Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

6. dūtādivijñānīyōdhyāyaḥ

Adhikarana adhyAyopakramaH · Śloka

🔊 Audio coming soon

विकृतिविज्ञानीयाध्यायादनन्तरं दूतादिविज्ञानीयाध्यायारम्भेऽयं सम्बन्धः| उक्तमायुःप्रमाणं स्वस्थातुराणां रूपेन्द्रियस्वरच्छायादिविकृतिलक्षणैः प्रतिनियतविशिष्टव्याधिलक्षणैरपि| अयं पुनरध्यायो दूताद्याश्रयैः शुभाशुभनिमित्तैः शुभाशुभं सूचयितुमारभ्यते _

Adhikarana dUtAdivij~jAnIyo~adhyAyaH (2) · Śloka 2

अथातो दूतादिविज्ञानीयं शारीरं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः| गद्यसूत्रे||२||

🔊 Audio coming soon

दूतः-स्त्रीपुरुषादिर्य आतुरेण प्रेष्यते स कथ्यते| दूत आदिर्येषां ते दूतादयः| आदिग्रहणाद्वैद्यस्य गृहान्निर्गच्चतः पथि गच्चतो यावदातुरगृहे प्रवेशः, प्रविष्टस्यापि यानि शुभा शुभसूचकानि निमित्तानि दृश्यन्ते श्रूयन्ते च, तेषां परिग्रहः| दूतादीनां विज्ञानं दूतादिविज्ञानम्| यथैते दूतादयः शुभा एतेऽशुभा इति विशिष्टं-निश्चितं, ज्ञानं-अवबोधः, परिच्चेद इत्यर्थः| तस्मै हितो दूतादिविज्ञानीयः| शेषं पूर्ववद्व्याख्येयम्|

Adhikarana pAKaNDAdidUtAnAM SuBASuBasUcakatvam (1) · Śloka 1

पाखण्डाश्रमवर्णानां सवर्णाः कर्मसिद्धये| त एव विपरीताः स्युर्दूताः कर्मविपत्तये||१||

🔊 Audio coming soon

पाखण्डः-षण्णवतिभेदभिन्नो व्रात्यविशेषः| आश्रमाः-ब्रह्मचारिगृहस्थभिक्षुवैखानसभेदेन चत्वारः| वर्णाः-ब्राह्मणक्षत्रियविट्शूद्राश्चत्वारः| ते च प्रतिलोमानुलोमतो बहवः| तेषां पाखण्डादीनां ये सवर्णाः-समानवर्णास्तुल्यजातयो, दूतास्ते च कर्मसिद्धये-कर्मसिध्द्यर्थं भवन्ति, कर्मसिद्धिं सूचयन्तीत्यर्थः यथा-पाखण्डस्य पाखाण्डो दूतः, ब्रह्मचारिणो ब्रह्मचारी, गृहस्थस्य गृहस्थो, वानप्रस्थस्य वानप्रस्थो, भिक्षोर्भिक्षुः यावच्चूद्रस्य शूद्रः शुभ इति| त एव-पाखण्डादयो, विपरीताः-विजातीयाः सवर्णा ये न भवन्ति ते, कर्मविपत्तये-चिकित्सानैष्फल्यायभवन्ति, चिकित्सानैष्फल्यं सूचयन्तीत्यर्थः|

Adhikarana dInAdidUtA niShiddhAH (2-5) · Śloka 5

दीनं भीतं द्रुतं त्रस्तं रूक्षामङ्गलवादिनम्| शस्त्रिणं दण्डिनं षण्ढं मुण्डश्मश्रुजटाधरम्||२|| अमङ्गलाह्वयं क्रूरकर्माणं मलिनं स्त्रियम्| अनेकं व्याधितं व्यङ्गं रक्तमाल्यानुलेपनम्||३|| तैलपङ्काङ्कितं जीर्णविवर्णार्द्रैकवाससम्| खरोष्ट्रमहिषारूढं काष्ठलोष्टादिमर्दिनम्||४|| नानुगच्चेद्भिषग्दूतमाह्वयन्तं च दूरतः| |५|

🔊 Audio coming soon

सवर्णमपि दूतं दीनभीतादिविशेषणविशिष्टं यावत्काष्ठलोष्टादिमर्दिनं भिषग् दृष्ट्वा नानुगच्चेच्चिकित्सानैष्फल्यादिति| रूक्षवादिनं-परुषभाषिणम्| अमङ्गलवादिनं-मरिष्यत्यसौ पतिष्यति न जीवतीत्याद्यभङ्गलवादी, तम्| तथा, षण्ढं-नपुंसकम्| तथा, मुण्डं-कृतवपनं, श्मश्रु-मुखव्यञ्जनं, यस्य स एवम्| मुण्डश्मश्रुश्चासौ जटाधरश्च तम्| तथा, अमङ्गलः-अकल्याणः, आह्वयो-नाम, यस्य तम्| व्यङ्गं-हीनाङ्गम्| तैलपङ्काभ्यामङ्कितं-दिग्धम्| तथा, जीर्णादिकं वासो यस्य तम्| तथा, दूरादाह्वयन्तं-आकारयन्तं, नानुयायात्|

Adhikarana aSastacintAvacanAdau vaidye dUtAgamanaM mRutyusUcakam (5-7) · Śloka 7

| अशस्तचिन्तावचने नग्ने चिन्दति भिन्दति||५|| जुह्वाने पावकं पिण्डान् पित्तृभ्यो निर्वपत्यपि| सुप्ते मुक्तकचेऽभ्यक्ते रुदत्यप्रयते तथा||६|| वैद्ये दूता मनुष्याणामागच्चन्ति मुमूर्षताम्| |७|

🔊 Audio coming soon

चिन्ता च वचनं च चिन्तावचने, अशस्ते चिन्तावचने यस्येति मत्वर्थे बहुव्रीहिः| वैद्येऽशस्तचिन्तां कुर्वति, अशस्त वचनं चोच्चारयति| मनुष्याणां मुमूर्षतां-आसन्नमृत्यूनां, सम्बन्धिनो दूता आयान्ति| मुमूर्षतामिति "आशङ्कायामुपसङ्ख्यानम् (यां सन् वक्तव्यः) " इति सन्| "म्रियतेर्लुङ्ह्लिङोश्च" इति नियमादात्मनेपदाभावः| तथा च किम्भूते ? नग्ने-विवस्त्रे, चिन्दति भिन्दति किञ्चित्| तथा, पावकं-अग्निं जुह्वाने, पितृभ्यश्च पिण्डान् निर्वपति-अनुप्रयच्चति, यावदप्रयतेअशुचौ| मनुष्याणामित्युपलक्षणम्, स्त्र्यादयोऽपीह गृह्यन्त एव|

Adhikarana deSaviSeShAdAvagato dUto~aSuBaH (7-8) · Śloka 8

| विकारसामान्यगुणे देशे कालेऽथवा भिषक्||७|| दूतमभ्यागतं दृष्ट्वा नातुरं तमुपाचरेत्| |८|

🔊 Audio coming soon

विकारेण-ज्वरादिना, सामान्यः-तुल्यो, गुणो यस्यासौ विकारसामान्यगुणः, तस्मिंस्तथाविधे, देशे काले वा दूतमभ्यागतं-सम्मुखमागच्चन्तं, दृष्ट्वा भिषक्तमातुरं-दूतस्य प्रेषकं, नोपचरेत्| यथा,-कफजे ज्वरादावामये घृतोदकादिद्रवसमीपे देशेऽनूपे वा काले वा प्रत्युषस्यागतो दूतोऽशुभः| पित्तामये वह्न्यादिना सन्तप्ते देशे काले मध्याह्ने दूतोऽशुभः| वाररोगे परुषरूक्षसिकतापाषाणशर्करादिविशिष्टे देशे काले सायाह्ने दूतोऽशुभः| विपरीतस्तु शुभः| चर्दिमेहातीसारादिषु सेतुभङ्गोऽशुभः| एष्वेव सेतुवन्धः शुभः|

Adhikarana vaidyasya pUrvadarSane mariShyato dUtAnAM vyApArAH (8-11) · Śloka 11

| स्पृशन्तो नाभिनासास्यकेशरोमनखद्विजान्||८|| गुह्यपृष्ठस्तनग्रीवाजठरानामिकाङ्गुलीः| कार्पासबुससीसास्थिकपालमुशलोपलम्||९|| मार्जनीशूर्पचैलान्तभस्माङ्गारदशातुषान्| रज्जूपानत्तुलापाशमन्यद्वा भग्नविच्युतम्||१०|| तत्पूर्वदर्शने दूता व्याहरन्ति मरिष्यताम्| |११|

🔊 Audio coming soon

तदित्यनेन वैद्यः परामृश्यते| तस्य पूर्वदर्शनं-प्रथमदर्शनं, तस्मिन् सति तत्काल एव, मरिष्यतां-आसन्नमरणानां, सम्बन्धिनो दूता नाभ्याति स्पृशन्तो व्याहरन्ति| "लक्षणहेत्वोः क्रियायाः" इति हेतावत्र शतृप्रत्ययः| नाभ्यादिस्पर्शनं हि मुमूर्षुदूतव्याहरणस्य हेतुः| मुमूर्षोर्वयं दूता इति प्रतिपादयन्तीत्यर्थः| अनामिकाङ्गुलिः-कनीयसीनिकटस्थिता| दशा-वस्त्रवर्तिः| उपानत्-चर्मपादुका| तुला-मानविशेषः| न केवलं नाभ्यादि स्पृशन्तोऽपरमपि च भग्नविच्युतं च स्पृशन्त इति योज्यम्|

Adhikarana ardharAtrAdAgacCanto~aSuBAH (11-12) · Śloka 12

| तथाऽर्धरात्रे मध्याह्ने सन्ध्ययोः पर्ववासरे||११|| षष्ठीचतुर्थीनवमीराहुकेतूदयादिषु| भरणीकृत्तिकाऽऽश्लेषापूर्वाऽऽर्द्रापैत्र्यनैॠते||१२||

🔊 Audio coming soon

नाभ्यादिकमस्पृशन्तोऽप्यर्धरात्रादिष्वागच्चन्तो मरिष्यतां दूता व्याहरन्ति| अर्धरात्र इति "अहःसर्वैकदेश" इत्यत्र चकारादच् समासान्तः| आगच्चन्त इत्यत्रापि योज्यम्| पैत्र्यनैॠत इति मघामूलाख्ये नक्षत्रे| आदिशब्देनोत्पातदर्शनकृष्णचतुर्दश्यादयो गृह्यन्ते| सङ्ग्रहेऽप्युक्तम् (श. अ.१२)- "मध्याह्नोभयसन्ध्यार्धरात्रचतुर्थीषष्ठीनवमीपर्वदिनेषु ग्रहोपरागोत्पातदर्शनभरणीकृत्तिकार्द्राऽऽश्लेषामघामूलपूर्वासु चाशुभः|" इति|

Adhikarana pratibaddhaM bruvati dUte nimitte cASuBe taM vaidyo nAnuvrajet (13) · Śloka 13

यस्मिंश्च दूते ब्रुवति वाक्यमातुरसंश्रयम्| पश्येन्निमित्तमशुभं तं च नानुव्रजेद्भिषक्||१३||

🔊 Audio coming soon

यस्मिन् दूते आतुरसंश्रयं-आतुरप्रतिबद्धं, वाक्यं ब्रुवति सत्यशुभं निमित्तं भिषक् पश्येत्| तं-दूतमातुरचिकित्सार्थमागतं, नानुव्रजेत्|

Adhikarana aSuBAni nimittAni (14-16) · Śloka 16

किम् तदशुभं निमित्तम् ? इत्याह तद्यथा विकलः प्रेतः प्रेतालङ्कार एव वा| चिन्नं दग्धं विनष्टं वा तद्वादीनि वचांसि वा||१४|| रसो वा कटुकस्तीव्रो गन्धो वा कौणपो महान्| स्पर्शो वा विपुलः क्रूरो यद्वाऽन्यदपि तादृशम्||१५|| तत्सर्वमभितो वाक्यं वाक्यकालेऽथवा पुनः| दूतमभ्यागतं दृष्ट्वा नातुरं तमुपाचरेत्||१६||

🔊 Audio coming soon

तद्यथाशब्दोऽशुभनिमित्तसंदर्शनसम्बन्धार्थः| विकलः-अङ्गहीनः काणकुण्ठादिकः| प्रेतो-मृत एव| प्रेतालङ्कारो यो मृतस्यानुलेपनवस्त्रादिनाऽलङ्कारो विधीयते| चिन्नं-रज्ज्वादिकम्| दग्धं-वस्त्रादिकम्| विनष्टं वा-घटभाजनादिकम्| तद्वादीनि-चिन्नदग्धविनष्टवाचकानि, वचांसि-वचनानि, श्रोत्रेण श्रूयन्ते| रसो वा कटुकस्तीव्र इत्यनेन रसाधारं द्रव्यमनाहारप्रतिबद्धमुपलक्षयते| रसो हि रसनेन्द्रियग्रह्य एव| तस्मात् कटुकरसाधिष्ठितं द्रव्यं मरिचादि कटुकरसशब्देनेह गृह्यते| लोकेऽपि रसेन द्रव्यं व्यपदिश्यत एव| यथा-इदं मधुरं द्रव्यमिदमम्लमिति| तदेवमुत्कटकटुकरसाधिष्ठितं द्रव्यं यदा चक्षुषा गृह्यते वैद्येन, तदा न शुभम्| तीव्रग्रहणादतीव्रस्य कुठेरकादेर्निरासः| गन्धश्च कौणपो-महान् दुर्गन्धोऽतिशयेन, तत्काल एव घ्राणेन्द्रियेण गृह्यते, स्पर्शो वा विस्तीर्णः क्रूरः-अतिदुःसहः, तत्काल एवाग्न्यादिसम्बन्धी स्पर्शनेन्द्रियेण गृह्यते, सोऽशुभः| यद्वेति| अथवाऽपरमपि यत्तादृशंविकलाद्यशुभनिमित्तसदृशमनिर्दिष्टमपि रक्तकरवीरकुसुमादिकं, तत्सर्वं वाक्यमभितः-आतुराश्रयाद्वाक्यादग्रे, अथवा वाक्यकाले-आतुराश्रयावाक्यमध्ये विकलाद्यशुभनिमित्तं तदानीमप्यशुभसूचकत्वात् तस्मिन् काले, दूतमभ्यागतं-आभिमुख्येन तत्कालमेवागतं, दृष्ट्वा येनासौ प्रेषितो दूतस्तमातुरं नोपाचरेत्|

Adhikarana anyAnyapyaSuBAni nimittAni (17-23) · Śloka 23

अथान्यदप्यशुभं निमित्तमाह हाहाक्रन्दितमुत्क्रुष्टमाक्रुष्टं स्खलनं क्षुतम्| वस्त्रातपत्रपादत्रव्यसनं व्यसनीक्षणम्||१७|| चैत्यध्वजानां पात्राणां पूर्णानां च निमज्जनम्| हतानिष्टप्रवादाश्च दूषणं भस्मपांसुभिः||१८|| पथःच्चेदोऽहिमार्जारगोधासरठवानरैः| दीप्तां प्रति दिशं वाचः क्रूराणां मृगपक्षिणाम्||१९|| कृष्णधान्यगुडोदश्विल्लवणासवचर्मणाम्| सर्षपाणां वसातैलतृणपङ्केन्धनस्य च||२०|| क्लीबक्रूरश्वपाकानां जालवागुरयोरपि| चर्दितस्य पुरीषस्य पूतिदुर्दर्शनस्य च||२१|| निःसारस्य व्यवायस्य कार्पासादेररेरपि| शयनासनयानानामुत्तानानां तु दर्शनम्||२२|| न्युब्जानामितरेषां च पात्रादीनामशोभनम्| |२३|

🔊 Audio coming soon

हाहाक्रन्दितमित्यादिकमशोभनमिति वक्ष्यमाणेन सम्बन्धः| हाहेति क्रन्दितं-रुदितं क्वणनं हाहाक्रन्दितम्| तथा, उत्क्रुष्टं उच्चैः कृत्वा क्रुष्टं, आक्रुष्टं-आक्रोशः| स्खलनं-पतनं, वैद्यस्याऽन्यस्य वा| क्षुतं-चिक्का| वस्त्रादीनां-वैद्यस्य सम्बन्धिनां, व्यसनं-विनाशः| व्यसनिनां-आपद्गतानां, ईक्ष्णं-आलोकनं, न शोभनमिति सर्वत्र योज्यम्| चैत्यादीनां निमज्जनं-पतनं ब्रुडनं च| तथा, हत इत्येवंरुपाणामनिष्टानां-अमङ्गलानां, प्रवादाः-उच्चैरुच्चरितानि वाक्यानि| दूषणं भस्मपांसुभिः-वैद्यस्यैव पथि गच्चतो भस्मना पांसुना व विकिरणमशोभनम्, कर्मसिद्ध्यभावादातुरस्यापि मरणसूचकत्वात्| एवमन्यत्राप्युभयोरशोभनत्वं योज्यम्| पथःच्चेद इति मार्गस्य चेदः| कैः ? सर्पमार्जारादिभिः| सरठः-सर्पसदृशी रक्तवर्णादिमुखी प्राणिजातिश्चक्रलण्ड इत्यपरपर्य़ायः| यस्यां दिशि सूर्यः स्थितः सा दीप्ता भण्यते| तथा चोक्तम् "अङ्गारिण्यर्कनिर्मुक्ता, दीप्ता तस्यां दिवाकरः| प्रधूमितैष्यर्सूर्या वै, शान्ताः पञ्चेतरा दिशः||" इति| दीप्तां दिशं प्रति या वाचो-वाण्यः, क्रूराणां-क्रव्यभुजां, मृगाणां-द्वीपिशृगालादीनां, पक्षिणां-गृध्रश्येनादीनां, ता अशोभना इति लिङ्गविपरिणामेन सम्बन्धः| कृष्णधान्यादीनां यद्दर्शनं वैद्यस्य पथि गच्छत आतुरगृहे प्रविशतो वा तदशोभनम्, अशुभसूचकत्वात्| उदश्वित्-तक्रम्| सर्षपो-रक्ताभासः| क्रूरो-निष्ठ्रुरवादी| श्वपाकः-चाण्दालः| जालं-आनायः| वागुरा-मृगबन्धनी| पूतिः-दुर्गन्धिः| दुर्दर्शनः-करालाकृतिः| निःसारस्य-व्यपेतसारस्य वस्तुनः| व्यवायस्य-मैथुनस्य| कार्पासादेरित्यादिशब्देन कार्पासबुससीसादेर्दूतचिन्तानिर्दिष्टस्य (श्लो. ९) ग्रहणम्| कार्पासादेः पदार्थस्य दर्शनं पथि गच्चत आतुरगृहं प्रविशतो वाऽशोभनम्| अरेर्दर्शनमशोभनम्| प्रकृतत्वाद्वैस्द्यस्यात्मशत्रुदर्शनम्| तथा, शयनादीनामुत्तानानां-ऊर्ध्वमुखस्थितपादानां दर्शनम्, तथेतरेषां-पात्रादीनां घटशरावोदञ्चनादीनामधोमुखानां, दर्शनमशोभनम्|

Adhikarana pakShiNaH SuBASuBAH (23-24) · Śloka 24

| पुंसंज्ञाः पक्षिणो वामाः स्त्रीसंज्ञा दक्षिणाः शुभाः||२३|| प्रदक्षिणं खगमृगा यन्तो, नैवं श्वजम्बुकाः| |२४|

🔊 Audio coming soon

पुंसंज्ञाः-पुंनामानः, पक्षिणो-वर्तकादयो, वामस्थिताः प्रशस्ताः| स्त्रीनामानो-बलाकासारिकादयो, दक्षिणस्थिताः शुभाः| प्रदक्षिणमिति वामाद्दक्षिणं गच्छन्तः खगमृगाः शुभाः| खगाः-काकापारावतादयः| मृगाः-हरिणैणादयः| यान्तो नैवं श्वजम्बुकाः,-किन्तर्हि ? दक्षिणाद्वामं गच्चन्तः शुभा इत्यर्थः|

Adhikarana KagamRugAdayaH SuBASuBAH (24-25) · Śloka 25

| अयुग्माश्च मृगाः शस्ताः शस्ता नित्यं च दर्शने||२४|| चाषभासभरद्वाजनकुलच्चागबर्हिणः| |२५|

🔊 Audio coming soon

अयुग्माः-पञ्चसप्ता पि(दयो), मृगाः शुभाः| चाषादयो मयूरान्ता नित्यं दर्शने-वामतो दक्षिणतो वा, शस्ताः|

Adhikarana ulUkAdayo darSane~aSuBAH (25) · Śloka 25

| अशुभं सर्वथोलूकबिडालसरठेक्षणम्||२५||

🔊 Audio coming soon

सर्वथा-सर्वेण प्रकारेण वामतो दक्षिणतो वा युग्मानाम युग्मानां वा, उलूकादीनां दर्शनमशुभम्| कीर्तने तु प्रशस्ता इत्येके|

Adhikarana kolAdayaH kIrtane SuBAH darSane virute cASuBAH,vAnararkShAvato~anyathA (26) · Śloka 26

प्रशस्ताः कीर्तने कोलगोधाहिशशजाहकाः| न दर्शने न विरुते, वानरर्क्षावतोऽन्यथा||२६||

🔊 Audio coming soon

Adhikarana aindraM dhanuraBimuKamaSuBamanyataH SuBam ,agnipUrNAdIni pAtrANyaSuBAni (27) · Śloka 27

धनुरैन्द्रं च लालाटमशुभं, शुभमन्यतः| अग्निपूर्णानि पात्राणि भिन्नानि विशिखानि च||२७||

🔊 Audio coming soon

एन्द्रं धनुर्लालाटं-अभिमुखं, अशुभम्| अन्यतः-पुरःस्थितं सम्मुखं वर्जयित्वा तिर्यक् पृष्ठतो वा स्थितं, शुभम्| लालाटमिति भवार्थे अण्| लालाटशब्देनेह ललाटसमीपो देशो लक्ष्यते, सम्मुखमित्यर्थः| पात्राण्यग्निपूर्णान्यशोभनानि| तथा बिन्नानि-भग्नानि| तथा, विशिखानि-अन्तःशून्यानि| न शुभानीति वचनविपरिणामेन सम्बन्धः|

Adhikarana AturagRuhAnnirgacCaddadhyakShatAdima~ggalamaSuBam (28) · Śloka 28

वैद्यस्यातुरगृहप्रवेशे शुभाशुभसूचकानि निमित्तान्याह दध्यक्षतादि निर्गच्छद्वक्ष्यमाणं च मङ्गलम्| वैद्यो मरिष्यतां वेश्म प्रविशन्नेव पश्यति||२८||

🔊 Audio coming soon

आदिशब्देनेक्षुनिष्पावादिपरिग्रहः| दध्यक्षतावादी (ता आदयो) यस्य मङ्गलस्य तदेवम्| वैद्यः प्रविशन्नेव-तत्काल एव, आतुरगृहाद्दध्यक्षतादि-यद्वक्ष्यमाणं, तन्निर्गच्चत्-निःसरत्, मरिष्यतां-आसन्नमरणानां, पश्यति|

Adhikarana evaM dUtAdyaSuBaM dRuShTvA~a~aturaM na cikitsayet anyathA yatnataH karuNASuddha manasA ca cikitset (29) · Śloka 29

दूताद्यसाधु दृष्ट्वैवं त्यजेदार्तमतोऽन्यथा| करुणाशुद्धसन्तानो यत्नतस्तमुपाचरेत्||२९||

🔊 Audio coming soon

एवं-पूर्वोक्तेन प्रकारेण, दूताद्यसाधु-अशुभं पूर्वनिर्दिष्टं, दृष्ट्वा आर्तं-आतुरं, त्यजेत्-न चिकित्सेत्| आदिशब्देन शकुनादेर्ग्रहणम्| अतोऽन्यथेति दूतादि शुभं दृष्ट्वा, तं आतुरं, वैद्यो यत्नेन समुपाचरेत्| किम्भूतः ? करुणाया शुद्धं निर्मलं, सन्तानं-चेतो, यस्य स एवंभूतः सन्|

Adhikarana dadhyakShatAdi ma~ggalam etat pathi veSmapraveSe ca SuBam (30-39) · Śloka 39

अथ तदेव दध्यक्षताद्याह दध्यक्षतेक्षुनिष्पावप्रियङ्गुमधुसर्पिषाम्| यावकाञ्जनभृङ्गारघण्टादीपसरोरुहाम्||३०|| दूर्वार्द्रमत्स्यमांसानां लाजानां फलभक्षयोः| रत्नेभपूर्णकुम्भानां कन्यायाः स्यन्दनस्य च||३१|| नरस्य वर्धमानस्य देवतानां नृपस्य च| शुक्लानां सुमनोवालचामराम्बरवाजिनाम्||३२|| शङ्खसाधुद्विजोष्णीषतोरणस्वस्तिकस्य च| भूमेः समुद्धतायाश्च वह्नेः प्रज्वलितस्य च||३३|| मनोज्ञस्यान्नपानस्य पूर्णस्य शकटस्य च| नृभिर्धेन्वाः सवत्साया वडावाय़ाः स्त्रिया अपि||३४|| जीवञ्जीवकसारङ्गसारसप्रियवादिनाम्| हंसानां शतपत्राणां बद्धस्यैकपशोस्तथा||३५|| रुचकादर्शसिद्धार्थरोचनानां च दर्शनम्| गन्धः सुसुरभिर्वर्णः सुशुक्लो मधुरो रसः||३६|| गोपतेरनुकूलस्य स्वनस्तद्वद्गवामपि| मृगपक्षिनराणां च शोभिनां शोभना गिरः||३७|| छत्रध्वजपताकानामुत्क्षेपणमभिष्टुतिः| भेरीमृदङ्गशङ्खानां शब्दाः पुण्य़ाहनिःस्वनाः||३८|| वेदाध्ययनशब्दाश्च सुखो वायुः प्रदक्षिणः| पथि वेश्मप्रवेशे च विद्यादारोग्यलक्षणम्||३९||

🔊 Audio coming soon

दध्यक्षतादीनां दर्शनं 'पथि वेश्मप्रवेशे च विद्यादारोग्यलक्षणम्|' इति वक्ष्यमाणेन सम्बन्धः| अक्षताः-यवाः, अखण्डितास्तण्डुला इत्यन्ये, धान्यमेवाखण्डितमक्षतशब्दवाच्यमित्यपरे| यावकं-अलक्तकः| भृङ्गारः-कनकालुका| अर्द्रमत्स्याः, आर्द्रमांसम्| आर्द्रग्रहणमत्र शुष्कपरिहारार्थम्| भक्षंमोदकादि| पद्मरागादिकं-रत्नम्| इभो-हस्ती| नरस्येति शौर्यत्यागप्रज्ञाराजसत्कारादिभिर्वधमानः-प्रतिदिनमुपचयं गतः, तथाविधस्य पुरुषस्य दर्शनं शुभम्| शुक्लानां सुमनःप्रभृतीनां दर्शनं शुभम्| बालचामरं-केशप्रकीर्णकम्| वाजी-तुरङ्गः| उष्णीषं-शिरोवेष्टनम्| मनोज्ञस्य-हृदयहारिणोऽन्नपानस्य| शकटस्य-रथस्य, नृभिः-नरैः, पूर्णस्य-सम्भृतस्य| धेन्वा इत्यादि| स्त्रिया अपीत्यपिशब्दः समुच्चये| यथा धेन्वाः सवत्साया दर्शनमेवं वडवायाः स्त्रियाश्च सवत्सायाः-सापत्याया इति| रुचिको-वलयः, आभरणविशेषः| सिद्धार्थो-गौरसर्षपः| गन्धः-सुष्ठु सुरभिः| वर्णः सुष्ठु शुक्लः-सितः| रसो मधुरः| गोपतेः-वृषभस्य, अनुकूलस्य-अकुपितस्य, स्वनःशब्दः| तद्वत्-गोपतिना तुल्यो, गवामप्यनुकूलानां शब्द इत्यर्थः| तथा, शोभिनां-प्रशस्तानां मृगादीनां, प्रशस्ता गिरः| विद्यादारोग्यलक्षणमिति योज्यम्| मृगपक्षिनरा ह्यशोभिनोऽपि शृगालोलूकपुल्कसचाण्डालादयः सन्ति, तड्यवच्चेदनार्थं शोभिनामिति विशेषणम्| शोभिनामपि मृगादीनां क्षामरोगार्तामिहतानामशोभना वाचः स्युः तत्त्यागार्थं शोभना इति विशेषणम्| चत्रादीनामुत्क्षेपणं-उत्थापनम्| पताका-वैजयन्ती| अभिष्टुतिः-प्रयाणकाले जनेन स्तुतिर्जयजयेत्यादिशब्दपूर्वाऽभिमुखमुच्चारिता| तथा, भेर्यादीनां शब्दाः, पुण्याहनिःस्वनाः-प्रशस्तशब्दा| अरोग्याय, न त्वप्रशस्तनिःस्वनाः प्रेतपटहादिजाः| वेदाध्ययनस्य-वेदपाठस्य, ये शब्दास्ते च शुभाः| प्रदक्षिणः-अनुकूलो, वायुः सुखः-सुखावहः| पथि वेश्मप्रवेशे चैतदारोग्यलक्षणं विद्यात्|

Adhikarana evaM dUtaSakunakathanAnantaraM svapna kathanam (40) · Śloka 40

इत्युक्तं दूतशकुनं स्वप्नानूर्ध्वं प्रचक्षते| |४०|

🔊 Audio coming soon

इत्येवमर्थे परिसमाप्तौ वा| दूतः-स्त्रीपुरुषादिः, इत्यादि प्रागुक्तम्| तथा, चेतनाचेतनरूपः शुभाशुभसूचको दूतवर्जितो लोकप्रसिद्धः-शकुन उक्तः| यथा (श्लो. १७)-"हाहाक्रन्दितं" इत्यादि| इति-एवं, उक्तं-अभिहितम्| अतो दूतशकुनादूर्ध्वं-अनन्तरं, स्वप्नान् प्रचक्षते-सम्यग् भणिष्यति, तन्त्रकार इति शेषः| स्वप्नलक्षणमष्टङ्गसङ्ग्रहे कथितम्| यथा (सू. अ. ९)- "सर्वेन्द्रियव्युपरतौ मनोऽनुपरतं यदा| विषयेभ्यस्तदा स्वप्नं नानारूपं प्रपश्यति||" इति| तथा (सं. सू. अ. ९)- "श्लेष्मावृतेषु स्रोतःसु श्रमादुपरतेषु च| इन्द्रियेषु स्वकर्मभ्यो निद्राऽऽविशति देहिनम्||" इति निद्रालक्षणम्|

Adhikarana jvareNa SIGraM mariShyataH svapnaH (40-41) · Śloka 41

| स्वप्ने मद्यं सह प्रेतैर्यः विपन् कृष्यते शुना||४०|| स मर्त्यौ मृत्युना शीघ्रं ज्वररूपेण नीयते| |४१|

🔊 Audio coming soon

यो मर्त्यः-पुरुषः, स्वप्ने-स्वप्नावस्थायां, प्रेतैः सह मद्यं पिबन् शुना कृष्यते-आक्रम्यते, स मृत्युना ज्वररूपेण शीघ्रं अहिरात् कतिपयैरेव दिवसैः, नीयते, लिकान्तरमिति शेषः|

Adhikarana raktapittena SIGraM mariShyataH svapnaH (41-42) · Śloka 42

| रक्तमाल्यवपुर्वस्त्रो यो हसन् ह्रियते स्त्रिया||४१|| सोऽस्रपित्तेन| |४२|

🔊 Audio coming soon

रक्तमाल्यो रक्तवपू रक्तवस्त्रश्च यो मर्त्यो हसन् स्त्रिया स्वप्ने ह्रियते-आकृष्यत आक्रम्यते, सोऽस्रपित्तेन मृत्युना शीघ्रं नीयते|

Adhikarana rAjayakShmaNA SIGraM mariShyataH svapnaH (42) · Śloka 42

महिषश्वराहोष्ट्रगर्दभैः| यः प्रयाति दिशं याम्यां मरणं तस्य यक्ष्मणा||४२||

🔊 Audio coming soon

यो महिषादिभिः करणभूतैर्याम्यां दक्षिणां दिशं, स्वप्ने प्रयाति, तस्य यक्ष्मणा मरणं भवति|

Adhikarana gulmenaSIGraM mariShyataH svapnaH (43) · Śloka 43

लता कण्टकिनी वंशस्तालो वा हृदि जायते| यस्य तस्याशु गुल्मेन|४३|

🔊 Audio coming soon

मर्त्य इति प्रथमान्तोऽपीहार्थवशात् षष्ठ्यन्तः सम्बध्यते| यस्य मर्त्यस्य स्वप्ने कण्टकयुक्ता लता हृदये जायते, वंशो वा-अथवा तालः, तस्य शीघ्रं गुल्मेन मरणं भवेत्| सङ्ग्रहेत्वेवमुक्तम् (शा. अ. १२)- "यस्य कण्टकिनी लता वंश स्तालो वा हृदि जायते स गुल्मेन| यस्य तु शिरसि स शिरोरोगेण शस्त्रेण वा शिरःच्चेदनेन|" इति|

Adhikarana kuShTena SIGraM mariShyataH svapnaH (43-44) · Śloka 44

| यस्य वह्निमनर्चिषम्||४३|| जुह्नतो घृतसिक्तस्य नग्नस्योरसि जायते| पद्मं स नश्येत्कुष्ठेन|४४|

🔊 Audio coming soon

यस्य मर्त्यस्य नग्नस्याज्याभ्यक्तस्य वह्निमनर्चिषं-ज्वालारहितं, जुह्नत उरसि पद्मं स्वप्ने जायते, स नरः कुष्ठेन नश्येत्|

Adhikarana prameheNa SIGraM mariShyataH svapnaH (44-45) · Śloka 45

| चण्डालैः सह यः पिबेत्||४४|| स्नेहं बहुविधं स्वप्ने स प्रमेहेण नश्यति| |४५|

🔊 Audio coming soon

चण्डालैः सह बहुविधं-अनेकप्रकारं, स्नेहं-घृततैलादिकं, यो मर्त्यः स्वप्ने पिबेत्, स प्रमेहेण नश्यति| स्वप्ने प्रकृतेऽपि पुनः स्वप्नग्रहणं कृतं स्पष्टार्थम्|

Adhikarana unmAdenaSIGraM mariShyataH svapnaH (45) · Śloka 45

| उन्मादेन जले मज्जेद्यो नृत्यन् राक्षसैः सह||४५||

🔊 Audio coming soon

उन्मादेन स नश्यति, यो राक्षसैः सह नृत्यन् जले मज्जेत्|

Adhikarana apasmAreNa SIGraM mariShyataH svapnaH (46) · Śloka 46

अपस्मारेण यो मर्त्यो नृत्यन् प्रेतेन नीयते| |४६|

🔊 Audio coming soon

स मर्थ्योऽपस्मारेण नश्यति, यो नृत्यन् प्रेतेन स्वप्ने नीयते|

Adhikarana svapne KarAdiBiryAnaM mRutyukArakam (46-47) · Śloka 47

| यानं खरोष्ट्रमार्जारकपिशार्दूलसूकरैः||४६|| यस्य प्रेतैः शृगालैर्वा स मृत्योर्वर्तते मुखे| |४७|

🔊 Audio coming soon

यस्य नरस्य स्वप्ने खरादिभिर्यानं भवति, स मृत्योर्मुखाभ्यन्तरे वर्तते, अत्यासन्नविनाशत्वात्|

Adhikarana apUpAdiBakShaNam mRutyukArakam (47-48) · Śloka 48

| अपूपशष्कुलीर्जग्ध्वा विबुद्धस्तद्विधं वमन्||४७|| न जीवति| |४८|

🔊 Audio coming soon

अपूपान् शष्कुलीर्वा जग्ध्वा-भक्षयित्वैवं स्वप्ने दृष्ट्वा, विबुद्धः सन् तद्विधं-अपूपशष्कुलिप्रायमेव, वमेत्-उद्गिरेत्, स न जीवति|

Adhikarana akShirogakArakaH svapnaH (48) · Śloka 48

अक्षिरोगाय सूर्यन्दुग्रहणेक्षणम्| |४८|

🔊 Audio coming soon

सूर्यचन्द्रयोर्ग्रहणदर्शनमक्षिरोगाय|

Adhikarana drUgvinASakaH svapnaH (48) · Śloka 48

| सूर्याचन्द्रमसोः पातदर्शनं दृग्विनाशनम्||४८||

🔊 Audio coming soon

स्वप्ने सूर्याचन्द्रमसोः पतनदर्शनं मर्त्यस्य दृष्टिविनाशनम्| सूर्याचन्द्रमसोरिति "देवताद्वन्द्वे च" इत्यानङादेशः|

Adhikarana anye~aSuBAH svapnAH (49-58) · Śloka 58

मूर्ध्नि वंशलतादीनां सम्भवो वयसां तथा| निलयो मुण्डता काकगृध्राद्यैः परिवारणम्||४९|| तथा प्रेतपिशाचस्त्रीद्रविडान्ध्रगवाशनैः| सङ्गो वेत्रलतावंशतृणकण्टकसङ्कटे||५०|| श्वभ्रश्मशानशयनं पतनं पांसुभस्मनोः| मज्जनं जलपङ्कादौ शीग़्रेण स्रोतसा हृतिः||५१|| नृत्ववादित्रगीतानि रक्तस्रग्वस्त्रधारणम्| वयोङ्गवृद्धिरभ्यङ्गो विवाहः श्मश्रुकर्म च||५२|| पक्वान्नस्नेहमद्याशः प्रच्चर्दनविरेचने| हिरण्यलोहयोर्लाभः कलिर्बन्धपराजयौ||५३|| उपानद्युगनाशश्च प्रपातः पादचर्मणोः| हर्षो भृशं प्रकुपितैः पितृभिश्चावभर्त्सनम्||५४|| प्रदीपग्रहनक्षत्रदन्तदैवतचक्षुषाम्| पतनं वा विनाशो वा, भेदनं पर्वतस्य च||५५|| कानने रक्तकुसुमे पापकर्मनिवेशने| चितान्धकारसम्बाधे जनन्यां च प्रवेशनम्||५६|| पातः प्रासादशैलादेर्मत्स्येन ग्रसनं तथा| काषायिणामसोम्यानां नग्नानां दण्डधारिणां||५७|| रक्ताक्षाणां च कृष्णानां दर्शनं जातु नेष्यते| |५८|

🔊 Audio coming soon

जातु नेष्यत इति वक्ष्यमाणेन सम्बन्धः| वंशलतादीनां मूर्ध्नि-शिरसि, सम्भवो-जन्म, जातु नेष्यते| एवमग्रेऽपि योज्यम्| तथा, वयसां-पक्षिणां, मूर्ध्नि निलयो-निलयनम्| तथा, मुण्डता-कृतमुण्डनत्वम्| काकाद्यैः परिवारणं-परिवृतत्वम्| न केवलं काकाद्यैः, प्रेताद्यैश्चेति तथाशब्दस्यार्थः| गवाशनाः गोमांसभक्षाः, तैः| वेत्रादिसङ्कटे-संवृते, सङ्गः-द्वारालाभः, तत्रैव निःसारमपश्यतः| श्वभ्रे श्मशाने च शयनं-स्वपनम्| पांसौ भस्मनि च पतनम्| जलपङ्कादिके मज्जनं-बृडनम्| आदिशब्देन कूपकलुषोदकादि गृह्यते| स्रोतसा शीग़्रेण हृतिः-हरणम्| नृत्यं च वादित्रं च गीतं च तानि| तथा, स्रक् च वस्त्रं च स्रग्वस्त्रे, रक्ते च ते स्रग्वस्त्रे च, तयोर्धारणम्| वयश्चाङ्गं च, तयोर्वृद्धिः| अभ्यङ्गः-अभ्यञ्जनम्| विवाहः-परिणयः| श्मश्रुकर्म-मुख़व्यञ्जनमुण्डनम्| पक्वान्नं-मण्डकादिः, स्नेहः-तैलादिः, मद्यं-सीध्वादि, तेषामाशो-भक्षणम्| प्रच्चर्दनं-वमिः| विरेचनं-विरेकः| हिरण्यस्य-रुक्मादेः, लोहस्य च लाभः| सङ्ग्रहे तूक्तम् (शा. अ. १२)- "लभते वा हिरण्यलोहलवण" इति| कलिः-अनर्थः| बन्धो-बन्धनम्| पराजयः-परिभवः| उपानद्युगस्य नाशः| पादस्य चर्मणश्च प्रकर्षेण पतनम्| भृशं-अतिशयेन, हर्षः| पितृभिः प्रकुपितैरवभर्त्सन-सन्तर्जनम्| प्रदीपादीनां पतनमथवा विनाशः| पर्वतस्य च भेदनम्| कानने-वने, रक्तपुष्पे प्रवेशनमिति सम्बन्धः| पापकर्माणां-पापिनां, निवेशने-गृहे, प्रवेशनम्| चिन्तायामन्धकारसम्बाधे-तमःसङ्कटे, जनन्यांमातरि, च प्रवेशनम्| प्रासादात् पर्वताद्वा पातः-पतनम्, आदिशब्देन वृक्षगृहादेर्ग्रहणम्| मत्स्येन ग्रसनं-निगरणम्| कषायेण रक्तं वस्त्रं-काषायम्, तद्विद्यते येषामितीनिः| तेषां काषायिणां-काशायवस्त्रावृतानां, तथा असौम्यानां-दुर्दर्शानां, तथा नग्नानां-विवस्त्राणां, तथा दण्डधारिणां-दण्डिनां, तथा रक्तयनानां कृष्णवर्णानां च नृणां जातु-कदाचित्, न दर्शनमिष्यते, स्वप्नेऽशुभहेतुत्वात्|

Adhikarana svapne kAlaniSA (58-59) · Śloka 59

| कृष्णा पापाननाचारा दीर्घकेशनखस्तनी||५८|| विरागमाल्यवसना स्वप्ने कालनिशा मता| |५९|

🔊 Audio coming soon

एवंविधा स्त्री स्वप्ने कालनिशा-तद्विधा, मता| कृष्णाकृष्णवर्णा| तथा, पापमाननमाचारश्च यस्याः सा| तथा, दीर्घाः केशा नखाः स्तनौ च यस्याः सैवम्| "स्वाङ्गाच्चोपसर्जनात्" इति ङीप्| माल्यं च वसनं च माल्यवसनम्| विगतो रागो यस्य माल्यवसनस्य तदेवंभूतं माल्यवसनं यस्याः सैवम्|

Adhikarana svapnasaMprAptiH (59-60) · Śloka 60

| मनोवहानां पूर्णत्वात्स्रोतसां प्रबलैर्मलैः||५९|| दृश्यन्ते दारुणाः स्वप्ना रोगी यैर्याति पञ्चताम्| अरोगः संशयं प्राप्य कश्चिदेव विमुच्यते||६०||

🔊 Audio coming soon

मनः-चेतो, वहन्ति यानि विशेषेण हृदाश्रितानि स्रोतांसि तानि मनोवहानि, तेषां मनोवहानां प्रबलैः-अतिबलवद्भिः, मलैः-मलिनीकरणस्वभवैर्वातपित्तश्लेष्मभिः, पुर्णत्वात् दारुणाः-घोरा अप्रशस्ताः, स्पप्ना दृश्यन्ते-अनुभूयन्ते| यैःस्वप्नैर्दृष्टैः, रोगी-आतुरः, पञ्चतां याति-मरणं प्राप्नोति, तथा स्वभावत्वादैषां स्वप्नानाम्| अरोग इत्यादि| स्वस्थो नरः संशयं-जीवितसंदेहं, प्राप्य कश्चिदेव-बहूनां मध्यात्पुण्यवान्नियतायुरेव, विमुच्यते, मरणादिति, शेषः| स्वप्नभेदानिदानीमाह-

Adhikarana svapnaH saptavidhaH (7) · Śloka 61

दृष्टः श्रुतोऽनुभूतश्च प्रार्थितः कल्पितस्तथा| भाविको दोषजश्चेति स्वप्नः सप्तविधो मतः||६१||

🔊 Audio coming soon

चः समुच्चये| इतिः प्रकारे| दृष्टादिना प्रकारेण स्वप्नः सप्तविधो मतः,-सप्त स्वप्ना इत्यर्थः| दृष्टः स उच्यते,-यश्चक्षुषा जाग्रदवस्थायां किञ्चिद्वस्तुजातं दृष्ट्वा तदानीं सुप्तावस्थायां तादृशं वस्तुजातं संवित्तिरूपतयाऽनुभुयते| १| यश्च शब्दमात्रेण बस्तुजातं श्रोत्रेन्द्रियेण गृह्यते तदानीं सुप्तावस्थायं ताद्रुक्संवित्तिरूपतयाऽनुभूयते, स श्रुत उच्यते| २| यस्तु जाग्रदवस्थायां यथायथमिन्द्रियैरनुभूयते सुप्तावस्थायां तादृगन्तःसंवित्तिरूपतयाऽनुभूयते, सोऽनुभूत उच्यते| ३| यस्मिन् दृष्टे श्रुतेऽनुभूते वा यत्पूर्वं जाग्रदवस्थायां वस्तुजातं मनसाऽभ्यर्थ्यते तथैव च सुप्तावस्थायामन्तःसंवित्तिरूपतयाऽनुभूयते, स प्रार्थित उच्यते| ४| यस्तु षड्भिः प्रत्यक्षानुमानादिभिर्न दृष्टो नापि श्रुतो नाप्यनुभूतो दृष्टश्रुतानुभूतत्वाभावादत एव न प्रार्थितः, अपि तु केवलं मनसा यथेच्चमुत्प्रेक्ष्य यत्किञ्चनरूपाभिः कल्पनाभिस्ताभिस्ताभिः कल्पितो जाग्रदवस्थायां वस्तुजातोऽन्तःसंवित्तावुपारुढः, तदानीं सुप्तावस्थायां तादृगनुभूयते, स कल्पित उच्यते| ५| यश्च दृष्टश्रुतादिभ्यः स्वप्नेभ्योऽन्यो विलक्षणस्वप्नो यथा दृश्यते सुप्तावस्थायामुत्तरकालं तथैव तत्स्वप्नदर्शिना नरेण तन्मुखावगततदर्थैरन्यैरपि प्रत्यक्षतो दृश्यते, स भाविकः| ६| दोषजः स स्वप्नः-यो वातजः पित्तजः कफजो वा यथायथं दोषगुणानुरूपोऽन्तःसंवित्तावनुभूयत इति| ७|

Adhikarana niShpalAH svapnAH (62) · Śloka 62

तेष्वाद्या निष्फलाः पञ्ह्च यथास्वप्रकृतिर्दिवा| विस्मृतो दीर्घह्रस्वोऽति|६२|

🔊 Audio coming soon

तेषु स्वप्नेषुमध्याद्ये पञ्चाद्याः-आदौ पठिता दृष्टादयः ते निष्फलाः-न ते यथानुरूपं फलं शुभमशुभं वा ददति| यथास्वप्रकृतिः-यथादोषजो, यः स्वप्नः सोऽपि निष्फलः-नासौ यथानुरूपं शुभाशुभलक्षणं फलं ददाति| वातप्रकृतेर्वातप्रकृत्यनुरूपतः स्वप्नो यावद्द्वन्द्वप्रकृतेर्द्वेन्द्वप्रकृत्यनरूपतः सन्निपातरूपतो वाऽफलः| तथा दिवा दृष्टो यः स्वप्नः, तथा विस्मृतः, तथाऽतिदीर्घोऽतिह्रस्वो वा यः स्वप्नः, स पञ्चविधव्यतिरिक्तोऽप्यफलः|

Adhikarana cireNAlpaPalAH svapnaH (62-63) · Śloka 63

| पूर्वरात्रे चिरात्फलम्||६२|| दृष्टः करोति तुच्चं च| |६३|

🔊 Audio coming soon

पूर्वरात्रे दृष्टः स्वप्नश्चिरात्-चिरेण कालेन, फलं तुच्चं-अल्पं, न यथापरिभाषितं, विदधाति| केचित्त्वाहुः,-चेति विकल्पार्थे, चिरेण कालेन तुच्चं वेत्यर्थः| पूर्वरात्र इति "अहः सर्वैकदेश" इति समासान्तः|

Adhikarana tadaharmahatPalAH svapnaH (63) · Śloka 63

गोसर्गे तदहर्महत्| निद्रया वाऽनुपहतः प्रतीपैर्वचनैस्तथा||६३||

🔊 Audio coming soon

गोसर्गे-गवां मोक्षकाले, यो दृष्टः स्वप्नः स तदहः-तस्मिन्नेवाहनि, फलं महत्करोतीति योज्यम्| तदहरित्यहःशब्दः सप्तम्यर्थवृत्तिरव्ययः| शुभः स्वप्नो दृष्टो रात्रिशेषे निद्रया वा यद्यनुपहतो-यस्मिन्स्वप्ने दृष्टेऽनन्तरं न सुप्यते, स स्वप्नो महत् फलं करोति| अन्यथा स्वल्पम्| प्रतीपैः-अननुकूलैर्वचनैश्च, अनुपहतः-अनभ्याहतः, शुभः स्वप्नो दृष्टो महत् फलं करोति|

Adhikarana dAnAdiBirduHsvapnasyAlpaPalatvam (64) · Śloka 64

एवं शुभं स्वप्नं प्रत्युक्त्वाऽशुभं स्वप्नं प्रत्याह याति पापोऽल्पफलतां दानहोमजपादिभिः| |६४|

🔊 Audio coming soon

पापः-अशुभः स्वप्नः, अल्पफलतां याति| कैः ? दानादिभिः| आदिग्रहणात् ध्याननियमादयो गृह्यन्ते|

Adhikarana duHsvapnAnantaraM SuBasvapnadarSane SuBaM Palam (64-65) · Śloka 65

| अकल्याणमपि स्वप्नं दृष्ट्वा तत्रैव यः पुनः||६४|| पश्येत्सौम्यं शुभं तस्य शुभमेव फलं भवेत्| |६५|

🔊 Audio coming soon

अकल्याणमपि-अशुभसूचकत्वादशुभं [अपि], स्वप्नं दृष्ट्वा तत्रैव-तस्मिन्नेवावसरेऽशुभस्वप्नदर्शनसमनन्तरे काले, सौम्यकरंशुभसूचकत्वाच्चुभं स्वप्नं यः पश्येत्तस्य जन्तोस्तस्य वा स्वप्नस्य शुभमेव-कल्याणरूपमेव, फलं भवेत्, न पूर्वदृष्टमशुभमित्येवशब्दार्थः| अपिशब्दात् कल्याणं स्वप्नं दृष्ट्वा यस्तत्रैव वा स्वप्नमध्ये सुप्तोऽशुभं च स्वप्नं पश्येत्, तस्याशुभमेव फलं भवेत्, न पूर्वदृष्टं शुभमिति बोध्यम्| ननु, एवं सति स्वप्नानामनिश्चतफलत्वं प्राप्नोति| ततश्च "स्वप्ने मद्यं सह प्रेतैः" (श्लो.४०) इत्यादिना यदुक्तं तदन्यथाऽपि स्यात्| यतोऽशुभलक्षणोऽप्येवं दानादिभिश्चान्यथा सम्पद्यते| ततश्चानिश्चितफलत्वान्मरणं प्रति नासौ निश्चितो हेतुः| एवमन्येऽपि ये स्वप्नाः प्रतिनियता रक्तपित्तादीनां व्याधीनां हेतवो निर्दिष्टाः, तेऽपि तथैव बोद्धव्याः| अत्राचक्ष्महे| निश्चितानिश्चितफलस्वभावत्वात् स्वप्नानामदोषः| तथा हि-केचित्स्वप्ना निश्चितफलस्वभावा निर्दिष्टाः| यथा-"स्वप्ने मद्यं सह प्रेतैः" इत्यादयः| केचिदनिश्चितफलस्वभावाः| यथा-"मूर्ध्नि वंशलतादीनां" (श्लो-४९) इत्यारभ्य यावत् "रक्ताक्षाणां च कृष्णानां दर्शनं जातु नेष्यते" इत्येवमन्तेन ग्रन्थेन ये निर्दिष्टाः| तत्र ये निश्चितफलस्वभावास्तेषां न कथञ्चिदप्यन्यथा कर्तुं पार्यते| प्राक्तनस्य कर्मणस्तथारूपस्य बलबत्त्वात्| ये त्वनिश्चितफलस्वभावाः "मूर्ध्नि वंशलतादीनां" इत्यादयः| तेषां स्पप्नान्तरदर्शनादिभिरन्यथा सद्भावः सम्भाव्यत इति| "पश्येत्सौम्यं" इत्युक्तम्| अत्स्तानेव सौम्यान् स्वप्नान् दर्शयितुमाह-

Adhikarana AyurArogyadravyadAH SuBAH svapnAH (65-71) · Śloka 71

| देवान् द्विजान् गोवृषभान् जीवतः सुहृदो नृपान्||६५|| साधून् यशस्विनो वह्निमिद्धं स्वच्चान् जलाशयान्| कन्याः कुमारकान् गौरान् शुक्लवस्त्रान्सुतेजसः||६६|| नराशनं दीप्ततनुं समन्ताद्रुधिरोक्षितम्| यः पश्येल्लभते यो वा चत्रादर्शविषामिषम्||६७|| शुक्लाः सुमनसो वस्त्रममेध्यालेपनं फलम्| शैलप्रासादसफलवृक्षसिंहनरद्विपान्||६८|| आरोहेद्गोश्वयानं च, तरेन्नदहदोदधीन्| पूर्वोत्तरेण गमनमगम्यागमनं मृतम्||६९|| सम्बाधान्निःसृतिर्देवैः पितृभिश्चाभिनन्दनम्| रोदनं पतितोत्थानं द्विषतां चावमर्दनम्||७०|| यस्य स्यादायुरारोग्यं वित्तं बहु च सोऽश्नुते| |७१|

🔊 Audio coming soon

कुमारका-बालकाः| विषं-वत्सनाभादि| आमिषं-मांसम्| सुमनसः-पुष्पाणि| शुक्लशब्दो वस्त्रमित्यत्रापि सम्बध्यते, अर्थवशाच्चास्य नपुंसकत्वमेकत्वं च बोध्यम्| देवादीन् यः पश्येत्, यो वा चत्रादीन् लभते, यश्च शैलादीन् समारोहेत्, यश्च नदादींस्तरेत्, यस्य वा पूर्वोत्तरगमनादिकं स्यात्, स पुरुष आयुरादीनश्नुते-प्राप्नोति|

Adhikarana Arogyasya lakShaNam (71-73) · Śloka 73

"आरोग्यमश्नुते" इत्युक्तम्| अतस्तदेवारोग्यं लक्षयितुमाह | मङ्गलाचारसम्पन्नः परिवारस्तथाऽऽतुरः||७१|| श्रद्धधानोऽनुकूलश्च प्रभूतद्रव्यसङ्ग्रहः| सत्त्वलक्षणसंयोगो भक्तिर्वैद्यद्विजातिषु||७२|| चिकित्सायामनिर्वेदस्तदारोग्यस्य लक्षणम्| |७३|

🔊 Audio coming soon

"प्रशस्ताचरणं नित्यमप्रशस्तविसर्जनम्| एतद्धि मङ्गलं प्रोक्तमृषिभिस्तत्त्वदर्शिभिः||". आचरणं-आचारः सद्दृत्तानुष्ठानम्| मङ्गलाचाराभ्यां सम्पन्नो-युक्तः| कः ? परिवारः| तथा, आतुरः| श्रद्धधानः-अवश्यं मे व्याधिरयमनेन भेषजेन नश्यतीत्येवं मन्यमानः| तथा च, परिवारोऽनुकूलः-दक्षिणः| तथा, प्रभूतस्य द्रव्यस्य सङ्ग्रहः-सङ्ग्रहणम्| तथा, सत्त्वलक्षणयोः संयोगो, वैद्यादिषु भक्तिः, चिकित्सायां-उपक्रमे, अनिर्वेदः-सोत्साहता, तत्-एतत्, आरोग्यलक्षणम्|

Adhikarana kasmAdidaM SArIrasthAnam (6) · Śloka 6

कस्मादिदं स्थानं शारीरमुच्यते ? इत्यस्य निरुक्तिमाह | इत्यत्र जन्ममरणं यतः सम्यगुदाहृतम्||७३|| शरीरस्य ततः स्थानं शारीरमिदमुच्यते| ७३ १/२| इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचिता- यामष्टाङ्गहृदयसंहितायां द्वितीये शारीरस्थाने दूतादिविज्ञानीयो नाम षष्ठोऽध्यायः||६||

🔊 Audio coming soon

इति-परिसमाप्तौ| अत्र-अस्मिन्स्थाने, यतो-यस्मात्, शरीरस्य जन्म सम्यक्-अविपरीतं गर्भावक्रान्त्यादिभिश्चतुर्भिरध्यायैः प्रसक्तानुप्रसक्तिकया, उदहृतम्| मरणं-विकृतिविज्ञानीयाख्येन तथा दूतादिविज्ञानीयाख्येन च| ततः-शरीरस्य जन्ममरणोदाहरणात् कारणात्, इदं स्थानं शारीरमुच्यते| यद्यपि सर्व आयुर्वेदाख्यो ग्रन्थः शरीरमधिकृत्य प्रवृत्तः, तथाऽपीदं स्थानं साक्षाज्जन्ममरणचिन्तनाच्चरीरस्य प्राधान्येन शारीरं स्थानमुच्यत इति| इति श्रीमृगाङ्कदत्तपुत्रश्रीमदरुणदत्तविरचित्तायामष्टाङ्गहृदय- टीकायं सर्वाङ्गसुन्दराख्यायां द्वितीये शारीरस्थाने दूता- दिविज्ञानीयो नाम षष्ठोऽध्यायः समाप्तः|| ६||