Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

15. vātavyādhinidānadhyāyaḥ

Adhikarana adhyAyopakramaH · Śloka

🔊 Audio coming soon

कुष्ठनिदानादनन्तरं वातव्याधिनिदानमारभ्यते, वातरोगाणां कुष्ठवद्बहुप्रकारत्वाद्विविधदुःखदायित्वाच्च| इत्यत आह -

Adhikarana vAtavyAdhinidAnAdhyAyaH, sarvArthAnarthakaraNe vAyuH kAraNam (2-1) · Śloka 1

अथातो वातव्याधिनिदानं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः| (गद्यसूत्रे)|२| सर्वार्थानर्थकरणे विश्वस्यास्यैककारणम्| अदुष्टदुष्टः पवनः, शरीरस्य विशेषतः||१||

🔊 Audio coming soon

स०-अर्थाश्चानर्थाश्चार्थानर्थाः-शुभाशुभाः| सर्वे च तेऽर्थानर्थाश्च सर्वार्थानर्थाः, तेषां करणं-निवृत्तिः, तस्मिन्| अस्य विश्वस्य-जगतः, एकं-प्रधानं, कारणं वातः| किम्भूतः ? अदुष्टदुष्टः, यथाक्रमम्,-अदुष्टः सर्वार्थकरणे-जगत्स्थितिलक्षणे, वायुः प्रधानं कारणम्| सर्वानर्थकरणे-जगद्विनाशलक्षणे, दुष्टः पवनः प्रधानो हेतुः| शरीरस्य पुनर्विशेषतः-अतिशयेन, अर्थानर्थकरणे प्रधानं कारणमिति शेषः| पञ्चधात्वं गतेन प्राणादितया शरीरजननाद्धारणाच्च| अतस्तददुष्टौ यतितव्यमिति सम्बन्धः|

Adhikarana vAyoH svarUpam (2-3) · Śloka 3

कथं वायुः कारणमित्यवगम्यते ? इत्याह - - - - स विश्वकर्मा विश्वात्मा विश्वरूपः प्रजापतिः| स्रष्टा धाता विभुर्विष्णुः संहर्ता मृत्युरन्तकः||२|| तददुष्टौ प्रयत्नेन यतितव्यमतः सदा| |३|

🔊 Audio coming soon

स०-यतोऽसौ वायुर्विश्वकर्मा, विश्वानि-शरीरजननवर्धनधारणभञ्जनशोषणादीन्यर्थानर्थकरणानि, कर्माणि यस्य स विश्वकर्मा| कस्माद्विश्वकर्मा ? इत्याह-विश्वात्मा, विश्वेषां-शुभाशुभानां, आत्मा-हेतुः| हेत्वर्थोऽत्रात्मशब्दः| ननु, विश्वात्मेति कथं ज्ञायते ? इत्याह-विश्वरूप इति| यतो विश्वरूपं-बाह्याध्यात्मिकाख्यं, यस्य स एवम्| तथा, प्रजापतिः-प्रजानां पालकः| तथा, स्रष्टा-प्रकृतत्वाद्विश्वस्य| तथा, धाता-विश्वस्य धारकः, तथा हि-बाह्यो लोको वायुमण्डलेन धार्यते, सत्यलोकोऽपि प्राणापानादिभिः| कस्माद्विश्वरूपः ? यस्माद्विभुः, अतस्तदर्थानर्थकरणे प्रभुरिवेत्यर्थः| कस्मात्प्रजापतिः ? यस्माद्विष्णुः,-व्यापी| "विष्ल्ऱ्-व्याप्तौ" इत्यस्यौणादिके नुप्रत्यये विष्णुशब्दः| संहर्ता-बाह्याध्यात्मिकसर्गसंहरणात्| मृत्युः-यमरूपः, तत्कार्यकरणात्| तथा, अन्तको-यमभट्टारक एव साक्षात्| यतश्चैवमतस्तददुष्टौ-तस्याप्रकोपे, सदा-सर्वकालं, यतितव्यम्|

Adhikarana vAyoH karmanAmAdikaM sUtrasthAne uktam (3-4) · Śloka 4

| तस्योक्तं दोषविज्ञाने कर्म प्राकृतवैकृतम्||३|| समासाद्व्यासतो दोषभेदीये नाम धाम च| प्रत्येकं पञ्चधा चारो व्यापारश्च|४|

🔊 Audio coming soon

स०-तस्य-पवनस्य, कर्मोक्तम्| क्व? दोषविज्ञाने,-दोषविज्ञानीयाध्याये (हृ. सू. अ. ११)| किम्भूतं कर्म ? प्राकृतवैकृतम्| प्राकृतौ भवं प्राकृतं-स्वाभाविकमुत्साहोच्छ्वासादिलक्षणम्| वैकृतं तु-"वृद्धस्तु कुरुतेऽनिलः| कार्श्यकार्ष्योष्ण" इत्यादिग्रन्थनिर्दिष्टम्| एतत्समासात्-सङ्क्षेपतो, वायोः कर्म| व्यासतो-विस्तरतः पुनः, दोषभेदीये नाम धाम चोक्तमित्यनुवर्तनीयम्| प्रत्येकं पञ्चधा| एकमेकं प्रति प्रत्येकं नाम धाम च| प्राणादिभेदेन नाम पञ्चधा| धाम-स्थानमपि, पञ्चधा मूर्धादिभेदेन| प्राणस्य मुर्धा स्थानम्, "प्राणोऽत्र मूर्धगः" (हृ. सू. अ. १२|४) इति वचनात्| तथा, "उरः स्थानमुदानस्य" इति| तथा, "व्यानो हृदि स्थितः" इति| तथा, "समानोऽग्निसमीपस्थः" इति| तथा, "अपानोऽपानगः" इति| तथा, चारोऽपि पञ्चधा| चरणं-चारो गतिः| तथा चोक्तम् (हृ. सू. अ. १२|४) -"प्राण उरःकण्ठचरः" "उदानो नासानाभिगलचरः" "व्यानः कृत्स्नदेहचरः" "समानः कोष्ठचरः" "अपानो बस्तिमेढ्रोरुगोचरः" इति| व्यापारोऽपि वायोः प्राणादिभेदेन पञ्चधा| तत्र प्राणास्य व्यापारो "बुद्धिहृदयेन्द्रियचित्तधृक्" इत्यादिः, उदानस्य व्यापारो "वाक्प्रवृत्तिः" इत्यादिः, व्यानस्य व्यापारो "गत्यपक्षेपणोत्क्षेपणादिकः", समानस्य व्यापारोऽन्नग्रहणादिकः, अपानस्य व्यापारः शुक्रार्तवादीनां निष्क्रमणरूपत्वम्, एवं विस्तरेण दोषभेदीये वातः प्राणादिभेदेन पञ्चधा नामादिभिरुक्तः|

Adhikarana iha tu vaikRutaM karma (4-1) · Śloka 1

| इह वैकृतम्||४|| तस्योच्यते विभागेन सनिदानं सलक्षणम्| |५| |असङ्ख्यमपि सङ्ख्याय यदशीत्या पुरेरितम्]||१||

🔊 Audio coming soon

स०-इह-अस्मिन्नध्याये, तस्य-वातस्य, वैकृतं कर्म विभागेन-पृथग्रूपतया, उच्यते| किम्भूतम् ? सनिदानं सलक्षणम्| सह निदानेन सनिदानम्| तथा, सह लक्षणेन सलक्षणम्|

Adhikarana vAyukope kAraNam (5-6) · Śloka 6

वायोश्चोभयथाऽपि कोपः सम्भवति| तमिदानीं दर्शयन्नाह - - - - | धातुक्षयकरैर्वायुः कुप्यत्यतिनिषेवितैः||५|| चरन् स्रोतःसु रिक्तेषु भृशं तान्येव पूरयन्| तेभ्योऽन्यदोषपूर्णेभ्यः प्राप्य वाऽऽवरणं बली||६||

🔊 Audio coming soon

स०-धातुक्षयकरैराहारविहारादिभिरतिनिषेवितैः-अतिमात्रसेवितैश्चिरकालसेवितैश्च, पवनः कुप्यति| किं कुर्वन् ? स्रोतःसु रिक्तेषु चरन्,-धातुक्षयकरातिसेवनात्, यतस्तदानीं स्रोतसां शून्यता भवति| तथाभूतेषु स्रोतःसु प्रभञ्जनस्तदन्तः प्रविशंस्तान्येव स्रोतांसि रिक्तानि भृशं पूरयन्नेवं धातुक्षयात् कुप्यति मरुत्| तथा तेभ्यः स्रोतोभ्योऽन्यदोषपूर्णेभ्य आवरणं प्राप्य बली वायुरेवं वा कुप्यति|

Adhikarana pakvAshaye kruddhasya lakShaNam (7-8) · Śloka 8

तत्र पक्वाशये क्रुद्धः शूलानाहान्त्रकूजनम्| मलरोधाश्मवर्ध्मार्शस्त्रिकपृष्ठकटीग्रहम्||७|| करोत्यधरकाये च तांस्तान् कृच्छ्रानुपद्रवान्| |८|

🔊 Audio coming soon

स०-एवमुभयथा वायुः पक्वाशये क्रुद्धः शूलानाहावन्त्रकूजनादींश्च करोति| तथा, अधरकाये च-शरीरस्याधस्तात्, तांस्तान्-नानाविधान्, उपद्रवान्-व्याधीन्, कृच्छ्रान्-कृच्छ्रसाध्यान्, करोति| कायस्याधर इति पूर्वापरेत्यादिना समासः|

Adhikarana AmAshaye kruddhasya lakShaNam (8-9) · Śloka 9

| आमाशये तृड्वमथुश्वासकासविसूचिकाः||८|| कण्ठोपरोधमुद्गारान् व्याधीनूर्ध्वं च नाभितः| |९|

🔊 Audio coming soon

स०-आमाशये क्रुद्धस्तृडादींस्तथाऽन्यानप्यनुक्तान् व्याधीन्नाभेरूर्ध्वं-ऊर्ध्वकाये, करोति|

Adhikarana shrotrAdiShu kruddhasya lakShaNam (9) · Śloka 9

| श्रोत्रादिष्विन्द्रियवधं|९|

🔊 Audio coming soon

स०-श्रोत्रादिषु-इन्द्रियाधारेषु, क्रुद्धः इन्द्रियाणां वधं-विनाशं, करोति|

Adhikarana tvaci kruddhasya lakShaNam (9) · Śloka 9

| त्वचि स्फुटनरूक्षते||९||

🔊 Audio coming soon

स०-त्वचि क्रुद्धस्तस्यास्त्वचः स्फुटनं रूक्षतां च करोति|

Adhikarana rakte kruddhasya lakShaNam (10) · Śloka 10

रक्ते तीव्रा रुजः स्वापं तापं रागं विवर्णताम्| अरूंष्यन्नस्य विष्टम्भरुचिं कृशतां भ्रमम्||१०||

🔊 Audio coming soon

स०-रक्ते क्रुद्धस्तीव्र रुजस्तथा स्वापादीन् करोति|

Adhikarana mAMsamedasoH kruddhasya lakShaNam (11) · Śloka 11

मांसमेदोगतो ग्रन्थींस्तोदाढ्यान् कर्कशान् श्रमम्| गुर्वङ्गं चातिरुक्स्तब्धं मुष्टिदण्डहतोपमम्||११||

🔊 Audio coming soon

स०-मांसमेदोगतस्तत्रस्थः क्रुद्धो ग्रन्थींस्तोदादियुतांस्तथा श्रमादींश्च करोति| सुश्रुते चात्र विशेष उक्तः| तथा च तद्ग्रन्थः- (सु. नि. अ. १|२६) - कर्कशांस्तोदबहुलान् ग्रन्थीन् मांससमाश्रितः| वायुर्मेदोयुतः कुर्याद्ग्रन्थीन् मन्दरुजोऽव्रणान्||" इति|

Adhikarana asthni kruddhasya lakShaNam (12) · Śloka 12

अस्थिस्थः सक्थिसन्ध्यास्थिशूलं तीव्रं बलक्षयम्| |१२|

🔊 Audio coming soon

स०-अस्थिस्थः क्रुद्धः सक्थिसन्ध्यस्थिशूलं तीव्रं-दारुणं, बलक्षयं च करोति|

Adhikarana majjAyAM kruddhasya lakShaNam (12) · Śloka 12

| मज्जस्थोऽस्थिषु सौषिर्यमस्वप्नं सन्ततां रुजम्||१२||

🔊 Audio coming soon

स०-मज्जस्थः क्रुद्धोऽस्थिसौषिर्यादीन् करोति|

Adhikarana shukre kruddhasya lakShaNam (13) · Śloka 13

शुक्रस्य शीघ्रमुत्सर्गं सङ्गं विकृतिमेव वा| तद्वद्गर्भस्य शुक्रस्थः|१३|

🔊 Audio coming soon

स०-शुक्रस्थः क्रुद्धः शुक्रस्य शीघ्रमुत्सर्गं सङ्गादीन्वा करोति| तद्वत्-तथैव, गर्भस्यापि तथाभूतबीजोत्पन्नत्वात् शीघ्रोत्सर्गादीन् करोति|

Adhikarana sirAsu kruddhasya lakShaNam (13-14) · Śloka 14

| सिरास्वाध्मानरिक्तते||१३|| तत्स्थः| |१४|

🔊 Audio coming soon

स०-तत्स्थः-सिरास्थितः, क्रुद्धस्तास्वेव सिरास्वाध्मानरिक्तते करोति|

Adhikarana snAvni kruddhasya lakShaNam (14) · Śloka 14

स्नावस्थितः कुर्याद्गृध्रस्यायामकुब्जताः| |१४|

🔊 Audio coming soon

स०-स्नावस्थितः क्रुद्धो गृध्रस्यादीन् करोति|

Adhikarana sandhiShu kruddhasya lakShaNam (14-15) · Śloka 15

| वातपूर्णदृतिस्पर्शं शोफं सन्धिगतोऽनिलः||१४|| प्रसारणाकुञ्चनयोः प्रवृत्तिं च सवेदनाम्| |१५|

🔊 Audio coming soon

स०-सन्धिगतोऽनिलः क्रुद्धः शोफं कुर्यात्| किम्भूतम् ? वातपूर्णदृतिस्पर्शं-तत्तुल्यम्| तथा, प्रसारण आकुञ्चने च सवेदनां प्रवृत्तिं करोति|

Adhikarana sarvA~gge kruddhasya lakShaNam (15-16) · Śloka 16

| सर्वाङ्गसंश्रयस्तोदभेदस्फुरणभञ्जनम्||१५|| स्तम्भनाक्षेपणस्वापसन्ध्याकुञ्चनकम्पनम्| |१६|

🔊 Audio coming soon

स०-सर्वाङ्गसंश्रयोऽनिलस्तत्रस्थः क्रुद्धस्तोदादीन् करोति|

Adhikarana AkShepakasya lakShaNam (16-17) · Śloka 17

| यदा तु धमनीः सर्वाः क्रुद्धोऽभ्येति मुहुर्मुहुः||१६|| तदाऽङ्गमाक्षिपत्येष व्याधिराक्षेपकः स्मृतः| |१७|

🔊 Audio coming soon

स०-यदा तु सर्वा धमनीर्वायुः क्रुद्धोऽभ्येति-आभिमुख्येनागच्छति, पुनःपुनस्तदाऽङ्गं-शरीरं, आक्षिपति-आक्रमति, एष वातव्याधिराक्षेपकः स्मृतः|

Adhikarana apatantrakasya lakShaNam (17-20) · Śloka 20

अथापतन्त्रकं लक्षयति - - - - | अधः प्रतिहतो वायुर्व्रजन्नूर्ध्वं हृदाश्रिताः||१७|| नाडीः प्रविश्य हृदयं शिरः शङ्खौ च पीडयन्| आक्षिपेत्परितो गात्रं धनुर्वच्चास्य नामयेत्||१८|| कृच्छ्रादुच्छ्वसिति स्तब्धस्रस्तमीलितदृक्ततः| कपोत इव कृजेच्च निःसंज्ञः सोऽपतन्त्रकः||१९|| स एव चापतानाख्यो मुक्ते तु मरुता हृदि| अश्र्नुवीत मुहुः स्वास्थ्यं मुहुरस्वास्थ्यमावृते||२०||

🔊 Audio coming soon

स०-अधः प्रतिहत ऊर्ध्वं व्रजन् मारुतो हृदाश्रिताः-हृदयस्थाः, नाडीरन्तः प्रविश्य हृदयं तथा शिरश्च शङ्खौ च पीड्यन्, आक्षिपेत्परितो गात्रं-समन्तात्कायमाक्षिपेत्,-संहरेत्| तथा, धनुर्वच्चास्य-अपतन्त्रकवतः, प्रकृतत्वाद्गात्रं नामयेत्| तथा स पुमान् कृच्छ्रादुच्छ्वसिति-कथञ्चिच्छ्वसिति| दृक्-चक्षुरिन्द्रियाधिष्ठानं दृक्शब्देनेह गृह्यते| स्तब्धा स्रस्ता मीलिता च दृग्यस्यासौ स्तब्धस्रस्तमीलितदृक्| ततः-अनन्तरं, कपोत इव कूजेत्-अव्यक्तं शब्दं विदध्यात्| तथा, निःसंज्ञो-विचेतनः सम्पद्यते| सः-एवंरूपो वातव्याधिः, अपतन्त्रकाख्यो भण्यते| स एव चापतानकसंज्ञो निगद्यते| मुक्ते त्वित्यादि| वायुनाऽनाक्रान्ते हृदये क्षणं स्वास्थ्यं प्राप्नुयात्| मुहुरस्वास्थ्यं-तेनावृते हृद्यस्वास्थ्यमश्नुवीत|

Adhikarana apatAnakasya lakShaNam, apatantrakasya dushcikitsyatvam (21) · Śloka 21

गर्भपातसमुत्पन्नः शोणितातिस्रवोत्थितः| अभिघातसमुत्थश्च दुश्चिकित्स्यतमो हि सः||२१||

🔊 Audio coming soon

स०-स चाकालगर्भपातात्समनन्तरं योषितां प्रायो जायते| कदाचिच्छोणितातिस्रवात् स्त्रीणां पुरुषाणां च, अभिघाताच्च स्यात्| सः-अपतन्त्रको, गर्भपातसमुत्पन्नो दुश्चिकित्स्यः स्यात्, शोणितातिस्रवोत्थितो दुश्चिकित्स्यतरः, अभिघातसमुत्थो दुश्चिकित्स्यतमः|

Adhikarana antarAyAmasya lakShaNam (22-24) · Śloka 24

मन्ये संस्तभ्य वातोऽन्तरायच्छन् धमनीर्यदा| व्याप्नोति सकलं देहं जत्रुरायम्यते तदा||२२|| अन्तर्धनुरिवाङ्गं च वेगैः स्तम्भं च नेत्रयोः| करोति जृम्भां दशनं दशनानां कफोद्वमम्||२३|| पार्श्वयोर्वेदनां वाक्यहनुपृष्ठशिरोग्रहम्| अन्तरायाम इत्येष|२४|

🔊 Audio coming soon

स०-मन्ये द्वे-ग्रीवापार्श्वाश्रिते नाड्यौ, वायुः संस्तभ्य, अन्तरायच्छन् धमनीर्यदा गृह्णन् सकलं देहं व्याप्नोति तदा जत्रुरायम्यते-वक्रीक्रियते| जत्रुशब्दस्य पुंस्त्वं लोकाश्रयत्वाल्लिङ्गस्येति| अन्तर्धनुरिवाङ्गं च,-तथाऽन्तः-मुखतो भागात्, अङ्गं-शरीरं च, धनुरिवायम्यत इति चार्थः| वेगैः-विच्छिद्य पुनरुद्भवैर्भज्यत इव तुद्यत इव इति च नानाव्यथारूपैः| तथा स्तम्भं च नेत्रयोः करोति| तथा जृम्भाम्| तथा, दशनानां-दन्तानां, दशनं-खादनम्| दशनमित्यत्र "दाम्नीशसयुयुज" इत्यादौ दंशेरनुनासिकलोपनिर्देशो ज्ञापनार्थः, कृतोऽन्यस्मिन्नपि प्रत्यये लोपो भवतीति तेन ल्युट्यपि भवति| दशनमिति वचनादत्र नलोपः| प्रायिकं चैतज्ज्ञापकमिति "हितं कीटैश्च दंशनम्" इत्यपि भवति| तथा कफस्योद्वमनम्| तथा, पार्श्वयोर्द्वयोर्वेदनां-शूलम्| तथा, वाक्यादीनां ग्रहं-स्तम्भम्| इत्येषः-वातव्याधिः, अन्तरायामसंज्ञोऽङ्गस्यान्तरायमनात्-वक्रीकरणात्, उच्यत इति शेषः|

Adhikarana bahirAyAmasya lakShaNam (24-26) · Śloka 26

| बाह्यायामश्च तद्विधः||२४|| देहस्य बहिरायामात् पृष्ठतो नीयते शिरः| उरश्चोत्क्षिप्यते तत्र कन्धरा चावमृद्यते||२५|| दन्तेष्वास्ये च वैवर्ण्यं प्रस्वेदः स्रस्तगात्रता| बाह्यायामं धनुष्कम्भं ब्रुवते वेगिनं च तम्||२६||

🔊 Audio coming soon

स०-बाह्यायामश्च तद्विधः-तादृशः| देहस्य बहिरायामात्-अङ्गस्य धनुर्वद्बहिर्वक्रीकरणात्, बहिरायाम उच्यत इति शेषः| तमेव प्रदर्शयितुमाह - पृष्ठत इत्यादि| शिरः (पृष्ठतः-) पृष्ठाभिमुखं नीयते| तथा, तत्र-बाह्यायामे, उरो-वक्षः, उत्क्षिप्यते-उन्नतिं नीयते| तथा, कन्धरा-ग्रीवा च, अवमृद्यते-क्षुद्यते| तथा, दन्तेषु वक्त्रे च वैवर्ण्यं-प्राकृताद्वर्णाद्वर्णान्तरापत्तिः| तथा, प्रकर्षेण स्वेदः| तथा, स्रस्तगात्रता-श्लथाङ्गता| तं-तथाभूतं वातव्याधिं, बाह्यायामं धनुष्कम्भं च ब्रुवते| तमेव केचिद्वेगिनमित्याचक्षते|

Adhikarana vraNAyAmasya lakShaNam (27-28) · Śloka 28

अधुना व्रणायाममाह - - - - व्रणं मर्माश्रितं प्राप्य समीरणसमीरणात्| व्यायच्छन्ति तनुं दोषाः सर्वामापादमस्तकम्||२७|| तृष्यतः पाण्डुगात्रस्य व्रणायामः स वर्जितः| |२८|

🔊 Audio coming soon

स०-दोषा व्रणं मर्माश्रितं प्राप्यानन्तरं समीरणस्य समीरणात्-प्रेरणात्, सर्वां तनुं-सकलं देहमापादमस्तकं, व्यायच्छन्ति-विशेषेणाक्रामन्ति| [ सः- ] एष व्रणायामः, तृष्यतस्तथा पाण्डुगात्रस्य नरस्य वर्जितः, असाध्यत्वात्|

Adhikarana AkShepakeShu gate vege svAsthyam (28) · Śloka 28

| गते वेगे भवेत्स्वास्थ्यं सर्वेष्वाक्षेपकेषु च||२८||

🔊 Audio coming soon

स०-सर्वेषु चाक्षेपकेषु- "यदा तु धमनीः सर्वा" (श्लो. १६) - इत्यादिग्रन्थनिर्दिष्टेषु व्रणायामपर्यन्तेषु, वेगे गते सति-वेगानां शान्तौ सत्यां, स्वास्थ्यं भवेत्-नान्यदा|

Adhikarana hanusraMsasya lakShaNam (29-30) · Śloka 30

जिह्वातिलेखनाच्छुष्कभक्षणादभिघाततः| कुपितो हनुमूलस्थः स्रंसयित्वाऽनिलो हनू||२९|| करोति विवृतास्यत्वमथवा संवृतास्यताम्| हनुस्रंसः स तेन स्यात्कृच्छ्राच्चर्वणभाषणाम्||३०||

🔊 Audio coming soon

स०-जिह्वातिलेखनादिभिः कुपितो हन्वोर्मूले स्थितो वायुर्हनू स्रंसयित्वा-स्थानाच्चालयित्वा, विवृतास्यत्वं-प्रसारितमुखत्वं, अथवा संवृतास्यत्वं करोति| सः-एवंभूतो, हनुस्रंस उच्यते| तेन च-हनुस्रंसेन, कृच्छ्रात्-कथमपि, चर्वणं भाषणं च स्यात्|

Adhikarana jihvAstambhasya lakShaNam (31) · Śloka 31

वाग्वाहिनीसिरासंस्थो जिह्वां स्तम्भयतेऽनिलः| जिह्वास्तम्भः स तेनान्नपानवाक्येष्वनीशता||३१||

🔊 Audio coming soon

स०-वाग्वाहिनीसिरासंस्थो वायुर्जिह्वां स्तम्भयते| सः-एवंविधो, जिह्वास्तम्भ उच्यते| तेन-जिह्वास्तम्भेन, अन्नपानवाक्येषु अनीशता-असमर्थता, भवति|

Adhikarana arditasya lakShaNam (32-37) · Śloka 37

शिरसा भारहरणादतिहास्यप्रभाषणात्| उत्त्रासवक्त्रक्षवथोः खरकार्मुककर्षणात्||३२|| विषमादुपधानाच्च कठिनानां च चर्वणात्| वायुर्विवृद्धस्तैस्तैश्च वातलैरूर्ध्वमास्थितः||३३|| वक्रीकरोति वक्त्रार्धमुक्तं हसितमीक्षितम्| ततोऽस्य कम्पते मूर्द्धा वाक्सङ्गः स्तब्धनेत्रता||३४|| दन्तचालः स्वरभ्रंशः श्रुतिहानिः क्षवग्रहः| गन्धाज्ञानं स्मृतेर्मोहस्त्रासः सुप्तस्य जायते||३५|| निष्ठीवः पार्श्वतो यायादेकस्याक्ष्णो निमीलनम्| जत्रोरूर्ध्वं रुजा तीव्रा शरीरार्धेऽधरेऽपि वा||३६|| तमाहुरर्दितं केचिदेकायाममथापरे| |३७|

🔊 Audio coming soon

स०-शिरोभारहरणादिभिर्वायुर्विवृद्धो-विशेषेण वृद्धिं गतः, तथा तैस्तैश्च वातलैः-सर्वरोगनिदानाद्युक्तैः, ऊर्ध्वमात्स्थितः-शरीरस्योपरिभागे आसमन्तात्स्थितो , वक्त्रार्धं वक्रीकरोति| तथा, उक्तंहसितमीक्षितं च वक्रीकरोति| तथा, उक्तं हसितमीक्षितं च वक्रीकरोति| ततः-अनन्तरं, अस्य-नरस्य,मूर्धा कम्पते| तथा, वाक्सङ्गो जायते| तथा, स्तब्धनेत्रतादयश्च| तथा, निष्ठीवो-निष्ठीवनं, पार्श्वेन गच्छेत्| एकस्य चाक्ष्णो निमीलनं स्यात्| जत्रोरूर्ध्वं तीव्रा रुजा-दारुणा पीडा, भवति| शरीरार्धेऽधरेऽपि वा-अधस्ताद्वा, तं-ईदृशं वातव्याधिं, केचिदर्दितमाहुः, अपरे तन्त्रकृत एकायामं वदन्ति|

Adhikarana sirAgrahasya lakShaNam (37-38) · Śloka 38

| रक्तमाश्रित्य पवनः कुर्यान्मूर्द्धधराः सिराः||३७|| रूक्षाः सवेदनाः कृष्णाः सोऽसाध्यः स्यात्सिराग्रहः| |३८|

🔊 Audio coming soon

स०-पवनो रक्तमाश्रित्य-श्रयित्वा, मूर्द्धाश्रिताः सिरा रूक्षादिगुणयुक्ताः कुर्यात्| स सिराग्रह उच्यते| स चासाध्यः|

Adhikarana pakShavadhasya lakShaNam (38-40) · Śloka 40

| गृहीत्वाऽर्धं तनोर्वायुः सिराः स्नायूर्विशोष्य च||३८|| पक्षमन्यतरं हन्ति सन्धिबन्धान् विमोक्षयन्| कृत्स्नोऽर्धकायस्तस्य स्यादकर्मण्यो विचेतनः||३९|| एकाङ्गरोगं तं केचिदन्ये पक्षवधं विदुः| |४०|

🔊 Audio coming soon

स०-वायुस्तनोः-शरीरस्य, अर्धं गृहीत्वा सिराः स्नायूश्च विशोष्य ततोऽन्यतरं-वामं दक्षिणं वा, पक्षं हन्ति| किं कुर्वन् ? सन्धीनां बन्धान् विमोक्षयन्-विघट्टयन्| तस्यैव च-व्याधिमतः, कृत्स्नः-सर्वोऽर्धकायः, अकर्मण्यः-क्रियायामशक्तो, विचेतनश्च स्यात्| तं-ईदृशं वातव्याधिं, केचिदेकाङ्गरोगं वदन्ति, अन्ये पक्षवधमित्याहुः| अर्धकाय इति "अर्धं नपुंसकम्" इति समासः|

Adhikarana sarvA~ggarogasya lakShaNam (40) · Śloka 40

| सर्वाङ्गरोगं तद्वच्च सर्वकायाश्रितेऽनिले||४०||

🔊 Audio coming soon

स०-सर्वकायाश्रिते वायौ तेन-पूर्वोक्तेनैकाङ्गरोगोक्तेन लक्षणेन, तुल्यं वर्तते तद्वत्, सर्वाङ्गरोगमित्याहुः|

Adhikarana pakShavadhasya kRucchrasAdhyAsAdhyatvam (41) · Śloka 41

शुद्धवातहतः पक्षः कृच्छ्रसाध्यतमो मतः| कृच्छ्रस्त्वन्येन संसृष्टो विवर्ज्यः क्षयहेतुकः||४१||

🔊 Audio coming soon

स०-शुद्धवातेन हतः पक्षः-एकाङ्गरोगः कृच्छ्रसाध्यतमो मतः-अतिशयेन कृच्छ्रसाध्यः| अन्येन संयुक्तो वातः कृच्छ्रः-कृच्छ्रसाध्यः| क्षयहेतुकः पक्षो विवर्ज्यो-नोपक्रम्यः, असाध्यत्वात्|

Adhikarana daNDakasya lakShaNam (42) · Śloka 42

आमबद्धायनः कुर्यात्संस्तभ्याङ्गं कफान्वितः| असाध्यं हतसर्वेहं दण्डवद्दण्डकं मरुत्||४२||

🔊 Audio coming soon

स०-आमेन बद्धानि-स्थगितानि, अयनानि-द्वाराणि प्रकृतत्वात् स्रोतसां, येन स आमबद्धायनः, कफान्वितो मारुतोङ्गं संस्तभ्य-स्तम्भयित्वा दण्डवत् दण्डकाख्यं वातव्याधिविशेषं कुर्यात्| तमसाध्यम्| तथा हताः सर्वा ईहाः-चेष्टाः, यस्मिंस्तमेवंभूतम्|

Adhikarana avabAhukasya lakShaNam (43) · Śloka 43

अंसमूलस्थितो वायुः सिराः सङ्कोच्य तत्रगाः| बाहुप्रस्पन्दितहरं जनयत्यवबाहुकम्||४३||

🔊 Audio coming soon

स०-वायुरंसमूले स्थितः, तत्रगाः-अंसमूलाश्रिताः, सिराः सङ्कोच्यावबाहुकाख्यं वातव्याधिं जनयति| किम्भूतम् ? बाहुप्रस्पन्दितं हरतीति बाहुप्रस्पन्दितहरम्, " हरतेरनुद्यमनेऽच्" इत्यच्|

Adhikarana vishvAcyAH lakShaNam (44) · Śloka 44

तलं प्रत्यङ्गुलीनां या कण्डरा बाहुपृष्ठतः| बाहुचेष्टापहरणी विश्वाची नाम सा स्मृता||४४||

🔊 Audio coming soon

स०-तलं-हस्ततलं, प्रति-लक्षणी (लक्ष्यी) कृत्य, या कण्डरा-सुमहान् स्नायुसङ्घातः, सा बाहुपृष्ठतो गता, तथा मारुतार्दिता-वातेन पीडीता सती, बाहुचेष्टां-भुजव्यापारं, अपहरति [ इति ] बाहुचेष्टापहरणी| बाहुलकादत्र कर्तरी ल्युट् स्त्रीत्वं च| एवंभूता विश्वाची संज्ञा स्मृता, मुनिभिरिति शेषः|

Adhikarana kha~jjasya lakShaNam, pa~ggoH lakShaNam (45) · Śloka 45

वायुः कट्यां स्थितः सक्थ्नः कण्डरामाक्षिपेद्यदा| तदा खञ्जो भवेज्जन्तुः पङ्गुः सक्थ्नोर्द्वयोरपि||४५||

🔊 Audio coming soon

स०-कट्यां स्थितो मारुतो यदा सक्थ्नः-ऊरोः सम्बन्धिनीं, कण्डरामाक्षिपेत्-आकर्षेत्, तदा प्राणी खञ्जो भवेत्| द्वयोरपि सक्थ्नोः सम्बन्धिनीं कण्डरां यदाऽऽक्षिपेत्तदा पङ्गुः स्यात्|

Adhikarana kalAyakha~jjasya lakShaNam (46) · Śloka 46

कम्पते गमनारम्भे खञ्जन्निव च याति यः| कलायखञ्जं तं विद्यान्मुक्तसन्धिप्रबन्धनम्||४६||

🔊 Audio coming soon

स०-तथा यो गमनारम्भे कम्पते-वेपते, खञ्जन्निव च याति| तं-एवंभूतं, कलायखञ्जाख्यं व्याधिं विद्यात्| किम्भूतम् ? मुक्तं सन्धिप्रबन्धनं यत्र, तं तथाविधम्|

Adhikarana UrUstambhasya lakShaNam (47-51) · Śloka 51

शीतोष्णद्रवसंशुष्कगुरुस्निग्धैर्निषेवितैः| जीर्णाजीर्णे तथाऽऽयाससङ्क्षोभस्वप्नजागरैः||४७|| सश्लेष्ममेदःपवनमाममत्यर्थसञ्चितम्| अभिभूयेतरं दोषमूरु चेत्प्रतिपद्यते||४८|| सक्थ्यस्थीनि प्रपूर्यान्तः श्लेष्मणा स्तिमितेन तत्| तदा स्कभ्नाति तेनोरू स्तब्धौ शीतावचेतनौ||४९|| परकीयाविव गुरू स्यातामतिभृशव्यथौ| ध्यानाङ्गमर्दस्तैमित्यतन्द्राच्छर्द्यरुचिज्वरैः||५०|| संयुतौ पादसदनकृच्छ्रोद्धरणसुप्तिभिः| तमूरुस्तम्भमित्याहुराढ्यवातमथापरे||५१||

🔊 Audio coming soon

स०-जीर्णेन सहितमजीर्णं जीर्णाजीर्णं-पक्वापक्वमाहारकदम्बकं, केनचिन्निमित्तेन जाठराग्निसंयोगादाहारराशेः कश्चिद्भागः पक्वः कश्चिदपक्व इति जीर्णाजीर्णम्, तस्मिन्सति| शीतोष्णादिभिस्तथाऽऽयाससङ्क्षोभादिभिर्निषेवितैः-चिरमभ्यस्तैः, आममत्यर्थं सञ्चितं-बहु सम्भृतं, ऊरु यदा प्रतिपद्यते-उभावाश्रित्यास्ते, तदा-तस्मिन्काये, तेन-यथोक्तेन हेतुना, तावूरु स्कभ्नाति-स्तम्भयति| किम्भूतमामम् ? सश्लेष्ममेदःपवनम्| सह श्लेष्मणा मेदसा पवनेन च वर्तत इति सश्लेष्ममेदःपवनम्, न तु केवलमेव| तथा, इतरं दोषं-वातश्लेष्मापेक्षया पित्ताख्यं, अभिभूय-आक्रम्य, न वातं कफं वा| तेन हि तयोरभिभवो न युक्तः, तत्सहवर्तमानत्वात्| तथा, तेन सहवर्तमानेनापि श्लेष्मणा च स्तिमितेन-स्त्यानेन, सक्थिसम्बन्धीन्यस्थीन्यन्तः प्रपूर्य-तानि निर्भराणि कृत्वा, तदा तत्-आमं, ऊरु स्कभ्नातीति योज्यम्| तेन हेतुना तदा-तस्मिन्काले, तावूरु स्तब्धौ-निश्चलौ, तथा स्पर्शतः शीतौ, तथाऽचेतनौ-सूच्यादिभिस्तुद्यमानावपि पीडां न वेदयेताम्, अत एव परकीयाविव गुरु स्याताम्| तथाऽतिभृशव्यथौ-अत्यन्तशूलान्वितौ| परकीयाविति "कुग्जनस्य परस्य च" इति ईयः कुगागमश्च| तथा ध्यानादिभिः संयुतौ| ध्यानं-चिन्ता दौर्मनस्यमित्यर्थः| तथा पादसदनादिभिः संयुतौ| एवंलक्षणो यो व्याधिविशेषस्तमूरुस्तम्भमाहुः, तन्त्रकृत इति शेषः| अपरे आचार्या आढ्यवातमिति तमाहुः| आमशब्दस्य नपुंसकत्वं लोकाश्रयत्वाल्लिङ्गस्येति बोध्यम्|

Adhikarana kroShTukashIrShasya lakShaNam (52) · Śloka 52

वातशोणितजः शोफो जानुमध्ये महारुजः| ज्ञेयः क्रोष्टुकशीर्षश्च स्थूलः क्रोष्टुकशीर्षवत्||५२||

🔊 Audio coming soon

स०-जानुमध्ये महारुजः शोफो वातशोणिताज्जातः क्रोष्टुकशीर्षाख्यो वातव्याधिभेदः| स च स्थूलः शृगालशिरःसदृशो भवति|

Adhikarana vAtakaNTakasya lakShaNam (53) · Śloka 53

रुक् पादे विषमन्यस्ते श्रमाद्वा जायते यदा| वातेन गुल्फमाश्रित्य तमाहुर्वातकण्टकम्||५३||

🔊 Audio coming soon

स०-पादे-चरणे विषमन्यस्ते सति, अथवा श्रमेण यदा गुल्फमाश्रित्य वातेन रुग्जायते, तं वातकण्टकाख्यं वातव्याधिमाहुः|

Adhikarana gRudhrasyAH lakShaNam (54) · Śloka 54

पार्ष्णिं प्रत्यङ्गुलीनां या कण्डरा मारुतार्दिता| सक्थ्युत्क्षेपं निगृह्णाति गृध्रसीं तां प्रचक्षते||५४||

🔊 Audio coming soon

स०-पार्ष्णिं प्रति-पार्ष्ण्यभिमुखं, या अङ्गुलीनां कण्डरा सा मारुतेन-वायुना, अर्दिता-व्यथिता, चरणोद्धरणावसरे यः सक्थ्युत्क्षेपः-ऊर्ध्वं प्रेरणं, तं निगृह्णाति-अवमृद्गाति सक्थ्नोर्निश्चलत्वमिवोत्पादयति| तां-कण्डरां, व्याधिविशेषसंज्ञां गृध्रसीं प्रचक्षते, तन्त्रकृत इति शेषः|

Adhikarana khalyAH lakShaNam (55) · Śloka 55

विश्वाची गृध्रसी चोक्ता खल्ली तीव्ररुजान्विते| |५५|

🔊 Audio coming soon

स०-विश्वाची चोक्ता "बाहुचेष्टापहरणी" (श्लो. ४४) इत्यादिना ग्रन्थेन, गृध्रसी चाधुनैवोक्ता| ते द्वे तीव्ररुजान्विते सत्यौ खल्ली भण्यते|

Adhikarana pAdaharShasya lakShaNam (55-56) · Śloka 56

| हृष्येते चरणौ यस्य भवेतां च प्रसुप्तवत्||५५|| पादहर्षः स विज्ञेयः कफमारुतकोपजः| |५६|

🔊 Audio coming soon

स०-यस्य पुंसश्चरणौ हृष्येते प्रसुप्ताविव च स्याताम्, सः-एवंभूतो वातव्याधिः, पादहर्षाख्यः| स च वातश्लेष्मकोपजो वेद्यः|

Adhikarana pAdadAhasya lakShaNam (15) · Śloka 15

पादयोः कुरुते दाहं पित्तासृक्सहितोऽनिलः||५६|| विशेषतश्चङ्क्रमिते पाददाहं तमादिशेत्| ५६ १/२| इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां तृतीये निदानस्थाने वातव्याधिनिदानं नाम पञ्चदशोऽध्यायः||१५||

🔊 Audio coming soon

स०-अनिलः पित्तरक्तसहितः पादयोर्दाहं कुरुते, विशेषेण तु चङ्क्रमिते सति| तं-एवंभूतं, पाददाहमादिशेत्-ब्रूयात्, भिषगिति शेषः| इति श्रीमृगाङ्कदत्तपुत्रश्रीमदरुणदत्तविरचितायामष्टाङ्गहृदयटीकायां सर्वाङ्गसुन्दराख्यायां तृतीये निदानस्थाने वातव्याधिनिदानं नाम पञ्चदशोऽध्यायः समाप्तः|| १५||