'भवति' इति शेषः| विसर्गाच्च वर्षाशरदुपलक्षितो हि कालो विसर्गः सौम्यस्वभावः, अस्माच्च कारणात्तस्मिन्काले ज्वर उत्पन्ने लङ्ग़नात् प्रत्यवायशङ्का तथा न भवति, यथाऽन्यस्मिन् काले ज्वर आदानकालस्वभावाद्वातपित्तानुबलत्वाच्चानशनाद्भयं भवतीत्यर्थः| वसन्तकाले कफो दुष्टो ज्वरं कुर्यादिति वर्तते| तं च कफमनु वातपित्तं भवेत्, वातपित्ते तस्यानुबले भवत इत्यर्थः| ननु, अत्र साक्षात्कफस्य कर्तृत्वमुच्यते| कफश्च सौम्यस्वभावः| तस्मादत्र नानशनाद्भयमिति| तच्चायुक्तम्| तथाहि-वर्षाशरदोः श्लेष्मानुबलत्वं कालश्च विसर्गाख़्य इति कारणद्वयसद्भावाद्धात्वपचयो न सम्भाव्यत एव| वसन्ते तु कालस्याग्नेयत्वाद्वातपित्तानुबलत्वाच्चावश्यंभावी धात्वपचय एव| तस्माद्वसन्तेऽनशनाद्भयं शङ्क्यते| केचित्तु ज्वरस्यामाशयसमुत्थत्वात् कफोत्थत्वाच्चात्रापि किञ्चिन्मात्रमनशनाद्भयं नाशङ्क्यत एवेत्याहुः|

Adhikarana sAdhyalakShaNam (53) · Śloka 53

अथ साध्यासाध्यज्वरलक्षणार्थमाह - - - - बलवत्स्वल्पदोषेषु ज्वरः साध्योऽनुपद्रवः| |५३|

🔊 Audio coming soon

स०-बलवस्तु नरेषु यौवनादिसम्पत्त्या तथाऽल्पदोषेषु यो ज्वरो जायते, उपद्रवेण-कासादिना रहितः, स साध्यः-साधयितुं शक्यः|

Adhikarana asAdhyalakShaNam (53) · Śloka 53

| सर्वथा विकृतिज्ञाने प्रागसाध्य उदाहृतः||५३||

🔊 Audio coming soon

स०-सर्वथेति यादृशस्यातुरस्य यादृशो ज्वरोऽसाध्यो भवति तादृशो, विकृतिविज्ञानीये शारीरे (अ. ५|७१)- "ज्वरो निहन्ति बलवान्" इत्यादिना ग्रन्थेन प्राक्-पूर्वमुक्तः|

Adhikarana sAmajvaralakShaNam (54) · Śloka 54

अधुना सामनिरामौ ज्वरो लक्षयति - - - - ज्वरोपद्रवतीक्ष्णत्वमग्लानिर्बहुमूत्रता| न प्रवृत्तिर्न विड्जीर्णा न क्षुत्सामज्वराकृतिः||५४||

🔊 Audio coming soon

स०-ज्वरस्योपद्रवाः-प्रलापभ्रमादयः, तेषां तीक्ष्णत्वं-तीव्रता| तथा, बहुमूत्रत्वम्| तथा, न प्रवृत्तिः-न पुरीषस्य प्रवर्तनम्| विट्प्रवृत्तावपि हि प्रवृत्तिशब्दः प्रसिद्धः| यथाऽनन्तरमधुनैवाधीतम् (श्लो. ३२)- "प्रवृत्तिर्वाऽल्पशोऽति वा|" इति| अथ चेद्विट् प्रवर्तते सा न जीर्णा-पक्वा न भवति| तथा, न क्षुत्-न बुभुक्षा| इयमशेषा लिङ्गसंहतिः सामज्वराकृतिः-सामज्वरस्य लक्षणम्| सहामेन वर्तते यो ज्वरः स सामज्वरः, तस्याकृतिः| "ऊष्मणोऽल्पबलत्वेन" (हृ. सू. अ. १३|२५) इत्याद्यामलक्षणम्|

Adhikarana pacyamAnajvaralakShaNam (55) · Śloka 55

ज्वरवेगोऽधिकं तृष्णा प्रलापः श्वसनं भ्रमः| मलप्रवृत्तिरुत्क्लेशः पच्यमानस्य लक्षणम्||५५||

🔊 Audio coming soon

स०-अतिशयेन ज्वरवेगस्तृष्णादयश्चेति पच्यमानज्वरस्य लक्षणम्| पच्यमानज्वरस्य च द्विकेष्वनिर्दिष्टस्यापीह कथनमता(मामा)न्तरीयकत्वात्| तथा हि-यावत्पच्यमानावस्था न भवति तावत्कथं निरामावस्था स्यात् ? तस्माद्युक्तः पच्यमानज्वरस्य निर्देशः|

Adhikarana nirAmajvaralakShaNam (56) · Śloka 56

जीर्णताऽऽमविपर्यासात्सप्तरात्रं च लङ्घनात्| |५६|

🔊 Audio coming soon

स०-आमशब्देनात्र सामज्वरलक्षणमुपलक्ष्यते| तेन सामज्वरोक्तलक्षणविपर्यासात् ज्वरस्य जीर्णता वेद्येति बोध्यम्| यथा-ज्वरोपद्रवमृदुत्वं ग्लानिरल्पमूत्रता पक्वविट्प्रवृत्तिः क्षुदुपगमनमिति, एवंरूपो विपर्यासः| तथा, "ज्वरवेगोऽधिकं" इत्यादिपच्यमानज्वराकृतेश्च विपर्यासात् जीर्णता-पक्वता, लक्षयितव्या| तथा हि-पच्यमानतायामपि सामता सम्भाव्यत एव| तथा, सप्तरात्रं च लङ्घनात्| सप्तरात्रमिति सप्तानां रात्रीणां समाहार इत्यच् समासान्तः, अत्यन्तसंयोगे द्वितीया| तेनायमर्थः,-सप्तरात्रीर्लङ्घयित्वा-अतिवाह्य, ततोऽनन्तरं यः कालोऽष्टमदिनादिस्तदा ज्वरस्य जीर्णता-निरामतेति| तथा च मुनिः (च. चि. अ. ३|२७२)- "सप्ताहेन तु पच्यन्ते सप्तधातुगता मलाः| निरामश्चाप्यतः प्रोक्तो ज्वरः प्रायोऽष्टमेऽहनि||" इति| ननु, एवंसति सप्तरात्रातिप्रवृत्तिरेव निरामज्वरलिङ्गमस्तु, "जीर्णताऽऽमविपर्यासात्" इत्यनेन नार्थः| अस्त्येवैतत्| किन्तु सन्निपातज्वरे बहुना कालेन मलपाको भवति| तस्मात्तल्लक्षणार्थं "जीर्णताऽऽमविपर्यासात्" इत्यप्युक्तम्| यद्येवं "जीर्णताऽऽमविपर्यासात्" इत्यस्तु, किं "सप्तरात्रं च लङ्घनात्" इत्यनेन ? अपि च त्रिदोषजे ज्वरे सप्तरात्रातिक्रमलक्षणं लिङ्गं नोपयुज्यते| तत्र ह्येवं पठ्यते (श्लो. ६१)- "वातपित्तकफैः सप्त दश द्वादश" इत्यारभ्य यावत् "शुध्द्यशुध्द्यौ ज्वरः कालं दीर्घमप्यनुवर्तते||" इति| तस्मात् "सप्तरात्रं च लङ्घनात्" इत्यवाच्यम्| अत्रोच्यते| अल्पदोषो यो ज्वरस्तस्यामविपर्यासात् सप्ताहादर्वागपि जीर्णतोच्यते| यस्तु बहुदोषो ज्वरस्तस्य तु कृतसप्तलङ्घनस्य जीर्णतोच्यते| इति लक्षणद्वयेन प्रत्यपादि| अत एव च तत्र पथ्यमनुजज्ञे| वक्ष्यति हि (हृ. चि. अ. १|३८)- "इत्ययं षडहो नेयो बलं दोषं च रक्षता| ततः पक्वेषु दोषेषु लङ्घनाद्यैः प्रशस्यते|| कषायो दोषशेषस्य" इत्यादि| तस्मादेतयोर्लक्षणयोर्द्वयोरप्युपादानं न्याय्यमिति स्थितम्| खरनादेनाप्येवमवादि-"न च निःसप्ततैवेह निरामज्वरकारणम्| चिरादपि हि पच्यन्ते सन्निपातज्वरे मलाः|| सप्तरात्रातिवृत्तिश्च क्षामतादि च लक्षणम्| तस्मात्तदुभयं दृष्ट्वा निरामं ज्वरमादिशेत्||" इति| जीर्णः पक्वः पुराण इति पर्यायाः|

Adhikarana uktAnAM jvarANAM pRuthak pa~jcavidhatvam (56-57) · Śloka 57

| ज्वरः पञ्चविधः प्रोक्तो मलकालबलाबलात्||५६|| प्रायशः सन्निपातेन भूयसा तूपदिश्यते| सन्ततः सततोऽन्येद्युस्तृतीयकचतुर्थकौ||५७||

🔊 Audio coming soon

स०-पञ्चप्रकारो ज्वरो वक्ष्यमाणः सन्ततादिभिर्भेदैः प्रोक्तो, 'मुनीन्द्रैः' इति शेषः| कुतः ? मलेत्यादि| मलो-वातादिः| कालः-पूर्वाह्णादिः| बलं च बलं च बलमित्येकशेषः, बलं चाबलं च बलाबलम्, काले बलाबलं कालबलाबलम्, सप्तमीति योगविभागात् समासः, मलानां कालबलाबलं मलकालबलाबलम्, तस्मात्| द्विबलशब्दोऽत्र निर्दिष्टो द्विविधसम्बन्धार्थः| कोऽसौ द्विविधः सम्बन्धः ? इति चेत् ब्रूमः| ज्वरः पञ्चविधः कथितो मलकालबलात् तथा मलकालबलाबलात्| तदयमत्रार्थः,-सन्ततो ज्वरो मलकालबलादुक्तः| तथा चानन्तरमेव सन्ततलक्षणं वक्ष्यति (श्लो. ५८-५९)- "मलाबलिनो गुरवः स्तब्धाः सन्ततं निष्प्रतिद्वन्द्वा ज्वरं कुर्युः|" इति| तस्माद्बलवन्त एव दोषाः सन्ततं ज्वरं कुर्वन्ति| विषमज्वराश्चत्वारो मलकालबलाबलाद्भवन्ति| तथा च विषमज्वरलक्षणेऽधुनैवाध्येष्यते (श्लो. ६४)- "अल्पोऽपि दोषो दूष्यादेर्लब्ध्वाऽन्यतमतो बलम्| सविपक्षो ज्वरं कुर्याद्विषमं क्षयवृद्धिभाक्||" इति| तस्माच्चतुष्प्रकारोऽपि विषमज्वरो मलकालबलाबलाद्भवति| खरनादेनाप्युक्तम्-"बलिभिः सर्वगैः सामै रसस्रोतोविसारिभिः| निष्प्रत्यनीकैर्दोषैर्यः सन्ततो जायते ज्वरः||" इत्यादि| तथा तत्रैव विषमज्वरे गदितम्-"व्याधिक्लिष्टस्य' इत्यारभ्य यावत् "बलाबलविशेषस्तु दोषाणां सम्प्रवर्तते|" इति| तथा तत्रैव चोक्तम्-"भुव्युत्क्रम्य यथाकालं बीजं काले प्रसूयते| तथा कालक्रमाद्दोषः काले ज्वरकारो भवेत्||" इति| प्रायश इत्यादि| बाहुल्येनायं सन्ततादिज्वरः सन्निपाताद्भवति| [ ननु, ] अत्र सन्निपातेनेत्यसाधु| न ह्यन्यः कश्चित्सन्ततादिव्यतिरिक्तो ज्वरोऽस्ति यमेकदोषजं द्विदोषजं वा परिकल्पयेदिति, तस्मादसदेतत्| उच्यते| समर्यादया दोषगत्या ये सन्ततादयो ज्वरा उत्पद्यन्ते, त एकदोषजादय उपपद्यन्ते| ये पुनर्विषमसम्प्राप्तिसमुत्पन्नाः सन्ततादयस्ते सन्निपातेन| इति प्रायशः सन्निपातेनेति न्याय्यमेतत्| ननु, एवं सति वातिकोऽयं पैत्तिकोऽयं श्लैष्मिकोऽयमयं द्वान्द्विक इति कथं व्यपदेशः ? इत्याह-भुयसेति| सन्निपातोद्भवेऽप्यस्मिन् सन्ततादौ भूयान्-अधिको दोषः, तद्दोषोपलक्षितां संज्ञामासादयतीत्यर्थः, वातज्वरोऽयं पित्तज्वरोऽयमित्यादि| तुरवधारणे, भूयसैव दोषेण व्यपदेशो नान्येनापि| ततश्चैवं सन्निपातोत्थः सन्ततादिज्वर इति स्थितम्| अत एव तन्त्रान्तर एवं जगाद-"सन्ततो मारुतात्प्रायः पित्तात् प्रायस्तृतीयकः| अन्येद्युश्च कफात्प्रायः सन्निपाताच्चतुर्थकः|| सन्निपातकृतत्वात्तु दुश्चिकित्स्यश्चतुर्थकः|" इति| तथा च-"पृष्ठेऽनिलकफोद्भूतः श्लेष्मपित्तोद्भवस्त्रिके| शिरस्यनिलसम्भूतो गृह्णातीह तृतीयकः|| चतुर्थकस्तु श्लेष्मोत्थः प्रतिगृह्णाति जङ्घयोः| वातिकः शिरसोऽभ्येति द्विधैवायं स्वभावतः|| प्रस्कन्धतस्तु विज्ञेयो विपरीतश्चतुर्थकः|" इति| अथ तदेव पञ्चविधत्वमाह-सन्ततः सततोऽन्येद्युस्तृतीयकचतुर्थकाविति| ननु, पञ्चविधो ज्वर इत्यनुपपन्नम्, षष्ठस्य चतुर्थकविपर्ययस्य च वक्ष्यमाणत्वात्| अत्र ब्रूमः| चतुर्थकान्तर्गतत्वाददोषः| प्लीहोदरे यकृदुदरवत्| तथा हि-अष्टावुदराणीति, प्लीहोदरे च यथा यकृदुदरस्यान्तर्भावादष्टधात्वम्, एवं ज्वरे चतुर्थक एव चतुर्थकविपर्ययस्यान्तर्भावात् पञ्चधात्वमेव ज्वरस्य साधु|

Adhikarana santatajvaralakShaNam (58-59) · Śloka 59

अथ महारम्भत्वेन प्राधान्यात् सन्ततसम्प्राप्तिमेव लक्षयति - - - - - - धातुमूत्रशकृद्वाहिस्रोतसां व्यापिनो मलाः| तापयन्तस्तनुं सर्वां तुल्यदूष्यादिवर्द्धिताः||५८|| बलिनो गुरवः स्तब्धा विशेषेण रसाश्रिताः| सन्ततं निष्प्रतिद्वन्द्वा ज्वरं कुर्युः सुदुःसहम्||५९||

🔊 Audio coming soon

स०-मला ज्वरं कुर्युः-उत्पादयेयुः| कीदृशाः ? धात्वादिस्रोतसां व्यापिनः| धातवश्च मूत्रं च शकृच्च तानि वहन्ति नित्यं यानि स्रोतांसि तेषां| मला इत्यनेनैतद्द्योतयति| यदैव वातादयो मलिनीकरणस्वभावाः स्युस्तदा सन्ततं ज्वरं कुर्युः, न तु दोषरूपा धातुरूपा वा| तथा, सर्वां-अशेषां, तनुं तापयन्तः-सन्तापादिना पीडयन्तः, न पुनः सन्तापमात्रमुत्पादयन्तः| तथा, तुल्यैः-समानैः, दूष्यादिभिर्वर्द्धिताः-वृद्धिं नीताः| आदिशब्देन देशर्तुप्रकृतयो गृह्यन्ते| दूष्याः-रसादिधातवः| ते च त्रयाणामपि दोषाणां यथायथं तुल्यत्वाद्वर्द्धनहेतवः| देशर्तुप्रकृतयस्तु तुल्यकालं मलैः सर्वैरतुल्या अपि भवन्ति| प्रायेणैकैकस्य मलस्य चैकैको देशो वा ऋतुर्वा प्रकृतिर्वा तुल्या भवति| अतः "तुल्यदूष्यादिवर्द्धिताः" इत्युक्तम्| तथा च, धन्वदेशो वातस्यैव वृद्धिहेतुः, तुल्यत्वात्; कफस्य त्वतुल्यत्वात्क्षपणहेतुः| आनुपस्तुल्यत्वात् कफस्य वृद्धिहेतुः, वातस्य त्वसमानत्वात्क्षपणहेतुः| ऋतावप्येवं चिन्त्यम्| प्रकृतिस्त्रयाणां दोषाणां तुल्यकालं वृद्धिहेतुर्न सम्भवति, विषमदोषजनितत्वात्| ये त्वेवमवोचन्,-समाख्या प्रकृतिस्तुल्यत्वादेषां मलानामत्र ज्वरे वर्द्धनहेतुरिति| तेऽपि मैवं वोचन्ते(वचन्त्वि)ति वचनीयाः| यतो रोगजननोन्मुखानां दोषाणां नासौ वृद्धिहेतुः, आरोग्यलक्षणत्वात्| किम्भूता दोषाः ? बलिनः, प्रतिपक्षैरखण्डितशक्तित्वात्| तथा गुरवः, सामत्वात्| स्तब्धाः-निश्चलाः, ऊर्ध्वमधश्चानिःसरणात्| विशेषेण रसाश्रिताः| विशेषग्रहणं मलानां सर्वधात्वाश्रितत्वं द्योतयति| सकलधातुसमाश्रिता अपि भवन्ति| अतिशयेन रसाख्यं धातुमाश्रित्यैते सन्ततं कुर्युः| तथा, निष्प्रतिद्वन्द्वाः-प्रत्यनीकरहिताः| कीदृशं ज्वरम् ? सुष्ठु दुःखेन-कृच्छ्रेण, सोढुं शक्यत इति सुदुःसहम्|

Adhikarana santatasyAvadhiH (60-63) · Śloka 63

मलं ज्वरोष्मा धातून्वा स शीघ्रं क्षपयेत्ततः| सर्वाकारं रसादीनां शुद्ध्याऽशुद्ध्याऽपि वा क्रमात्||६०|| वातपित्तकफैः सप्त दश द्वादश वासरान्| प्रायोऽनुयाति मर्यादां मोक्षाय च वधाय च||६१|| इत्यग्निवेशस्य मतं, हारीतस्य पुनः स्मृतिः| द्विगुणा सप्तमी यावन्नवम्येकादशी तथा||६२|| एषा त्रिदोषमर्यादा मोक्षाय च वधाय च| शुद्ध्यशुद्धौ ज्वरः कालं दीर्घमप्यनुवर्तते||६३||

🔊 Audio coming soon

स०-ज्वरस्योष्मा-अनलधर्मः सकलवस्तुक्षपणस्वभावः, स कदाचित्तथाभूताददृष्टवशादस्मिन् ज्वरे धातुमलयोरेकलोलीभूतयोर्मलं-वातविडादिकं, क्षपयेत्| तथाभूताददृष्टसामर्थ्याद्धातून्वा-रसादीन्, क्षपयेत्| शीघ्रं-आश्वेव, न तु चिरेण कालेन अत्र च मलक्षपणोद्यतोऽयं ज्वरोष्मा न धातुक्षपणोद्यत इति निरामलक्षणेन विज्ञायते| तत्र चैतन्निरामलक्षणम्-'असंरोधस्नोतस्त्वं सप्राणत्वमङ्गलाघवं वातानुलोमनत्वं वाग्देहमनश्चेष्टास्वनालस्यमग्निदीप्तत्वं विशदास्यत्वं मूत्रपुरीषादिमलप्रवर्तनत्वं क्षुदुपगमो निर्ग्लानिता' इत्येवं किञ्चिदुत्पद्यमानमुपलभ्य निश्चीयते ज्वरोष्मणो मलक्षपणोद्यतत्वम्| एतल्लक्षणविपर्ययेण दोषोपक्रमणीयोक्तेन (हृ. सू. अ. १३|२३) - "स्रोतोरोध" इत्यादिना सामलक्षणमवगम्य निश्चीयते, यथाऽयं ज्वरोष्मा धातुक्षपणोद्यत इति| स इत्यनुवर्तते| ततः-तस्मान्मलधातुक्षपणात् कारणात्, रसादीनां-धातुमूत्रशकृद्दोषाणां द्वादशानाम्प्येकलोलीभूतानां, सर्वाकारं-निःशेषं कृत्वा, शुद्ध्या-ज्वरोष्मणा निष्पादितया निर्मलतया, वातपित्तकफैर्भूयिष्ठैरेकैकश उत्पन्नः स सन्ततो ज्वरः प्रायो मोक्षाय-ज्वरमुक्तये, मर्यादां-अवधिं, सप्त दश द्वादश वासराननुयाति-अनुवर्तते| वासरानिति "अत्यन्तसंयोगे" द्वितीया| सर्व आकारो यस्मिन् शोधने तत्सर्वाकारं-निःशेषरूपम्| "क्रियाविशेषणानां नपुंसकत्वं द्वितीया च" इति द्वितीया| क्रमात्-यथाक्रमम्, तेन वातभूयिष्ठः सन्ततो ज्वरः सप्त वासरान्, पित्तभूयिष्ठो दशवासरान् , कफभूयिष्ठो द्वादशवासरान्, इत्यवतिष्ठते| तथा, रसादीनां-एकलोलीभूतानां केवलं ज्वरोष्मक्षपणमात्रमनुभवतां, अशुध्द्या-समलतया, एषामेष ज्वरोष्मा वातपित्तकफैरेकैकश उत्पन्नः प्रायो वधाय मर्यादां सप्त दश द्वादश वासराननुयाति| प्रायो-बाहुल्येन, एषा मर्यादा| कदाचिच्च वातज्वरादिरुक्तेभ्यः सप्तादि वासरेभ्योऽधिकानि दिनान्यनुवृत्त्य मोक्षाय वधाय वा भवति, कदाचित् न्यूनान्यपीति| तन्त्रान्तरे चोक्तम्-"पित्तकफानिलवृध्द्या दशदिवसद्वादशाहसप्ताहात्| हन्ति विमुञ्चति वाऽऽशु ज्वरोष्मणा धातुमलपाकात्||" इति| इत्यग्निवेशस्य मतं-ज्ञानम्| हारीतस्य पुनरेवं स्मृतिः-स्मरणम्, नित्यत्वादायुर्वेदस्य| द्विगुणा सप्तमी-चतुर्दशदिनानि यावद्वातज्वरः सन्ततः, पित्तज्वरो द्विगुणा नवमी-अष्टादशदिनानि, कफज्वरो द्विगुणैकादशी-द्वाविंशतिर्दिवसाः| "एषा त्रिदोषमर्यादा मोक्षाय च वधाय च|" इति "सर्वाकारं रसादीनां शुद्ध्याऽशुद्ध्याऽपि वा क्रमात्|" इत्यत्राप्यनुवर्तनीयम्| त्रयश्च ते दोषाश्च त्रिदोषाः, तेषां मर्यादा-अवधिः, त्रिदोषमर्यादा| द्वयमपि चैतत् तन्त्रकृद्वचः प्रमाणम्, तथादृष्टत्वात्| इदानीं यथापरिभाषितात् द्विविधादपि मर्यादाप्रकारादधिकतरं कालं यथाऽस्य ज्वरस्यानुवृत्तिर्भवति तथा दर्शयितुमाह-शुध्द्यशुद्धाविति| शुद्धिसहिता अशुद्धिः शुद्ध्यशुद्धिः| शाकपार्थिवादित्वात्समासः| तस्यां सत्यां ज्वरः सन्तताख्यो दीर्घमपि कालमनुवर्तते-अनुबध्नाति| कदाचिद्रसाख्यो धातुर्मलरहितो ज्वरोष्मणा क्षपितमलो भवति, कदाचिद्रक्ताद्यन्यतमः, कदाचिद्रक्तादयः सर्वे न रसः, कदाचिद्रक्तादयः सर्वे किञ्चिन्मलरहिता न रसस्तथाभूतः, कदाचित्किञ्चिन्मलरहितो रक्ताद्यन्यतमः, एवंप्रकारा शुद्धिसहिता अशुद्धिरुच्यते| तस्यां सत्यां सन्तताख्यो ज्वरो दीर्घकालमनुवर्तते|

Adhikarana satatAdicatuShTayasAmAnyalakShaNam (64-65) · Śloka 65

एवं सन्ततस्य लक्षणमाख्याय सततकादीनां विषमज्वरसंज्ञानिमित्तं सामान्येन लक्षणमाह - - - - कृशानां व्याधिमुक्तानां मिथ्याहारादिसेविनाम्| अल्पोऽपि दोषो दूष्यादेर्लब्ध्वाऽन्यतमतो बलम्||६४|| सविपक्षो ज्वरं कुर्याद्विषमं क्षयवृद्धिभाक्| |६५|

🔊 Audio coming soon

स०-ईदृशानां पुंसामल्पोऽपि-हीनबलोऽपि, अपिशब्दान्महाबलोऽपि, दोषो-वाताद्यन्यतमो, ज्वरं विषमसंज्ञं कुर्यात्| किं कृत्वा ? दूष्यादेरन्यतमतो बलं लब्धा| आदिशब्दो देशर्त्वोर्ग्रहणाय| अन्यतमग्रहणं चोपलक्षणार्थम्| तेन कदाचिद्दूष्यादेरेकस्माद्रसादेः कदाचिद्द्वाभ्यां रसरक्ताद्यन्यतमाभ्यां कदाचिद्दूष्यदेशाभ्यां कदाचिद्दूष्यदेशर्तुभ्यो बलं लब्ध्वेति योज्यम्| किम्भूतो दोषः ? सविपक्षः,-सह विपक्षेण-प्रत्यनीकेन दूष्याद्यन्यतमेन, वर्तते सविपक्षः| तथा च किम्भूतः ? क्षयश्च वृद्धिश्च, ते भजते-सेवते, क्षयवृद्धिभाक्| सन्ततो हि ज्वरो निष्प्रत्यनीक इति सन्ततादस्य भेदः| मिथ्याहारादिसेविनामित्यत्रादिशब्देन विहारौषधादिपरिग्रहः|

Adhikarana doShasya pravRuttinivRuttI (65-66) · Śloka 66

| दोषः प्रवर्तते तेषां स्वे काले ज्वरयन् बली||६५|| निवर्तते पुनश्चैष प्रत्यनीकबलाबलः| |६६|

🔊 Audio coming soon

स०-तेषां-कृशादीनां, दोषो-वाताद्यन्यतमः, स्वे काले-यो यस्यात्मीयः कालो वृद्धिहेतुर्वयोहोरात्रिभुक्तलक्षणस्तस्मिन् स्वे काले, दोषः प्रवर्तते,- स्वीयं कर्म दर्शयतीत्यर्थः| किं कुर्वन् ? ज्वरयन्-सन्तापमुत्पादयन्| कीदृशो दोषः ? बली-बलवान् सन् प्रवर्तते| पुनश्चैषः-विषमज्वरारम्भी दोषः सततकादेरुत्पादको, निवर्तते-स्वव्यापाराद्विरमति| किम्भूतः ? प्रत्यनीकस्य बलं प्रत्यनीकबलं, तेनाबलः| एतदुक्तं भवति,-यद्यसौ दोषो दूष्यादीनां सपक्षाणामन्यतमस्माद्बलं लभते तदाऽसौ स्वव्यापारे प्रवर्तते| यदा तु तस्य विपक्षा भवन्ति तदातेषां विपक्षाणामन्यतमस्य बलेनास्य दोषस्य बलं हीयते| तदानीं च प्रत्यनीकबलाबलत्वादसौ दोषो निवर्तते, वटादिबीजवत्| यथा,-वटादिबीजं जलादिसामग्रीतो बलमासाद्य विशिष्टे काले रोहति-अङ्कुरादिकमुद्भावयति ततो जलादिविरहाद्भूमावेवावतिष्ठते, न तु स्वकार्यमुद्भावयति, तथैवैषोऽपि विषमज्वरस्य कर्ता दोषः स्वपक्षतो दूष्यादेर्बलं लब्ध्वा स्वव्यापारं कुरुते| यदा तु विपक्षबलेनासौ प्रतिहतशक्तिस्तदा स्वव्यापारं न कुरुते, देह एव निलीय तिष्ठति|

Adhikarana viShamajvarasya santatanivRuttirnAsti (66-67) · Śloka 67

| क्षीणे दोषे ज्वरः सूक्ष्मो रसादिष्वेव लीयते||६६|| लीनत्वात्कार्श्यवैवर्ण्यजाड्यादीनादधाति सः| |६७|

🔊 Audio coming soon

स०-दोषे-विषमज्वरकारिणि, क्षीणे सति, सततकादिज्वरः सूक्ष्मो भूत्वा रसादिष्वेव धातुषु लीयते-लयं याति| कथं पुनरेतदवगम्यते ? यदसौ लीनो न पुनर्विनष्ट एव, इत्यत्र हेतुमाह-लीनत्वादित्यादि| स तु लीनो ज्वरो लीनत्वात् कार्श्यादीन् करोति| अत एवासौ न विनष्ट एवेत्युच्यते| यतः कार्श्याद्युद्गम उपलभ्यते| निरन्वयविनष्टाद्धि तद्धेतुकार्श्याद्यनुपलब्धिरेव| तस्माल्लीनो दोषो विषमज्वरेषु भवतीति स्थितम्|

Adhikarana santatAdInAM santatatvAdau yuktiH (67-69) · Śloka 69

ननु, तुल्येऽपि वातादिदोषप्रकोपे सन्ततज्वर एवाशुसकलकायव्याप्तिः, सततकादिषु तु चिरेण विच्छिद्य भवतीत्यत्र युक्तिः का ? इत्याह - - - - | आसन्नविवृतास्यत्वात्स्रोतसां रसवाहिनाम्||६७|| आशु सर्वस्य वपुषो व्याप्तिर्दोषेण जायते| सन्ततः सततस्तेन, विपरीतो विपर्ययात्||६८|| विषमो विषमारम्भक्रियाकालोऽनुषङ्गवान्| |६९|

🔊 Audio coming soon

स०-आसन्नं विवृतं चास्यं-मुखं, येषां रसवाहिनां स्रोतसां तान्येवम्| तेषां भाव आसन्नविवृतास्यत्वम्| तस्माद्धेतोस्तत्र प्रविष्टेन दोषेण शीघ्रं सर्वस्य वपुषः-शरीरस्य, व्याप्तिर्जायते| तेन-कारणेन दोषेणाशु सर्वशरीरव्याप्तिलक्षणेन, सन्तताख्यो ज्वरः सततो-निरन्तरो, भवति| विपरीतः प्रकृतत्वात्सन्ततेन विषमो-विषमसंज्ञः, सततादिज्वरो विपरीतो भवति-न निरन्तरं ज्वरयति| कस्माद्विपरीतः ? विपर्ययात्| एतदुक्तं भवति,-स्थूलान्यासन्नानि विवृतास्यानि च रसवाहीनि स्रोतांसि| दूरतराणि संवृतास्यानि सूक्ष्मतराणि च रक्तवाहीनि| तैर्दोषश्चिरेण तथा असाकल्येन कायं व्याप्नुवन् विच्छिन्नकालं ज्वरं करोति| अत एवाह (श्लो. ७०)- "अहोरात्रस्य स द्विः स्यात्" इत्यादि| ततो दूरतराणि संवृततरास्यानि च मांसवाहीनि स्रोतांसि| तानि चिरतरेण प्राप्नोति दोषः| न चैतैः स्रोतोभिः साकल्येन युगपद्देहमनुव्याप्नोति| अतोऽनेन कारणेनासावन्यस्मिन् दिने ज्वरं निर्वर्तयत्यन्येद्युःसंज्ञम्| तेनासौ सततादपि विप्रकृष्टो भवति| ततोऽपि सूक्ष्मतराणि संवृततरमुखानि च मेदोवहानि| तानि चिरतरेण दोषः प्राप्नोति| न च तैरशेषदेहं व्याप्नोति| अतोऽसावनेन कारणेन यथाक्रममन्यदिनमेकं हित्वा तृतीयेऽह्नि तृतीयको भवति| ततोऽप्यनेनैव विप्रकृष्टतमेन क्रमेण दिनद्वयं हित्वा चतुर्थको भवति| एवं चतुर्थकविपर्ययश्च| सङ्ग्रहेऽप्याख्यत् (नि. अ. २)- "सूक्ष्मसूक्ष्मतरास्येषु दूरदूरतरेषु च| दोषो रक्तादिमार्गेषु शनैरल्पश्चिरेण यत्|| याति देहं च नाशेषं भूयिष्ठं भेषजेऽपि च| क्रमोऽयं तेन विच्छिन्नसन्तापो लक्ष्यते ज्वरः||" इति| अधुना विषमज्वरस्य स्वरूपं प्रतिपादयन्नाह-विषम इति| विषमो-विषमसंज्ञो ज्वरो, विषमारम्भक्रियाकालो भवति| आरम्भश्च क्रिया च कालश्च आरम्भक्रियाकालाः| विषमा आरम्भक्रियाकाला यस्य स एवम्| तत्र विषम आरम्भो यथा,-कश्चित्पूर्वं मूर्धानमारभ्यागच्छति, कश्चित्पृष्ठम्, कश्चिज्जङ्घाभ्यामिति| विषमक्रियो यथा,-कश्चिच्छीतकृत्, कश्चिद्दाहकृदिति| विषमकालश्च यथा,- कश्चित्पूर्वाह्णे समागच्छति, कश्चिन्मध्याह्ने, कश्चिदपराह्णे, कश्चिन्निशीथे, इति| तथा, अनुषङ्गवान्-दीर्घकालानुबन्धी|

Adhikarana satatalakShaNam (69-70) · Śloka 70

| दोषो रक्ताश्रयः प्रायः करोति सततं ज्वरम्||६९|| अहोरात्रस्य स द्विः स्यात्| |७०|

🔊 Audio coming soon

स०-प्रायो-बाहुल्येन, रक्ताश्रयो दोषः सततं ज्वरं विदधाति| प्रायोग्रहणात् रसाद्याश्रयत्वमस्य सूचयति| तस्मात्सर्वो ज्वरः सर्वधातुव्यापी| भूयांस्तु धातुर्व्यपदिश्यते| अत एव सन्तते पपाठ (श्लो. ५९) - "विशेषेण रसाश्रिताः|" इति| तस्माद्विशेषेण रक्ताश्रयः सतत इत्यवेहि| सः-सततः, अहोरात्रस्य मध्ये द्विः स्यात्-द्वौ कालावनुवर्तते| अहर्युक्ता रात्रिरहोरात्रः| "अहःसर्वैकदेश" इत्यादिना अच् समासान्तः| "रात्राह्नाहाः पुंसि" इति पुंस्त्वम्| द्वौ वारौ द्विः| "द्वित्रिचतुर्भ्यः सुच्" इति सुच्| अत्र च नायं नियमः, यदह्न्येकवारं रात्रावेकवारमिति, किं तर्हि ? कदाचिदह्न्येव वारद्वयं, कदाचिद्रात्रावेव वारद्वयं, कदाचिद्द्वयोरपि वारद्वयमिति प्रतीहि|

Adhikarana anyedyurlakShaNam (70) · Śloka 70

सकृदन्येद्युराश्रितः| तस्मिन्मांसवहा नाडीः|७०|

🔊 Audio coming soon

स०-सकृदन्येद्युः 'अहोरात्रस्य इत्यनुवर्तते| अहोरात्रस्य मध्येऽयमन्येद्युर्नाम विषमज्वरः सकृत्-एकवारं भवेत्| कदाचिदह्न्येकवारमुत्पद्यते, कदाचिद्रात्राविति| तस्मिन्-अन्येद्युर्ज्वरे, सर्वधात्वाश्रयोऽपि दोषो विशेषेण मांसवहा नाडीराश्रितः|

Adhikarana tRutIyakalakShaNam (70-71) · Śloka 71

| मेदोनाडीस्तृतीयके||७०|| ग्राही पित्तानिलान्मूर्ध्नस्त्रिकस्य कफपित्ततः| सपृष्ठस्यानिलकफात्स चैकाहान्तरः स्मृतः||७१||

🔊 Audio coming soon

स०-तृतीयके मेदोवहा नाडीर्विशेषेण दोष आश्रित इति योज्यम्| मेदोवहा नाडीराश्रित्य दोषस्तृतीयकं कुरुत इत्यर्थः| स च त्रिविधः,-पित्तवातादधिकात् कफपित्तात् वातकफाच्च| तत्र ग्राही मूर्ध्नः-शिरसः, पित्तानिलात्तृतीयको भवति, मूर्ध्नि वेदनास्तास्ता जनयतीत्यर्थः| यश्च कफपित्तादुत्पद्यते स त्रिकस्य ग्राही-त्रिके पीडामुत्पादयति| यश्चानिलकफाज्जायते स पृष्ठसहितस्य त्रिकस्य ग्राही-पृष्ठे त्रिके च पीडां जनयति| एवमयं त्रिप्रकारस्वभावः| स च तृतीयक एकाहान्तर इति स्मृतो, 'मुनिभिः' इति शेषः| एकेनाह्नाऽन्तरं-व्यवधानं, यस्य स एवम्| एकस्मिन्नहनि तिरोभूय पुनरुदेतीत्यर्थः|

Adhikarana caturthakalakShaNam (72-73) · Śloka 73

चतुर्थको मले मेदोमज्जास्थ्यन्यतमस्थिते| मज्जस्थ एवेत्यपरे प्रभावं स तु दर्शयेत्||७२|| द्विधा कफेन जंघाभ्यां स पूर्वं शिरसोऽनिलात्| |७३|

🔊 Audio coming soon

स०-मेदश्च मज्जा चास्थि च मेदोमज्जास्थीनि, तेषामन्यतमस्मिन् स्थिते दोषे कदाचिन्मेदसि स्थिते दोषे कदाचिन्मज्जनि कदाचिदस्थनि स्थिते दोषे चतुर्थको ज्वरो जायते| एकं दिनं ज्वरयित्वा ह्यहं विमुच्य पुनर्ज्वरयति स चतुर्थको वेद्यः| मज्जस्थ एवेत्यपरे-अन्ये पुनराचार्या एवं स्मरन्ति, चतुर्थको ज्वरो मज्जस्थ एव दोषे जायते| स पुनश्चतुर्थकः प्रभावं द्विधा-द्विप्रकारं, दर्शयेत्| कफेनाधिकेन यो जायते स पूर्वं-प्रथमं, जङ्घाभ्यं ततोऽन्येभ्योऽङ्गेभ्यः| अनिलाद्यो भवति स पूर्वं शिरसो जायतेऽनन्तरमङ्गान्तरेभ्यः|

Adhikarana caturthakaviparyayalakShaNam (73-74) · Śloka 74

| अस्थिमज्जोभयगते चतुर्थकविपर्ययः||७३|| त्रिधा, ह्यहं ज्वरयति दिनमेकं तु मुञ्चति| |७४|

🔊 Audio coming soon

स०-अस्थि च मज्जा चास्थिमज्जानौ, अस्थिमज्जोरुभयं-द्वयं, तत्र गतो यो मलो वाताद्यन्यतमस्तस्मिन्, चतुर्थकविपर्ययः-तद्विपरीतलक्षणो विषमज्वरो, भवति| स च त्रिधा-त्रिप्रकारः, सन्निपातोद्भवत्वेऽपि कदाचिद्वातेनाधिकेनाऽथवा पित्तेन श्लेष्मणा वा| तमेव च लक्षयितुमाह-ह्यहमिति| द्विधातुस्थितदोषोत्पन्नत्वात् द्वे दिने ज्वरयित्वा दिनमेकं विमुच्य पुनर्ह्यहं ज्वरयति स चतुर्थकविपर्ययः| अनेनैव लक्षणेन चतुर्थकस्यापि लक्षणमुक्तं भवति| स एकमहो ज्वरयित्वा ह्यहं विमुच्य पुनर्ज्वरयति| द्वे अह्नी समाहृते द्व्यहः| "राजाहःसखिभ्यष्टच्" इति टच्| "अह्नष्टखोरेव" इति टिलोपः|

Adhikarana anuktajvaraBeda sa~ggrahaH (74-76) · Śloka 76

इदानीमेषां विषमज्वराणामिमं शेषभूतं ग्रन्थमाह - - - - | बलाबलेन दोषाणामन्नचेष्टादिजन्मना||७४|| ज्वरः स्यान्मनसस्तद्वत्कर्मणश्च तदा तदा| दोषदूष्यर्त्वहोरात्रप्रभृतीनां बलाज्ज्वरः||७५|| मनसो विषयाणां च कालं तं तं प्रपद्यते| |७६|

🔊 Audio coming soon

स०-बलं चाबलं च बलाबलं,-सामर्थ्यासामर्थ्यम्, आसन्नव्याधिकारणानां दोषाणां-वातादीनां, तदा तदा बलाबलेन ज्वरः स्यात्| किम्भूतेन ? अन्नचेष्टादिजन्मना| अद्यत इत्यन्नं,-रक्तशाल्यादि| अन्नग्रहणमुपलक्षणार्थम्, मांसरसाद्यपि हि पानं गृह्यते| चेष्ट्यत इति चेष्टा,-कायवाङ्मनोव्यापारो, विहार इत्यर्थः| अन्नं च चेष्टा चान्नचेष्टे, ते आदि येषां कालदूष्यादीनां त एवम्, तेभ्यो जन्म यस्य बलाबलस्य, तेनान्नचेष्टाद्युत्पन्नेन सततकादिर्ज्वरो भवेत्| मनसस्तद्वत्| तद्वदित्यनेन दोषाणां बलाबलमतिदिश्यते| यथा दोषाणां शारीराणां बलाबलेन सततकादिज्वरः स्यात्, तथा मनसोऽपि दोषाणां बलाबलेन ज्वरः स्यात्| चशब्दात् कर्मणोऽपि पूर्वोक्तस्य बलाबलेन सततकादिज्वरः स्यादिति| कस्य सम्बन्धिनः कर्मणः ? प्रकृतत्वान्मनस एव| तदेवं कर्मणो व्यापारस्य चित्तस्यार्थस्य बलाबलेन तद्वशाज्ज्वरोऽसौ भवेत्| अन्ये त्वाचक्षते,-कर्मणः-पुराकृतस्य बलाबलेन, पुराकृतकर्मवशादिति| यत्तदोनित्याभिसम्बन्धाद्यदत्रानुक्तमपि लभ्यते| तेनायं सम्बन्धः,-यदा यदाऽन्नचेष्टादिजन्म दोषाणां बलाबलं स्यात्, तथा मनसो दोषाणां बलाबलं स्यात्, तथा कर्मणः पूर्वकृतस्य बलाबलं स्यात्, तदा तदा सततकादिर्ज्वरः स्यादिति| अपिच दोषाणां वातादीनां बलेन, तथा दूष्याणां रसादीनां तथा ऋतूनां शिशिरादीनां तथाऽहोरात्रस्य तथा प्रकृतीनां बलेन, मनसो बलेन, तथा विषयाणां शब्दस्पर्शरूपरसगन्धानां बलेन, ज्वरस्तं तं-विशिष्टं, कालं प्रपद्यते| तेन कदाचित् सततकोऽन्येद्युस्तृतीयकश्चतुर्थको वा भवति| तथा कदाचित् चतुर्थको भूत्वा तृतीयकोऽन्येद्युः सततको वा भवेत्| सङ्ग्रहे च रसादिधातुस्थज्वरलक्षणमुक्तम्| यथा (नि. अ. २)- "उत्क्लेशो गौरवं दैन्यं भङ्गोऽङ्गानां विजृम्भणम्| अरोचको वमिः सादः सर्वस्मिन् रसगे ज्वरे|| १|| रक्तनिष्ठीवनं तृष्णा रक्तोष्णपिटिकोद्गमः| दाहरागभ्रममदप्रलापा रक्तसंस्थिते|| २|| तृड् ग्लानिः सृष्टवर्चस्त्वमन्तर्दाहो भ्रमस्तमः| दौर्गन्ध्यं गात्रविक्षेपो मांसस्थे, मेदसि स्थिते|| ३|| स्वेदोऽतितृष्णा वमनं स्वगन्धस्यासहिष्णुता| प्रलापो ग्लानिररुचिरस्थिस्थे त्वस्थिभेदनम्|| ४|| दोषप्रवृत्तिरूर्ध्वाधः श्वासाङ्गाक्षेपकूजनम्| अन्तर्दाहो बहिः शैत्यं श्वासो हिध्मा च मज्जगे|| ५|| तमसो दर्शनं मर्मच्छेदनं स्तब्धमेढ्रता| शुक्रप्रवृत्तिर्मृत्युश्च जायते शुक्रसंश्रये|| ६|| उत्तरोत्तरदुःसाध्याः पञ्चात्रान्त्यौ तु वर्जयेत्| प्रलिम्पन्निव गात्राणि श्लेष्मणा गौरवेण च|| ७|| मन्दज्वरप्रलेपस्तु सशीतः स्यात्प्रलेपकः| नित्यं मन्दज्वरो रूक्षः शूनः कृच्छ्रेण सिध्यति|| ८|| स्तब्धाङ्गः श्लेष्मभूयिष्ठो भवेद्वातबलासकः| हरिद्राभेकवर्णाभस्तद्वर्णं यः प्रमेहति|| ९|| स वै हारिद्रको नाम ज्वरभेदोऽन्तकः स्मृतः| कफवातौ समौ यस्य हीनपित्तस्य देहिनः|| १०|| तीक्ष्णो वा यदि वा मन्दो जायते रात्रिको ज्वरः| दिवाकरापीतबले व्यायामाच्च विशोषिते|| ११|| शरीरे नियतं वाताज्ज्वरः स्यात्पूर्वरात्रिकः| आमाशये यदा दुष्टे श्लेष्मपित्ते व्यवस्थिते|| १२|| तदाऽर्द्धं शीतलं देहे त्वर्द्धं चोष्णं प्रजायते| काये पित्तं यदा दुष्टं श्लेष्मा चान्ते व्यवस्थितः|| १३|| उष्णत्वं तेन देहस्य शीतत्वं करपादयोः|" इति| खारणादिना तु शुक्रस्थ एव दोषे वर्ज्यता प्रत्यपादि| तथा च तद्ग्रन्थः-"शुक्रस्थे शुक्रविण्मोक्षः श्वसन् प्राणान् विमोक्ष्यति|" इति|

Adhikarana jvaramokShalakShaNam (76-78) · Śloka 78

| धातून् प्रक्षोभयन् दोषो मोक्षकाले विलीयते||७६|| ततो नरः श्वसन् स्विद्यन् कूजन् वमति चेष्टते| वेपते प्रलपत्युष्णैः शीतैश्चाङ्गैर्हतप्रभः||७७|| विसंज्ञो ज्वरवेगार्तः सक्रोध इव वीक्षते| सदोषशब्दं च शकृद्द्रवं सृजति वेगवत्||७८||

🔊 Audio coming soon

स०-दोषो-वाताद्यन्यतमो, धातून्-रसादीन्, प्रक्षोभयन्-चण्डपवनोद्धूतमहाजलाशयानिव कुर्वन्, ज्वरमोक्षकाले विलीयते| विलीयमानदोषवशात् नरः श्वसन्, तथा स्विद्यन्-रोमकूपेभ्यो जलं स्रवन्, तथा कूजन्-अव्यक्तं शब्दं कुर्वन्, वमति-छर्दयति, तथा चेष्टते-भूमिशय्यादौ परिलुण्ठति, वेपते-कम्पते लतेव चलति, प्रलपति-असम्बद्धं ब्रूते, तथा हतप्रभो-नष्टकान्तिः, उष्णैः शीतैश्चाङ्गैस्तुल्यकालमुपलक्षितो भवति| चशब्दोऽत्र तुल्यकालार्थः| तुल्यकालं तस्य कानिचिदुष्णान्यङ्गानि कानिचिच्छीतानि| विगता संज्ञा यस्यासौ विसंज्ञः, तथा ज्वरवेगार्तः सक्रोध इव वीक्षते-सरोष इवालोकनं करोति, तथा शकृत्-पुरीषं, विमुञ्चति| किम्भूतं शकृत् ? दोषश्च शब्दश्च दोषशब्दौ, सह ताभ्यां वर्तते सदोषशब्दम्| दोषशब्देनेहामो विवक्षितः, सामं सस्वनं चेत्यर्थः| तथा, द्रवं-अकठिनम्| तथा वेगोऽस्यास्तीति वेगवत्, इति सवेगं कृत्वा शकृत्सृजति|

Adhikarana jvaramuktalakShaNam (2) · Śloka 2

इति ज्वरमोक्षकाललक्षणमुक्त्वा विगतज्वरलक्षणमभिधित्सुराह - - देहो लघुर्व्यपगतक्लममोहतापः पाको मुखे करणसौष्ठवमव्यथत्वम्| स्वेदः क्षवः प्रकृतियोगि मनोऽन्नलिप्सा कण्डूश्च मूर्ध्नि विगतज्वरलक्षणानि||७९|| इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां तृतीये निदानस्थाने ज्वरनिदानं नाम द्वितीयोऽध्यायः||२||

🔊 Audio coming soon

स०-तस्य विगतज्वरस्य नरस्यैतानि लक्षणानि| यथा-देहो लघुर्भवति-न तु गात्रे गौरवम्| तथा, व्यपगताः-नष्टाः, क्लममोहतापा यस्यासौ व्यपगतक्लममोहतापस्तदा स सम्पद्यते| तथा, अस्य मुखे-वदने, पाकः| करणानां-चक्षुरादीनां, सौष्ठवं-पाटवं, जायते| तथा, अव्यथत्वादयोऽस्य भवन्ति| प्रकृत्या योगः प्रकृतियोगः,-स्वभावेन सम्बन्धः| प्रकृतियोगो यस्यास्ति मनसस्तत् प्रकृतियोगि| यादृग्यस्य चित्तं पूर्वं रजोबहुलं तमोबहुलं वा आसीत् तादृक् तस्य सम्पद्यत इत्यर्थः| तथा, अन्नलिप्सा-अन्नाभिलाषः| सङ्ग्रहे च नक्षत्रसमाश्रयणेन च साध्यासाध्यज्वरलक्षणमुक्तम्| यथा (नि. अ. १)- "आधानजन्मनिधनप्रत्यराख्यविपत्करे| नक्षत्रे व्याधिरुत्पन्नः क्लेशाय मरणाय वा|| ज्वरास्तु जातः षड्रात्रादश्विनीषु निवर्तते| भरणीषु तु पञ्चाहात्सप्ताहात्कृत्तिकासु च|| त्रिसप्तरात्रादथवा रोहिण्यामष्टरात्रतः| एकादशाद्वा दिवसान्मृगे षण्णवरात्रयः|| पञ्चाहान्मृत्युरार्द्रायां त्रिपक्षे संशयोऽथवा| पुनर्वसौ प्रवृत्तस्तु ज्वरोऽपैति त्रयोदशात्|| दिवसात्सप्तविंशाद्वा ह्यहात्सप्ताहतोऽथवा|| पुष्ये श्लेषासु मरणं चिरेणाऽपि मघासु च|| अवश्यं स्वास्थ्यमाप्नोति द्वादशाहान्मृतो न चेत्| फल्गुन्योः पूर्वयोर्मृत्युरन्ययोस्तु दिनेऽष्टमे|| नवमेऽह्न्येकविंशे वा ज्वरः सौम्यत्वमृच्छति| हस्तेन सप्तमे शान्तिश्चित्रायामष्टमेऽथवा|| पुनश्चित्रागमे स्वातौ दशाहादथवा त्रिभिः| पक्षैर्मृत्युं विशाखासु द्वाविंशेऽहनि निर्दिशेत्|| नवमेऽह्नि न चेच्छान्तिर्मैत्रे मृत्युस्ततः परम्| ज्येष्ठायां पञ्चमे मृत्युरूर्ध्वं वा द्वादशात्सुखम्|| स्वास्थ्यं दशाहान्मूलेन त्रिसप्ताहेऽथवा गते| पूर्वाषाढासु नवमे ततोऽन्यासु तु मासतः|| अष्टाभिरथवा मासैर्नवभिर्वा भवेच्छिवम्| [ज्वरस्तु श्रवेणे याति शान्तिमेकादशाहतः|| ] आज्येष्ठाहाद्धनिष्ठासु दशाहाद्वारुणेषु तु| षडहे द्वादशाहे वा मृत्युर्भाद्रपदासु च|| उत्तरासु द्विसप्ताहात् प्रशमो, रेवतीषु च| चतूरात्रेऽष्टरात्रे वा क्षेममित्याह हारितः||" इति| ज्वर इत्युपलक्षणम्| प्रायः सर्वो व्याधिरनया दिशाऽनुसृतो बोध्यः क्षिप्रचिरमोक्षाय जीवितान्ताय वा| आधानं-जन्मर्क्षाद्दशमं नक्षत्रम्| विपत्करं-तृतीया तारा| प्रत्यरं-पञ्चमी| निधानसंज्ञा-सप्तमी तारा स्मृतेति| अथ, किं नक्षत्रसमाश्रयेणेन ज्वरस्य साध्यासाध्यविभागोऽङ्गीक्रियतामुत यथानिदानं कुपितदोषलक्षणेन ? ब्रूमः| उभयथाऽपि| यतो नक्षत्रं त्रिविधमपि प्राक्तनस्य कर्मणो दैवाख्यस्य शुभरूपस्याशुभरूपस्य शुभाशुभरूपस्य च सौम्यक्रूरमध्यस्वभावसूचकम्| तत्र सौम्येन नक्षत्रेण शुभं, क्रूरेणाशुभं, मध्यस्वभावेन च शुभाशुभम्| एतदुक्तं भवति,-पुरातनकर्मवशान्नक्षत्रेण ज्वर उत्पद्यते, ऐहिककर्मवशान्मिथ्याहारसेवनाख्याद्यथानिदानं वातादिकुपितलक्षणेन च| तदनयोर्बलाबलेन ज्वरस्य साध्यासाध्यविभागो व्यवस्थाप्यः| प्रत्यपादि च मुनिभिः| यथा (च.वि.अ.३)- "कदाचित्कर्मणो बलवत्त्वं कदाचित्पुरुषकारस्य" इत्युभयथा ज्वरस्य साध्यासाध्यविभागो न्याय्यः| इति श्रीमृगाङ्कदत्तपुत्रश्रीमदरुणदत्तविरचितायामष्टाङ्गहृदयटीकायां सर्वाङ्गसुन्दराख्यायां तृतीये निदानस्थाने ज्वरनिदानं नाम द्वितीयोऽध्यायः समाप्तः|| २||