Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

1. āyuṣkāmīyādhyāyaḥ

Adhikarana adhyAyopakramaH · Śloka

🔊 Audio coming soon

स० - श्री महागणपतये कुरुते नमः| श्रीआनन्दिनीमठाय नमः| दीप्त्या यस्येन्द्रनीलोपलशकलरजोनीलया नीलिताभां लक्ष्मीमुत्तप्तभास्वत्कनकरुचिमपि स्पर्शरोमाञ्चिताङ्गीम्| कालीत्याशङ्कमानः स्फुरदधरपुटश्चक्रपाणिः किलाभूद्भर्ता लोकस्य शश्वत्स भवतु भवतां भूतये पद्मनाभः|| १|| को मत्सरिणि लोकेऽस्मिन्विद्वान्किञ्चिच्चिकीर्षति| किन्तु कश्चिद्भवेत्साधुस्ततोऽयं मत्परिश्रमः|| २|| श्रीमन्मृगाङ्कतनयष्टीकामष्टाङ्गहृदयस्य| श्रीमानरुणः के सम्यग्द्रष्टुः पदार्थबोधाय|| ३|| इह हि शास्त्रारम्भे शास्त्रपरिसमाप्तये सर्व एव सभाभूषणभूता निखिलजनजनितप्रमोदसंदोहा रुचिररुचिरचितवचनचंदनचर्चितप्रबंधाः प्रबंधविरचनप्रवरा इष्टदेवतानमस्कारं तन्त्रकारा विदधुः| तदयमपि तन्त्रकारोऽभीष्टदेवतानमस्कारपुरःसरं तन्त्रमारिरिप्सुरिदमाह-

Adhikarana ma~ggalAcaraNam (1) · Śloka 1

रागादिरोगान् सततानुषक्तानशेषकायप्रसृतानशेषान्| औत्सुक्यमोहारतिदाञ्जघान योऽपूर्ववैद्याय नमोस्तु तस्मै|१|

🔊 Audio coming soon

स० - राग आदिर्येषां ते रागादयः| आदिशब्देन द्वेषलोभादिपरिग्रहः| रुजन्तीति रोगाः| देहमनसी सन्तापयन्तीत्यर्थः| ननु मनःस्थितत्वान्मन एव ते रुजन्तीति वक्तुं युक्तम्| मैवम्| देहमनोलक्षणयोर्वस्तुनोराधाराधेयभावेन स्थितत्वाद्द्वयोरपि सन्तापो युक्तः| यथा आधेयेनायोगोलकेन सन्तप्तेन तदाधारस्य कटाहादेः सन्तापः| आधारेण च कटाहादिना सन्तप्तेनाधेयस्य घृतादेः सन्तापः| तदेवं रागादयो द्वयं रुजन्तीति न्याय्यमेतत्| तथा सततानुषक्ताः सर्वकालं प्रसृताः, सहजा इत्यर्थः| अशेषकायप्रसृता अशेषश्चासौ कायश्चाशेषकायः| तत्र प्रसृता अनुगताः| यद्वाऽशेषाश्च ते कायाश्चाशेषकायाः| सर्वाणि शरीराणि गजतुरगोरगादिसम्बम्धीनि तानि प्रकर्षेण सृता गताः| तथा अशेषाः न विद्यते शेषो येषां तेऽशेषाः सर्वे समूलाः| सबीजा इत्यर्थः| तथौत्सुक्यमोहारतिदाः| औत्सुक्यं विषयोत्कण्ठा गतोऽभिलाषः| मोहः कार्याकार्यानभिज्ञत्वम्| अरतिरनवस्थितिः| स्थानासनादिषु| औत्सुक्यं च मोहश्चारतिश्च ता ददति ये रागादयस्त एवम्| तानेवंविधान् यो भगवान् जघान तस्मै तथाभूतायापूर्ववैद्याय नमोऽस्तु| तं पूजयामीत्यर्थः| अत एवासावपूर्व आश्चर्यभूतो वैद्यः| अन्यो हि यो वैद्यः स ज्वरादीनप्यचिरोत्थितान् रोगानेतद्विशेषणैउरपरामृष्टान्न तथा हर्तुं समर्थः| किमुत रागादीनसाध्यलक्षणलक्षितान्| तथा चासाध्यलक्षणम्|(अस्मिन्नेवाध्याये श्लो. ३२)"अनुपक्रम एव स्यात् स्थितोऽत्यन्तविपर्यये| औत्सुक्यमोहारतिकृद्" इति| यद्वा न विद्यते पूर्वो यस्मादसावपूर्वः| पूर्वेभ्यः प्रथम इत्यर्थः| अपूर्वश्चासौ वैद्योऽपूर्ववैद्य इत्यर्थः| एवंविधं चाभिमतनमस्कारश्लोकं विरचयन् ग्रन्थकृद्ग्रन्थस्य रोगोपशांतिः प्रयोजनमिति प्रतिपादयति| तथा चाह चरकमुनिः (सू. अ. १|५२)"धातुसाम्यक्रिया चोक्ता तन्त्रस्यास्य प्रयोजनम्" इति| एवं च धातुसाम्येन प्रयोजनेन प्रयोजनवदिदं तन्त्रम्| तथा तत्पाठात्तदर्थावबोधात्तद्विध्यनुष्ठानाच्च आरोग्याख्यस्योपेयस्य तथाभिमतस्यायुषः परस्य पुरुषार्थस्य मोक्षाख्यस्य च परमार्थत इदमेव तन्त्रमुपायः| अस्माच्चोपायोपेयलक्षणसम्बधात् सम्बन्धवदिदं तन्त्रम्| तथा हेतुलिङ्गौषध्याख्यस्कन्धत्रयमस्याभिधेयं तेनाभिधेयेनाभिधेयवत्तन्त्रम्| एवं च ग्रन्थकृतात्र प्रयोजनसन्बन्धाभिधेया युक्त्यैवोक्ताः| इन्द्रवज्रोपेन्द्रवज्राविरचितत्वादुपजातिवृत्तम्| यथा, "अनन्तरापादितलक्ष्मशोभौ पादौ भवेतां विविधैर्विकल्पैः| यासामिमावन्ययतिप्रपञ्चौ स्मृताः स्मृतिज्ञैरुपजातयस्ताः||" इति| सर्वत्रैव चात्र तन्त्रेऽनुष्टुभा समानीप्रमाणीवितानादिभेदभिन्नतया विरचनम्| यत्पुनरवसरान्तरे वृत्तान्तरविरचनमिह तत्सलक्षणं व्यञ्जयिष्यामः|

Adhikarana AyuShkAmIyAdhyAyaH prathamaH (1-2) · Śloka 2

इदानीमिष्टदेवतां नमस्कृत्य शास्त्रकारस्तन्त्रमारिरिप्सुरिदमाह अथात आयुष्कामीयमध्यायं व्याख्यास्यामः| (गद्यसूत्रम्)||१|| इति ह स्माहुरात्रेयादयो महर्षयः| (गद्यसूत्रम्)|२|

🔊 Audio coming soon

स०- अथेति| अथशब्दोऽस्मिन्मङ्गलाधिकारानन्तर्येषु द्रष्टव्यः| मङ्गलादीनां हि शास्त्राणां तदध्येतॄणां निष्प्रतिबन्धा प्रवृत्तिरभिप्रेतार्थसाधनाय जायते| अथशब्दश्चायं मङ्गलार्थः| तथा चोक्तम्-"ओङ्कारश्चाथशब्दश्च द्वावेतौ ब्रह्मणः पुरा| कण्ठं भित्वा विनिर्यातौ तेनेमौ मङ्गलौ स्मृतौ||"इति| अतोऽधिकारे| आयुष्कामीयं शास्त्रमधिक्रियते यावदत ऊर्ध्वं प्रतन्यते आतन्त्रपरिसमाप्तेस्तत्सर्वमायुष्कामीयं वेदितव्यम्| अत आनन्तर्ये च| नमस्कारादनन्तरमायुष्कामहितं व्याख्यास्याम इति| कथं पुनरेकस्यैव तन्त्रकारस्य व्याख्यास्याम इति बहुवचनं युज्यते| ब्रूमः| "अस्मदो द्वयोश्च" इत्येकत्वेऽपि बहुवचनविधानादभिलषन्तीति| युक्तमेवात्रैकस्मिन्नपि बहुवचनम्| आयुः शरीरेन्द्रियसत्वात्मसंयोगः| तथा च मुनिः (च. सू. अ. १|४१)-| "शरीरेन्द्रियसत्त्वात्मसंयोगो धारि जीवितम्| नित्यगं चानुबद्धं च पर्यायैरायुरुच्यते||" इति| एतीत्यायुः| सन्ततं यातीत्यर्थः| एवंविधं गत्वरस्वभावमपि हिताहारविहारसेवादिभिरहितवर्जनेन च कथमेतत् स्थिरीभवेदित्येवं कामयन्ते ये ते आयुष्कामाः| तेभ्यो हित आयुष्कामीयः| स पुनरायुर्वेदागमादिप्रकरणसमुदाय आयुष्कामयमानेनेत्यादिकः| आयुष्कामीय इति इसुसोः सामर्थ्ये इति षादेशः| तस्मै हितमिति छः| आयुष्कामीयशब्दोऽध्यायविशेषणार्थो नीलोत्पलदलवत्| बहुष्वध्यायेषु सत्सु कतममध्यायं व्याख्यास्याम आयुष्कामीयमिति| अधिकृतोऽध्यायनायेत्यध्यायस्तं व्याख्यास्यामः विविधप्रकारेण विशेषेण वा कथयिष्यामः| आयुष्कामैः पूर्वं दृष्टत्वादस्याध्यायस्यायुष्काम इति संज्ञा| अर्थगतिमधिकृत्याध्याय इति नाम| तथा चोक्तम्| (च. सू. अ. ३०|६५)- "अधिकृत्येयमध्यायनामसंज्ञा प्रतिष्ठिता" इति| तत्र पदसमुदायो वाक्यं वाक्यसमुदायः प्रकरणं, प्रकरणसमुदायो यः, सोऽध्यायः, अध्यायसमुदायः स्थानं, स्थानसमुदायस्तन्त्रमिति| विशब्दो नानार्थः| आङभिविधौ| उत्तराख्यश्चायमलङ्कारः| तस्य हि लक्षणम्| (काव्यालङ्कारे अ, ७|९३)- "उत्तरवचनश्रवणादुन्नयनं यत्र पूर्ववचनानां क्रियते तदुत्तरं स्यात्" इत्यादि| ततोऽनेन वाक्येन शिष्यवचनमीदृशमुन्नीयते| संसारेऽस्मिन्नमी प्राणिनो नानारोगानीकाभिभूतास्त्रातारमलभमानाश्चतुर्वर्गाद् भ्रश्यन्ते| तत्को नु भगवन्नत्रोपायः स्यादिति कृतप्रश्नो गुरुः प्रतिजज्ञे, अथात आयुष्कामीयमध्यायं व्याख्यास्याम इति| अथ शिष्यवचनानन्तरम्| अतो हेतोर्यस्मादयं शिष्यः श्रुतकुलशीलादिसंपन्नो धीमेधागुणभूषणभूतश्च| वि विविधैः प्रकारैः आ शिष्यबोधोत्पत्तेः| आयुष्कामीयमध्यायं व्याख्यास्यामो वर्णयिष्यामः| ननु कीदृशं तद्विविधप्रकारमाख्यानम्| ब्रूमः| पदतः, तदर्थतः, प्रयोजनतः, चोद्यतः, परिहारतः, सम्बन्धाभिधेयतश्च| पदतो यथा, आयुरितीदं पदम्| तदर्थतो यथा एतीत्यायुः| प्रयोजनतो यथा, अत्रैव धर्मार्थसुखसाधनम्| चोद्यतो यथा, ननु कथमेतत्केवलं धर्मार्थसुखसाधनमिति वक्तुं पार्यते| यतोऽस्यायुषः कर्मैव केवलं धर्मसाधनमिति वक्तुं नो पार्यते| यतोऽस्यायुषः परिपालनार्थं विशस्ताः काकगृध्रभासादयो राजयक्ष्मचिकित्सिते भोज्या इत्युक्तम्| अभक्ष्याश्चैते| श्रुतिस्मृत्योरभक्ष्यत्वेनोक्तत्वात्| एवमभक्ष्यभक्षणाद्धिंसया च पापयोगः| तद्योगाच्चाधर्मसाधनं न धर्मसाधनमिति| परिहारतो यथा, अत्रैवं परिहारो यज्ञाधिकारिशरीरनिमित्तं काकादीनां विशसनं भक्षणं विधीयमानं नाधर्माय| इतरथा क्रीडार्थं क्रियमाणमधर्मायैव| तथा च काकादयोऽपि तत्साधनोपयोगाद्धर्मेण तत्फलेन सम्बध्यन्ते यज्ञिया इव पशवः| तदेवमायुषो धर्मसाधनत्वं स्थितम्| सम्बन्धाभिधेयौ तूक्तावेव| ननु सन्त्येवान्यान्यपि महर्षिप्रणीतान्यायुर्वेदतन्त्राणि, किमनेन तन्त्रेण कृतेनेति| अत्र ब्रूमः| अपरतन्त्राणां सावद्यत्वादिदमुच्यते| अन्यानि हि तन्त्राणि सदोषाणि| तथा हि| यदेतत्तावद्भगवता चरकमुनिना प्रणीतं तन्त्रं रत्नाकर इव गन्भीर्यातिशययोगाद्दुर्बोधम्| तस्यापि सदोषतां प्रकटयन्ति वाचाटाः| तथा ह्यादौ तत्सूत्रम्| अथातो दीर्घञ्जीवितीयमध्यायं व्याख्यास्याम इति| अत्र दीर्घञ्जीवितीय इति शास्त्रादावयुक्तम्| यतो (च. सू. अ. १ श्लो. ३) दीर्घं जीवितमन्विच्छन्नित्यस्यानुकरणं दीर्घञ्जीवितमिति| सोऽस्मिन्नध्यायेऽस्तीति छः| तस्याध्यायानुवाकयोर्लुकि सति दीर्घञ्जीवितमिति प्राप्नोति| तदिदमविदितपरमार्थशब्दस्वरूपाणां वचनम्| तथाहि| अध्यायानुवाकयोरित्यादौ सूत्रे विकल्पेन चायं लुगिष्यत इति जगाद जयादित्यः| तेन लुकः पाक्षिकत्वादत्र लुक् न भवतीत्येवं युक्तमुक्तमिदम्| दीर्घशब्देन गुणोऽभिधीयते जीवितशब्देनापि गुण एव| तस्माद्द्वयोरपि गुणत्वादाधाराधेयभावो न युक्तः, यतो गुणाश्रयो नोक्त इति| तथा च वैशेषिकाः| निर्गुणा गुणा इति| अथ कालशब्दं लुप्तस्वरूपं निर्दिश्य दीर्घजीवितीयशब्दो निर्दिश्यते तदा युक्तमेवैतत्| तथा इन्द्रियोपक्रमणीयेऽध्याये छप्रत्ययोत्पत्तिः कथमेवं विधीयतां यतोऽस्मिन्नध्याय इन्द्रियोपक्रमणशब्दो नास्त्येव| एवमपामार्गतण्डुलीयेऽपामार्गतण्डुलशब्दस्याभावाच्च प्रत्ययोत्पत्तिर्दुर्लभा| तथा दिव्याम्भसो गाङ्गसमुद्रभेदः परीक्षा च नोक्ता| प्रत्युत तत्र पठ्यते| (च. सू. अ. २७|१९१)- "जलमेकविधं सर्वं पतत्यैन्द्रं नभस्तलात्| तत्पतत्पतितं चैव देशकालावपेक्षते" इति| तथा नालिकेरोदकस्य गुणा नोक्ताः| तथा, अपक्वक्वथितक्षीरस्य स्वरूपविशेषो नोक्तः| तथा कषाये कियदौषधं किमवशेषं क्वथनीयमित्यादि च नोक्तम्| मिश्रके स्नेह एवमभ्यधादसौ| "त्रिवृत्तां त्रिफलां दन्तीं दशमूलं पलोन्मितम्| चतुर्गुणं जलं दत्त्वा" इत्यादि| तदेषामौषधानां कियन्मानमपि सलिलेनैतावता कीदृशं किमुत क्वाथनिर्यासाविति| तथा क्वथितशीततोयमपि कियता पाकेन पथ्यं भवतीति नोक्तम्| मुद्गो ग्राहीति च नोक्तम्| तथा च तत्पाठः (च. सू. अ. २७|२२)-"कषायमधुरो रूक्षः शीतः पाके कटुर्लघुः| विशदः श्लेष्मपित्तघ्नो मुद्गाः सूप्योत्तमो मतः||" इति| तथा वास्तुकादीनां लघुत्वं नोक्तम्| तथाच तत्पाठः (च. सू. अ. २७|८५)- "पाठासुषासठीशाकं वास्तुकं सुनिषण्णकम्| विद्याद्ग्राहि त्रिदोषघ्नं भिन्नवर्चस्तु वास्तुकम्||" इति| तथेक्षुवर्गे, (च. सू. अ. २७|२३४)- " शैत्यात्मसादान्माधुर्यात्पौण्ड्रकाद्वांशिको वरः" इत्यसावभ्यधात्| पौण्ड्रकश्च वांशिकाद्वर इति सुप्रसिद्धमेतत्| अत्र मतिवैभवाद्भट्टारकहरिश्चन्द्रौ व्याख्याविशेषमवोचताम्| यथा पौण्ड्रकाद्वांशिकोऽवर इति| एवं चैतदुपपन्नमेव| तदेवमात्रेयस्यापि तन्त्रे यतो बहवो दोषा उद्भाव्यन्ते, ततः का गणना तन्त्रान्तराणाम्| तथा वेदोत्पत्तिरिति संज्ञा तन्त्रेऽस्मिन्सदोषत्वान्न कृता| तथा हि| आयुषो वेद आयुर्वेदः, तस्योत्पत्तिरायुर्वेदोत्पत्तिरिति भवितव्यम्| अत्र केचिदाहुः| आयुःशब्दलोपं कृत्वेह निर्देशः कृतः| एवमपि सति लोपस्तावदमङ्गलः| सोऽप्यायुषः स च शास्त्रादौ| इत्यन्याय्यैवैषा संज्ञा| किंच वेदोत्पत्तिरित्येतदपि तावद्वक्तुं न युज्यते, नित्यत्वादस्य वेदस्य| नित्यो ह्ययमायुर्वेदः| आयुःसन्तानादिनित्यत्वात्| तथा ह्यायुःसंतानः| सर्वप्राणिसंवेद्यशरीरापरशरीरगो मनःप्रबन्धनित्यतया नित्यः| अस्य नित्यत्वादायुर्वेदोऽपि नित्यः| नित्यत्वाच्चास्योत्पत्तिमत्त्वं वक्तुमयुक्तम्| नन्ववबोधोपदेशाभ्यामुत्पत्तिरस्योपलभ्यते| यतः प्रागुपदेशान्नासावुपलभ्यते| अत उपदेशानन्तरमुपदेशद्वारेणोपलभ्यते| तस्मादवबोधोपदेशावस्योत्पत्तिकारणत्वेन कल्पयित्वोत्पत्तिमत्त्वमस्योच्यत इति कैश्चिदूचे| नैतद्युक्तम्| यतः सतो बोधोपदेशौ स्तो नासतः| तथा चाचष्टे लोकः| अमुना गुरुणा छात्रायोपदिष्टं शास्त्रमिदमिति| सत एवोपदेशावबोधौ स्तः| तस्मान्नावबोधोपदेशावस्योत्पत्तिकारणमित्यतोऽपि हेतोर्वेदोत्पत्तिसंज्ञेत्ययुक्ता| इति संज्ञानां सावद्यत्वं निरूप्य निरवद्यायुष्कामीयसंज्ञा हि तन्त्रे कृता| ययोच्चारितमात्रयैवाऽशेषस्तन्त्रार्थः प्रकाश्यते| प्रतिस्थानं च योऽध्यायः प्रथमस्तत्संज्ञया स्थानार्थः| अन्ये च येऽध्यायास्तन्त्रेऽस्मिंस्तत्संज्ञाभिर्यथास्वतन्त्रमर्थजातं प्रकाशयन्त इति| इदमिदानीं पृछ्यते तन्त्रकारः| यदस्मिंस्तन्त्रे किंचिदुच्यते स्म भवद्भिस्तत्स्वबुद्धिपरिकल्पितमुत नेत्याह| स० - इतिशब्द एवमर्थे| यथा इति ह स्म, तानाह| हशब्दोऽनुकम्पायाम्| ब्रूधातोः स्म उपपदे भूतानद्यतनपरोक्षे 'लट् स्मे' इति लट आहादेशः| अत्रेरपत्यमात्रेयः| 'इतश्चानिञः' इति ढक्| आत्रेय आदिर्येषां धन्वन्तरिप्रभृतीनां त एवम्| महान्तश्च ते ऋषयश्च महर्षयः| महत्वं तज्ज्ञानातिशययोगात्| तेनायमर्थोऽनेन कारणेनानुकम्पया, न तु फलाकाङ्क्षया, भगवन्त आत्रेयादयो महर्षयोऽब्रुवन्| नास्माभिः स्वमतिपरिकल्पितं किञ्चिदप्यत्रोक्तम्| केवलं दूतसन्देशवचनन्यायेन युगानुरूपः क्रममात्रोऽन्यथा कृत इत्यर्थः| तथा चास्यैवसङ्ग्रहे- (सू. अ. १) "न मात्रामात्रमप्यत्र किञ्चिदागमवर्जितम्| तेऽर्थाः स ग्रन्थसन्दर्भः संक्षेपाय क्रमोऽन्यथा" इति| तदेवमागमप्रामाण्यमस्य तन्त्रस्येत्युक्तं भवति|

Adhikarana AyurvedotpattiH (2) · Śloka 2

आयुःकामायमानेन धर्मार्थसुखसाधनम्| आयुर्वेदोपदेशेषु विधेयः परमादरः||२||

🔊 Audio coming soon

स०- आयुर्वेदयति ज्ञापयति प्रकृतिज्ञानरसायनदूतारिष्टाद्युपदेशादित्यायुर्वेदः| तस्योपदेशा आयुर्वेदोपदेशाः| उपदिश्यन्त आयुर्वेदार्था उपपत्तिभिरित्युपदेशा आयुर्वेदतन्त्राणि| तेषु परमादरः पाठावबोधानुष्ठानरूप उत्कृष्टो यत्नः कार्यः| आयुर्वेदोपदेशेष्विति बहुवचननिर्देशादयमर्थो बोध्यते| बहुष्वायुर्वेदतन्त्रेषु यत्नः कार्यः| अनेकायुर्वेदावलोकनाद्धि चिकित्सायां वैद्यस्य न मनागपि सन्देहो जायते| किं कुर्वता पुरुषेण-आयुः कामयमानेन जीवितमभिलषता| किम्भूतमायुः, धर्मार्थसुखसाधनम्| ध्रियते लोकोऽनेनेति धर्मः| अर्थ्यते याच्यत इत्यर्थः| सुखं द्विविधम्, तादात्त्विकमात्यन्तिकं च| तादात्विकं कियत्कालान्तरास्थायित्वात्सुखावभासं, न परमार्थतः सुखम्| तथा चोक्तम्- (च. सू. अ. २८/३७) 'तादात्वसुखसंज्ञेषु भावेष्वज्ञोऽनुरज्यते'| इति| तदेतत्संज्ञामात्रेण सुखं न त्वत्यन्तमिति प्रदर्शयितुं सुखसंज्ञेष्विति मुनिनोक्तम्| आत्यन्तिकं सुखं मोक्षाख्यं, यत्र न दुःखानां श्लेषः| तेषां साधनमुपायो धर्मार्थसुखसाधनम्|

Adhikarana AgamashuddhiH (3-4) · Śloka 4

अथास्यायुर्वेदस्य गौरवोत्पादनायागमशुद्धिं दर्शयति ब्रह्मा स्मृत्वाऽऽयुषो वेदं प्रजापतिमजिग्रहत्| सोऽश्विनौ तौ सहस्राक्षं सोऽत्रिपुत्रादिकान्मुनीन्||३|| तेऽग्निवेशादिकांस्ते तु पृथक् तन्त्राणि तेनिरे| |४|

🔊 Audio coming soon

स०- ब्रह्मेत्यादि| ब्रह्मा आयुषो वेदं स्मृत्वा प्रजापतिं दक्षमजिग्रहद् अवाबोधयत्| स्मृत्वेत्यनेनैतद्गमयति ब्रह्मणः स्मर्तृत्वमेवात्र न कर्तृत्वम्| नित्यत्वादायुर्वेदस्य| नित्यत्वं चास्य प्राक् प्रत्यपादि| ग्रहेर्ण्यन्तस्यात्र बुद्ध्यर्थत्वात् प्रजापतिशब्दस्य गतिबुद्धीत्यादिना कर्मसंज्ञा| स प्रजापतिरश्विनावजिग्रहत्| तौ सहस्राक्षमिन्द्रमजिग्रहतामिति वचनविपरिणामेन सम्बन्धः| स शक्रोऽत्रिपुत्रादिकान् मुनीन् बोधयामास| अत्रिपुत्र आत्रेय आदिर्येषां धन्वन्तरिनिमिकाश्यपादीनां त एवम्| ते चात्रेयादयोऽग्निवेशादिकानजिग्रहन्| ते त्वग्निवेशादयः षट् पृथक् प्रत्येकं तन्त्राणि शास्त्राण्यग्निवेशभेडजातूकर्णपराशरहारीतक्षारपाणिनामाभिधेयानि तन्त्राणि तेनिरे विस्तारितवन्तश्चक्रुः| तन्त्र्यन्ते धार्यन्त आयुर्वेदार्था एभिरिति तन्त्राणि|

Adhikarana aShTA~ggahRudayopayogaH (4-5) · Śloka 5

ननु यदि तैस्तन्त्राणि पुनर्युगानुरूपसन्दर्भैः सङ्गृहीतानि| तत्किमिदानीमनेन शास्त्रेण कृतेनेत्याह | तेभ्योऽतिविप्रकीर्णेभ्यः प्रायः सारतरोच्चयः||४|| क्रियतेऽष्टाङ्गहृदयं नातिसंक्षेपविस्तरम्| |५|

🔊 Audio coming soon

स०- तेभ्य इति| तेभ्यो ग्रन्थेभ्योऽतिविप्रकीर्णेभ्यो विक्षिप्तेभ्य उच्चावचोक्तार्थतयैवेतश्चेतश्च गतेभ्यः| अत एव कश्चिदेवार्थः कस्मादेव तन्त्रान्तराज्ज्ञायते| यथा शल्यचिकित्सा सुश्रुतप्रणीतात्तन्त्रादेवावगम्यते न तथाग्निवेशादिकात्| ऊर्ध्वाङ्गचिकित्सा च जनकप्रणीतात्तन्त्राद्यथावगम्यते न तथा सुश्रुतप्रणीतात्| अतः प्रायो बाहुल्येन सारतरोच्चयः क्रियते| उच्चीयन्ते सङ्गृह्यन्ते विक्षिप्ताः पदार्था अनेनेत्युच्चयः| यथा वा यवादीनां बहुक्षेत्रजातानामेकस्मिन् स्थाने उच्चयो राशीकृत्य स्थापनं विधीयते तथेह सारतराणामुच्चयः| सारतरग्रहणेनैतद्द्योतयति, सङ्ग्रहेणैव साराणामुच्चयः कृतः| अनेन तथा सारतराणां प्रदेशानामुच्चयः क्रियत इति| किं नाम अष्टाङ्गहृदयम्| एतच्च सान्वयार्थमस्य नाम| यथा शरीरस्य सर्वावयवेभ्यः प्रधानदेशो हि हृदयम्, तथेदमष्टाङ्गायुर्वेदस्य प्रधानभूतत्वाद् हृदयमिव हृदयम्| तथा च तन्त्रान्ते वक्ष्यति (उ. अ. ४०|८८)- हृदयमिव हृदयमेतदित्यादि| अष्टौ च तान्यङ्गान्यष्टाङ्गानि, तेषां प्रत्येकं हृदयं, सारतरसङ्ग्रहणात्| कीदृशमष्टाङ्गहृदयम्| नातिसंक्षेपविस्तरम्| संक्षेपश्च विस्तरश्च संक्षेपविस्तरौ, अतिशयेन संक्षेपविस्तरौ यत्र न, तन्नातिसंक्षेपविस्तरम्| अतिशब्दस्यात्र प्रत्येकं सम्बन्धः| अतिसंक्षेपं किञ्चित्तन्त्रं यथा सिद्धसारादि, किञ्चिच्चातिविस्तरं यथा सङ्ग्रहादि| इदं तु तन्त्रं नातिसंक्षेपविस्तरम्| अतिसंक्षेपोक्तं स्वल्पधियां नोपकृतये| तेषां हि यथोक्तागममात्रं श्रेयः, न तु वाक्यार्थपर्यालोचनादधिकः परामर्शः| अतिविस्तीर्णं तु पाठावबोधानुष्ठानैस्तेषां दुःशक्यं स्यात्| तस्मादल्पमध्योत्त्कृष्टबुद्धिशिष्यहितार्थं तन्त्रमेतदुद्दिष्टम्|

Adhikarana aShTA~ggAni (5-6) · Śloka 6

कानि पुनस्तान्यष्टाङ्गानीत्याह | कायबालग्रहोर्ध्वाङ्गशल्यदंष्ट्राजरावृषान्||५|| अष्टावङ्गानि तस्याहुश्चिकित्सा येषु संश्रिता| |६|

🔊 Audio coming soon

स०- कायेति| कायश्च बालश्च ग्रहश्चोर्ध्वाङ्गं च शल्यं च दंष्ट्रा च जरा च वृषश्चेतीतरेतरद्वन्द्वः| ननु सर्वस्याश्चिकित्सायाः कायाश्रितत्वात् कायशब्दोऽर्थादाक्षिप्त एव| तत्किमर्थं कायशब्द उपादीयते| ब्रूमः| प्रकर्षार्थम्| यथा पुरुषाय अभिरूपाय कन्या देयेत्यत्राभिरूपग्रहणादभिरूपतमायेति प्रतिपाद्यते, तथेहापि प्रकृष्टो यः कायः सम्पूर्णधातुः प्रकृष्टा च यावस्था, तथा युक्तः| तत्सङ्ग्रहार्थः कायशब्द उपात्तः| तथा 'चिञ् चयने' इत्यस्माद्धातोर्व्युत्पादितः कायशब्दः| चीयते प्रशस्तदोषधातुमलैरिति कायः| तदेवं सर्वशरीरोपतापकानामामपक्वाशयस्थनोद्भवानां ज्वररक्तपित्तातिसारादीनां रोगाणां यत्रोपशमयोगो निगद्यते, तत्कायचिकित्सानामाङ्गम्| बलसत्त्वसम्पूर्णधातुत्वाद् यौवनावस्थकायस्य प्रथमनिर्देशः| बालदेहेऽसम्पूर्णबलधातुत्वादप्रकृष्टवयोवस्थाप्रभावात् तच्चिकित्साङ्गं पृथङ्निर्दिष्टम्| तथा बालौपयिकभेषजं धात्रीदुग्धलक्षणं दुग्धोद्भवव्याधिप्रशमादिनिर्देशाच्च| नन्वेवं वृद्धस्य प्रकृष्टवयोवस्थाया अभावात्तद्देहे कायचिकित्सेति कथं व्यपदेशः स्यात्| अत्र ब्रूमः| भूतपूर्वगत्या वृद्धदेहेन हि प्रकृष्टवयोवस्था पूर्वमनुभूता| अतो भूतपूर्वगत्या तत्र कायचिकित्सोपदेशो युक्तः| एवं ग्रहचिकित्सा नाम, यत्र देवादिग्रहगृहीतानां प्राणिनां शान्तिकर्म विधीयते| यत्रोर्ध्वजत्रुगतानां रोगाणांनेत्रकर्णघ्राणादिसंश्रितानामाश्चोतनशलाकादिनोपशमो वर्ण्यते तदूर्ध्वाङ्गचिकित्सानामाङ्गम्| अत्र च जन्मनः प्रभृति विचारोपदेशाद्बालचिकित्सैव प्राग्वक्तुं युक्ता| किन्तु कायचिकित्सा प्राधान्यात्प्रागुपन्यस्ता| ततोऽनन्तरं बालचिकित्सा| बालस्य च ग्रहसम्बन्धाद् ग्रहचिकित्सा| ततः शरीरस्य मूलरक्षार्थमूर्ध्वाङ्गचिकित्सा शालाक्यं नाम| ततः शस्त्रसाधनसामान्येन शल्यचिकित्सा| पीडाकरणसमानत्वात् दंष्ट्राचिकित्सा| दंष्ट्रा विषात्मिका| विषेणाशु च मरणे सम्भाव्यमाने रसायनोपयोगो युक्त इति रसायनचिकित्सा| अथवा विषस्य रसायनजेयत्वाद्रसायनकथनप्रस्तावः| ततोऽनन्तरं वाजीकरणस्य भरणेन प्रस्तावः| तथा चाधीते ग्रन्थकृत् (उ.अ.४०|१)- "वाजीकरणमन्विच्छेत्सततं विषयी पुमान् " इति| रसायनस्य पश्चादित्यर्थः| यत्राल्पदुष्टरेतसां तदाप्यायनप्रसादोपजननरूपा चिकित्सा क्रियते तद्वाजीकरणम्| एवमेतानि कायादीनि, तस्यायुर्वेदस्य, अष्टावङ्गान्याहुर्वदन्ति| ब्रह्माऽऽत्रेयादय इति शेषः| येषु कायादिषु चिकित्सा संश्रिता व्यवस्थिता| (च.सू.अ.९|५)- " चतुर्णां भिषगादीनां शस्तानां धातुवैकृते| प्रवृत्तिर्धातुसाम्यार्था चिकित्सेत्यभिधीयते|" इति मुनिप्रोक्तलक्षणं नेह तन्त्रकृद्व्यधत्त| चिकित्साशब्दादेवास्यार्थस्य लब्धत्वात्| तथा च निर्देष्टुमाह| निन्दाक्षमाव्याधिप्रतीकारविचारणासु सा निष्पद्यत इति| कितेर्धातोर्व्याधिप्रतीकार एवास्य व्युत्पादितत्वात्|

Adhikarana doShAH (6) · Śloka 6

कायस्य दोषधातुमलसमुदायत्वात्तानेव दोषादीन् निर्दिदिक्षुराह | वायुः पित्तं कफश्चेति त्रयो दोषाः समासतः||६||

🔊 Audio coming soon

स०- वायुरिति| च समुच्चये| कफो दोषमध्ये समुच्चीयते| इत्यनेन प्रकारेण, समासतः संक्षेपात्, त्रयो दोषाः| ननु प्रस्तुतत्वादिह धातुसंज्ञया वातादयो निर्देष्टुं न्याय्याः, न दोषसंज्ञया| अस्त्येवैतत्| किन्तु रसादिदूषणपूर्वकमेषां विकारकरणे सामर्थ्यमिति प्रदर्शनार्थं दोषसंज्ञया ते निर्दिष्टाः , न धातुसंज्ञया| न ह्येते धातुरूपा जातु विरुद्धत्वं कुर्वते देहधारणवर्धकत्वात्| एते मुनिनापि चरकेण पूर्वं दोषसंज्ञयैव निर्दिष्टाः| तथा च तद्ग्रन्थः (सू.अ.१/५६)- "वायुः पित्तं कफश्चोक्तः शारीरो दोषसङ्ग्रहः " इति| 'वातपित्तकफा दोषास्त्रय एव समासतः ' इत्येवं निर्देशे कर्तव्ये यदेषां पृथग्विभक्त्या निर्देशः कृतः , स प्रधानत्वख्यापनार्थः| बहुवचनादेव त्रित्वे लब्धे त्रिग्रहणं नियमार्थम्| त्रय एव दोषाः , न चतुर्थोऽस्तीति| तन्त्रान्तरीया हि चतुर्थं दोषमीहन्ते| तेषां ह्ययमभिप्रायः| यथा दोषाणां स्थानलक्षणकार्यविकारचिकित्साद्युपदेशस्तथा रक्तस्यापि| तत्र स्थानं , सर्वदेहव्यापित्वेऽपि प्लीहयकृती| लक्षणं च, पद्मेन्द्रगोपहेमादीत्यादि| कार्यं, देहस्योत्पत्तिस्थिती| विकारः, विसर्पप्लीहादि| चिकित्सा, सिराव्यधादिकं कर्मेति| तदेतदसारम्| वातादयो ह्यस्य दूष्यस्य सतः कथं दोषत्वं कर्तुं पारयन्ति| यतः प्राधान्यादन्वर्थनामत्वाच्च वातादीनामेव दोषत्वं, न रसादीनाम्| वातादयो हि स्वातन्त्र्यात्प्रधानाः| दूषयन्तीति दोषा इति तेषामेव चानुगतार्था संज्ञा प्रवृत्ता| रसाद्यास्तु पारतन्त्र्यादप्रधानाः| ते च वातादिभिर्दूष्यन्त इति दूष्याः| तस्माद्रक्तस्य दूष्यत्वम्, न दोषत्वम्| यद्येवं वातादीनामन्योन्यदूषणाद् दूष्यत्वं स्यात्| पित्तेन हि श्लेष्मा दूष्यत इति दृश्यते| यथा पाण्डुरोगनिदाने (नि.अ.१३) पित्तप्रधाना इत्यारभ्य यावत् श्लेष्मत्वग्रक्तमांसानि प्रदूष्येत्यादि| तदत्र श्लेष्मा पित्तेन दूष्यते| तथा श्लेष्मवद्रक्तस्यापि दोषत्वप्रसङ्ग इति यो मन्येत, तं प्रति ब्रूमः| विषम उपन्यासः| वातादयो हि सर्वदैव रसादीन् दूषयन्ति, न तु रसादयः कदाचिदपि वातादीन् दूष्यन्ति| वातादीनां तु मध्याद्यदि कश्चिद्दूष्यते, स तेषामन्यतमेन| तथा च प्रकृतिलक्षणे वातप्रकृतेः पित्तप्रकृतेः, श्लेष्मप्रकृतेश्च यथा लक्षणं दृश्यते, नैवं रक्तप्रकृतेः| तथा च तन्त्रकारेण ज्वरादयो वातादिविशेषणविशिष्टा एवोक्ताः| यथा वातज्वरोऽयं पित्तज्वरोऽयं श्लेष्मज्वरोऽयम्, न तु रक्तज्वरोऽयमिति निर्दिष्टः| येऽपि रक्तजा विकारा विसर्पादयस्तेष्वपि घृतदग्धन्यायेन व्यपदेशो बोध्यः| यथा घृतस्यान्तर्हितेनाग्निना दग्धो घृतदग्ध इत्युच्यते, तद्वद्रक्तस्थैर्वातादिभिर्दोषैर्जातो रक्तजोऽयमित्युच्यते| यत्र क्वचिद्रक्तस्य दोषसंज्ञा कुष्ठचिकित्सितादौ दृश्यते, सा संज्ञामात्रेणैव, नासावनुगतार्था| तस्य दूष्यत्वेनैव प्रवृत्तेः| तथा चैवं पुरीषादीनामपि संज्ञामात्रेण व्यवहारो दृश्यते| यथा (हृ.चि.अ.१८|३८)- "न घृतं बहुदोषाय देयं यन्न विरेचनम्| तेन दोषो ह्युपस्तब्धः" इत्यादि| अत्र पुरीषस्य दोषत्वमुक्तम्| तथोदरचिकित्सिते चरकस्य, ज्वरचिकित्सिते वा अस्य, (हृ.चि.अ.१|१०)- "दोषेण भस्मनेवाग्नौ छन्नेऽन्नं न विपच्यते| तस्मादादोषपचनाज्ज्वरितानुपवासयेत्||" इति| अत्र आमस्यापि दोषत्वमुक्तम्| तदेवं वातादयस्त्रय एव दोषाः, न रक्तमिति स्थितमेतत् समासतः| विस्तरतस्तु संसर्गसन्निपातक्षयसमताभेदभिन्नास्तारतम्यपरिकल्पनया च कल्प्यमाना आनन्त्यं यान्ति|

Adhikarana doShAvasthAdvayam (7) · Śloka 7

विकृताविकृता देहं घ्नन्ति ते वर्तयन्ति च| |७|

🔊 Audio coming soon

स०-विकृताः स्वभावप्रच्युताः, देहं घ्नन्ति| देहपदमत्र जीवितोपलक्षणार्थम्| जीवितेन विना कुर्वन्तीत्यर्थः| अविकृताः पुनर्देहं वर्तयन्ति यापयन्ति| विकृतानां दोषाणां प्रागुपन्यासः, तेषां प्रकृत्यवस्थाने नित्यं भिषजा यत्नवता भाव्यमिति सूचनार्थम्| अन्यथा महान्प्रत्यवायः स्यात्|

Adhikarana doShasthAnAni (7) · Śloka 7

इदानीमेषां व्यापिनामपि विशिष्टस्थानं विवक्षुराह | ते व्यापिनोऽपि हृन्नाभ्योरधोमध्योर्ध्वसंश्रयाः||७||

🔊 Audio coming soon

स०- अधश्च मध्यश्चोर्ध्वं चाधोमध्योर्ध्वानि, तानि संश्रय आश्रयो येषां तेऽधोमध्योर्ध्वसंश्रयाः| हृच्च नाभिश्च हृन्नाभी, तयोर्हृन्नाभ्योः| ते वातादयो यापिनोऽपि सर्वशरीरचरा अपि हृन्नाभ्योरधोमध्योर्ध्वसंश्रयाः| विशेषेणेति वाक्यशेषः| ननु किमिदं वाक्यशेषत्वं नाम| उच्यते| यस्मिन् खलु पदेऽनुच्चार्यमाणेऽर्थगतिं पश्यन्त्याचार्याः, तच्छेषमिति| उच्चारणकाले तेन विनाऽभिधेयसिद्धेः| व्याख्याकाले तु मन्दबुद्धिव्युत्पत्तये व्याचक्षते| तत्र नाभेरधो वायोः स्थानम्| हृन्नाभ्योर्मध्ये पित्तस्य| हृदयादूर्ध्वं कफस्य| ननु हृन्नाभ्योरिति कथं निर्देशो यावता प्राण्यङ्गत्वादेकवद्भावे सनपुंसकमिति नपुंसकत्वे हृन्नाभि इति प्राप्नोति| अत्र ब्रूमः| प्राण्यङ्गानां समाहार एव द्वन्द्व इत्यस्य प्रायिकत्वान्नैकवद्भावः| तदभावाच्च तदाश्रयं नपुंसकत्वं न भवति| तथा चोक्तम्| सर्वोऽपि द्वन्द्वो विभाषैकवद्भवतीति| दृश्यते चान्यत्रापि| तथा च रुद्रभट्टः (रुद्रटः काव्यालङ्कारे अ.७/८१)- - "कौटिल्यं कचनिचये करचरणाधरदलेषु रागस्ते" इत्यादि| तथा, अस्यैव ग्रन्थकृतः (नि.अ.७/१९) "शिरःपृष्ठोरसां शूलं" इति| तथा, (नि.अ.१६|६) "जानुजङ्घोरुकट्यंसहस्तपादाङ्गसन्धिषु" इति| तथा, "वायुः सन्ध्यस्थिमज्जसु" इत्यादि| तस्माद्धृन्नाभ्योरिति प्रयोगो न्याय्य एव|

Adhikarana doShakAlAH (8) · Śloka 8

अथैषां सकलकालव्यापिनामपि नियतकालत्वं दर्शयन्नाह वयोहोरात्रिभुक्तानां तेऽन्तमध्यादिगाः क्रमात्| |८|

🔊 Audio coming soon

स०-वयश्च अहश्च रात्रिश्च भुक्तं च वयोहोरात्रिभुक्तानि तेषां, क्रमाद्यथासंख्यं, ते वातादयः, अन्तमध्यादिगा भवन्ति| अन्तश्च मध्यश्चादिश्चान्तमध्यादयस्तेषु गच्छन्तीत्यन्तमध्यादिगाः| अन्यत्रापि दृश्यत इति डः| तेनायमर्थः, वयसः मनुष्यायुषः, अन्तः पश्चिमो भागः, वायोः कोपकालः| मध्यो भागः पित्तस्य| आद्यो भागः कफस्य| एवमह्नो रात्रेश्च योज्यम्| भुक्तमाहारः, तस्यान्ते जठराग्निसंयोगवशाद्रसानां जीर्णप्रायावस्था, वायोः कोपकालः| मध्यो विदाहावस्था, पित्तस्य| आद्यावस्था तु यस्यां मधुरीभाव आहारस्य, तत्र कफस्य कोपकालः| यद्यपि चाहारस्य जठराग्निसंयोगवशाद्बह्व्योऽपि सूक्ष्मा अवस्थाः सम्भाव्यन्ते, तथाप्येतासामेव सुतरामुपयोगित्वादिह निर्देशः| तथा एता एव तिस्रोऽवस्थाः स्वकर्म दर्शयन्ति| वक्ष्यति हि (शा.अ.३/५७)- - "आदौ षड्रसमप्यन्नं मधुरीभूतमीरयेत्| फेनीभूतं कफं, यातं विदाहादम्लतां ततः| पित्तमामाशयात्कुर्याच्च्यवमानं, च्युतं पुनः| अग्निना शोषितं पक्वं पिण्डितं कटु मारुतम्" इति|

Adhikarana agnisvarUpam (8) · Śloka 8

अधुनाऽग्निस्वरूपं प्रस्तौति | तैर्भवेद्विषमस्तीक्ष्णो मन्दश्चाग्निः समैः समः||८||

🔊 Audio coming soon

स०- तैश्च वातादिभिः पुंसो यथाक्रमेणाग्निर्विषमस्तीक्ष्णो मन्दश्च भवेत्| वातादयश्च समुदिता एव शरीरजनने समर्थाः, इत्यवश्यं सर्वैरेव भवितव्यम्| इह तु य एकस्य व्यपदेशस्तत्रोत्कर्षो द्रष्टव्यः| वातोत्कर्षेण विषमः, पित्तोत्कर्षेण तीक्ष्णः, कफोत्कर्षेण मन्द इति| समैर्हान्युत्कर्षवर्जितैः समः| लक्षणमेषामङ्गविभागे शारीरे वक्ष्यति (शा. अ. ३/७४)- यः पचेत्सम्यगेवान्नमित्यारभ्य यावच्चिरात्पचेदिति| यत्र तु द्वयोर्दोषयोरुत्कर्षत्वं, तत्र सद्वैद्येन स्वधिया कल्प्यम्| यथा, वातपित्तयोरुत्कर्षे वायोर्योगवाहित्वात्तीक्ष्णः| एवं वातकफयोरुत्कर्षे मन्दः| कफपित्तयोस्तूत्कर्षे आहारविशेषवशात्कदाचित्तीक्ष्णः कदाचिन्मन्द इति|

Adhikarana koShThacAturvidhyam (9) · Śloka 9

अग्निचातुर्विध्यमुक्त्वा तदाश्रयस्य कोष्ठस्य चातुर्विध्यं विवक्षुराह कोष्ठः क्रूरो मृदुर्मध्यो मध्यः स्यात्तैः समैरपि| |९|

🔊 Audio coming soon

स०-तैर्वातादिभिः, यथाक्रमं क्रूरमृदुमध्यलक्षणः कोष्ठो भवति| वातोत्कर्षेण क्रूरः| पित्तोत्कर्षेण मृदुः| कफोत्कर्षेण मध्यः| समैः पुनरेतैर्हान्युत्कर्षवर्जितैर्मध्य एव कोष्ठः| क्रूरादीनां तु लक्षणं वमनविरेचनविधौ (सू.अ.१८/३४) वक्ष्यति| ननु समैर्वातादिभिः कथं मध्यकोष्ठता स्यादिति| ब्रूमः| समानां वातादीनां मध्ये द्वयोर्वातपित्तयोः स्वं स्वं क्रूरकोष्ठत्वमृदुकोष्ठत्वलक्षणाख्यं च विरुद्धं कर्म युगपत्कर्तुं न घटते| तृतीयस्तु सम एव कफः| सोऽनयोर्मध्ये मध्यमां वृत्तिमाश्रित्य स्थितो नैकेनापि सह विरुध्यते| अत एव तत्कार्यं मध्यकोष्ठतालक्षणं ते वातपित्ते निषेद्धुं नैव घटेते| एवं च तेनावश्यमात्मीयं मध्यकोष्ठतालक्षणं कर्म कर्तव्यम्, यतो वातकर्मणः क्रूरकोष्ठतालक्षणस्य पित्तकर्मणो मृदुकोष्ठतालक्षणस्य च विरुद्धत्वात्| अतो मध्यकोष्ठतैव समैर्वातादिभिर्न्याय्या| इत्यांस्तु विशेषः| पूर्वो यो मध्यकोष्ठः सोऽवश्यं प्रमाणाधिकेन कफेन जन्यते| मध्यः स्यात्तैः समैरपीति समग्रहणलिङ्गात्| इतरस्तु मध्यकोष्ठः समदोषमध्यस्थितेन समेनैव स्वप्रमाणस्थितेन श्लेष्मणा भवतीत्यनया रीत्या हेतुभेदादन्यत्वम्| तथा मध्यकोष्ठयोर्लक्षणभेदोऽपि दृश्यते| यथा (च.सि.अ.१/८)- "श्लेष्माधिकश्छर्दयते ह्यदुःखं विरिच्यते मन्दकफस्तु सम्यक्" इति| तदयमत्रार्थः| श्लेष्माधिके मध्यकोष्ठे न सम्यग् विरेचित्वं, समकफे तु मध्यकोष्ठे सुविरेचित्वमिति|

Adhikarana dehajanma prakRutisvarUpam (9-10) · Śloka 10

इदानीं प्रकृतिस्वरूपं प्रस्तौति शुक्रार्तवस्थैर्जन्मादौ विषेणेव विषक्रिमेः||९|| तैश्च तिस्रः प्रकृतयो हीनमध्योत्तमाः पृथक्| समधातुः समस्तासु श्रेष्ठा निन्द्या द्विदोषजाः||१०||

🔊 Audio coming soon

स०-तैश्च वातादिभिस्तिस्रः प्रकृतयः पृथग्भवेयुर्हीनमध्योत्तमाः| प्रकृतिः शरीरस्वरूपम्| शुक्रार्तवस्थैरिति, शुक्रं पितुर्द्वित्रिबिन्दुकावस्थं रेतः| ऋतौ भवमार्तवम्, मातुर्द्वित्रिबिन्दुकावस्थं शोणितम्| शुक्रं चार्तवं च शुक्रार्तवे, तत्र तिष्ठन्तीति शुक्रार्तवस्थाः, तैस्तथाविधैर्जन्मादौ गर्भाधानकाले जन्मप्रारम्भे गर्भादावित्यर्थः| ननु च यदा वातादयोऽधिकाः शुक्रार्तवे तिष्ठन्ति, तदा कुतः शरीरस्य निष्पत्तिर्भवतीति| यतश्च यो दोषाणामधिको भावः सैव विकृतिः| तत्कथं दोषा आधिक्यं प्राप्ताः प्रकृतेः कारणतामुत्सहन्ते, विकृतत्वात्| न हि विकृतिः कदाचित्प्रकृतेः कारणमिति वक्तुं युज्यते| कारणसदृशेन च कार्येण भवितव्यमित्याशंक्य सपरिहारं दृष्टान्तमाह| विषेणेव विषक्रिमेरिति| यथा विषेण जीवितनाशहेतुनास्य विषक्रिमेर्जन्म प्रकृतेः सम्भवो दृश्यते| तथा एतैर्दूषणस्वभावैरपि प्रमाणाधिकैर्दोषैः शुक्रार्तवस्थैरेव जन्मादौ शरीरस्य निष्पत्तिर्भवतीति| वातोत्कर्षेण हीना| पित्तोत्कर्षेण मध्यमा| कफोत्कर्षेणोत्तमा| सर्वासु प्रकृतिषु मध्ये या समधातुः प्रकृतिः, सा समा श्रेष्ठोत्तमा चतुर्थी| समा धातवो यस्याः| धातुशब्दोऽत्र दोषपर्यायः, "धारणाद्धातवः" इति (सं.सू.अ.२०) वचनात्| या वातपित्तजा वातश्लेष्मजा पित्तश्लेष्मजा इति मिश्रदोषजास्तिस्रः प्रकृतयस्ता निन्द्या गर्हणीयाः, अनारोग्यास्पदत्वात्|

Adhikarana tridoShaguNAH (11-12) · Śloka 12

तत्र रूक्षो लघुः शीतः खरः सूक्ष्मश्चलोऽनिलः| पित्तं सस्नेहतीक्ष्णोष्णं लघु विस्रं सरं द्रवम्||११|| स्निग्धः शीतो गुरुर्मन्दः श्लक्ष्णो मृत्स्नः स्थिरः कफः|१२|

🔊 Audio coming soon

स०-तत्रेति निर्धारणे| तत्र तेषु दोषेषु मध्ये, अनिलो वायुः, रूक्षो, लघुः, शीतः, खरोऽमृदुः, सूक्ष्मः स्रोतःप्रचारित्वात्, चलो गमनशीलो नैकत्र तिष्ठतीति| नन्वनुष्णाशीतो वायुः काणादैः पठितः| इहापि योगवाह्यनुज्ञानादनुष्णाशीत एवेष्यत इति| तथा चोक्तम् (च.चि.अ.३/३८)- "योगवाही परं वायुः संयोगादुभयार्थकृत्| दाहकृत्तेजसा युक्तः शीतकृत्सोमसंश्रया" इति| तथा (हृंइ.अ.२/४८)- "पवने योगवाहित्वाच्छीतं श्लेष्मयुते भवेत्| दाहः पित्तयुते" इति| उच्यते| सत्यमेतदनुष्णाशीत एव वायुः| तस्य योगवाहित्वेऽपि तावन्मात्राद्दाहोदयाच्छैत्यं स्वाभाविकं न विनश्यति| शीतगुणव्यावर्णने चेदं प्रयोजनमुष्णेनायमुपशाम्यतीति प्रतिपत्त्यर्थम्| स०-सस्नेहमीषत्स्निग्धम्| सशब्द ईषदर्थे| यथा (च.सू.अ.२७/२३७)- "सतिक्ता या सशर्करा"| एवमीषत्स्नेहो यस्य तत्सस्नेहम्| तीक्ष्णं शीघ्रकारि मन्दविपरीतं सूचीव भिनत्ति| उष्णम्| लघु| विस्रं दुर्गन्धि मत्स्यामगन्धि| सरं व्याप्तिशीलं सरणशीलमूर्ध्वाधः प्रवर्तते न स्थिरमास्ते, शकृद्विस्रंसि वा| द्रवं च| स०-स्निग्धगुणयोगात्स्निग्धः| शीतोऽनुष्णः| गुरुर्लघुर्न भवति| मन्दश्चिरकारी, तीक्ष्णविपरीतः| श्लक्ष्णोऽपरुषः| मृत्स्नो मृद्यमानोऽङ्गुलिग्राही पिच्छिलगुणयुक्तः चकचकायमानः| स्थिरोऽव्याप्तिशीलः| एवं तद्गुणयोगात् गुणगुणिनोरभेदोपचाराद्वातादयो गुणतो निर्दिष्टाः|

Adhikarana saMsargaH sannipAtashca (12) · Śloka 12

एषां च मिश्रीभूतानां तन्त्रव्यवहारार्थं संज्ञाद्वयमाह | संसर्गः सन्निपातश्च तद्द्वित्रिक्षयकोपतः||१२||

🔊 Audio coming soon

स०-एतदुक्तं भवति| द्वयोः स्वप्रमाणाधिकयोः क्षीणयोर्वा संयोगः संसर्गः| त्रयाणां दोषाणां वृद्धानां क्षीणानां वा संयोगः सन्निपातः|

Adhikarana dhAtavaH (13) · Śloka 13

दोषानुक्त्वा धातव उच्यन्ते रसासृङ्मांसमेदोऽस्थिमज्जशुक्राणि धातवः| सप्त दूष्याः|१३|

🔊 Audio coming soon

स०-रसादयः सप्त धातुसंज्ञाः शरीरधारणाद्धातवः| ते च दूष्याः, वातादिभिर्दूष्यन्त इति दूष्याः| यस्माद्वातादीनां दूषणस्वभावत्वाद्या दोषसंज्ञा, सान्वर्थसंज्ञा| दूषयन्तीति दोषाः| अतोऽवश्यं ते दूष्यमपेक्षन्ते| कर्म विना कर्तुः क्रियाया असम्भवात्| कर्तारं विना कर्मणो न कर्मत्वम्| एवं दोषैर्विना रसादीनां दूष्यनाम न घटते| तैर्विनाऽपि वातादीनां दोषनाम| तस्मात्परस्परापेक्षत्वादनयोर्दूष्यदोषयोर्दूष्यत्वेन दोषत्वेन च संज्ञालाभः|

Adhikarana malAH (13) · Śloka 13

मला मूत्रशकृत्स्वेदादयोऽपि च||१३||

🔊 Audio coming soon

स०- मूत्रशकृदादयो मला उच्यन्ते| अपिचेतिशब्दाद् दूष्याश्चेति| न केवलं रसादय एव दूष्याः, यावन्मलास्तेऽपि वातादिभिर्दूष्यन्त इति दूष्याः| एवं च रसादीनां दूष्यसंज्ञा धातुसंज्ञा च| तथा विण्मूत्रादीनां मलसंज्ञा दूष्यसंज्ञा च| इति दोषधातुमलनिर्देशेन देहो व्याख्यातः| तथा चोत्तरग्रन्थे (सू.अ.११/१)- "दोषधातुमला मूलं सदा देहस्य" इति| तस्य च देहस्य यथा सन्ततं केनचिदुपायेन परिपालनं निष्पद्यते, तमुपायं दर्शयितुमाह-

Adhikarana sarveShAM vRuddikShayau (14) · Śloka 14

वृद्धिः समानैः सर्वेषां विपरीतैर्विपर्ययः| |१४|

🔊 Audio coming soon

स०- सर्वेषां दोषधातुमलादीनां शरीराश्रितानां, समानैस्तुल्यसद्भावैः, वृद्धिः स्वप्रमाणाधिक्यम्| विपरीतैर्विशिष्टतया व्यवस्थितैः, विपर्ययः क्षयः| अयनं अयः गतिः, विपरीता गतिर्विपर्ययोऽपचयः| सामान्यविशेषैर्द्रव्यगुणकर्मभेदेन त्रिप्रकारोऽधिगच्छति| तथा चाहुः- "सर्वेषां सर्वदा वृद्धिस्तुल्यद्रव्यगुणक्रियैः| भावैर्भवति भावानां विपरीतैर्विपर्ययः"| द्रव्यतो यथोक्तम् (सं.सू.अ.१९)- "रक्तमाप्याय्यते रक्तेन, मांसं मांसेन, मेदो मेदसा, अस्थि तरुणास्थ्ना, मज्जा मज्ना, शुक्रं शुक्रेण, तथा गर्भश्चामगर्भेण"| तत्र रक्तेन रक्तमित्युभयमप्यौदकम्| मांसेन मांसमिति पार्थिवम्| तथा, सलिलात्मकं पयस्तदात्मकमेव श्लेष्माणमभिवर्धयति| तद्वत्क्षीरजातं घृतं शुक्रम्| तथा जीवन्तीकाकोल्यादयः सोमात्मानो द्रव्यविशेषाः सौम्यधात्वेककारणानि स्नेहबलपुंस्त्वौजांसि| मरीचपञ्चकोलभल्लातकादयो बुद्धिमेधाग्न्यादीन् संवर्धयन्ति| गुणतः- चोचमोचखर्जूराणि पार्थिवानि द्रव्यतो निर्दिष्टान्यपि श्लेष्माणमुदकात्मकमभिवर्धयन्ति, स्निग्धगुरुशीतादिगुणसामान्यात्| कर्मापि त्रिविधं कायवाङ्मनोव्यापारात्मकम्| तत्र कायिकानि- धावनलङ्घनप्लवनादीनि चलत्वसामान्याद्वायोर्वृद्धये| वाचिकानि--भाष्याध्ययनगेयादीनि, मानसानि-मनोव्यापाराश्चिन्ताकामशोकभयानि, तान्यपि मनसः क्षोभणहेतुत्वाद्वायोर्वृद्धिकराणि| तथा सन्तापकृत्त्वसामान्यात्क्रोधेर्ष्यादि पित्तस्य| स्वप्नालस्यशय्यासुखादीनि स्थैर्यसामान्यात्कफस्येति| विपर्ययस्तु क्षयाय| यथाह| द्रव्यतः (सं.सू.अ.१४, च.सू.अ.२५)- "गवेधुकान्नं कर्शनीयानाम्"| तत्र वातात्मिकया गवेधुकया पार्थिवानां मांसादीनां क्रशिमा क्रियते| तथा तैजसेन क्षारेण श्लेष्मणः| गुणतो यथा- आरनालमौदकं श्लेष्माणं तद्विपरीतैर्लघुरूक्षोष्णतीक्ष्णविशदगुणैः क्षपयति| कर्मतः- निद्रालस्यसौमनस्यानि सपरिस्पन्दं वातमपरिस्पन्दस्वभावतयाऽपचिन्वन्ति| तथा परिस्पन्दरूपाश्चिन्ताव्यवायव्यायामा मन्दपरिस्पन्दवैपरीत्यात्कफमिति|

Adhikarana rasAH (14-15) · Śloka 15

वर्णितमेव वृद्धिः समानैः, क्षयो विपरीतैरिति| तौ तु वृद्धिक्षयौ यतो वाय्वादीनां भवतः, तत्प्रख्यापनार्थमाह रसाः स्वाद्वम्ललवणतिक्तोषणकषायकाः||१४|| षड् द्रव्यमाश्रितास्ते च यथापूर्वंबलावहाः| |१५|

🔊 Audio coming soon

स०- स्वाद्वादयः षड्रसाः, रसनेन्द्रियग्राह्यत्वाद्रसाः| ते च रसा द्रव्यं पञ्चभूतात्मकमाश्रिताः, यथापूर्वं च बलावहाः| यो यः पूर्वो यथापूर्वं, बलावहा बलप्रापकाः| बलमावहन्ति प्रापयन्तीति यावत्| तस्मात्सर्वेभ्यो रसेभ्यो मधुरो रसः प्रकर्षेण देहिनां बलकरः| कषायस्तु सर्वेभ्यो जघन्यबलावहः| तत्र स्वादुर्मधुरो घृतगुडादिः| अम्लोऽम्लिकामातुलुङ्गादिः| लवणः सैन्धवादिः| तिक्तो भूनिम्बादिः| ऊषणः कटुको मरीचादिः| कषायो हरीतक्यादिः| स्वादुर्मधुरपर्यायः| ऊषणः कटुकपर्यायः| यथा त्र्यूषणं त्रिकटुकमुच्यते| कषाय एव कषायकः, यथा कटुरेव कटुकः| षडिति षडेव, न न्यूना अधिका वा| यद्यपि ते रसा गुणाः स्वाद्वादिभेदतस्तथा संसर्गतस्तथाऽनुरसतस्तारतम्यपरिकल्पनावशतोऽपि भिद्यमानरूपा अपि षट्त्वं नातिवर्तन्ते|

Adhikarana rasAnAM guNAH (15-16) · Śloka 16

| तत्राद्या मारुतं घ्नन्ति त्रयस्तिक्तादयः कफम्||१५|| कषायतिक्तमधुराः पित्तमन्ये तु कुर्वते| |१६|

🔊 Audio coming soon

स०- तत्र तेषु रसेषु मध्ये, आद्यास्त्रयः स्वाद्वम्ललवणाः, मारुतं घ्नन्ति शमयन्ति| अन्ये तु तिक्तोषणकषायास्तमेव चानिलं कुर्वते कोपयन्ति| तिक्तादयस्त्रयस्तिक्तोषणकषायाः कफं घ्नन्ति प्रशमयन्ति| अन्ये तु मधुराम्ललवणास्तमेव कफं कुर्वते| कषायतिक्तमधुराः पित्तं घ्नन्ति| अन्ये त्वम्ललवणकटुकास्तदेव पित्तं कुर्वते| एतेनेदमुक्तं भवति| मधुरो वातपित्तघ्नः श्लेष्मकरः| अम्लो वातं हन्ति, कफपित्ते तु जनयति| लवणो मारुतं हन्ति, कफपित्ते तु कुरुते| तिक्तः कफपित्ते नाशयति, वातं तु जनयति| ऊषणः कफं नाशयति, वातपित्ते तु जनयति| कषायः कफपित्ते हन्ति, वातं तु करोतीति|

Adhikarana rasAshrayadravyasya triprakAratvam prabhAvabhedAH (16) · Śloka 16

एषां च रसानामाश्रयो द्रव्यं, तच्च त्रिप्रकारमित्याह शमनं कोपनं स्वस्थहितं द्रव्यमिति त्रिधा||१६||

🔊 Audio coming soon

स०- इति अनेन प्रकारेण शमनादिभेदेन, त्रिधा त्रिप्रकारं, द्रव्यम्| अन्येन प्रकारेण द्विधा अथवा अनेकधा| इतिशब्दः प्रकारार्थेऽभिहितः| यत् कुपितान् वातादीन् दोषान् शमयति, तच्छमनम्| यथा- तैलं घृतं माक्षिकम्| तत्र तैलं स्नेहौष्ण्यगौरवयोगाद्वातं तद्विपरीतगुणं शमयति| सर्पिर्माधुर्यशैत्यमान्द्यगुणयोगात्तद्विपरीतगुणं पित्तम्| मधु च रौक्ष्यतैक्ष्ण्यकषाययोगात्तद्विपरीतगुणं कफम्| यद्वातादीन् दोषान् रसादीन्धातून् मूत्रादीन्मलांश्च कोपयति, तत्कोपनम्| यथा- यवकपाटलभाषमत्स्याममूलकसार्षपमन्दकदधिकिलाटविरुद्धमत्स्यपयः प्रभृति| दोषादीनां मलपर्यन्तानां स्वप्रमाणस्थितानां साम्यानुवृत्तिहेतुर्यद्द्रव्यं तत् स्वस्थेभ्यो हितम्| यच्च स्वास्थ्यानुवृत्तिं करोति, ऋतुचर्याध्याये सेव्यत्वेनोक्तम्| तथा मात्राशितीयाध्याये रक्तशालिषष्टिकयवगोधूमजाङ्गलमांसजीवन्तीशाकदिव्योदकक्षीरादि| तथा यदूर्जस्करं रसायनवाजीकरणं सर्वदा शीलनीयत्वेन निर्दिष्टम्|

Adhikarana vIryadvaividhyam (17) · Śloka 17

तस्य वीर्यमाह उष्णशीतगुणोत्कर्षात्तत्र वीर्यं द्विधा स्मृतम्| |१७|

🔊 Audio coming soon

स०- तत्र तस्मिन् द्रव्ये, वीर्यं द्विविधम्| विंशतेर्गुणानां मध्याद्द्वावुष्णशीतौ, तदुत्कर्षाद्वीर्यमिति सर्वायुर्वेदप्रसिद्धौ, द्वावेव गुणौ शीतोष्णौ वीर्यकरणहेतू| वीर्यं शक्तिः| उष्णगुणोत्कर्ष उष्णगुणातिशय एव कश्चिदुष्णवीर्याख्यां लभते| तथा शीतगुणोत्कर्षः शीतगुणातिशय एव शीतवीर्याख्याम्| यद्यपि नानात्मकमपि द्रव्यं, तथाप्यग्नीषोमात्मकत्वाज्जगतो द्विधैव वीर्यम्|

Adhikarana vipAkatraividhyam (17) · Śloka 17

द्रव्यविपाकमाह | त्रिधा विपाको द्रव्यस्य स्वाद्वम्लकटुकात्मकः||१७||

🔊 Audio coming soon

स०- विपाकस्त्रिविधः, सर्वद्रव्याणां परिणामकालभावी कार्यानुमेयो जाठराग्निसम्बन्धाद्रसस्य स्वरूपान्तरप्रादुर्भावः| स त्रिधैव, रसषट्त्वेऽपि न षोढा| तेन किञ्चित्स्वादुपाकं, किञ्चिदम्लविपाकं, किञ्चित्कटुविपाकं, द्रव्यम्| तत्र मधुरलवणयोर्मधुरो विपाकः| अम्लस्याम्लः| तिक्तकटुकषायाणां कटुकः| स च कार्यानुमेयः| तथा च वक्ष्यति (सू.अ.९/२०)- 'जाठरेणाग्निना योगाद्यदुदेति रसान्तरम्| रसानां परिणामान्ते स विपाक इति स्मृतः' इति| अत एव सोपसर्गः पाकशब्द उपात्तः| विशिष्टः पाको विपाकः, न पाकमात्रस्वरूपः| तथा च भट्टारकचरकमुनी (च.सू.अ.२६/६८)-'रसो निपाते द्रव्याणां विपाकः कर्मनिष्ठया| वीर्यं यावदधीवासान्निपाताच्चोपलभ्यते' इति| एवं कर्मनिष्ठानुमित एकरूपावस्थो जाठराग्निसंयोगाद्यो रसानां रसान्तरोद्भवः, स एव विपाकः| न तु यो जाठराग्निसंयोगमात्राद्रसानामनेकावस्थः, प्राङ्मधुरोऽनन्तरं स एव पच्यमानोऽम्लस्ततो विपच्यमानः स एव कटुर्विपाकः|

Adhikarana guNAH viMshatiH (18) · Śloka 18

द्रव्यस्य गुणानाह गुरुमन्दहिमस्निग्धश्लक्ष्णसान्द्रमृदुस्थिराः| गुणाः ससूक्ष्मविशदा विंशतिः सविपर्ययाः||१८||

🔊 Audio coming soon

स०- तत्र द्रव्ये गुर्वादयो दश गुणाः सविपर्यया विंशतिर्वेज्ञेयाः| एषां क्रमाद्विपरीता लघुतीक्ष्णोष्णरूक्षखरद्रवकठिनसरस्थूलपिच्छिलाः| गुरुस्तद्विपर्ययो लघुः| मन्दस्तद्विपर्ययस्तीक्ष्णः| हिमस्तद्विपर्यय उष्णः| स्निग्धस्तद्विपर्ययो रूक्षः| श्लक्ष्णस्तद्विपर्ययः खरः| सान्द्रस्तद्विपर्ययो द्रवः| मृदुस्तद्विपर्ययः कठिनः| स्थिरस्तद्विपर्ययः सरः| सूक्ष्मस्तद्विपर्ययः स्थूलः| विशदस्तद्विपर्ययः पिच्छिलः|

Adhikarana rogArogyakAraNam (19) · Śloka 19

रोगकारणमाह कालार्थकर्मणां योगो हीनमिथ्यातिमात्रकः| सम्यग्योगश्च विज्ञेयो रोगारोग्यैककारणम्||१९||

🔊 Audio coming soon

स०- कालः शीतोष्णवर्षलक्षणस्त्रिविधः| अर्थाः शब्दस्पर्शरूपरसगन्धा महाभूतगुणाः| तथा चागमः (च.शा.अ.१/२९)- "अर्थाः शब्दादयो ज्ञेया गोचरा विषया गुणाः" इति| कर्म क्रिया, कायवाङ्मनश्चेष्टा| कालश्चार्थश्च कर्म च तानि कालार्थकर्माणि, तेषां योगः सम्बन्धः, कालार्थकर्मणां योगः| किम्भूतः, हीनमिथ्यातिमात्रकस्तथा सम्यग्योगश्चेति| ये कालादीनां योगा हीनमिथ्यातिमात्रकाः, ते रोगैककारणम्| तेषामेव यः सम्यग्योगः, स आरोग्यैककारणं प्रधानकारणमिति| एकशब्दः प्रधानवचनः| यथा- 'एकः पार्थो धनुर्धरः' इति| कालस्य हीनयोगः स्वरूपहानिः| मिथ्यायोगः स्वरूपाद्वैपरीत्यम्| अतियोगः स्वरूपातिशयः| यथा- हीनशीतता हीनोष्णता हीनवर्षता हीनयोगे| शीतकालावसरेऽत्यौष्ण्यमुष्णकालावसरे शीतं वर्षाकालेऽवृष्टिर्मिथ्यायोगे| अतिशैत्यमत्यौष्ण्यमतिवर्षणमतियोगे| एतद्योगत्रयं रोगकारणम्| सम्यग्योगो यथास्वरूपस्थितिरारोग्यकारणम्| अर्थानां पुनः स्वेन स्वेनार्थेनेन्द्रियस्य हीनः संयोगो हीनयोगः| पुरुषानभिमतादिनार्थजातेनेन्द्रियस्य योगो मिथ्यायोगः| अत्यन्तसंयोगोऽतियोगः| एते त्रयो रोगकारणम्| यथास्वं सम्यग्योग आरोग्यकारणम्| कायादिकर्मणो हीनप्रवृत्तिर्हीनयोगः| वेगोदीरणादिकं सामिभुक्तभाषणादिकं रागद्वेषादिकं च यथास्वमुत्तरत्र (सू.अ.१२/४०) वक्ष्यमाणं मिथ्यायोगः| अतिप्रवृत्तिरतियोगः| सर्वेषां समा प्रवृत्तिः समयोगः| तेन हीनादयो योगास्त्रयो रोगकारणम्| सम्यग्योगस्त्वारोग्यकारणम्|

Adhikarana rogArogyayoH svarUpam (20) · Śloka 20

रोगारोग्ये के उच्येते इत्याह रोगास्तु दोषवैषम्यं, दोषसाम्यमरोगता| |२०|

🔊 Audio coming soon

स०- दोषाणां वातादीनां, वैषम्यं स्वप्रमाणादेकस्य द्वयोस्त्रयाणां वा वृद्धिः क्षयो वा, रुजाकरत्वाद्रोग एव| वैषम्यं विषमता स्वरूपाच्च्यावः| ततः कार्यकारणयोरभेदेन पठितो रोग इति| दोषाणां साम्यं स्वरूपादप्रच्युतिः समभावोऽरोगता आरोग्यं, स्वास्थ्यमिति यावत्|

Adhikarana rogadvaividhyam (20) · Śloka 20

| निजागन्तुविभागेन तत्र रोगा द्विधा स्मृताः||२०||

🔊 Audio coming soon

स०- तत्र तयो रोगारोग्ययोः, रोगा द्विधा निजागन्तुभेदेन| निजा वातादिदोषजन्मानः| आगन्तवो बाह्यहेतवः| तथा चाचार्यवचनम् (सं.सू.अ.२२)- "निजास्त्रिदोषोत्थाः| बाह्यहेतुजास्त्वागन्तवः"| अनयोरियान्विशेषः| निजे रोगे वातादयः पूर्वं वैषम्यं गत्वा पश्चाद्व्यथामभिनिर्वर्तयन्ति| आगन्तवः पुनः व्यथापूर्वमेवोत्पद्यन्ते, अनन्तरं तत्र वातादयः कुप्यन्तीति| अनेनोभयस्य निजागन्तुभेदभिन्नस्य व्याधेश्चेतः सन्तापकत्वं बोद्धव्यम्|

Adhikarana rogAdhiShThAnadvaividhyam (21) · Śloka 21

यत एवं देहमनसी रोगाधिष्ठानत्वेन स्थिते, न केवलो देहो नापि केवलं मनः| तस्मादतोऽनन्तरमिदमाह- तेषां कायमनोभेदादधिष्ठानमपि द्विधा| |२१|

🔊 Audio coming soon

स०- तेषां निजागन्तुकानां विकाराणां रोगाणां, कायमनोभेदेन द्विविधमधिष्ठानं स्थानम्| ज्वरास्रपित्तकासादीनां कायः| मदमूर्छासन्न्यासग्रहभूतोन्मादापस्माररागद्वेषादीनां मनः| अधितिष्ठन्त्यस्मिन्नित्यधिष्ठानम्| कायः शरीरम्| मनश्चेतः|

Adhikarana manaso dvau doShau (21) · Śloka 21

ननु कायिकानां रोगाणामुत्पत्तौ हेतवो वातादयो दोषाः प्रकुपिता उक्ताः| मानसानां च रोगाणां को हेतुः, तदर्थमाह | रजस्तमश्च मनसो द्वौ च दोषावुदाहृतौ||२१||

🔊 Audio coming soon

स०- मनश्चेतः, तस्य रजस्तमसी दोषौ, उपप्लवावविद्यासम्भवौ| अत्र च प्राधान्यादादौ रजो निक्षिप्तम्| चशब्दः पवनादीनामप्युपसङ्ग्रहार्थः| यस्मात्तेऽपि मनः संश्रित्य विकुर्वते| सङ्ग्रहे ह्युक्तम् (उ.अ.९)- "षडुन्मादा भवन्ति वातपित्तकफसन्निपाताऽऽधिविषनिमित्ताः" इत्यादि| उदाहृतौ इत्युदाहरणमात्रमुद्देशमात्रं वचनमात्रम्| अत्रायुर्वेदशास्त्रे, रजस्तमसोर्न साकल्येन व्याकरणमनिलादीनामिव| ते खल्वत्र स्वभावस्थानादिभिः प्रकारैरशेषमुक्ताः, न तु रजस्तमसी|

Adhikarana rogiparIkShaNam (22) · Śloka 22

रोगोपहतशरीरज्ञानोपायमाह दर्शनस्पर्शनप्रश्नैः परीक्षेत च रोगिणम्| |२२|

🔊 Audio coming soon

स०- रोगोऽस्यास्तीति रोगी व्याधितः, तं दर्शनादिभिः परीक्षेत| दर्शनेन दृष्ट्या, कासमेहाद्यार्तेषु पीतशुक्लवर्णसंस्थानप्रमाणोपचयच्छायाविण्मूत्रच्छर्दितादिकम्| स्पर्शनेन हस्तकायस्पर्शेन, ज्वरगुल्मविद्रध्याद्यार्तम्, तथा शीतोष्णस्तब्धस्पन्दश्लक्ष्णखरस्पर्शादिकं च| प्रश्नेन पृच्छया, शूलारोचकच्छर्दिहृदर्दत्वं सुच्छन्ददुश्छन्दत्वं मृदुक्रूरकोष्ठतां स्वप्नदर्शनमभिप्रायं जन्मामयप्रवृत्तिनक्षत्रद्विष्टेष्टसुखदुःखानि च, इत्यातुरमुखात्परीक्षेत|

Adhikarana rogavisheShAdhigamopAyaH (22) · Śloka 22

रोगविशेषाधिगमोपायमाह | रोगं निदानप्राग्रूपलक्षणोपशयाप्तिभिः||२२||

🔊 Audio coming soon

स०- रोगं निदानादिभिः पञ्चभिः परीक्षेत| निदानं कारणं हेतुरित्यनर्थान्तरम्| तच्चासन्नविप्रकृष्टभेदेन द्विधा| आसन्नमपि द्विविधम्, आसन्नात्यासन्नभेदेन| आसन्नं रूक्षलघुशीतादिद्रव्योपयोगः| अत्यासन्नं तु यतः समनन्तरमेव रोगोत्पत्तिः| यथा वातादयो दोषाः क्रुद्धाः| विप्रकृष्टं यत् आदिकाले रुद्रकोपादि ज्वरादीनाम्| तथा हविःप्राशादि मेहकुष्ठादीनाम्| तेनैवंविधमर्थजातमेवंविधस्य रोगस्य हेतुत्वेनोपदिष्टम्, एवंविधश्चोत्पन्नोऽतो निदानाज्ञ्ज्ञायते रोगः| प्राग्रूपं पूर्वरूपं भविष्यतो व्याधेरप्रकाशितदोषविशेषाधिष्ठितस्य लक्षणम्, उद्बुभूषुर्ज्वरादिरामयो वातादिदोषविशेषेणालिङ्गितरूपाभासो येनावभास्यते, यथायथमल्पत्वाद्यदव्यक्तमस्फुटं लिङ्गं तत्प्राग्रूपम्| लक्षणं पुनस्तदेव प्राग्रूपाद्विलक्षणम्, येन सकलदोषविशेषालिङ्गितः स्फुटलिङ्गो व्याधिर्दृश्यते लक्ष्यते| उपशयः सुखानुबन्ध्याहाराद्युपयोगः| एवंविधेनाहारादिकेन हि तस्य पीडा नाभूत्, एवंविधेन चाभूत्, अत उपशयाज्ञ्ज्ञायतेऽयं रोग इति| स व्याधिसात्म्यः स्वास्थ्यहेतुः सुखावहः| आप्तिर्निर्वृत्तिः सम्प्राप्तिरागतिर्जातिरित्यनर्थान्तरम्| एवं दुष्टेनैवं स्थानस्थितेनैवमनुगतेनानया कल्पनयैवंमार्गेण दोषेणेति परिकल्पनम्, अत आप्त्या ज्ञायतेऽयं रोग इति|

Adhikarana deshadvaividhyam (23) · Śloka 23

उपशयादिप्रसङ्गे च देशकालावप्युपयुज्येते| अतस्तावपि पठति भूमिदेहप्रभेदेन देशमाहुरिह द्विधा| |२३|

🔊 Audio coming soon

स०- इहास्मिन्नायुर्वेदशास्त्रे, आचार्या द्विधा द्विप्रकारं, देशमाहुः कथयन्ति| भूमिभेदेन देहभेदेन च|

Adhikarana BUdeshatraividhyam (23-24) · Śloka 24

देहदेशः शिरःपाण्यादिलक्षणः प्रसिद्धः| भूमिदेश उच्यते जाङ्गलं वातभूयिष्ठमनूपं तु कफोल्बणम्||२३|| साधारणं सममलं त्रिधा भूदेशमादिशेत्| |२४|

🔊 Audio coming soon

स०- भूदेशं पुनस्त्रिधा त्रिप्रकारम्, आदिशेत् वदेत्| तत्र जाङ्गलो देशोऽल्पोदकतरुपर्वतत्वेन वक्ष्यमाणलक्षणः, वातभूयिष्ठो वातप्रचुरः| तत्र जाता ओषधिखगपुरुषमृगादयो वातप्रधाना भवन्ति| प्रचुरोदकवृक्षो यो निर्वातो दुर्लभातपः सोऽनूप इति| स च कफप्रधानः| तज्जाश्चौषध्यादयः स्निग्धा भवन्ति| साधारणः पुनरुभयलक्षणो मध्यपतितो व्यामिश्ररूपः| स च सममलो वातादिसमदोषः| अत्र दोषा एव मलशब्देनोक्ताः| वक्ष्यति हि (सङ्ग्रहे सू.अ.२०)| "देहस्य मलिनीकरणादाहारमलत्वाच्च मलाः|"

Adhikarana BeShajakAlaH (24) · Śloka 24

भेषजस्य सम्यग्योगहेतुं कालमाह क्षणादिर्व्याध्यवस्था च कालो भेषजयोगकृत्||२४||

🔊 Audio coming soon

स०- कालो द्विविधः, क्षणादिलक्षणो व्याध्यवस्थालक्षणश्च| भेषजस्यौषधस्य, योगं करोति| तदर्थसम्पादनसामर्थ्यं करोतीत्यर्थः| भेषजस्य योगो भेषजयोगः, तं करोति| क्षणादिः प्रसिद्धः| आदिग्रहणाल्लवत्रुटिमुहूर्तयामाहोरात्रपक्षमासर्त्वयनसंवत्सराणां परिग्रहः| क्षणादिकालस्योदाहरणम्| यथा- "पूर्वाह्णे वमनं देयं मध्याह्ने तु विरेचनम्| मध्याह्ने किञ्चिदावृत्ते बस्तिं दद्याद्विचक्षणः||" व्याध्यवस्था सामनिराममृदुमध्यतीक्ष्णत्वात्तत्तद्योग्यौषधविसृष्टिः| यथा (च,चि.अ.३/१४० , हृ.चि.अ.१/२१)- "लङ्घनं स्वेदनं कालो यवाग्वस्तिक्तको रसः| मलानां पाचनानि स्युर्यथावस्थं क्रमेण वा||" यथा (च.चि.अ.३०/२८७)- "ज्वरे पेयाः कषायाश्च सर्पिः क्षीरं विरेचनम्| त्र्यहं वा षडहं युंज्याद्वीक्ष्य दोषबलाबलम्||" यथा (हृ.चि.अ.१/४४)- "मृदुर्ज्वरो लघुर्देहश्चलिताश्च मला यदा| अचिरज्वरितस्यापि भेषजं योजयेत्तदा||" अस्यामवस्थायां दत्तमौषधमारोग्याय भवति|

Adhikarana dviprakArakamauShadham (25) · Śloka 25

तच्चौषधं द्विप्रकारमाह शोधनं शमनं चेति समासादौषधं द्विधा| |२५|

🔊 Audio coming soon

स०- समासात्संक्षेपतः, यत्किञ्चिज्जगत्यौषधं सम्भवति, तदनेकप्रकारं सम्भवदपि द्वैरूप्यानतिक्रमाच्छोधनशमनलक्षणात् द्विधेत्युक्तम्| एकं शोधनरूपमपरं शमनरूपमिति| शोधनं यत् कुपितान् दोषान् बहिर्निःसार्य रोगोपशमनं करोति| शमनं यत्स्वस्थानस्थितानामेव साम्यहेतुः|

Adhikarana auShadhaviShayaviBAgaH (25-26) · Śloka 26

औषधमुक्तम्| तस्य विषयमाह | शरीरजानां दोषाणां क्रमेण परमौषधम्||२५|| बस्तिर्विरेको वमनं तथा तैलं घृतं मधु| |२६|

🔊 Audio coming soon

स०- शरीरजानां वातादीनां, क्रमेण यथासंख्येन परिपाठ्योद्देशनिर्देशेन, परमौषधं प्रधानौषधं, बस्त्यादिवमनान्तं शोधनरूपं, तैलादिमध्वन्तं शमनरूपम्| तेन वातस्य बस्तिर्गुदप्रणिधेयस्नेहक्वाथादि परमौषधम्| पित्तस्य विरेको मुखपीतं गुदमार्गेणान्तःस्थितस्य दोषस्य निःसारणं परमौषधम्| कफस्य वमनं मुखेन पीतं तेनैव दोषस्य निःसारणं परमौषधम्| इति शोधनरूपेण दोषाणामौषधम्| तैलादि तु शमनस्वरूपेणौषधम्| तथेति क्रमेणैव| वातस्य तैलं, पित्तस्य घृतं, कफस्य माक्षिकं परमौषधम्| प्रधानमौषधमिति यावत्|

Adhikarana manodoShauShadham (26) · Śloka 26

कायादिदेशमाश्रित्य सर्वत्र सर्वमेव शरीरजातानां दोषाणां क्रमेण परमौषधमुक्तम्| अथ मानसयोर्दोषयोः किं तत्परमौषधं स्यादिति, तदर्थमाह | धीधैर्यात्मादिविज्ञानं मनोदोषौषधं परम्||२६||

🔊 Audio coming soon

स०- मनोदोषयो रजस्तमसोः, रोगविघ्नकारि धीधैर्यादिकं, परमौषधम्| धीश्च धैर्यं चात्मादिविज्ञानं च तत्तथाविधम्| तत्र धीर्बुद्धिर्बाह्याध्यात्मिकानां भावानां हिताहितपरिच्छेदविभागकारिणी| धैर्यं धृतिश्चेतसः स्थिरत्वमचापलम्, येन प्रतिषिद्धेषु न प्रवर्तते, हितेषु च न सीदति| आत्मविज्ञानं योगाभ्याससमाधिना परमात्मस्वरूपविज्ञानम्| आदिग्रहणाज्ज्ञानविज्ञानस्मृतिदेशकालादीनां परिग्रहः| मनोदोषसमुत्थकामादिजरोगार्थः परशब्दो विशेषणत्वेन निर्दिष्टः|

Adhikarana pAdacatuShTayasvarUpam (27) · Śloka 27

एवं तावदनेन सकलचिकित्सितमुक्तम्| तच्च पादचतुष्टययुक्तं कार्यकरं, तदर्थमाह भिषक् द्रव्याण्युपस्थाता रोगी पादचतुष्टयम्| चिकित्सितस्य निर्दिष्टं, प्रत्येकं तच्चतुर्गुणम्||२७||

🔊 Audio coming soon

स०- चिकित्सितस्य रोगोपशमलक्षणस्य, पादचतुष्टयमङ्गचतुष्टयमुक्तम्| प्रत्येकं तच्चतुर्गुणमेवं षोडशगुणं चिकित्सितं भेषजं भिषजो भाषन्ते| भिषग्वैद्यः, तस्य प्राधान्यादग्रे निर्देशः| तथा चागमः (चरके सू.अ.९/१०)- "योक्ता प्रयोक्ता शास्ता च प्रधानो भिषगत्र तु||" तथा सङ्ग्रहेऽपि (सू.अ.२)- "यद्वैद्ये विगुणे पादा गुणवन्तोऽप्यनर्थकाः| स पादहीनानप्यार्तान् गुणवान् यच्च यापयेत्|| चिकित्सायास्तमेवातः प्रधानं कारणं विदुः|" द्रव्याण्यौषधानि| उपस्थाता परिचारकः| रोगी आतुरः| एतत्पादचतुष्टयं निर्दिष्टमाचार्येण|

Adhikarana BiShakcaturguNAH (28) · Śloka 28

उद्देशक्रमेण तेषां गुणानाह दक्षस्तीर्थात्तशास्त्रार्थो दृष्टकर्मा शुचिर्भिषक्| |२८|

🔊 Audio coming soon

स०- दक्षः- कर्मणि चतुरः| तीर्थादुपाध्यायाद्विदितागमादात्तो गृहीतः शास्त्रार्थो येन स तीर्थात्तशास्त्रार्थः, "अनेकमन्यपदार्थे" इति तृतीयार्थे बहुव्रीहिः, आगमप्राप्तशास्त्रस्वरूपः| बहुशो दृष्टं कर्म येन चिकित्सालक्षणं स दृष्टकर्मा-अभ्यस्तकर्मा शतशश्चिकित्सितरोगः| शुचिः- कायवाङ्मनोव्यापारैर्मलीमसैरपरामृष्टः, अलिप्सावान् अर्थोपजीविकाहेतोर्न करोति परं धर्मोपार्जनेनेति शुचिः|

Adhikarana auShadhacaturguNAH (28) · Śloka 28

| बहुकल्पं बहुगुणं सम्पन्नं योग्यमौषधम्||२८||

🔊 Audio coming soon

स०- बहवः कल्पाः यस्मिन् सम्भवन्ति स्वरसक्वाथचूर्णाद्यास्तद्बहुकल्पं-व्याधीनां निवारणक्षमं न तु लवणवदेककल्पम्| तद्धि सुखमुपयुज्यते| नानाशक्तयो हि सत्त्वाः| बहवो गुणा यस्य गुरुमन्दादयस्तद्बहुगुणम्, अथवा यदनेकरोगविनाशनसमर्थम्| सम्पन्नं-सम्पत्तियुक्तं, न विपन्नम्, प्रशस्तभूमिदेशजातादिगुणयुक्तम्| तथा च ग्रन्थः (हृदये क.अ.१/१)- "धन्वे साधारणे देशे समे सन्मृत्तिके शुचौ| श्मशानचैत्यायतनश्वभ्रवल्मीकवर्जिते|" इति| अथवा पाकसंस्कारादियुक्तम्| योग्यं-दातुं यद्यत्रार्हति तच्च तत्र योग्यम्| व्याधिदेशकालदोषदूष्यदेहवयोबलादीन् ज्ञात्वा, युज्यते दीयत इति तद्योग्यं, रोगस्य रोगिणश्च|

Adhikarana upasthAtRucaturguNAH (29) · Śloka 29

उपस्थातापि चतुर्विधः- अनुरक्तः शुचिर्दक्षो बुद्धिमान् परिचारकः| |२९|

🔊 Audio coming soon

स०- अनुरक्तो-दृढभक्त आतुरस्य| शुचिः- कायवाङ्मनोव्यापारैर्दुष्टैरपरामृष्टः| दक्षः- सर्वचेष्टासु चतुरः| बुद्धिमान्- विशिष्टया बुद्ध्या युक्तः, प्रवीण इति यावत्|

Adhikarana rogicaturguNAH (29) · Śloka 29

रोग्यपि चतुर्विधः | आढ्यो रोगी भिषग्वश्यो ज्ञापकः सत्त्ववानपि||२९||

🔊 Audio coming soon

स०- आढ्यो-धनवान्| भिषग्वश्यो-वैद्यायत्तः, तदुक्तकारी| ज्ञापको-निदानावस्थादीनामावेदकः, वैद्यं रोगाहारविहारादीनामन्वयव्यतिरेकं बोधयितुं समर्थः| सत्त्ववान्-धैर्ययुतो मोहवर्जितः, धैर्येण प्रायश्चित्तवच्चिकित्सां करोति| अपि समुच्चये|

Adhikarana sukhasAdhyavyAdhilakShaNam (19) · Śloka 31

सुखसाध्यादिकस्य व्याधिचतुष्टयस्य लक्षणमुच्यते (साध्योऽसाध्य इति व्याधिर्द्विधा, तौ तु पुनर्द्विधा| सुसाध्यः कृच्छ्रसाध्यश्च, याप्यो यश्चानुपक्रमः||१|| ) सर्वौषधक्षमे देहे यूनः पुंसो जितात्मनः| अमर्मगोऽल्पहेत्वग्ररूपरूपोऽनुपद्रवः||३०|| अतुल्यदूष्यदेशर्तुप्रकृतिः पादसम्पदि| ग्रहेष्वनुगुणेऽष्वेकदोषमार्गो नवः सुखः||३१||

🔊 Audio coming soon

स०- सर्वौषधक्षमे देह उत्पन्नो व्याधिः सुखसाध्यः सुखोपायः, तथा कालेनाल्पेन साध्यते| सर्वाण्यौषधानि यः क्षमते सहते तीक्ष्ण्मध्यमृदुरूपाणि नानादेशजानि शमनानि तथा शोधनरूपाणि तथा विषक्षारादीनि| यूनः- वयस्यस्य, तरुणस्येत्यर्थः| पुंसो- न स्त्रियाः| पुंग्रहणं स्त्रीनिवृत्त्यर्थम्| यतस्तस्याः सर्वदा भीरुत्वमबुद्धिमत्त्वं च, अतो यथोक्तानुरूपगुणाभावः| सा तु यस्मात्तीक्ष्णोष्णौषधानि न सहते, सौकुमार्यादियोगात्| जितात्मनोऽलोलुपस्य, जित आत्मा येन, विषयाभिलाषं परिहरतः| अमर्मगो- न मर्मस्थः, मर्माणि- शिरोहृदयबस्तिप्रभृतीनि, तेषु गच्छतीति मर्मगः, न मर्मगोऽमर्मगः, हृत्कण्ठादिपीडाकरणासमर्थः| अल्पहेत्वग्ररूपरूप इति| हेतुश्चाग्ररूपं च रूपं च तानि हेत्वग्ररूपरूपाणि, अल्पानि हेत्वग्ररूपरूपाणि यस्य स तथाविधः| हेतुर्निदानम्, अग्ररूपं- पूर्वरूपम्, रूपं- लक्षणम्, एतान्यल्पानि यस्य| अनुपद्रव इति| न विद्यते उपद्रवो यस्य, उत्पन्नस्य व्याधेरनन्तरं जायते योऽन्यो व्याधिः, न तल्लक्षणभूतोऽप्रधानः, न यथास्वलक्षणः, तदुपक्रमनिरोधकः, स उपद्रवः| तथा चागमः- "व्याधेरुपरि यो व्याधिर्भवत्युत्तरकालजः| उपक्रमविघाती च स ह्युपद्रव उच्यते||" इति| अतुल्यदूष्यदेशर्तुप्रकृतिरिति| दूष्यश्च देशश्च ऋतुश्च प्रकृतिश्च ता दूष्यदेशर्तुप्रकृतयः, अतुल्या दूष्यदेशर्तुप्रकृतयो यस्य| अतुल्याः- न सदृशाः| यथा- दूष्ये मेदोमज्जादौ, अनूपदेशे, शीतर्तौ, आतुरो वातप्रकृतिः, तस्य कुपितं पित्तं सुखसाध्यमिति| अतुल्यदूष्यो यथा- श्लेष्मणा शीतेन रक्तमुष्णं दूषितम्| अतुल्यदेशो व्याधिर्यथा- अनूपदेशे पित्तसम्भूतः| अतुल्यर्तुर्यथा- शरदि कफोद्भवः| अतुल्यप्रकृतिर्यथा- पित्तप्रकृतेः श्लेष्मोद्भवो व्याधिः| नन्वतुल्यदूष्यदेशर्तुप्रकृतित्वादसौ कृच्छ्रसाध्यो याप्यो वा प्राप्तः, न सुखसाध्यः, अनेकसुखोपक्रमसाध्यत्वात्| यतो दूष्यादीनामतुल्यत्वात्परस्परमन्य एवोपक्रमः| एकसुखोपक्रमः सुखसाध्यो व्याधिः| अत एव साध्ययाप्यपरित्याज्या मेहाः श्लेष्मपित्तवातोत्थाः (हृंइ.अ.१०/६)- "समासमक्रियतया महात्ययतयापि च" इत्येवं निर्दिशति| अत्रोच्यते| तथाप्रभावत्वात्प्रमेहाख्यस्य व्याधेः, यदुत श्लेष्मप्रमेहः समक्रियत्वात्साध्यः, पित्तप्रमेहो विषमक्रियत्वाद्याप्यः, महात्ययत्वाच्च वातप्रमेहः प्रत्याख्येयः| किञ्च तुल्यदूष्यदेशर्तुप्रकृतित्वान्महारम्भो निष्प्रत्यनीको व्याधिर्जायते, अतोऽसौ न सुखसाध्यः| कुत्रचिद्व्याधौ तुल्यदूष्यादिरपि सुखसाध्यत्वेन ज्यायान्| तथा च ग्रन्थः- "ज्वरे तुल्यर्तुदोषत्वं प्रमेहे तुल्यदूष्यता| रक्तगुल्मे पुराणत्वं सुखसाध्यत्वहेतवः||" पादसम्पदीति| भिषगादीनां चतुर्णां पादानां सम्पत्समृद्धिः, तस्यां सत्यां, अङ्गचतुष्टये परिपूर्णे सति| ग्रहेष्वनुगुणेष्विति| ग्रहाः- सूर्यादयः, तेष्वनुगुणेष्वनुकूलराशिस्थितेषु शोभनस्थानगतेषु सत्सु| एकदोषमार्ग इति| दोषश्च मार्गश्च दोषमार्गम्, एकं दोषमार्गं यस्य स तथोक्तः| दोषो- वातादिः| मार्गस्त्रिविधः शाखादिर्वक्ष्यमाणो बाह्याभ्यन्तरमध्यभेदेन| तेनैकेन वातादीनामन्यतमेन दोषेण यो जातो न द्वाभ्यां त्रिभिर्वा, तथैकेनापि मार्गेण बाह्येन मध्येनाभ्यन्तरेण वा जातः| नवो- न जरठः, अचिरोत्पन्न इत्यर्थः| यस्माद्वत्सरातीता व्याधयोऽसाध्याः| स तथाविधो व्याधिः सुखः- सुखेन साध्यते| तथा च ग्रन्थः (सं.सू.अ.२, चंइ.अ.८)- "सुखसाध्यः सुखोपायः कालेनाल्पेन साध्यते" इति|

Adhikarana kRucCrasAdhyo vyAdhiH (32) · Śloka 32

कृच्छ्रसाध्यं व्याधिमाह शस्त्रादिसाधनः कृच्छ्रः सङ्करे च ततो गदः| |३२|

🔊 Audio coming soon

स०- यो गदो रोगः, शस्त्रादिसाधनः शस्त्रादिभिः साध्यते, स कृच्छ्रसाध्यः कृच्छ्रप्रतीकारो महद्भिरुपायैः साध्यते तथा चिरेण| तथा च ग्रन्थः (सं.सू.अ.२)- "कृच्छ्रैरुपायैः कृच्छ्रस्तु महद्भिश्च चिरेण च||" आदिग्रहणेन क्षाराग्निकर्मविषलेपादयो गृह्यन्ते| तथा, सङ्करे च- ततः पूर्वोक्तात्साध्यलिङ्गात्सङ्कीर्णत्वे सति- यो गद उप्तन्नः, सोऽपि कृच्छ्रसाध्यः| चशब्दः समुच्चये| ततस्तस्मादुक्तसाध्यलक्षणाद्यः सङ्करे द्वित्रिविपर्यये सति स्थितः| तथा च- युवा आतुरः किन्तु न विजितात्मा| विजितात्मा वा किन्तु रोगो मर्मस्थानगः| सर्वौषधक्षमे देहे जातः किन्तु वृद्धः| कदाचिद्युवा न सर्वौषधक्षमो देहः| एवमनया दिशा सर्वमप्यूह्यम्|

Adhikarana yApyo vyAdhiH (32) · Śloka 32

याप्योऽत उच्यते | शेषत्वादायुषो याप्यः पथ्याभ्यासाद्विपर्यये||३२||

🔊 Audio coming soon

स०- बाहुल्येन विपर्यये साध्यलक्षणविपरीतत्वे सत्यायुषो जीवितस्य शेषत्वादक्षीणत्वान्मारयितुमसमर्थः, पथ्यैराहारविहारैर्याप्यो यापनीयः, नासौ प्रत्याख्येयः| एतावानेवास्य प्रत्याख्येयाद्व्याधेर्विशेषो यदायुःशेषत्वं, याप्यस्य व्याधेरायुःशेषमात्रं वर्जयित्वा यदन्यत्तत्सर्वं समानं प्रायेणास्य च प्रत्याख्येयस्य व्याधेः| कस्य विपर्यये सति ? प्रकृतत्वात्सुखसाध्यस्य| पथ्यैराहारविहारैरभ्यसनमभ्यासः पुनः पुनः करणम्, तस्माद्धिताहारविहारसेवनाद्याप्यः| स च चिकित्सायामल्पं सुखं दत्त्वा पुनः सोऽल्पेनैव हेतुना प्रतन्यते| तथा च ग्रन्थः (सं.सू.अ.२)- "दत्त्वाल्पं सुखमल्पेन हेतुना स प्रतन्यते| याति नाशेषतां रोगः कर्मजो नियतायुषः| प्रपतन्निव विष्कम्भैर्धार्यतेऽत्रातुरो हितैः"|

Adhikarana pratyAkhyeyo vyAdhiH (33) · Śloka 33

प्रत्याख्येय उच्यते अनुपक्रम एव स्यात्स्थितोऽत्यन्तविपर्यये| औत्सुक्यमोहारतिकृद् दृष्टरिष्टोऽक्षनाशनः||३३||

🔊 Audio coming soon

स०- न विद्यत उपक्रमः प्रतीकारो यस्य सोऽनुपक्रमोऽचिकित्स्यः, प्रत्याख्येय इति यावत्| कोऽसावनुपक्रमः ? योऽत्यन्तविपर्यये स्थितः| यो गदोऽर्थाद्याप्यलक्षणादवशिष्टायुः शेषरूपादत्यन्तविपर्यये स्थितः, सर्वक्रियापथातिक्रान्तः, मज्जशुक्रादिगम्भीरधातुगतः, मर्मसन्धिसमाश्रितः, सोऽनुपक्रम एवाचिकित्स्यः, साधयितुमशक्यत्वात्| तथौत्सुक्यादिकृदिति| औत्सुक्यं च मोहश्चारतिश्च ताः करोतीत्यौत्सुक्यमोहारतिकृत्| औत्सुक्यं विषयोत्कण्ठा, मोहो- वैचित्यं चित्तनाशोऽज्ञानम्, अरतिरसुखं न कुत्रचिदवस्थितिः स्थानासनादिष्वनिर्वृतिश्चेतसः, एतावतो यः करोति सोऽनुपक्रमः| तथा दृष्टरिष्ट इति| दृष्टं रिष्टं मरणख्यापकं चिह्नं यस्मिन् स दृष्टरिष्टः, दृष्टमरणख्यापकलक्षणोऽनुपक्रम एव| तथाऽक्षनाशन इति| अक्षाणीन्द्रियाण्युच्यन्ते| चक्षुरादीन्यपि नाशयति सोऽक्षनाशनः, इन्द्रियोपरोधी रोगोऽनुपक्रमो यः शीघ्रमिन्द्रियविघातकृत्| एवं पुरा परीक्ष्य व्याधिचिकित्सामारभेत| अन्यथाऽवश्यं स्वार्थादिहानिमवाप्नुयाद्वैद्यः| तथा च ग्रन्थः (सं.सू.अ.२)- "व्याधिं पुरा परीक्ष्यैवमारभेत ततः क्रियाम्| स्वार्थविद्यायशोहानिमन्यथा ध्रुवमाप्नुयात्" इति|

Adhikarana anupakramaNIyAturasya lakShaNam (34-35) · Śloka 35

साध्यलक्षणयुक्तोऽप्यातुरो नोपक्रमणीय इति दर्शयति त्यजेदार्तं भिषग्भूपैर्द्विष्टं तेषां द्विषं द्विषम्| हीनोपकरणं व्यग्रमविधेयं गतायुषम्||३४|| चण्डं शोकातुरं भीरुं कृतघ्नं वैद्यमानिनम्| |३५|

🔊 Audio coming soon

स०- एवंविधमार्तमातुरमुपक्रम्यमपि त्यजेत्परिहरेत्| भिषग्भूपैर्द्विष्टं- भिषग्भिस्तथा भूपै राजभिर्द्विष्टम्, वैद्या राजानश्च यं द्विषन्ति| तथा, तेषां द्विषं-शत्रुं, भिषग्भूपान्यो द्वेष्टि, तमपि त्यजेत्| द्विष्टं-शत्रुं चात्मनः| हीनोपकरणमिति उपकरणविकलं हीनचिकित्साङ्गम्| व्यग्रं- कार्यबहुलमन्यकार्यापेक्षिणं कार्यान्तरासक्तचेतसम्| अविधेयं- भिषजः, तदाज्ञां यो न करोति, तमपि त्यजेत्| गतायुषं- परिक्षीणजीवितम्| चण्डं- सहसापकारकरणबुद्धिं क्रूरकर्माणम्| शोकातुरं- स्त्र्यादिविरहोत्थेन शोकेन शुचार्तम्| भीरुं- सभयम्| कृतघ्नं- यः कृतोपकारोऽप्यपकारं करोति| वैद्यमानिनं- अवैद्योऽपि यो वैद्यमिवात्मानं मन्यते स्वमतेनैवौषधं करोति मूढः, तमपि त्यजेत्|

Adhikarana sUtrasthAnAntargatAdhyAyAH (35-39) · Śloka 39

एवं च प्रथमेऽध्याये सकलतन्त्रार्णवस्य तात्पर्यं व्याख्यातम्| अनन्तरं सुखस्मरणार्थमध्यायसङ्ग्रहं विवक्षुरिदमाह | तन्त्रस्यास्य परं चातो वक्ष्यतेऽध्यायसङ्ग्रहः||३५|| आयुष्कामदिनर्त्वीहारोगानुत्पादनद्रवाः| अन्नज्ञानान्नसंरक्षामात्राद्रव्यरसाश्रयाः||३६|| दोषादिज्ञानतद्भेदतच्चिकित्साद्युपक्रमाः| शुद्ध्यादिस्नेहनस्वेदरेकास्थापननावनम्||३७|| धूमगण्डूषदृक्सेकतृप्तियन्त्रकशस्त्रकम्| शिराविधिः शल्यविधिः शस्त्रक्षाराग्निकर्मिकौ||३८|| सूत्रस्थानमिमेऽध्यायास्त्रिंशत्|३९|

🔊 Audio coming soon

स०- अस्य- अष्टाङ्गहृदयाख्यस्य, तन्त्रस्य- तन्त्र्यन्ते धार्यन्तेऽनेनायुर्वेदार्था इति तन्त्रम् तस्य, अध्यायसङ्ग्रहः- अध्यायानां सङ्ग्रहः संक्षेप एकत्र राशीकरणम्, अतः परं- अस्मादूर्ध्वम्, सुखस्मरणाय मया वक्ष्यते| स०-इमे पूर्वोक्तास्त्रिंशदध्यायाः, सूत्रस्थानमुक्तम्| आयुष्कामश्च दिनर्त्वीहे च रोगानुत्पादनं च द्रवश्चेति द्वन्द्वः| ईहा चर्या चेष्टेत्येकोऽर्थः| तेन आयुष्कामीयो दिनचर्या ऋतुचर्या रोगानुत्पादनीयो द्रवद्रव्यविज्ञानीयोऽन्नस्वरूपविज्ञानीयोऽन्नसंरक्षा मात्राशितीयो द्रव्यादिविज्ञानीयो रसभेदीयो दोषादिविज्ञानीयो दोषभेदीयो दोषोपक्रमणीयो द्विविधोपक्रमणीयः शोधनादिगणसङ्ग्रहः स्नेहविधिः स्वेदविधिर्वमनविरेचनविधिर्बस्तिविधिर्नस्यविधिर्धूमविधिर्गण्डूषादिविधि राश्चोतनाञ्जनविधिस्तर्पणपुटपाकविधिर्यन्त्रविधिः शस्त्रविधिः शिराव्यधविधिः शल्याहरणविधिः शस्त्रकर्मविधिः क्षाराग्निकर्मविधिः| सूचनात्सूत्रम्, सूच्यतेऽनेन सकलतन्त्रार्थ इति सूत्रस्थानम्, सकलस्य तन्त्रस्य शिरःस्थानीयम्|

Adhikarana shArIrasthAnAdhyAyAH (39-40) · Śloka 40

अधुना शारीरमुच्यते शारीरमुच्यते| गर्भावक्रान्तितद्व्यापदङ्गमर्मविभागिकम्||३९|| विकृतिर्दूतजं षष्ठम्|४०|

🔊 Audio coming soon

स०- शारीरं शारीरस्थानमुच्यते| किंस्थानमध्यायसङ्ग्रहः| के पुनस्ते ? तानाह| तत्र गर्भावक्रान्तिशारीरम्| तस्य व्यापत् तद्व्यापत् , तस्येति गर्भपरामर्शः, गर्भव्यापच्छारीरम्| अङ्गविभागं शारीरम्| मर्मविभागं शारीरम्| विकृतिविज्ञानीयं शारीरम्| दूतादिविज्ञानीयं शारीरम्| एवमेते षडध्यायाः, शारीरस्थानम्|

Adhikarana nidAnasthAnAdhyAyAH (40-41) · Śloka 41

निदानमुच्यते निदानं सार्वरोगिकम्| ज्वरासृक्श्वासयक्ष्मादिमदाद्यर्शोतिसारिणाम्||४०|| मूत्राघातप्रमेहाणां विद्रध्याद्युदरस्य च| पाण्डुकुष्ठानिलार्तानां वातास्रस्य च षोडश||४१||

🔊 Audio coming soon

स०- सर्वरोगनिदानम्| ज्वरनिदानम्| रक्तपित्तकासनिदानम्| श्वासहिक्कानिदानम्| राजयक्ष्मादिनिदानम्| मदात्ययादिनिदानम्| अर्शोनिदानम्| अतीसारग्रहणीदोषनिदानम्| मूत्राघातनिदानम्| प्रमेहनिदानम्| विद्रधिवृद्धिगुल्मनिदानम्| उदरनिदानम्| पाण्डुशोफविसर्पनिदानम्| कुष्ठश्वित्रकृमिनिदानम्| वातव्याधिनिदानम्| वातशोणितनिदानम्| इत्येवं षोडशाध्यायाः, निदानस्थानम्|

Adhikarana cikistitasthanAdhyAyAH (42-44) · Śloka 44

चिकित्सितमुच्यते चिकित्सितं ज्वरे रक्ते कासे श्वासे च यक्ष्मणि| वमौ मदात्ययेऽर्शःसु, विशि द्वौ, द्वौ च मूत्रिते||४२|| विद्रधौ गुल्मजठरपाण्डुशोफविसर्पिषु| कुष्ठश्वित्रानिलव्याधिवातास्रेषु चिकित्सितम्||४३|| द्वाविंशतिरिमेऽध्यायाः|४४|

🔊 Audio coming soon

स०- चिकित्सितस्थानं द्वाविंशतिरध्यायाः| ज्वरचिकित्सितम्| रक्तपित्तचिकित्सितम्| कासचिकित्सितम्| श्वासहिक्काचिकित्सितम्| राजयक्ष्मचिकित्सितम्| छर्दिहृद्रोगतृष्णाचिकित्सितम्| मदात्ययचिकित्सितम्| अर्शश्चिकित्सितम्| अतीसारचिकित्सितम्| ग्रहणीदोषचिकित्सितम्| मूत्राघातचिकित्सितम्| प्रमेहचिकित्सितम्| विद्रधिवृद्धिचिकित्सितम्| गुल्मचिकित्सितम्| उदरचिकित्सितम्| पाण्डुरोगचिकित्सितम्| श्वयथुचिकित्सितम्| विसर्पचिकित्सितम्| कुष्ठचिकित्सितम्| श्वित्रकृमिचिकित्सितम्| वातव्याधिचिकित्सितम्| वातशोणितचिकित्सितम्| इमे द्वाविंशतिरध्यायाश्चिकित्सितस्थानम्|

Adhikarana kalpasiddhisthanAdhyAyAH (44-45) · Śloka 45

कल्पसिद्धिरतः परम्| कल्पो वमेर्विरेकस्य तत्सिद्धिर्बस्तिकल्पना||४४|| सिद्धिर्बस्त्यापदां षष्ठो द्रव्यकल्पः| |४५|

🔊 Audio coming soon

स०- अत ऊर्ध्वं कल्पस्थानम्| अत्र कल्पे वमनकल्पः| विरेचनकल्पः| वमनविरेचनव्यापत्सिद्धिः| बस्तिकल्पः| बस्तिव्यापत्सिद्धिः| षष्ठो भेषजकल्पः| इत्येवं षडध्यायाः, कल्पसिद्धिस्थानम्|

Adhikarana uttaratantrAdhyAyAH (1) · Śloka 1

अत उत्तरम्| बालोपचारे तद्व्याधौ तद्ग्रहे, द्वौ च भूतगे||४५|| जन्मादेऽथ स्मृतिभ्रंशे, द्वौ द्वौ वर्त्मसु सन्धिषु| दृक्तमोलिङ्गनाशेषु त्रयो, द्वौ द्वौ च सर्वगे||४६|| कर्णनासामुखशिरोव्रणे, भङ्गे भगन्दरे| ग्रन्थ्यादौ क्षुद्ररोगेषु गुह्यरोगे पृथग्द्वयम्||४७|| विषे भुजङ्गे कीटेषु मूषकेषु रसायने| चत्वारिंशोऽनपत्यानामध्यायो बीजपोषणः||४८|| इत्यध्यायशतं विंशं षड्भिः स्थानैरुदीरितम्| ४८ १/२| इति श्रीवैद्यपतिसिंहगुप्तसूनुवाग्भटविरचितायामष्टाङ्गहृदयसंहितायां सूत्रस्थाने आयुष्कामीयो नाम प्रथमोऽध्यायः||१||

🔊 Audio coming soon

स०- अत उत्तरं, अतोऽस्मात्कल्पसिद्धिस्थानादूर्ध्वमुत्तरतन्त्रम्| बालोपचरणीयः| बालामयप्रतिषेधः| बालग्रहप्रतिषेधः| भूतविज्ञानीयः| भूतप्रतिषेधः| उन्मादप्रतिषेधः| अपस्मारप्रतिषेधः| वर्त्मरोगविज्ञानीयः| वर्त्मरोगप्रतिषेधः| सन्धिसितासितरोगविज्ञानीयः| तिमिरप्रतिषेधः| लिङ्गनाशप्रतिषेधः| सर्वाक्षिरोगविज्ञानीयः| सर्वाक्षिरोगप्रतिषेधः| कर्णरोगविज्ञानीयः| कर्णरोगप्रतिषेधः| नासारोगविज्ञानीयः| नासारोगप्रतिषेधः| मुखरोगविज्ञानीयः| मुखरोगप्रतिषेधः| शिरोरोगविज्ञानीयः| शिरोरोगप्रतिषेधः| व्रणविज्ञानीयप्रतिषेधः| सद्योव्रणप्रतिषेधः| भङ्गप्रतिषेधः| भगन्दरप्रतिषेधः| ग्रन्थ्यर्बुदश्लीपदादिविज्ञानीयः| ग्रन्थ्यर्बुदादिप्रतिषेधः| क्षुद्ररोगविज्ञानीयः| क्षुद्ररोगप्रतिषेधः| गुह्यरोगविज्ञानीयः| गुह्यरोगप्रतिषेधः| विषप्रतिषेधः| सर्वविषप्रतिषेधः| कीटलूतादिविषप्रतिषेधः| मूषिकालर्कविषप्रतिषेधः| रसायनाध्यायः| वाजीकरणाध्याय इति| एवमेते चत्वारिंशदध्याया उत्तरतन्त्रम्| तदिति बालस्य परामर्शः| द्वौ द्वाविति वर्त्मनि द्वौ, सन्धौ द्वौ, यथासंख्येन| त्रय इति दृक्तमोलिङ्गनाशेषु प्रत्येकमेकैकः| ग्रन्थ्यादिक्षुद्ररोगगुह्यरोगेषु पृथग्द्वयं प्रत्येकं द्वौ द्वौ| अनपत्यानामप्रजानां पुंसां चत्वारिंशोऽध्यायो बीजपोषणः शुक्रवृद्धिहेतुरिति| इत्येवमनेन प्रकारेण, सविंशमध्यायशतं षड्भिः स्थानैः सूत्रशारीरनिदानचिकित्साकल्पसिद्ध्युत्तरतन्त्रैरुदीरितमिति भद्रम्| इति श्रीमृगाङ्कदत्तपुत्रश्रीमदरुणदत्तविरचितायामष्टाङ्गहृदयटीकायां सर्वाङ्गसुन्दराख्यायां सूत्रस्थान आयुष्कामीयोऽध्यायः प्रथमः|| १||