Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

16. vātaśōṇitanidānādhyāyaḥ

Adhikarana adhyAyopakramaH · Śloka

🔊 Audio coming soon

वातशोणितनिदानं वातव्याधिनिदानात् पृथगारभ्यते, बहुवक्तव्यत्वात्| अन्यथा वातव्याधिविशेष एव वातशोणिताख्यो व्याधिरिति तत्रैव वक्तुं युक्तं स्यात्|

Adhikarana vAtaSoNitanidAnAdhyAyaH, vAtaSoNitasya nidAnam, vAtaSoNitasya saMprAptiH, vAtaSoNitasya nAmAni (2-4) · Śloka 4

तस्माद्वातशोणितनिदानं प्रक्रम्यत इत्याह - - - - अथातो वातशोणितनिदानं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः| (गद्यसूत्रे)||२|| विदाह्यन्नं विरुद्धं च तत्तच्चासृक्प्रदूषणम्| भजतां विधिहीनं च स्वप्नजागरमैथुनम्||१|| प्रायेण सुकुमाराणामचङ्क्रमणशीलिनाम्| अभिघातादशुद्धेश्च नृणामसृजि दूषिते||२|| वातलैः शीतलैर्वायुर्वृद्धः कृद्धो विमार्गगः| तादृशैवासृजा रुद्धः प्राक्तदेव प्रदूषयेत्||३|| आढ्यरोगं खुडं वातबलासं वातशोणितम्| तदाहुर्नामभिः|४|

🔊 Audio coming soon

स०-मद्याम्लतक्रदधिनिष्पावव्रीहिवारिचरमांसकुलत्थकुठेरादिकं-विदाह्यन्नं, तथा विरुद्धमन्नं-संयोगमात्रादिवशात् यथा "आनूपमामिषं माषक्षौद्रक्षीर" (हृ. सू. अ. ७|२९) इत्यादिकं प्रागुक्तम्, तत्तच्चासृक्प्रदूषणं-अन्यदप्याहारविहारजातं यत्तत्रतत्रोक्तम्, तद्भजतां-शीलयतां, नृणां-पुरुषाणां, तथा विधिहीनं-अयथाशास्त्रं, स्वप्नजागरमैथुनं भजतां प्रायेण सुकुमाराणाम्, प्रायोग्रहणम(णेना)न्येषामपि रक्तोपचयहेत्वाहारसेविनाम्, तथा अचङ्क्रमणशीलिनां-अत्यन्तमास्यादिसुखसेविनाम्, अभिघातात्-अनेकविधात्प्रहारविशेषात्, तथा अशुद्धेः-अशोधनान्मलानिर्हरणात्, तेषामसृजि दूषिते-तद्दूषणहेतुभिर्यथोक्तैर्दुष्टे सम्पन्ने, ततो वातलैः-तिक्तोषणादिभिः सर्वरोगनिदानोक्तैः, तथाऽतिशयेन शीतलैर्वायुर्वृद्धः-अत्यन्तमुपचयं प्राप्य, पश्चात्कुद्धः-कुपितः, अत एव च विमार्गगो-विशेषेणोन्मार्गगामी, तादृशैव-तथाभूतेनैव, असृजा दुष्टेन क्रुद्धेन रुद्धो-विहतगतिः कृतात्यन्तसंश्लेषः, तदेव-शोणितं, प्राक्-पूर्वं, प्रदूषयेत्| प्राग्ग्रहणादनन्तरं सर्वान् धातून् मांसादीन् प्रदूषयेत्| तच्च तथाविधं रक्तमत्युपचितं प्रदुष्टमाढ्यरोगं खुडं वातबलासं वातशोणितमिति नामभिराचार्या आहुः|

Adhikarana vAtashoNitasya pUrvarUpam (4-5) · Śloka 5

| तच्च पूर्वं पादौ प्रधावति||४|| विशेषाद्यानयानाद्यैः प्रलम्बौ| |५|

🔊 Audio coming soon

स०-तच्च रोगस्वभावात् पूर्वं पादौ प्रधावति-समुत्पद्यते| तौ च पादौ विशेषात्-अतिशयेन, यानयानाद्यैः प्रलम्बौ-उच्छूनौ सन्तौ, प्रधावति| यानेन-हस्त्यश्वादिना, यानं-गमनम्| आदिग्रहणादन्यैरपि पादप्रलम्बनोत्पादकैर्गजतुरगादिसदृशैः|

Adhikarana vAtashoNitasya sarvadehaprasaratvam (5-8) · Śloka 8

तस्य लक्षणम्| भविष्यतः कुष्ठसमं तथा सादः श्लथाङ्गता||५|| जानुजङ्घोरुकट्यंसहस्तपादाङ्गसन्धिषु| कण्डूस्फुरणनिस्तोदभेदगौरवसुप्तताः||६|| भूत्वा भूत्वा प्रणश्यन्ति मुहुराविर्भवन्ति च| पादयोर्मूलमास्थाय कदाचिद्धस्तयोरपि||७|| आखोरिव विषं क्रुद्धं कृत्स्नं देहं विधावति| |८|

🔊 Audio coming soon

स०-तस्य-वातशोणितस्य, भविष्यतो-भाविनो, लक्षणं-प्राग्रूपं, कुष्ठसमं-कुष्ठेन तुल्यम्, कुष्ठस्य यत् प्राग्रूपं-"अतिश्लक्ष्णखरस्पर्श (हृ, नि. अ. १४|११) इत्यादि कुष्ठनिदानोक्तं, तदस्यापि| न केवलमेतदेव यावत्तथा सादः श्लथाङ्गतेत्यादि च, यावन्मुहुराविर्भवन्ति चेत्येतदपि भविष्यतो लक्षणम्| स०-तच्च वातशोणितं पादयोर्मूलमास्थाय-तत्र पूर्वं स्थितिं कृत्वा, कदाचिद्धस्तयोरपि प्रतिष्ठां कृत्वा, आखोः-मूषकस्य सम्बन्धि, यथा विषं क्रुद्धं देहैकदेशे पूर्वं स्थितिं कृत्वाऽनन्तरं कृत्स्नं देहं विधावति-विशेषेण प्रसरति|

Adhikarana vAtashoNitasya dvaividhyam (8-9) · Śloka 9

तच्च वातशोणितमुत्तानगम्भीरभेदेन द्विधा स्यादित्याह - - - - | त्वङ्मांसाश्रयमुत्तानं तत्पूर्वं जायते ततः||८|| कालान्तरेण गम्भीरं सर्वान् धातूनभिद्रवत्| |९|

🔊 Audio coming soon

स०-त्वक् च मांसं च, ते आश्रयो यस्य वातरक्तस्य तदेवंभूतं तत्-वातशोणितं, उत्तानं पूर्वं-प्राक्, जायते| ततः-पश्चात्, कालान्तरेण पुनः सर्वान् धातून्-अपरानपि मेदःप्रभृतीन्, अभिद्रवद्गम्भीरं जायते|

Adhikarana uttAnasya lakShaNam (9-10) · Śloka 10

| कण्ड्वादिसंयुतोत्ताने त्वक्ताम्रा श्यावलोहिता||९|| सायामा भृशदाहोषा| |१०|

🔊 Audio coming soon

स०-उत्ताने वातशोणिते त्वक् कण्ड्वादिसंयुता-कण्डूस्फुरणनिस्तोदादियुक्ता (श्लो. ६) , तथा ताम्रा श्यावलोहिता-व्यामिश्रवर्णा, भवति| तथा सहायामेन वर्तत इति सायामा, तथा भृशदाहोषा-अत्यर्थं दाहरुग्युक्ता|

Adhikarana gambhIrasya lakShaNam (10-11) · Śloka 11

गम्भीरेऽधिकपूर्वरुक्| श्वयथुर्ग्रथितः पाकी वायुः सन्ध्यस्थिमज्जसु||१०|| छिन्दन्निव चरत्यन्तर्वक्रीकुर्वंश्च वेगवान्| करोति खञ्जं पङ्गुं वा शरीरे सर्वतश्चरन्||११||

🔊 Audio coming soon

स०-गम्भीरे वातशोणितेऽधिकपूर्वरुक् श्वयथुः स्यात्| अधिकं कृत्वा पूर्वा रुक् यस्य श्वयथोरसावधिकपूर्वरुक् श्वयथुः| कुतोऽधिकपूर्वरुक् ? प्रकृतत्वादुत्तानवातशोणितात्| तथा श्वयथुर्ग्रथितः, तथा पाकी-पाकयुक्तः, स्यात्| तथाऽस्मिन् गम्भीरे वायुर्वेगवान्-बलवान्, शरीरे सर्वतश्चरन्-गच्छन्, वक्रीकुर्वंश्च सामर्थ्यात्तदेव शरीरं खञ्जं पङ्गुं वा करोति| तथा असौ सन्ध्यस्थिमज्जसु छिन्दन्निवान्तश्चरति|

Adhikarana vAtAdhikasya lakShaNam (12-13) · Śloka 13

वातेऽधिकेऽधिकं तत्र शूलस्फुरणतोदनम्| शोफस्य रौक्ष्यकृष्णत्वश्यावतावृद्धिहानयः||१२|| धमन्यङ्गुलिसन्धीनां सङ्कोचोऽङ्गग्रहोऽतिरुक्| शीतद्वेषानुपशयौ स्तम्भवेपथुसुप्तयः||१३||

🔊 Audio coming soon

स०-तत्र-वातशोणिते, वाताधिकेऽधिकं शूलस्फुरणतोदनं भवति| शूलं-सन्तता रुक्| तोदनं तु-विच्छिन्ना रुक् प्रतोदेनेव| तथा, शोफस्य रौक्ष्यकृष्णत्वश्यावतावृद्धिहानयः स्युः, वातस्य चलस्वभावत्वात्| तथा, धमनीनां-सिराविशेषाणां, अङ्गुलिसन्धीनां च सङ्कोचः स्यात्| तथा, अङ्गग्रहः-अङ्गान्यवबद्धानीव स्युः| तथा, अतिरुक् शीतद्वेषानुपशयौ च भवतः| शीतद्वेषः-शीतासहिष्णुत्वम्| तथा, अनुपशयः-असुखानुबन्धः| केनानुपशयः ? प्रकृतत्वाच्छीतद्वेषेणोष्णकामितयोष्णसेवनेन भवति| तथा, स्तम्भवेपथुसुप्तयः स्युः| स्तम्भ इव स्तम्भो-देहस्तब्धता| वेपथुः-कम्पनम्| देहस्य सुप्तिः-अङ्गानामचैतन्यम्|

Adhikarana raktAdhikasya lakShaNam (14) · Śloka 14

वातोत्तरस्य लक्षणमुक्त्वा रक्तोत्तरं वक्तुमाह - - - - रक्ते शोफोऽतिरुकतोदस्ताम्रश्चिमिचिमायते| स्निग्धरूक्षैः शमं नैति कण्डूक्लेदसमन्वितः||१४||

🔊 Audio coming soon

स०-अधिक इत्यत्रानुवर्तते| रक्तेऽधिके शोफोऽतिरुक्तोद इति| वातेऽप्यधिके शोफः सरुग्भवति किन्तु रक्तेऽधिकेऽतिरुक्तोदः शोफः स्यादिति विशेषः| तथा, ताम्रो-वर्णेन, भवति| चिमिचिमामिवाचरति-चिमिचिमायते| तथा, स्निग्धरूक्षैरसौ शोफः शमं नैति-न याति, कण्डूक्लेदयुक्तः सन्|

Adhikarana pittAdhikasya lakShaNam (15) · Śloka 15

पित्ते विदाहः सम्मोहः स्वेदो मूर्च्छा मदः सतृट्| स्पर्शाक्षमत्वं रुग्रागः शोफः पाको भृशोष्मता||१५||

🔊 Audio coming soon

स०-पित्ते-पित्तानुविद्धे वातशोणिते, विदाहादयः स्युः|

Adhikarana kaphAdhikasya lakShaNam (16) · Śloka 16

कफे स्तैमित्युगुरुतासुप्तिस्निग्धत्वशीतताः| कण्डूर्मन्दा च रुक्|१६|

🔊 Audio coming soon

स०-कफानुविद्धे वातशोणिते स्तैमित्यादयः स्युः|

Adhikarana dvidoShAdhikasya lakShaNam, sannipAtajasya lakShaNam (16) · Śloka 16

| द्वन्द्वसर्वलिङ्गं च सङ्करे||१६||

🔊 Audio coming soon

स०-द्वन्द्वशब्देन च वातपित्तकफरक्तानां द्वन्द्वानीति प्रायेणेह गृह्यन्ते, सर्वशब्देन च वातपित्तरक्तकफा गृह्यन्ते| द्वन्द्वं च सर्वं च द्वन्द्वसर्वे, तयोर्लिङ्गं-लक्षणं, द्वन्द्वसर्वलिङ्गम्| सङ्करे-व्यामिश्रत्वे सति, द्वन्द्वसर्वलिङ्गं वातशोणितं भवति| कस्य सङ्करे ? प्रकृतत्वाद्वातपित्तरक्तकफानां द्वन्द्वसङ्करे द्वन्द्वलिङ्गं वातशोणितं भवति| सर्वसङ्करे-सर्वेषां वातादीनां सङ्करे, सर्वलिङ्गं वातशोणितं भवति|

Adhikarana vAtashoNitasya sAdhyAsAdhyatvam (17) · Śloka 17

एकदोषानुगं साध्यं नवं, याप्यं द्विदोषजम्| त्रिदोषजं त्यजेत्स्रावि स्तब्धमर्बुदकारि च||१७||

🔊 Audio coming soon

स०-एकदोषानुगं वातशोणितं नवं साध्यं-साधयितुं शक्यम्| द्विदोषोद्भवं याप्यं-यापनार्हम्| त्रिदोषजं वातशोणितं त्यजेत्-असाध्यत्वान्नोपक्रमेत्| तथा, स्रावि यद्वातरक्तमर्बुदकारि च, तच्चासाध्यम्|

Adhikarana vAtashoNitasya upadravAH (18) · Śloka 18

रक्तमार्गं निहत्याशु शाखासन्धिषु मारुतः| निविश्यान्योन्यमावार्य वेदनाभिर्हरत्यसून्||१८||

🔊 Audio coming soon

स०-शाखासन्धिषु मारुतो निविश्य-तत्र स्थितिं कृत्वा, तथा रक्तमार्गमाशु-शीघ्रं निहत्य, अनन्तरमन्योन्यमावार्य-प्रकृतत्वाद्रक्तं कर्तृ वातमावार्य वातोऽपि रक्तम्, ततो वेदनाभिः वातरक्तोचिताभिः पीडाभिः, असून्-प्राणान्, हरति |

Adhikarana kupitasya prANasya nidAnalakShaNe (19-20) · Śloka 20

वायौ पञ्चात्मके प्राणो रौक्ष्यव्यायामलङ्घनैः| अत्याहाराभिघाताध्ववेगोदीरणधारणैः||१९|| कुपितश्चक्षुरादीनामुपघातं प्रवर्तयेत्| पीनसार्दिततृट्कासश्वासादींश्चामयान्बहून्||२०||

🔊 Audio coming soon

स०-पञ्चात्मके-प्राणादिभेदात् पञ्चस्वभावे वाते सति, प्राणो नाम वातो रौक्ष्यादिभिः कुपितश्चक्षुरादीनामुपघातं प्रवर्तयेत्-विदधाति| तथा, पीनसदींश्च बहून् रोगान् कुर्यात्| आदिशब्देन हिध्मादयो गृह्यन्ते|

Adhikarana kupitasya udAnasya nidAnalakShaNe (21-22) · Śloka 22

उदानः क्षवथूद्गारच्छर्दिनिद्राविधारणैः| गुरुभारातिरुदितहास्याद्यैर्विकृतो गदान्||२१|| कण्ठरोधमनोभ्रंशच्छर्द्यरोचकपीनसान्| कुर्याच्च गलगण्डादींस्तांस्तान् जत्रूर्ध्वसंश्रयान्||२२||

🔊 Audio coming soon

स०-उदानः क्षवथुविधारणादिभिर्विकृतः-कुपितः, कण्ठरोधादीन् गदान् कुर्यात्| चशब्दोऽत्र भिन्नक्रमः| गलगण्डादींश्च गदान्, तांस्तान्-अनेकविधान्, जत्रूर्ध्वसंश्रयान् कुर्यात्|

Adhikarana kupitasya vyAnasya nidAnalakShaNe (23-25) · Śloka 25

व्यानोऽतिगमनध्यानक्रीडाविषमचेष्टितैः| विरोधिरूक्षभीहर्षविषादाद्यैश्च दूषितः||२३|| पुंस्त्वोत्साहबलभ्रंशशोफचित्तोप्लवज्वरान्| सर्वाङ्गरोगनिस्तोदरोमहर्षाङ्गसुप्तताः||२४|| कुष्ठं विसर्पमन्यांश्च कुर्यात्सर्वाङ्गगान् गदान्| |२५|

🔊 Audio coming soon

स०-व्यानोऽतिगमनादिभिर्विरोध्यादिभिश्च दूषितो-दुष्टिं प्राप्तः, पुंस्त्वोत्साहादिभ्रंशादीन् अपरानपि सर्वाङ्गगान् गदान् कुर्यात्|

Adhikarana kupitasya samAnasya nidAnalakShaNe (25-26) · Śloka 26

| समानो विषमाजीर्नशीतसङ्कीर्णभोजनैः||२५|| करोत्यकालशयनजागराद्यैश्च दूषितः| शूलगुल्मग्रहण्यादीन् पक्वामाशयजान् गदान्||२६||

🔊 Audio coming soon

स०-समानो विषमादिभोजनादिभिरकालशयनादिभिश्च दूषितः शूलादीन् पक्वामाशयजान् गदान् करोति|

Adhikarana kupitasya apAnasya nidAnalakShaNe (27-28) · Śloka 28

अपानो रूक्षगुर्वन्नवेगाघातातिवाहनैः| यानयानासनस्थानचङ्क्रमैश्चातिसेवितैः||२७|| कुपितः कुरुते रोगान् कृच्छ्रान् पक्वाशयाश्रयान्| मूत्रशुक्रप्रदोषार्शोगुदभ्रंशादिकान् बहून्||२८||

🔊 Audio coming soon

स०-अपानो रूक्षान्नादिभिरतिसेवितैर्वेगाघातादिभिश्चातिसेवितैः कुपितः कृच्छ्रान्-दारुणान्, पक्वाशयाश्रयान् मूत्रशुक्रप्रदोषादीन् बहून् गदान् कुर्यात्|

Adhikarana kupitasya sAmasyavAyoH nidAnalakShaNe, nirAmasya vAyoH nidAnalakShaNe (29-30) · Śloka 30

सर्वं च मारुतं सामं तन्द्रास्तैमित्यगौरवैः| स्निग्धत्वारोचकालस्यशैत्यशोफाग्निहानिभिः||२९|| कटुरूक्षाभिलाषेण तद्विधोपशयेन च| युक्तं विद्यान्निरामं तु तन्द्रादीनां विपर्ययात्||३०||

🔊 Audio coming soon

स०-सर्वमपि मारुतं तन्द्रादिभिर्लक्षणैर्युतं सामं विद्यात्| तन्द्रादिलक्षणविपर्ययेण तु निरामं जानीयात्|

Adhikarana vAyvAvaraNasya bahubhedatvam (31) · Śloka 31

वायोरावरणं चातो बहुभेदं प्रवक्ष्यते| |३१|

🔊 Audio coming soon

स०-अतः-सामादिलक्षणादनन्तरं, वातस्यावरणं बहुभेदं-अनेकप्रकारं, प्रकर्षेण वक्ष्यते| किल नास्याम एवावरणम्, अपि त्वन्यदप्यस्तीति द्योतयति|

Adhikarana pittAvRutasya vAyorlakShaNam (31-32) · Śloka 32

| लिङ्गं पित्तावृते दाहस्तृष्णा शूलं भ्रमस्तमः||३१|| कटुकोष्णाम्ललवणैर्विदाहः शीतकामता| |३२|

🔊 Audio coming soon

स०-पित्तेनावृते मरुति दाहादिकं लिङ्गम्|

Adhikarana kaphAvRutasya vAyorlakShaNam (32-33) · Śloka 33

| शैत्यगौरवशूलानि कट्वाद्युपशयोऽधिकम्||३२|| लङ्घनायासरूक्षोष्णकामता च कफावृते| |३३|

🔊 Audio coming soon

स०-कफावृते वायौ शैत्यादिकं लिङ्गं लङ्घनादिकामता च|

Adhikarana raktAvRutasya vAyorlakShaNam (33-34) · Śloka 34

| रक्तावृते सदाहाऽर्तिस्त्वङ्मांसान्तरजा भृशम्||३३|| भवेच्च रागी श्वयथुर्जायन्ते मण्डलानि च| |३४|

🔊 Audio coming soon

स०-रक्तावृते पवनेऽर्तिः-पीडा, भृशं त्वङ्मांसान्तरजा दाहयुक्ता स्यात्| रागवाश्च श्वयथुः स्यात्| तथा, मण्डलानि च जायन्ते|

Adhikarana mAMsAvRutasya vAyorlakShaNam (34-35) · Śloka 35

| मांसेन कठिनः शोफो विवर्णः पिटिकास्तथा||३४|| हर्षः पिपीलिकानां च सञ्चार इव जायते| |३५|

🔊 Audio coming soon

स०-मांसेनावृते वायौ कठिनो विवर्णश्च शोफस्तथा पिटिकाः स्युः, हर्षेश्च| तथा, पिपीलिकानां गात्रेषु सञ्चार इव जायते|

Adhikarana medasAvRutasya vAyorlakShaNam (35-36) · Śloka 36

| चलः स्निग्धो मृदुः शीतः शोफो गात्रेष्वरोचकः||३५|| आढ्यवात इति ज्ञेयः स कृच्छ्रो मेदसाऽऽवृते| |३६|

🔊 Audio coming soon

स०-मेदसा आवृते वायावङ्गेषु शोफश्चलस्तथा स्निग्धस्तथा शीतो मृदुश्च स्यात् तथाऽरोचकः| सः-एवंविधः, आढ्यवात इति वेद्यः| स च कृच्छ्रः-कृच्छ्रसाध्यः|

Adhikarana asthyAvRutasya vAyorlakShaNam (36-37) · Śloka 37

| स्पर्शमस्थ्यावृतेऽत्युष्णं पीडनं चाभिनन्दति||३६|| सूच्येव तुद्यतेऽत्यर्थमङ्गं सीदति शूल्यते| |३७|

🔊 Audio coming soon

स०-अस्थ्यावृते समीरणे स्पर्शमत्युष्णं पीडनं चाभिनन्दति-अभिलषति| तथा, अङ्गमतिशयेन सूच्येव तुद्यते| तथा, सीदति शूल्यते च|

Adhikarana majjAvRutasya vAyorlakShaNam (37-38) · Śloka 38

| मज्जावृते विनमनं जृम्भणं परिवेष्टनम्||३७|| शूलं च पीड्यमानेन पाणिभ्यां लभते सुखम्| |३८|

🔊 Audio coming soon

स०-मज्जावृते समीरे विनमनादिकं स्यात्| विनमनं-अङ्गानाम्| तथा, पाणिभ्यां पीड्यमानेन च-प्रकृतत्वादङ्गेन, सुखं लभते|

Adhikarana shukrAvRutasya vAyorlakShaNam (38) · Śloka 38

| शुक्रावृतेऽतिवेगो वा न वा निष्फलताऽपि वा||३८||

🔊 Audio coming soon

स०-शुक्रावृते प्रभञ्जनेऽतिवेगो वा-प्रकृतत्वाच्छुक्रस्य, न वा वेगो निष्फलता वा स्यात्|

Adhikarana annAvRutasya vAyorlakShaNam (39) · Śloka 39

भुक्ते कुक्षौ रुजा जीर्णे शाम्यत्यन्नावृतेऽनिले| |३९|

🔊 Audio coming soon

अन्नावृते वाते भुक्ते सति रुजा कुक्षौ भवति| जीर्णेऽन्ने सति रुजा शाम्यति|

Adhikarana mUtrAvRutasya vAyorlakShaNam (39) · Śloka 39

| मूत्राप्रवृत्तिराध्मानं बस्तेर्मूत्रावृते भवेत्||३९||

🔊 Audio coming soon

स०-मूत्रावृते वायौ मूत्रस्याप्रवृत्तिराध्मानं च बस्तेः स्यात्|

Adhikarana viDAvRutasya vAyorlakShaNam (40-41) · Śloka 41

विडावृते विबन्धोऽधः स्वस्थाने परिकृन्तति| व्रजत्याशु जरां स्नेहो भुक्ते चानह्यते नरः||४०|| शकृत्पीडितमन्नेन दुःखं शुष्कं चिरात्सृजेत्| |४१|

🔊 Audio coming soon

स०-विडावृते मातरिश्वनि स्वस्थाने-अपानाख्ये, अधोविबन्धो जातविबन्धत्वात् परिकृन्तति| स्नेहश्र्चाशु जरां याति| भुक्ते च सति नर आनह्यते-आध्माप्यते| शकृदन्नेन पीडितं चिरेण शुष्कं दुःखं कृच्छ्रेण सृजेत्|

Adhikarana sarvadhAtvAvRutasya vAyorlakShaNam (41-42) · Śloka 42

| सर्वधात्वावृते वायौ श्रोणिवङ्क्षणपृष्ठरुक्||४१|| विलोमो मारुतोऽस्वस्थं हृदयं पीड्यतेऽति च| |४२|

🔊 Audio coming soon

स०-सर्वधात्वावृतेऽनिले श्रोण्यादिरुक् स्यात्| तथा, पवनो विगुणो भवति| हृदयं च व्याकुलं [अति] पीड्यते च|

Adhikarana pittAvRutasya prANasya vAyorlakShaNam (42-43) · Śloka 43

| भ्रमो मूर्च्छा रुजा दाहः पित्तेन प्राण आवृते||४२|| विदग्धेऽन्ने च वमनम्| |४३|

🔊 Audio coming soon

स०-प्राणे पित्तेनावृते भ्रमाद्याः स्युः| अन्ने च विदाहावस्थां प्राप्ते सति वमनं स्यात्|

Adhikarana pittAvRutasyodAnasya vAyorlakShaNam (43) · Śloka 43

उदानेऽपि भ्रमादयः| दाहोऽन्तरूर्जाभ्रंशश्च|४३|

🔊 Audio coming soon

स०-उदाने च पित्तेनावृते सति भ्रमाद्याः-पूर्वोक्ताः, स्युः| तथा, अन्तर्दाह ऊर्जायाः-बलस्य च, विनाशः|

Adhikarana pittAvRutasya vyAnasya vAyorlakShaNam (43-44) · Śloka 44

| दाहो व्याने च सर्वगः||४३|| क्लमोऽङ्गचेष्टासङ्गश्च ससन्तापः सवेदनः| |४४|

🔊 Audio coming soon

स०-व्याने च पित्तेनावृते सर्वशः(गः)-अन्तर्बहिश्च दाहः, क्लमादयश्च स्युः|

Adhikarana pittAvRutasya samAnasya vAyorlakShaNam (44-45) · Śloka 45

| समान ऊष्मोपहतिरतिस्वेदोऽरतिः सतृट्||४४|| दाहश्च स्यात्| |४५|

🔊 Audio coming soon

स०-समाने पित्तेनावृते ऊष्मणः-अग्नेः, उपहतिः-उपघातः, अतिस्वेदादयश्च स्युः|

Adhikarana pittAvRutasyApAnasya vAyorlakShaNam (45) · Śloka 45

अपाने तु मले हारिद्रवर्नता| रजोतिवृत्तिस्तापश्च योनिमेहनपायुषु||४५||

🔊 Audio coming soon

स०-अपाने पुनः पित्तेनावृते सति मले-पुरीषादौ, हारिद्रवर्णता स्यात्| योन्यादिषु रुजः-पीडयाः, अतिवृत्तिस्तापश्च स्यात्|

Adhikarana kaphAvRutasya prANasya vAyorlakShaNam (46) · Śloka 46

श्लेष्मणा त्वावृते प्राणे सादस्तन्द्राऽरुचिर्वमिः| ष्ठीवनं क्षवथूद्गारनिःश्वासोच्छ्वाससङ्ग्रहः||४६||

🔊 Audio coming soon

स०-प्राणे च श्लेष्मावृते सादादयः स्युः|

Adhikarana kaphAvRutasyodAnasya vAyorlakShaNam (47) · Śloka 47

उदाने गुरुगात्रत्वमरुचिर्वाक्स्वरग्रहः| बलवर्णप्रणाशश्च|४७|

🔊 Audio coming soon

स०-उदाने च श्लेष्मावृते गुरुगात्रत्वादयः स्युः|

Adhikarana kaphAvRutasya vyAnasya vAyorlakShaNam (47-48) · Śloka 48

| व्याने पर्वास्थिवाग्ग्रहः||४७|| गुरुताऽङ्गेषु सर्वेषु स्खलितं च गतौ भृशम्| |४८|

🔊 Audio coming soon

स०-व्याने कफावृते पर्वास्थिवाग्ग्रहस्तथाऽङ्गेषु गौरवं गतौ च स्खलनं स्यात्|

Adhikarana kaphAvRutasya samAnasya vAyorlakShaNam (48) · Śloka 48

| समानेऽतिहिमाङ्गत्वमस्वेदो मन्दवह्निता||४८||

🔊 Audio coming soon

स०-समाने कफावृतेऽतिशीताङ्गत्वमस्वेदो मन्दाग्नित्वं च स्यात्|

Adhikarana kaphAvRutasyApAnasya vAyorlakShaNam (49) · Śloka 49

अपाने सकफं मूत्रशकृतः स्यात्प्रवर्तनम्| |४९|

🔊 Audio coming soon

स०-अपाने कफावृते मूत्रशकृतः प्रवर्तनं सकफं स्यात्|

Adhikarana iti dvAviMshatividhamAvaraNam (49) · Śloka 49

| इति द्वविंशतिविधं वायोरावरणं विदुः||४९||

🔊 Audio coming soon

स०-इति-अनेन प्रकारेण, वायोरावरणं द्वाविंशतिप्रकारं [विदुः-] जानन्ति, तन्त्रकृत इति शेषः|

Adhikarana prANAdInAmanyonyamAvaraNaM viMshatividham (50) · Śloka 50

प्राणादयस्तथाऽन्योन्यमावृण्वन्ति यथाक्रमम्| सर्वेऽपि विंशतिविधं विद्यादावरणं च तत्||५०||

🔊 Audio coming soon

स०-प्राणादयः-पञ्च वायवः, अन्योन्यं-परस्परं, आवृण्वन्ति यथाक्रमं-यथासङ्ख्यं, तथा-तेनोक्तेन प्रकारेण, यथा पित्तकफाभ्यं प्राणादय आवृतास्तथा प्राणादयोऽन्योन्यमावृण्वन्तीति तथाशब्दस्यार्थः| तत्र यथा,-प्राणेनोदानादयश्चत्वार आव्रियन्ते, तथैवोदानादिभिरपि प्राण आव्रियते| एवमुदानेन व्यानादयस्त्रय आव्रियन्ते, व्यानादिभिश्च त्रिभिरुदानः| तथा व्यानेन समानापानौ, तथा समानापानाभ्यां व्यानः| समानेनापानः, अपानेनाऽपि समान आव्रियते| इत्येकद्वित्रादिक्रमेणाप्येवमावरणं निरूप्यम्| एवं च सर्वेऽपि परस्परमावृण्वन्ति| तच्चावरणं विंशतिभेदं विद्यात्|

Adhikarana prANAvRutasyodAnasya lakShaNam, udAnAvRutasya lakShaNam (51-52) · Śloka 52

अथास्यावरणस्य लिङ्गमाह - - - - निःश्वासोच्छ्वाससंरोधः प्रतिश्यायः शिरोग्रहः| हृद्रोगो मुखशोषश्च प्राणेनोदान आवृते||५१|| उदानेनावृते प्राणे वर्णौजोबलसङ्क्षयः| |५२|

🔊 Audio coming soon

स०-प्राणेनोदान आवृते निःश्वासोच्छ्वाससंरोधादयः स्युः| उदानेन प्राण आवृते वर्णौजोबलसङ्क्षयः स्यात्| ननु च, पित्तादिभिः प्राणादीनामावरणं युक्तम्| परस्परं तु प्राणादीनां यदावरणं तदमूर्तत्वादनुपपन्नमिव मन्यामहे| ब्रूमः| द्वयोर्वातयोरन्योन्यमुपसर्पतोर्बलवता दुर्बलस्याभिघातेन गतिभङ्गात्स तेनावृतमार्ग इत्युच्यते| तस्माद्वातानामपि परस्परमावरणं युक्तमेव|

Adhikarana anayA dishA sheShAvaraNasya vibhAgaH (52-53) · Śloka 53

| दिशाऽनया च विभजेत्सर्वमावरणं भिषक्||५२|| स्थानान्यवेक्ष्य वातानां वृद्धिं हानिं च कर्मणात्| |५३|

🔊 Audio coming soon

स०-अनया दिशा-दिङ्मात्रप्रदर्शनेन, सर्वमावरणं विभजेद्भिषक्| इयं चात्र दिक्,-उदानेनावृतेऽपाने छर्दिश्वासकासादयः स्युस्तथाऽल्पोऽग्निरतिसारश्च| उदानेऽपानेनावृते बस्त्याध्मानोदावर्तगुल्माल्पाग्निपरिकर्तिकाः स्युः| अपाने व्यानेनावृते विण्मूत्ररेतसामतिप्रवृत्तिः| व्याने समानेनावृते मूर्च्छातन्द्राप्रलापाङ्गसादवह्नयोजोबलक्षयः| व्यान उदानेनावृते च श्यावास्यता स्तब्धताऽल्पाग्निता स्वेदश्चेष्टाहानिर्निमीलनमिति| एवमन्यदप्यावरणं भिषक् स्वमनीषया यथाशास्त्रसंस्कारवत्या विभजेत्| ग्रन्थकृता तु ग्रन्थगौरवभयान्नोक्तम्| कथं विभजेत् ? इत्यत्र युक्तिं दर्शयति-स्थानानीत्यादि| स्थानानि-पक्वाशयादीनि दोषभेदीयोक्तानि, वातानां-प्राणादीनां, अवेक्ष्य| तथा, वृद्धिं-आवरकवायुसम्बन्धिनां वैकृतकर्मणां, अवेक्ष्य-ज्ञात्वा| तथा, आवार्यमरुतां हानिमवेक्ष्य, सर्वमावरणं-अनुक्तमपि, विभजेत्| यथा-उत्साहोच्छ्वासचेष्टादीनि कर्माणि प्राणादिसम्बन्धीनि यदा हीनानि दृश्यन्ते उदानादीनां कर्माणि वाक्प्रवृत्त्यादीनि वृद्धानि तदैवं ज्ञातव्यम्, यथा-प्राण उदानादीनामेकेन द्वाभ्यां त्रिभिश्चतुर्भिर्वा आवृत इति| एवमुदानादिष्वपि प्राणादिभिरावरणं विभागीकार्यम्|

Adhikarana AvaraNasyAsa~gkhyeyatvam (53-54) · Śloka 54

| प्राणादीनां च पञ्चानां मिश्रमावरणं मिथः||५३|| पित्तादिभिर्द्वादशभिर्मिश्राणां मिश्रितैश्च तैः| |५४|

🔊 Audio coming soon

स०-प्राणादीनां पञ्चानां वायूनां परस्परमावार्यावरकत्वेन स्थितानां मिश्रं-द्वयेन त्रयेण चतुष्टयेन च, मिथः-परस्परं, आवरणमवेक्ष्य यात्यावृतिरसङ्ख्यतामिति सम्बन्धः| तथा, पित्तादिभिर्द्वादशभिः-धात्ववसानैः, मिश्राणां प्राणादीनां मिश्रं मिथ आवरणमवेक्ष्य यात्यावृतिरसङ्ख्यतामिति योज्यम्| अत्र चैषा उदाहरणदिग्द्रष्टव्या,-प्राणेन द्वादशविधेन पित्तादिभिर्मिश्रितत्वात् चतुर्णामुदानादीनामावरणं विभजेत्| तथा, चतुर्भिरुदानादिभिः पित्त्स्यावरणं प्रत्येकं द्वादशविधैर्द्वादशविधस्यैकस्य प्राणस्यावरणमिति| तैरित्यनेन प्राणादयः परामृश्यन्ते| तैः-पित्ताद्यावरणमिश्रितैः प्राणादिभिः, परस्परमावार्यावरकत्वेन स्थितैर्मिश्रमावरणमवेक्ष्य यात्यावृतिरससङ्ख्यतामिति योऽज्यम्| चः समुच्चये|

Adhikarana tadavahitatvena lakShayet (54-56) · Śloka 56

| मिश्रैः पित्तादिभिस्तद्वन्मिश्रणाभिरनेकधा||५४|| तारतम्यविकल्पाच्च यात्यावृतिरसङ्ख्यताम्| तां लक्षयेदवहितो यथास्वं लक्षणोदयात्||५५|| शनैःशनैश्चोपशयाद्गूढामपि महुर्मुहुः| |५६|

🔊 Audio coming soon

स०-तैस्तुल्यं तद्वत्| यथा प्राणादीनां पित्तादिभिर्द्वादशभिर्मिश्राणां मिश्रमावरणं मिथस्तथा मिश्रैश्च तैः-प्राणादिभिः, यथा मिश्रमावरणं मिथस्तथैव मिश्रैः-संयुक्तैरेतैः पित्तादिभिर्न केवलैः, प्राणादीनां मिश्रमावरणं मिथस्तथा मिश्रैः पित्तादिभिर्ये प्राणादयो मिश्रितास्तैस्तथाभूतैः प्राणादीनामावरणम्| एवमनेकधा मिश्रणाभिः-बहुभिः संयोजनैः, आवृतिरसङ्ख्यतां याति| तथा तारतम्यविकल्पाच्च प्राणदीनामावृतिरसङ्ख्यतां याति-सङ्ख्यामतिक्रम्य गच्छति| तां-आवृतिं, तेषां प्राणादीनां गूढां-दुर्लक्ष्यामपि, अवहितः-तज्ज्ञानाय तत्परः सन्, लक्षयेत्-जानीयात्| कथम् ? यथास्वं लक्षणोदयात्| तेषां प्राणादीनां यथायथं लक्षणोदयात्-आत्मीयाल्लिङ्गोद्भवात्, शनैःशनैः-न झटित्येव, तथा मुहुर्मुहुः-क्षणे क्षणे लक्षयेत्, न तु सकृदेव, प्राणादीनां यथास्वं लक्षणोदयाज्जानीयादिति| न केवलं केवला-द्यथास्वं लक्षणोदयात् प्राणादीनामावृतिं लक्षयेत्, यावदुपशयादप्येषां गूढामप्यावृतिमवगच्छेत्| तत्र प्राणादीनामेकैकेनान्योन्यावरणे विंशतिर्भेदाः| एवमेकेन द्वयोर्द्वाभ्यां चैकस्यावरणे निरूप्यमाणे त्वमी भेदाः-प्राणस्योदानव्यानाभ्यामन्योन्यावरणे द्वौ भेदौ| एवमुदानसमानाभ्यामुदानापानाभ्यां [व्यानसमानाभ्यां व्यानापानाभ्यां समानापानाभ्यां ] च सहान्योन्यावरणे पराणि पञ्च द्विकानि, इति प्राणस्य द्वादश भेदा भवन्ति| उदानस्य षट्| व्यानस्य द्वौ| एवं व्यानस्योदानादिभिस्त्रिभिरन्योन्यावरणे षट्| उदानस्य द्वौ| प्राणस्योदानादिभिश्चतुर्भिद्वौ चान्योन्यावरणाद्भेदौ भवतः| तथा, प्राणादीनां पित्तादिभिर्द्वादशभिरावृतत्वात् द्वादशप्रकाराणामन्योन्यानां मिश्रणात् चत्वारिशतानि विंशत्युत्तराणि भवन्ति| एवमन्यदप्यावरणं निरूप्यम्|

Adhikarana prANodAnayorjIvitabalatvam, tayoH pIDanAdAyurbalayorhAniH (56-57) · Śloka 57

| विशेषाज्जीवितं प्राण उदानो बलमुच्यते||५६|| स्यात्तयोः पीडनाद्धानिरायुषश्च बलस्य च| |५७|

🔊 Audio coming soon

स०-प्राणादयः सर्व एव वाता जीवितम्, विशेषेण तु प्राणाख्यो वायुर्जीवितमुच्यते| तथा, उदानाख्यो वायुर्विशेषेण बलमुच्यते| यतश्चैवमतस्तयोः-प्राणोदानयोः, पीडनात्-क्षोभणात्, यथास्वमायुषो बलस्य च हानिर्भवेत्| तस्माद्धेतोः प्राणोदानाख्यौ पवनावाहारादिना यत्नेन भिषजा रक्ष्यौ| तथा च वक्ष्यति (हृ. चि. अ. २२|६९) - "प्राणो रक्ष्यश्चतुर्भ्योऽपि तत्स्थितौ देहसंस्थितः|" इति|

Adhikarana AvRutavAtAnAM duHsAdhyAsAdhyatvam (57-58) · Śloka 58

| आवृता वायवोऽज्ञाता ज्ञाता वा वत्सरं स्थिताः||५७|| प्रयत्नेनापि दुःसाध्या भवेयुर्वाऽनुपक्रमाः| |५८|

🔊 Audio coming soon

स०-वातादीनामन्यमेनावृता इत्येवमज्ञाताः-सम्यगनिश्चिताः, वर्षोषिताः प्रयत्नेनापि दुःसाध्याः-कृच्छ्रसाध्या भवेयुः| ज्ञाता वा-पित्तादिना आवृता यथावत्सम्यङ्निश्चयं गताः, वत्सरं स्थिताः| वाशब्द एवार्थे, अनुपक्रमा एव भवेयुः| ततो वाता आवृतेः प्रयत्नेन रक्षणीयाः|

Adhikarana AvRutavAtAnAmupadravAH (16) · Śloka 16

| विद्रधिप्लीहहृद्रोगगुल्माग्निसदनादयः||५८|| भवन्त्युपद्रवास्तेषामावृतानामुपेक्षणात्| ५८ १/२| इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां तृतीये निदानस्थाने वातशोणितनिदानं नाम षोडशोऽध्यायः||१६||

🔊 Audio coming soon

स०-तेषां-वायूनां, आवृतानामुपेक्षणात्-अचिकित्सनात्, विद्रध्यादय उपद्रवा जायन्ते| तस्मात्तदुपक्रमे यतितव्यमिति| इति श्रीमृगाङ्कदत्तपुत्रश्रीमदरुणदत्तविरचितायामष्टाङ्गहृदयटीकायां सर्वाङ्गसुन्दराख्यायां तृतीये निदानस्थाने वातशोणितनिदानं नाम शोडशोऽध्यायः समाप्तः|| १६||