Adhikarana dinacaryAdhyAyaH (2) · Śloka 2
अथातो दिनचर्याध्यायं व्याख्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः|
(गद्यसूत्रे)||२||
स०-अथेति सर्वेष्वध्यायेषु मङ्गलार्थः| तथा अत इत्यानन्तर्ये प्रस्तुताभिसम्बन्धे वा| अथेत्यादिशब्दानां पूर्वाध्याये वर्णित एवार्थः| माङ्गलिको ह्याचार्यः प्रत्यध्यायारम्भे मङ्गलार्थमथशब्दं प्रयुङ्क्ते| दिने दिने चर्या दिनचर्या, दिनस्य वा चर्या दिनचर्या| चरणं चर्या| उभयलोकहितमाहारविहारचेष्टितमिति यावत्, प्रतिदिने यत्कर्तव्यम्| दिनचर्या यस्मिन्नध्यायेऽस्तीति पूर्ववत् छप्रत्ययमुत्पाद्य तल्लोपे प्रकृतिभावत्वं च प्रतिपाद्य दिनचर्येति निष्पाद्यते, तमध्यायं व्याख्यास्यामः| ननु, प्रस्तुतादायुष्कामीयादध्यायादनन्तरं कोऽस्य सम्बन्धः ?| उच्यते| यस्मादायुष्कामेण पुरुषेण यत्प्रधानमायुष्यं तदासेव्यं प्रथमतः, तदन्वन्यानि यान्यायुष्याणि| अतः प्रथमं तावदाचारप्रधानेन भवितव्यम्| यतः, "आचारादायुर्लभ्यते" इत्याचार्याः| यद्यप्यत्र रात्रिचर्याऽपि विहिता, तथापि प्राधान्याद्दिनचर्या अस्मिन्नध्याये निर्दिष्टा| अतो दिनचर्याध्यायोऽयमुच्यते|
Adhikarana brAhme muhUrta utthAnam (1) · Śloka 1
अस्मिंस्तन्त्रे आयुःपालनं प्रकृतम्|
तद्विविधम्, स्वस्थवृत्तमातुरवृत्तं च|
तत्र मङ्गल्यत्वात् स्वल्पवक्तव्यत्वादातुरोपयोगित्वाच्च स्वस्थवृत्तमेवादावुच्यते ब्राह्मे मुहूर्त उत्तिष्ठेत्स्वस्थो रक्षार्थमायुषः|
|१|
स०-रात्रेश्चतुर्दशो मुहूर्तो ब्राह्मो मुहूर्तः, विषुवति समरात्रिंदिवे काले द्विघटिकोपलक्षणः| मुहूर्तस्य चेह द्विघटिकोपलक्षणार्थत्वात्सर्वस्मिन् काले रात्रेश्चतुर्घटिकावशेषे समुत्थानं कार्यमिति स्थितम्| (स्वस्थो-नीरोगः कल्यः| स आयुषो यथोपचरितस्य जीवितस्य रक्षार्थं ब्राह्मे मुहूर्त उत्तिष्ठेदभ्युत्थानं कुर्यात्| मुहूर्तो-नाडिकाद्वयम्| ब्रह्म-ज्ञानं, तदर्थमध्ययनाद्यपि ब्रह्म, तस्य योग्यो मुहूर्तो ब्राह्मः, पश्चिमयामस्य नाडिकाद्वयम्|) तस्मिन् ब्राह्मे मुहूर्त उत्तिष्ठेत्| किम्भूतः ? स्वस्थोऽनातुरः| (सुश्रुते सू.अ.१५/४८)- "समदोषः समाग्निश्च समधातुमलक्रियः| प्रसन्नात्मेन्द्रियमनाः स्वस्थ इत्यभिधीयते" इति स्वस्थलक्षणम्| किमर्थमुत्तिष्ठेत् ? रक्षार्थमायुषो जीवितस्य| तदा ह्युत्तिष्ठतो व्याध्यलक्ष्म्याद्यभाव एवायुषो रक्षा भवति| आतुरेण धातुसाम्यार्थं स्वप्तव्यमेव|
Adhikarana shaucavidhiH dantadhAvanam (1-3) · Śloka 3
|
शरीरचिन्तां निर्वर्त्य कृतशौचविधिस्ततः||१||
अर्कन्यग्रोधखदिरकरञ्जककुभादिजम्|
प्रातर्भुक्त्वा च मृद्वग्रं कषायकटुतिक्तकम्||२||
कनीन्यग्रसमस्थौल्यं प्रगुणं द्वादशाङ्गुलम्|
भक्षयेद्दन्तपवनं दन्तमांसान्यबाधयन्||३||
स०-शरीरस्य चिन्ता शरीरचिन्ता- जीर्णाजीर्णनिरूपणादिका, तां निर्वर्त्य, ततो मूत्रपुरीषादेः कृतशौचविधानः, ततोऽनन्तरं दन्तपवनमर्कादिकं भक्षयेत्| सङ्ग्रहेऽप्युक्तम् (सू.अ.३)- "ब्राह्मे मुहूर्त उत्तिष्ठेज्जीर्णाजीर्णं निरूपयन्" इत्यादि| अर्कः- सूर्याह्वः| न्यग्रोधो- यक्षावासः| खदिरो- गायत्री| करञ्जश्चिरिबिल्वः| ककुभोऽर्जुनः| आदिशब्देन मालतीकरवीरादिपरिग्रहः| कथं भक्षयेत् ? दन्तानां मांसान्यबाधयन्नपीडयन्| प्रातः- प्रत्युषसि, भुक्त्वा च- आहारं भक्षयित्वा च| मृद्वग्रं- कूर्चिताग्रम्| तथा कषायकटुतिक्तम्, रसत्रयेण ह्यनेन मुखवैरस्यारोचकश्लेष्माद्यपनयाः सम्यक् सम्पद्यन्ते| अर्काद्युपादानादेव कषायादित्वे लब्धे, कषायादिग्रहणं सङ्ग्रहादिगृहीतस्य सङ्ग्रहार्थं स्पष्टार्थं च| अर्कादिग्रहणमुदाहरणार्थं ज्ञेयम्| अत्र संक्षेपविवक्षया न दन्तपवनस्य गणसङ्ग्रहः| द्वादशाद्यङ्गुलप्रमाणत्वं श्लेष्मातकाद्यनिष्टदन्तपवननिषेधश्च तन्त्रान्तरोक्त (सङ्ग्रहोक्त) मपि नेहोक्तम्| सुश्रुतेनोक्तम् (?) "अजग्धमनुपक्लिष्टं षडष्टद्वादशाङ्गुलम्| प्रदेशनीमुखसमं मृदु स्याद्दन्तधावनम्| कूर्चिताग्रं" इत्यादि|
Adhikarana dantadhAvananiShedhaH (4) · Śloka 4
नाद्यादजीर्णवमथुश्वासकासज्वरार्दिती|
तृष्णास्यपाकहृन्नेत्रशिरःकर्णामयी च तत्||४||
स०-अजीर्णादीनां द्वन्द्वः| एतानि विद्यन्ते यस्येति 'अत इनिठनौ' इति इनिः| एवं तृष्णास्येत्यादौ द्वन्द्वादिनिश्च| तद्दन्तपवनमजीर्णी न भक्षयेत्| एवं वमथ्वादीनां कर्णामय्यन्तानां सम्बन्धो योज्यः|
Adhikarana sauvIrA~jjanam (5) · Śloka 5
सौवीरमञ्जनं नित्यं हितमक्ष्णोस्ततो भजेत्|
|५|
स०-ततो-दन्तपवनभक्षणानन्तरं, सौवीराख्यमञ्जनं भजेत्| कस्मात् ? यतो हितमक्ष्णोः|
Adhikarana rasA~jjanam (5-6) · Śloka 6
|
चक्षुस्तेजोमयं तस्य विशेषात् श्लेष्मतो भयम्||५||
योजयेत्सप्तरात्रेऽस्मात्स्रावणार्थं रसाञ्जनम्|
|६|
स०-अस्मात्कारणात्, स्रावणार्थं सप्तरात्रे सति, रसाञ्जनं दार्वीक्वाथसमुद्भवाख्यं, योजयेत्| यस्माच्चक्षुस्तेजोमयमाग्नेयम्| यद्यपि पञ्चमहाभूतात्मकं सर्वमपि, तथापि बाहुल्येन व्यपदेशात्तेजोमयमुच्यते| अत एव तद्रूपाण्यालोचयति| तथा च लोके कश्चिदाह-- "नरपतिरेति" इति| न चासौ नराणामेव पतिः किन्तर्हि नारीणामपीति| तस्य हि चक्षुषो वातपित्ताभ्यामपि भयमस्ति, विशेषेण तु कफाद्भयम्, ततो रसाञ्जनं योजयेत्|
Adhikarana nasyAdisevanam (6) · Śloka 6
|
ततो नावनगण्डूषधूमताम्बूलभाग्भवेत्||६||
स०-नावनादीनां गुणाः नस्यादिविधिषु वक्ष्यमाणा विधानं च| ताम्बूलस्य तु वैशद्यारुचिहरत्वसौगन्ध्यादिगुणाः प्रसिद्धा एव| नावनादीनां ताम्बूलान्तानां द्वन्द्वः| ततोऽञ्जनादनन्तरं, नावनगण्डूषधूमताम्बूलानि भजते यः स एवंविधो भवेत्| 'भजो ण्विः' इति ण्विः|
Adhikarana tAmbUlaniShedhaH (7) · Śloka 7
येषां तु ताम्बूलमपथ्यं, तानाह ताम्बूलं क्षतपित्तास्ररूक्षोत्कुपितचक्षुषाम्|
विषमूर्च्छामदार्तानामपथ्यं शोषिणामपि||७||
स०-क्षतं विद्यते येषां ते क्षताः| अर्श आदित्वादच्| एवं पित्तास्रा रूक्षाश्च| उत्कुपितमभिष्यन्नं चक्षुरेकं द्वे वा येषां त एवम्| क्षताश्च पित्तास्राश्च रूक्षाश्चोत्कुपितचक्षुषश्च, तेषामपथ्यमहितम्| तथा विषार्तानां मूर्च्छार्तानां मदार्तानां शोषिणां च, इत्यपिशब्दस्यार्थः| शोषिणो- राजयक्ष्मिणः|
Adhikarana aBya~ggaH (8) · Śloka 8
तदेतत्सर्वं विधाय, भोजनासन्ने कालेऽभ्यङ्ग आचरणीय इत्याह अभ्यङ्गमाचरेन्नित्यं, स जराश्रमवातहा|
दृष्टिप्रसादपुष्ट्यायुःस्वप्नसुत्वक्त्वदार्ढ्यकृत्||८||
स०-अभ्यङ्गं नित्यं सततमाचरेत्| नित्यग्रहणं चोपलक्षणार्थम्| एकद्वित्रिदिनान्तरमपि यथोदितमाचरतो न दोषः| सोऽभ्यङ्गः, आचर्यमाणो जरा च श्रमश्च वातश्च तान् हन्तीति क्विप्| तथा दृष्टीत्यादि| दृष्टेः प्रसादो- वैमल्यं दृष्टिप्रसादः| शोभना चासौ त्वक् च सुत्वक्, तस्या भावः सुत्वक्त्वम्| दृढस्य भावो दार्ढ्यम्| "वर्णदृढादिभ्यः ष्यञ्च" इति ष्यञ्| दृष्टिप्रसादादीनां द्वन्द्वः| तानि करोति योऽभ्यङ्गः, स एवम्|
Adhikarana shirAdau visheSheNa shIlanam (9) · Śloka 9
शिरःश्रवणपादेषु तं विशेषेण शीलयेत्|
|९|
स०-तमभ्यङ्गम्, शिरःश्रवणपादेषु, विशेषेणातिशयेन, शीलयेदभ्यसेत्, इति वचनाच्चावश्यं न तथा सर्वशरीरेऽभ्यङ्गः कार्यः, यथैतेषु शिरःश्रवणपादेषु| अत्र च पूर्ववदेकत्वाभावः|
Adhikarana aBya~gganiShedhaH (9) · Śloka 9
अथेतदपवादमाह |
वर्ज्योऽभ्यङ्गः कफग्रस्तकृतसंशुद्ध्यजीर्णिभिः||९||
स०-अभ्यङ्गो वर्ज्यो- वर्जनीयः| कफग्रस्तेन कृतसंशुद्धिना अजीर्णिना च| ग्रस्तग्रहणमतिशयप्रतिपादनार्थम्|
Adhikarana vyAyAmaH (10) · Śloka 10
लाघवं कर्मसामर्थ्यं दीप्तोऽग्निर्मेदसः क्षयः|
विभक्तघनगात्रत्वं व्यायामादुपजायते||१०||
स०-शरीरायासजननं कर्म व्यायाम उच्यते| तस्मात्पञ्चगुणाः लाघवादयो निष्पद्यन्ते| विभक्तानि-विभागेन स्थितानि, घनानि- दृढानि, गात्राणि यस्य स विभक्तघनगात्रः, तस्य भावस्तत्त्वमिति|
Adhikarana vyAyAma niShedhaH (11) · Śloka 11
इदानीं येनासौ न कार्यस्तं दर्शयति वातपित्तामयी बालो वृद्धोऽजीर्णो च तं त्यजेत्|
|११|
स०-वातपित्तामयी, बालः- आषोडशाद्वर्षात्, वृद्धः- सप्ततेरूर्ध्वम्, अजीर्णी च, तं जह्यात्|
Adhikarana vyAyAmamAtrA,vyAyAmakAlaH (11-12) · Śloka 12
|
अर्धशक्त्या निषेव्यस्तु बलिभिः स्निग्धभोजिभिः||११||
शीतकाले वसन्ते च, मन्दमेव ततोऽन्यदा|
|१२|
स०-तुरवधारणे| बलवद्भिः पुरुषैः स्निग्धभोजिभिरर्धशक्त्यैव निषेव्यो व्यायामः| प्राक् श्रमाद्वायामवर्जनं कार्यमित्यर्थः| कदासौ विधातव्यः ? इत्याह- शीतकाल इति| हेमन्ते शिशिरे वसन्ते च सेव्यः| शीतर्तुवसन्ताभ्यामन्यदा मन्दमेव सेव्यः| मन्दमिति क्रियाविशेषणम्| क्रियाविशेषणानां च कर्मत्वमेकत्वं नपुंसकत्वं च वक्तव्यमिति|
Adhikarana dehamardanam (12) · Śloka 12
|
तं कृत्वाऽनुसुखं देहं मर्दयेच्च समन्ततः||१२||
स०-तं- व्यायामं, कृत्वा, अनुसुखं- यथा शरीरे बाधा न स्यात्तथा, देहं मर्दयेत्| समन्ततः- परितः|
Adhikarana ativyAyAmaniShedhaH (13) · Śloka 13
तृष्णा क्षयः प्रतमको रक्तपित्तं श्रमः क्लमः|
अतिव्यायामतः कासो ज्वरश्छर्दिश्च जायते||१३||
स०-अतिव्यायामात्तृष्णादयो भवन्ति| तृष्णेति पृथक् पदम्| (तेन तृष्णादीनां पदानामकृतसमासानां निर्देशो दोषदेशाद्यनुरोधेनैकस्य द्वयोस्त्रिचतुराणां बहुतराणां सर्वेषां चाति व्यायामव्यापत्त्वद्योतनार्थः|) अतिव्यायामप्रसङ्गेनातिजागरादीनामपि व्यापदो दर्शयति-
Adhikarana ativyAyAmAdinA vyApadaH (14) · Śloka 14
व्यायामजागराध्वस्त्रीहास्यभाष्यादि साहसम्|
गजं सिंह इवाकर्षन् भजन्नति विनश्यति||१४||
स०-व्यायामादीनां भाष्यान्तानां द्वन्द्वः| तान्यादिर्यस्य साहसस्य धनुराकर्षणादेस्तदेवम्| अयथाबलमारम्भः साहसम्, तद्भजन्सेवमानो विनश्यति| क इव ? सिंह इव, सिंहो विक्रमवानप्यतिबलं गजपतिं महावर्ष्माणमाकर्षन्नाक्रामन् यथा विनश्यति, तथाऽयथाबलमारब्धेन व्यायामादिना नरो मार्यत इति|
Adhikarana udvartanaguNAH (15) · Śloka 15
उद्वर्तनं कफहरं मेदसः प्रविलायनम्|
स्थिरीकरणमङ्गानां त्वक्प्रसादकरं परम्||१५||
स०-उद्वर्तनस्य कफहरादयश्चत्वारो गुणाः|
Adhikarana snAnaguNAH (16) · Śloka 16
दीपनं वृष्यमायुष्यं स्नानमूर्जाबलप्रदम्|
कण्डूमलश्रमस्वेदतन्द्रातृड्दाहपाप्मजित्||१६||
स०-स्नानं दीपनं वृष्यामायुष्यं च भवति| ऊर्जा- उत्साहः, बलं- प्राणः, एते प्रददाति- करोति यत्तदेवम्| कण्ड्वित्यादि| कण्ड्वादीनां द्वन्द्वः| एतान् जयति| स्नानस्य प्रभावादायुष्यत्ववृष्यत्वदीपनत्वानि बोद्दव्यानि| अथवा स्नानेन प्रहर्षो भवति, प्रहर्षणत्वाच्च वृष्यत्वम्| तथा च वक्ष्यति (उ.अ.४०/३५)- "यत्किञ्चिन्मधुरं स्निग्धं बृंहणं बलवर्धनम्| मनसो हर्षणं यच्च तत्सर्वं वृष्यमुच्यते" इति| तथा, स्नानं जाठराग्नेर्बहिर्निर्गतानि रोमकूपाश्रितान्यर्चींषि रुद्ध्वाऽन्तर्नयति, ततश्चाग्नेः प्रबलत्वं कुर्वद् दीपनं सम्पद्यते| यथा- शीतकाले शीतानिलस्पर्शसंरुद्धस्य जाठराग्नेः प्रबलत्वम्| बालादित्यस्तु व्याचक्षिष्ट "स्नानेन भ्राजकाख्यं त्वगाश्रितं पित्तमन्तः प्रविशदूष्माणं संवर्धयति, तेन तद्दीपनम्"| अत एव परिषेके जलमुष्णमिष्यते| यस्माच्छीतं निर्वापयति तेजो न देहस्यान्तः प्रवेशयति| शीतकाले तु यच्छीतानिलस्पर्शसंरुद्धस्याग्नेः प्रबलत्वं तत्काल एवं तस्मिन्, कालस्वाभाव्यादिति बोद्धव्यम्| तथा चान्यर्तौ शीते सति मन्दाग्नित्वमेव दृश्यते| यथा- वर्षासु| अग्निमान्द्यादेवात्र हि वह्निसन्धुक्षणं भोजनं समुपदिष्टम्| तथा च मुनिः (च.सू.अ.६/३६)- "व्यक्ताम्ललवणस्नेहं वातवर्षाकुलेऽहनि| विशेषशीते भोक्तव्यं वर्षास्वनिलशान्तये" इति|
Adhikarana uShNaSItAmbusnAnaviShayaH (17) · Śloka 17
उष्णाम्बुनाऽधःकायस्य परिषेको बलावहः|
तेनैव तूत्तमाङ्गस्य बलहृत्केशचक्षुषाम्||१७||
स०-उष्णाम्बुना अधःकायस्य परिषेको बलावहः- प्राणकृत्| तेनैवोष्णोदकेनैव, उत्तमाङ्गस्य- शिरसः, परिषेको विधीयमानः केशचक्षुषां बलहृत्| प्राण्यङ्गानां समाहार एव द्वन्द्व इत्यस्य प्रायिकत्वात्केशचक्षुषामित्युपपन्नमेव|
Adhikarana snAnaniShedhaH (18) · Śloka 18
स्नानं येषामपथ्यम्, तान् दर्शयितुमाह स्नानमर्दितनेत्रास्यकर्णरोगातिसारिषु|
आध्मानपीनसाजीर्णभुक्तवत्सु च गर्हितम्||१८||
स०-नेत्रे चास्यं च कर्णौ च तत्र रोगाः| अर्दितं च नेत्रास्यकर्णरोगाश्चातिसारश्च ते विद्यन्ते येषां त एवम्| तेषु गर्हितमहितम्| एवं शेषेषु योज्यम्| आध्मानादीनां द्वन्द्वस्ततो मतुप्| तेन आध्मानवत्सु गर्हितमिति योज्यम्| एवं शेषेष्वपि|
Adhikarana jIrNe hitaBojanamvegodIrNadhAraNaniShedhaH vyAdhyupeScAniShedhaH (19) · Śloka 19
जीर्णो हितं मितं चाद्यान्न वेगानीरयेद्बलात्|
न वेगितोऽन्यकार्यः स्यान्नाजित्वा साध्यमामयम्||१९||
स०-जीर्णे- सम्यक्परिणते पूर्व आहारे, अद्यात्- भुञ्जीत| किमद्यात् ? हितं- पथ्यम्| मितं- मात्रया युक्तम्| पथ्यमपि ह्यतिमात्रं हीनमात्रं वा भुक्तं दोषाय स्यात्, अतो मितम्| न वेगानित्यादि| वातविण्मूत्रादीनां सम्बन्धिनो वेगाननुन्मुखीभूतान् बलान्नैरयेन्न प्रवर्तयेत्| न वेगित इत्यादि| सञ्जातवातविण्मूत्रवेगस्तमकृत्वा नान्यकार्यः स्यात्| नान्यत्कार्यं कुर्यादित्यर्थः| नाजित्वेत्यादि| साधयितुं शक्यः साध्यः, तं रोगमजित्वा नान्यकार्यः स्यादिति योज्यम्| स ह्युपेक्षितो दुःसाध्योऽसाध्यो वा स्यात्| साध्यशब्दोपादानादसाध्यामयं प्रति यत्नो न कार्यः, चिकित्सानैष्फल्यादिति द्योतयति|
Adhikarana dharmaprAdhAnyam (20) · Śloka 20
सुखार्थाः सर्वभूतानां मताः सर्वाः प्रवृत्तयः|
सुखं च न विना धर्मात्तस्माद्धर्मपरो भवेत्||२०||
स०-सर्वभूतानामशेषप्राणिनां, यस्मात्सुखार्थाः प्रवृत्तयः- कर्माणि, मताः- अभिप्रेताः| सुखं च शर्माख्यं, धर्माद्विना न भवति, तस्मात्कारणात्, धर्मपरो- धर्मप्रधानः, स्यात्| धर्मादिति "पृथग्विना" इति पञ्चमी|
Adhikarana mitrAmitrANAM svIkAraparityAgau (21) · Śloka 21
भक्त्या कल्याणमित्राणि सेवेतेतरदूरगः|
|२१|
स०-कल्याणे- शुभकर्मणि, मित्राणि- सहायाः, उपदेशादिना कल्याणमित्राणि, तानि भक्त्या- अदम्भमतिः सन्, भजेत्| इतराणि- कल्याणमित्रापेक्षयेतराणि पापमित्राणि, तेभ्यो दूरगस्तद्वर्जनपरः| तत्सङ्गो हि दृष्टादृष्टानर्थकरः| दूरग इत्यत्र "अन्तात्यन्ताध्वदूरपारसर्वानन्तेषु डः" इति डः|
Adhikarana hiMsAdipApaniShedhaH (21-22) · Śloka 22
|
हिंसास्तेयान्यथाकामं पैशुन्यं परुषानृते||२१||
सम्भिन्नालापं व्यापादमभिध्यां दृग्विपर्ययम्|
पापं कर्मेति दशधा कायवाङ्मनसैस्त्यजेत्||२२||
स०-हिंसा- प्राण्युपघातः, स्तेयं- चौर्यम्, अन्यथाकामो- निषिद्धकामसेवा पशुस्त्रीगुरुदारगमनादि, एतत्त्रिविधं कायिकं पापं कर्म| पैशुन्यं- परेषां भेदकृद्वचनम्, परुषममृदुवचनम्, अनृतसत्यवचनम्, सम्भिन्नालापोऽसम्बद्धप्रलपनम्, चतुर्विधमेतद्वाचिकम्| व्यापादः- प्राण्युपघातचिन्ता, अभिध्या- परगुणाद्यसहिष्णुता, विषयस्पृहा वा. दृग्विपर्ययं- शास्त्रदृष्टिवैपरीत्यं नास्तिकत्वादि, त्रिविधमेतन्मानसम्| तदेतद्धिंसादि दशधा पापं कर्म कायवाङ्मनसैस्त्यजेन्न कुर्यादित्यर्थः|
Adhikarana shaktito~avRutyAdyAnuvartanam (23) · Śloka 23
अवृत्तिव्याधिशोकार्ताननुवर्तेत शक्तितः|
|२३|
स०-न विद्यते वृत्तिर्येषां तानवृत्तीन्| शक्तितः- यथासामर्थ्यम्, अनुवर्तेत- अनुकूलं गच्छेत्| तथा, व्याधिना शोकेन चार्तांश्च|
Adhikarana kITAdiShvAtmavaddarshanam (23) · Śloka 23
|
आत्मवत्सततं पश्येदपि कीटपिपीलिकम्||२३||
स०-कीटान् पिपीलिकांश्चात्मवत्पश्येत्| स्वशरीरतुल्यानित्यर्थः| किमुत साधूनसाधूंश्च| कीटपिपीलिकमप्यात्मवत्पश्येदित्यपिशब्दस्यार्थः| कीटपिपीलिकमिति "क्षुद्रजन्तवः" इत्येकत्वम्|
Adhikarana devAdyarcanam (24) · Śloka 24
अर्चयेद्देवगोविप्रवृद्धवैद्यनृपातिथीन्|
|२४|
स०-देवादीनां द्वन्द्वः| देवादीनर्चयेत्| वृद्धाः- ज्ञानवृद्धाः शीलतपोवृद्धाश्च| नृपो- राजा| अतिथिः- असमानग्रामी वैश्वदेवान्ते समुपस्थितः|
Adhikarana yAcakadveShaniShedhaH (24) · Śloka 24
|
विमुखान्नार्थिनः कुर्यान्नावमन्येत नाक्षिपेत्||२४||
स०-अर्थिनो- याचकान्, प्रत्याख्यानेन विमुखान्न कुर्यात्| नावमन्येत्- नावमानयेत्| न च परुषवचनादिना आक्षिपेत्- परिभवेत्|
Adhikarana paropakAraH (25) · Śloka 25
उपकारप्रधानः स्यादपकारपरेऽप्यरौ|
|२५|
स०-अरौ शत्रावपकारपरेऽपि सत्युपकारप्रधानः स्यात्| ननु, रिपुरपकारक एव, तत्किमपकारपर इति विशेषणेन| तथा च माघः (सर्गः २/३७)- "उपकर्त्रारिणा सन्धिर्न मित्रेणापकारिणा| उपकारापकारौ हि लक्ष्यं लक्षणमेतयोः" इति| उच्यते| न हि सर्वदैवारिरपकारं कर्तुं शक्यः स्यात्, किं तर्हि कदाचिदेव| हेत्वाद्यधीनत्वादपकारकारित्वस्य| वातादिदोषवत्| यथा- वातादयो दोषा दूषणस्वभावा अपि सन्तः कदाचिद्विकारकारित्वे समर्था भवन्ति कदाचिन्नैव| दोषत्वं तु सर्वदैव तेषाम्| तस्मादपकारपर इति युक्तं विशेषणम्| अपकारिण्युपकारकृत्स्यात् किं पुनरुपकारक इत्यपिशब्दार्थः|
Adhikarana sampadAdau samacittatA, IrShyAniShedhaH (25) · Śloka 25
|
सम्पद्विपत्स्वेकमना, हेतावीर्ष्येत्फले न तु||२५||
स०-सम्पत्सु विपत्सु चैकमनाः- समचित्तः| सम्पत्सु हर्षेण, विपत्सु विषादादिना, न भाव्यमित्यर्थः| हेतावित्यादि| हेतौ- कारणे, ईर्ष्येत्| यथा- अयमेवं श्रुतत्यागादिगुणवान् कस्मात्, कस्मादहमप्येवं न भवेयम्| फले न तु- परकीये शोभने फले वस्त्रालङ्कारादिके नेर्ष्येत्|
Adhikarana BAShaNam (26) · Śloka 26
काले हितं मितं ब्रूयादविसंवादि पेशलम्|
|२६|
स०-काले- प्रस्तावे, हितं- पथ्यम्, मितं- न बहु, अविसंवादि- सत्यम्, पेशलं- मनोज्ञं, ब्रूयात्|
Adhikarana sadvartanaprakAraH (26-27) · Śloka 27
|
पूर्वाभिभाषी, सुमुखः सुशीलः करुणामृदुः||२६||
नैकः सुखी, न सर्वत्र विश्रब्धो, न च शङ्कितः|
|२७|
स०-पूर्वाभिभाषी- पूर्वालापी, स्यात्| सुमुखो- गतभ्रुकुटिः| सुशीलः- शोभनस्वभावः| तथा, करुणया मृदुरार्द्रसन्तानो मातेव पुत्रे| एकोऽद्वितीयः सन्सुखी न स्यात्| तथा, सर्वत्र- सर्वस्मिन् जने, विश्रब्धो- विश्वस्तो, न स्यात्| तथा च भगवान् व्यासः- "मायाचारे मायया वर्तितव्यम्" इति| तथा, सर्वत्र- मित्रस्वजनादिष्वपि, शङ्कितोऽविश्वस्तो, न स्यात्, तेषां वैमुख्य- दोषप्रसङ्गभयात्|
Adhikarana shatrutvAderaprakAshanam (27-28) · Śloka 28
|
न कञ्चिदात्मनः शत्रुं नात्मानं कस्यचिद्रिपुम्||२७||
प्रकाशयेन्नापमानं न च निःस्नेहतां प्रभोः|
|२८|
स०-आत्मनः शत्रुं कञ्चिदपि न प्रकाशयेत्| तत्प्रकाशनाद्धिः भेदः स्यात्| नात्मानं कस्यचिद्रिपुं प्रकाशयेत्| पूर्वोक्तादेव हेतोः| अपमानं- असत्कारं, कस्यचिन्न प्रकाशयेत्| प्रभोः स्वामिनः सम्बन्धिनीं निःस्नेहतां न प्रकाशयेत्| तत्प्रकाशनादसौ प्रभुर्जातावसरैर्भेदकैः सुतरां निःस्नेहीक्रियते|
Adhikarana lokaprakRutyanusAreNa vartanam (28-29) · Śloka 29
|
जनस्याशयमालक्ष्य यो यथा परितुष्यति||२८||
तं तथैवानुवर्तेत पराराधनपण्डितः|
|२९|
स०-जनस्याशयमालक्ष्य- लोकस्य अभिप्रायं बुद्ध्वा परिच्छिद्य, यो जनो यथा परितुष्यति तथा तेनैव प्रकारेण दानप्रियवचनादिना तमनुवर्तेताराधयेत्| कीदृशो भूत्वा ? पराराधने पण्डितस्तज्ज्ञः|
Adhikarana indriyANAM lAlanapIDananiShedhaH (29) · Śloka 29
न पीडयेदिन्द्रियाणि व चैतान्यति लालयेत्||२९||
स०-इन्द्रियाणि- रसनादीनि, कदन्नाशनादिना न पीडयेन्न निगृह्णीयात्| न चैतानीन्द्रियाण्यति लालयेदतिशयेन विलासयेत्|
Adhikarana trivargashUnyakarmAnAramBaH (30) · Śloka 30
त्रिवर्गशून्यं नारम्भं भजेत्तं चाविरोधयन्|
|३०|
स०-त्रयाणां धर्मार्थाकामानां वर्गस्त्रिवर्गः, तेन शून्यं- रहितं, आरम्भमुद्यमं, न भजेत्- न कुर्यात्| कथं भजेत् ? तं च त्रिवर्गमविरोधयन्- परस्परमबाधयन्|
Adhikarana sarvadharmaiShu madhyamamArgAnuvartanam nIcaromatvAdikam (30) · Śloka 30
|
अनुयायात्प्रतिपदं सर्वधर्मेषु मध्यमाम्||३०||
स०-सर्वधर्मेषु मध्यमां प्रतिपदं प्रतिपत्तिमनुयायात्- सर्वेष्वाचारेषु मध्यमं मार्गमनुवर्तेत| नैकत्रासक्तिं कुर्यादित्यर्थः|
Adhikarana nIcaromatvAdikam snAnashIlAdiH (31) · Śloka 31
नीचरोमनखश्मश्रुर्निर्मलाङ्घ्रिमलायनः|
स्नानशीलः सुसुरभिः सुवेषोऽनुल्बणोज्ज्वलः||३१||
स०-नीचान्यदीर्घाणि रोमनखश्मश्रूणि यस्य स एवंभूतो भवेत्| रोमाणि- बाहूरुप्रभृतिषु रोमाणि केशाश्चोच्यन्ते| तथा च "हृषेर्लोमसु" इत्यत्र सूत्रे विवृतम्- 'लोमानि मूर्धजान्यङ्गजानि चेह गृह्यन्ते' इति| नीचलोमादिकफलं च मुनिनोक्तम् (च.सू.अ.५/९६)- "पौष्टिकं धन्यमायुष्यं शुचि रूपविराजनम्| केशलोमनखादीनां कृन्तनं सम्प्रसाधनम्" इति| तथाङ्घ्री- पादौ| मलायनानि- घ्राणकर्णादीनि| निर्मलान्यङ्घ्रिमलायनानि यस्य स एवम्| अस्य च फलम् (च.सू.अ.५/९५)-- "मेध्यं पवित्रमायुष्यमलक्ष्मीकलिनाशनम्| पादयोर्मलमार्गाणां शौचादानमभीक्ष्णशः" इति| स्नानं शीलयतीति स्नानशीलो- नित्यस्नायी स्यात्| तथा, सुसुरभिः- सुगन्धिः| शोभनो जीर्णमलिनवस्त्रादिविवर्जितो वेषो यस्य स सुवेषः| अनुल्बणोऽनुद्धतः, स चासावुज्ज्वलश्चानुल्बणोज्ज्वलः| अनुद्धतवेषः उज्ज्वलश्च स्यादित्यर्थः|
Adhikarana ratnAdidhAraNam (32) · Śloka 32
धारयेत्सततं रत्नसिद्धमन्त्रमहौषधीः|
|३२|
स०- धारयेदित्यादि| रत्नानि- मणयो वज्रपद्मरागादयः| सिद्धमन्त्रोऽपराजितादिः| महौषधिः- सहदेव्यादिका| रत्नादीनां द्वन्द्वः| रत्नादीर्बाहुग्रीवादिषु, सततं- सदैव, धारयेत्|
Adhikarana sa~jcAraprakAraH (32) · Śloka 32
|
सातपत्रपदत्राणो विचरेद्युगमात्रदृक्||३२||
स०-युगमात्रदृग्विचरेद्भ्रमेत्| युगं- हस्तचतुष्टयम्, तत्पश्यति यः स एवम्| एवं कुर्वन्सम्मुखमागच्छद्भिर्गवाश्वादिभिर्नोपद्रूयते| तथा, सहातपत्रेण- छत्रेण, पदत्राणेन- पदाधारपर्यायेण, यो वर्तते स एवम्| पादत्रच्छत्रयोश्च गुणा उक्ताः- "मारुतस्यानुलोम्याय खुडस्तम्भश्रमापहम्| अन्वर्थसंज्ञं पादत्रं बलदृक्शुक्ररक्षणम्| वर्ण्यं नेत्रहितं छत्रं वातवर्षातपापहम्" इति|
Adhikarana nishi sa~jcAre visheShaH (33) · Śloka 33
निशि चात्ययिके कार्ये दण्डी मौली सहायवान्|
|३३|
स०-रात्रौ चात्ययिके कार्ये दण्डी सन् विचरेत्| दण्डेन सर्पादीनामुत्त्रासमपि चोक्तम्| तथा (सुश्रुते चि.अ.२४/७६)- "शुनः सरीसृपव्यालविषाणिभ्यो भयापहम्| श्रमस्खलनदोषघ्नं स्थविरे च प्रशस्यते| सत्वोत्साहबलस्थैर्यधैर्यवीर्यविवर्धनम्| अवष्टम्भकरं चापि भयघ्नं दण्डधारणम्||" इति| तथा च (चरके सू.अ.५/९९)- "स्खलतः सम्प्रतिष्ठानं शत्रूणां च निषूदनम्| अवष्टम्भनमायुष्यं भयघ्नं दण्डधारणम्" इति| मौलीशिरोवेष्टनयुक्तः| अनेनोपरिष्टात् पततां पतङ्गकीटादिमूत्रपुरीषादीनां रक्षा| तथा, सहायवान्| अनेनापि चित्तावष्टम्भः| दण्डशब्दात् "अत इनिठनौ" इति इनिः, मौलिशब्दाच्च व्रीह्यादित्वात्, तस्य ह्याकृतिगणत्वमिति केचित्| आत्ययिक इति| अत्ययः- कृच्छ्रम्| तस्मिन् भवमित्यध्यात्मादित्वाठ्ठञ्|
Adhikarana caityAdicchhAyAdyAkramaNaniShedhaH (33-34) · Śloka 34
|
चैत्यपूज्यध्वजाशस्तच्छायाभस्मतुषाशुचीन्||३३||
नाक्रामेच्छर्करालोष्टबलिस्नानभुवो न च|
|३४|
स०-चैत्यो- विशिष्टदेवताधिष्ठितो लोकप्रसिद्धो वृक्षविशेषः, बुद्धालय इत्यन्ये| पूज्यो- गुरुपित्रादिः| ध्वजश्चिह्नम्| अशस्ताश्चण्डालादयः, अशस्तममङ्गल्यं वस्तु इत्यन्ये| एषां छायाम्| तथा, भस्म-भूतिः| तुषो- धान्यादित्वक्| अशुचिर्विट्, यद्वा उच्छिष्टं वस्तु| तदेतन्नाक्रामेत्| शर्करा- सूक्ष्मपाषाणाकृतिर्मृत्खण्डिका| तथा, लोष्टं- मृत्पिण्डादिखण्डः| बलिर्देवताद्यर्चनम्| स्नानं प्रसिद्धम्| बलिश्च स्नानं च बलिस्नाने, तयोर्भुवौ बलिस्नानभुवौ| शर्करा च लोष्टं च बलिस्नानभुवौ च ता नाक्रामेत्|
Adhikarana bAhuByAM nadItaraNaniShedhAdi (34-35) · Śloka 35
|
नदीं तरेन्न बाहुभ्यां, नाग्निस्कन्धमभिव्रजेत्||३४||
सन्दिग्धनावं वृक्षं च नारोहेद्दुष्टयानवत्|
|३५|
स०- नदीं- तरङ्गिणीं, दोर्भ्यां न तरेत्| अग्निस्कन्धमभि- अग्निराशेरभिमुखं, न व्रजेत्| सन्दिग्धा चासौ नौश्च तां, नारोहेन्नोच्चलेत्| सन्दिग्धायाः शिथिलबन्धनत्वाज्जर्जरत्वादतिभाराक्रान्तत्वात्पारगमनं प्रति सन्देहः| चेति समुच्चये| वृक्षं च नारोहेत्| कथम् ? दुष्टयानवत्| यथा दुष्टयानमश्वादिकं नारोहेत् तथेति| दुष्टयानारोहणमपि चोक्तयाऽनया निषिद्धम्|
Adhikarana kShutyAdikaraNaprakAraH (35) · Śloka 35
|
नासंवृतमुखः कुर्यात्क्षुतिहास्यविजृम्भणम्||३५||
स०-नासंवृतास्यः क्षुत्यादीन् कुर्यात्| हस्तादिना मुखं पिधाय कुर्यादित्यर्थः| क्षुतिः- छिक्का, हास्यं- हसनम्, विजृम्भणं- जृम्भिका, एषां समाहारद्वन्द्वः|
Adhikarana nAsAvikoShaNaniShedhAdi (36) · Śloka 36
नासिकां न विकुष्णीयान्नाकस्माद्विलिखेद्भुवम्|
नाङ्गैश्चेष्टेत विगुणं, नासीतोत्कटकश्चिरम्||३६||
स०-नासां न विकर्षेत्| मलोत्सारणमात्रं तु कार्यमेव, इति विशब्देन द्योतयति| अकस्मात्- कारणं विना, भुवं- पृथ्वीं, न विलिखेत्- नोत्कर्षेत्| अङ्गैर्हस्तपादादिभिः, विगुणं- अननुगुणं यथा भवति तथा, न चेष्टेत- न व्याप्रियेत| उत्कटकं स्थितमवस्थानं यस्य स एवम्भूतो नासीत| चिरं च तिष्ठेदित्यर्थः, अर्शोरोगाद्युत्पत्तेः|
Adhikarana SramAtprAgdohavAkceShTAH (37) · Śloka 37
देहवाक्चेतसां चेष्टाः प्राक् श्रमाद्विनिवर्तयेत्|
नोर्ध्वजानुश्चिरं तिष्ठेत्|३७|
स०-देहादीनां द्वन्द्वः| एषां सम्बन्धिनीश्चेष्टाः क्रियाः श्रमात्खेदात् पूर्वं विनिवर्तयेत्| तावद्धनुराकर्षादि कुर्याद्यावन्नातीव श्रमः स्यादित्यर्थः| तथा, ऊर्ध्वे जानुनी यस्य स ऊर्ध्वजानुश्चिरं नासीत|
Adhikarana rAtrau drumAdisevananiShedhaH,sUnAdisevananiShedhaH (37-38) · Śloka 38
नक्तं सेवेत न द्रुमम्||३७||
तथा चत्वरचैत्यान्तश्चतुष्पथसुरालयान्|
सूनाटवीशून्यगृहश्मशानानि दिवाऽपि न||३८||
स०-नक्तं- रात्रौ, द्रुमं- तरुं, न सेवेत| तदाश्रितकीटमूत्रशकृदादिपातरक्षार्थम्| चत्वरं- त्रिपथम्| अन्ये त्वाहुः- "यत्र प्रदेशे नगरनिवासिनो ग्राम्या वा समेत्य नानाविधाः कथाः कुर्वन्ति, स चत्वर उच्यते"| चैत्यान्तः- चैत्यसमीपम्, चतुष्पथं- मार्गचतुष्टयसङ्गमः, सुरालयो- देवगृहम्, एतांश्च नक्तं न सेवेत| सूना- वधस्थानम्, अटवी- निर्जनो देशः, शून्यगृहं- उज्जटं भवनम्, श्मशानं- पितृवनम्, एतानि दिवाऽपि न सेवेत| अपि शब्देन रात्रौ नितरामसेवनमाह|
Adhikarana udyadAdityadarshananiShedhAdi (39) · Śloka 39
सर्वथेक्षेत नादित्यं, न भारं शिरसा वहेत्|
नेक्षेत प्रततं सूक्ष्मं दीप्तामेध्याप्रियाणि च||३९||
स०-आदित्यं सर्वथा- उद्यन्तमस्तं यान्तं प्रतिमागतमुपरक्तं वा, नेक्षेत| तथा, भारं शिरसा न च वहेन्न नयेत्| प्रततं- अनवरतं, सूक्ष्मं वस्तु नेक्षेत| दीप्तं चामेध्यं चाप्रियं च तानि प्रततं नेक्षेत| ननु, तर्हि सर्वथा नेक्षेतेत्यनेन कोऽर्थः ? यतो रविरपि दीप्तः, दीप्तग्रहणेनैवास्य दर्शननिषेधः सिद्धः| अस्त्येवैतत्| किन्तु सर्वप्रकारमादित्यं नेक्षेत| दीप्तं त्वनवरतं नेक्षेतेति|
Adhikarana madyavikrayAdiniShedhaH (40) · Śloka 40
मद्यविक्रयसन्धानदानादानानि नाचरेत्|
|४०|
स०-विक्रयो- विनिमयः, इयत्प्रमाणमधुनेदं दीयत इति| सन्धीयते येन तत्सन्धानम्- अनेकद्रव्यसम्भारो येन तत्- मद्यं यथावत्प्रमाणेन सन्धीयते| दानं- यथाशास्त्रं स्वत्वनिवृत्तिः परस्वत्वापादानम्| आदानं- यथाशास्त्रमेव परस्माद् ग्रहणम्| एतेषां द्वन्द्वः| ततो मद्यशब्देन षष्टीसमासः| मद्यविक्रयादीनि नाचरेत्| द्विजविषयं चैतद्वाक्यमिति बोध्यम्| सर्वस्य तु निषेधात् क्रयादिव्यवहारोच्छेदः स्यात्|
Adhikarana purovAtAdityAgAdi (40-44) · Śloka 44
|
पुरोवातातपरजस्तुषारपरुषानिलान्||४०||
अनृजुः क्षवथूद्गारकासस्वप्नान्नमैथुनम्|
कूलछायां नृपद्विष्टं व्यालदंष्ट्रिविषाणिनः||४१||
हीनानार्यातिनिपुणसेवां विग्रहमुत्तमैः|
सन्ध्यास्वभ्यवहारस्त्रीस्वप्नाध्ययनचिन्तनम्||४२||
शत्रुसत्रगणाकीर्णगणिकापणिकाशनम्|
गात्रवक्त्रनखैर्वाद्यं हस्तकेशावधूननम्||४३||
तोयाग्निपूज्यमध्येन यानं धूमं शवाश्रयम्|
मद्यातिसक्तिं विश्रम्भस्वातन्त्र्ये स्त्रीषु च त्यजेत्||४४||
स०-त्यजेदिति क्रिया वक्ष्यमाणा| पुरःशब्दस्य वातातपाभ्यां प्रत्येकं सम्बन्धः| पुरोवातः- पूर्वदिगागतो वातः| पुर आतपः- पूर्वातपः| पुरोवातादीन् पञ्च त्यजेत्| अनृजुः- विषमस्थितशरीरः, क्षवथ्वादीन् षट् त्यजेत्| अनृज्विति क्रियाविशेषणमिति केचिह्याचक्षते| अन्नमत्र शाल्यादि| कूलं- वप्रः, तच्छायां त्यजेत्| तत्र हि तिष्ठतस्तत्पाताद्भयं स्यात्| नृपद्विष्टं- राज्ञोऽप्रियं, त्यजेत्| व्यालो- दुष्टहस्त्यादिः, दंष्ट्रिणः- सर्पाद्याः, विषाणिनो- गवाद्याः, तांस्त्यजेत्| हीनाः- कुलशीलवित्तादिभिर्न्यूनाः, अनार्याः- असाधवः, अतिनिपुणाः- अतिगणनापराः, तेषां सेवां त्यजेत्| उत्तमैरिति सहार्थे गम्यमाने तृतीया| उत्तमैः सह विग्रहं त्यजेत्| सन्ध्यास्वभ्यवहारादीन् पञ्च त्यजेत्| शत्रुसत्रेत्यादि| शत्र्वशनं त्यजेत्| सत्रं- यज्ञः, तस्याशनं त्यजेत्| ऋत्विजादीन् वर्जयित्वा, अन्यस्य हि तदशनं निषेधति| तथा हि- "यज्ञान्ते तदुद्भूतपापोपशमनीयं प्रायश्चित्तं श्रूयते"| गणाः- कथकचारणादयः, तैराकीर्णं- व्याप्तमशनं त्यजेत्| गणिका- वेश्या, तस्याः सम्बन्ध्यशनं त्यजेत्| तदशनाद्धि तप्तापसङ्क्रमणं स्यात्| पणिकः- पणोपजीवी, इतरवणिगित्यर्थः| (तथा हि (सङ्ग्रहे सू. अ, ३)- "गणारिगणिकासत्रधूर्तानां पणिनां न च " इति|) पणिका इति "नौद्व्यचष्ठन्" इति ठन्| पणिको हि पापीयान्निन्द्रितपण्यादिविक्रीणानः प्रशंसतीत्यादि हेतोः| गात्रेत्यादि| गात्राणि-अङ्गानि, तैस्तथा वक्त्रेण नखैश्च वाद्यं त्यजेत्| तथा, हस्तावधूननं केशावधूननं च त्यजेत्| (अवधूननं-कम्पनम्|) तोयेत्यादि| मध्यशब्दः प्रत्येकं सम्बध्यते| तोययोर्द्वयोर्मध्येन यानं त्यजेत्| न यायादित्यर्थः| एवमग्न्योर्मध्येन| तथा, पूज्ययोर्मध्येन| समासकरणात्तोयाग्न्योस्तोयपूज्ययोरग्निपूज्ययोरपि मध्येन न यायादिति बोद्धव्यम्| तथा, धूमं , शवाश्रयं-शवोद्भूतं, त्यजेत्| मध्येत्यादि| मध्येऽतिसक्तिः- अतिसेवा, तां त्यजेत्| स्त्रीषु-योषासु, विश्रम्भं-विश्वासं स्वातन्त्र्यं च त्यजेत्|
Adhikarana sarvaceShTAsu lokopadeShTRutvam (45) · Śloka 45
आचार्यः सर्वचेष्टासु लोक एव हि धीमतः|
अनुकुर्यात्तमेवातो लौकिकेऽर्थे परीक्षकः||४५||
स०-हि-यस्मात्, धीमतो- बुद्धियुक्तस्य, सर्वचेष्टासु- निः- शेषव्यापारेषु, लोक एवाचार्यः- उपदेष्टा, अतः- अस्माद्धेतोः, तमेव- लोकमेव, लौकिकेऽर्थे परीक्षकः पुरुषोऽनुकुर्यात्| यथा लोको व्यवहरति तथा व्यवह्नियादित्यर्थः|
Adhikarana sadvratasvarUpam (46) · Śloka 46
आर्द्रसन्तानता त्यागः कायवाक्चेतसां दमः|
स्वार्थबुद्धिः परार्थेषु पर्याप्तमिति सद्व्रतम्||४६||
स०-आर्द्रसन्तानता- सर्वसत्त्वेषु कृपालुत्वम्| त्यागो- दानम्| कायवाक्चेतसा त्रयाणां दमः- उपशमः| परार्थेषु- परप्रयोजनेषु, स्वार्थबुद्धिः- यथा अयमेव स्वार्थो यः परार्थः, इत्युभयलोकहितत्वम्| इति- एवंप्रकारं, सद्व्रतं पर्याप्तम्| समाप्तमित्यर्थः| सत् शोभनं च तद्व्रतं च सद्व्रतम्|
Adhikarana AcArAvahitatvam (47) · Śloka 47
नक्तंदिनानि मे यान्ति कथम्भूतस्य सम्प्रति|
दुःखभाङ्न भवत्येवं नित्यं सन्निहितस्मृतिः||४७||
स०-नक्तंदिनानि- रात्रिदिनानि, सम्प्रति- इदानीं, कथम्भूतस्य- कीदृशस्य सतः, मे- मम, यान्ति| एवं नित्यं सन्निहितस्मृतिः सन् पुमान् दुःखभाक् न भवति|
Adhikarana AcAraphalam (2) · Śloka 2
इत्याचारः समासेन, यं प्राप्नोति समाचरन्|
आयुरारोग्यमैश्वर्यं यशो लोकांश्च शाश्वतान्||४८||
इति श्रीवैद्यपतिसिंहगुप्तसूनु श्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां सूत्रस्थाने दिनचर्या नाम द्वितीयोऽध्यायः||२||
स०- इति- समाप्तौ| समासेन- संक्षेपेण, तावदयमाचारः पूर्वोक्तः| यं समाचरन्ननुतिष्टन् (पुरुषः) आयुरादीन् प्राप्नोति| तथा, लोकान्- भूर्भुवःस्वःप्रभृतीन्, शाश्वतान्- नित्यान्| ननु, शाश्वतशब्दो न युक्तः| यतः शश्वच्छब्दस्य कालवाचित्वात् "कालाठ्ठञ्" इति ठञ् प्राप्नोति| तथा, "अव्ययानां च सायम्प्रातिकाद्यर्थमुपसंख्यानम्" इति टिलोपश्च प्राप्नोति| नैतदस्ति| "नस्तद्धिते" इत्यत्र सूत्रे ह्युक्तम्- "शाश्वत इत्यादौ तु टिलोपो नेष्यते| कालादिति योगविभागाच्चाण्" इति| तस्माच्छाश्वतश्ब्दो न्याय्य एवेति| इति श्रीमृगाङ्कदत्तपुत्रश्रीमदरुणदत्तविरचितायामष्टाङ्गहृदयटीकायां सर्वाङ्गसुन्दराख्यायां सूत्रस्थाने द्वितीयोऽध्यायः समाप्तः|| २||