Adhikarana adhyAyopakramaH · Śloka
स०-अथ द्रवद्रव्यविज्ञानीयः| तस्यायं सम्बन्धः "नित्यं हिताहारविहारसेवी " इत्युक्तम्| तौ चाहारविहारौ दिनचर्युर्तुचर्ययोर्यद्यपि नियमितौ, तथापि न भवत्यलं हिताहितस्वरूपविज्ञानम्| एवं हि तत्रावादीत् (हृ.सू.अ.३|२६)-'गुरुशीतदिवास्वप्नस्निग्धाम्लमधुरांस्त्यजेत्"| तथा (हृ.सू.अ.३|४७)-व्यक्ताम्ललवणस्नेहं संशुष्कं क्षौद्रवल्लघु"| तथा, अनन्तरातीतेऽप्यध्याये जगाद (सू.अ. ४|६)-"अन्नपानं च विड्भेदि इति| तदियता वाक्येन न ज्ञायते किं पुनस्तत् गुरुशीतम्? किं लघु ? किं स्निग्धाम्लम् ? किं शकृद्भेदनम्? इति| तस्मादाहारद्रव्यस्वरूपमतःपरं प्रतन्यते| तत्रापि पञ्चवर्गस्वभावत्वेनाल्पवक्तव्यत्वात् प्राग्द्रवद्रव्यविज्ञानीयस्वरूपं निर्देष्टुं युक्तम्, अन्नस्य सप्तवर्गस्वभावत्वेन भूयस्त्वादित्याह-
Adhikarana dravadravyavij~jAnIyAdhyAyaH pa~jcamaH (2) · Śloka 2
अथातो द्रवद्रव्यविज्ञानीयमध्यायं व्याख्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः|
(गद्यसूत्रे|२|
स०-अपामेवायं स्वाभाविको गुणो यत् द्रवत्वम्| अतो यानि कानिचित् द्रवरूपाणि द्रव्याणि तानि सर्वाणि आप्यान्येव क्षीरदध्यादीनि| तदर्थं द्रवद्रव्यशब्दः सामान्येन सर्वद्रवव्यक्तिपरिग्रहार्थः शास्त्रकृता प्रयुक्तः| द्रवाणि च तानि द्रव्याणि च द्रवद्रव्याणि, तेषां विज्ञानं-अवबोधः, तस्मै हितो द्रवद्रव्यविज्ञानीयोऽध्यायः, तं व्याख्यास्यामः-प्रथयिष्यामः|
Adhikarana toyavargaH ga~ggAjalaguNAH (1-2) · Śloka 2
प्राधान्याच्च पानीयस्य प्रागुपदेशः|
तथा चाष्टाङ्गसङ्ग्रहेऽन्नपानप्रकरणेऽध्यगीष्ट (सू.अ.१०) "अनुपाने तु सलिलमेव श्रेष्ठम्, सर्वरसयोनित्वात्सर्वभूतसात्म्याज्जीवनादिगुणयोगाच्च"|
तथा, तत्रैवाध्यैष्ट (सं.सू.अ.६)_"पानीयं प्राणिनां प्राणा विश्वमेव च तन्मयम्" इत्यादि|
तथा, चात्रैवाप्यसङ्ग्रहेऽपि तदेव प्रागुपनीतम् (सं.सू.अ.१३)- "श्रेष्ठमुदकमाश्वासनस्तम्भनक्लेदनानाम्" इति|
बहुगुणत्वाच्चान्तरिक्षस्य जलस्य प्रागुपन्यासो युक्त इत्याह अथ तोयवर्गः|
जीवनं तर्पणं हृद्यं ह्लादि बुद्धिप्रबोधनम्|
तन्वव्यक्तरसं मृष्टं शीतं लघ्वमृतोपमम्||१||
गङ्गाम्बु नभसो भ्रष्टं स्पृष्टं त्वर्केन्दुमारुतैः|
हिताहितत्वे तद्भूयो देशकालावपेक्षते||२||
स०-जीवनं-ओजोविवृद्धिकरम्, सौम्यधातुवर्धनमित्यन्ये| तर्पणं-क्लमहृत्, [तृप्तिकृदित्यन्ये]| हृद्यं-हृदयाय हितम्, न तु हृदयस्य प्रियं हृद्यमिति व्याख्येयम्| एवं हि व्याख्यायमाने, "अम्लं हृद्यानाम्" (च.सू.अ.२५|३९) इत्याग्र्याणां मध्ये तत्पाठं मुनिर्नैवाकरिष्यत्| यस्मात्किञ्चित् द्रव्यं कस्यचित्प्रियं भवति, न सर्वं सर्वस्य| तस्माद्धृदयाय हितं हृद्यमिति बोध्यम्| तथा, ह्लादि-आह्लादकरम्| तथा, बुद्धेः प्रबोधनम्, यावन्मात्रा यस्य शेमुषी सा तस्य स्फुटप्रतिभासा तद्योगाद्भवतीत्यर्थः| तनु-स्वच्छम्| अव्यक्तरसं-अनभिव्यक्तषड्रसमित्यर्थः| मृष्टं-अत्यास्वादसुखम्| सन्ति हि भूरिरसक्वाथचूर्णवटकादीन्यप्यव्यक्तरसानि, न तु कार्त्स्न्येन तानीन्द्रियप्रसादास्वादप्रीतिकराणि| तथा, अनुरसबाहुल्यात्पृथगपि द्रव्याण्यभयामलकादीन्यव्यक्तरसानि, न तु पुनस्तानि तथा मनःप्रीणनानि| पानीयस्य चाव्यक्तरसस्याप्याश्रयवशात् कषायत्वस्वादुत्वादि भवत्येव| तथा चाष्टाङ्गसङ्ग्रहेऽपठत्(सू.अ.६)- "श्वेते कषायं, तत्स्वादु कृष्णे, तिक्तं च पाण्डुरे" इत्यादि| मृष्टं-शुद्धमिति न व्याख्येयम्| तथा च मुनिः (च.सू.अ.२७|१९३)- शीतं शुचि शिवं मृष्टं विमलं लघु षड्गुणम्| प्रकृत्या दिव्यमुदकम्" इति| अत्र हि मृष्टविमलयोर्द्वयोरुपादाने पौनरुक्त्यं स्यात्| तस्मान्मृष्टशब्दोऽत्र मनःप्रीणनार्थः| तथा, शीतं-वीर्येण च स्पर्शेन च| तथा, लघु-लघुगुणयुक्तम्| तथा,अमृतोपमं-यथा किलामृतं त्रिदोषघ्नत्वधातुसाम्यकृत्त्वविषार्तिजित्त्वादिगुणैरशेषैर्युक्तं तथैवैतज्जलमपीत्यर्थः| तथा चोक्तं सङ्ग्रहे (सू.अ.६)- "सूर्योद्धृतप्रमुक्तत्वाल्लघु वातकफापहम्| शैत्यजीवनसौम्यत्वैः पित्तरक्तविषार्तिजित्||" इति| तथा, नभसो भ्रष्टं-अन्तरिक्षात्पतितमात्रं, वस्त्रादिगृहीतं गाङ्गं जलमीदृग्गुणं भवति| तुशब्दः पुनरर्थे| अर्केन्दुमारुतैः-रविचन्द्रानिलैः, स्पृष्टं-सम्बद्धं सत्, पुनः हिताहितत्वे-पथ्यापथ्यत्वे, देशकालावपेक्षते-देशकालावनुवर्तते| देशो विषयः पात्रमाश्रय इति पर्यायाः| तत्र किमनूपदेशे जाङ्गले वा तत्पतितम्? तथा, किमसितश्वेताद्यन्यतमे वा? इति देशानुवर्तनम्| तथा, शीते किमुतोष्णेऽथवा वर्षाख्ये पतितम्? इति कालानुवर्तनम्| रविचन्द्रानिलैरिति समस्तनिर्देशो यदा समस्तैरेतैः स्पृष्टं न तु व्यस्तैः, तदा हिताहितत्वे देशाद्यपेक्षत इति द्योतयति| सद्यो वस्त्रादिगृहीतस्य जलस्य तु न सर्वैरेतैर्योगः सम्भवतीति तत्प्रायेण हितमेव|
Adhikarana ga~ggAjalalakShaNam (3) · Śloka 3
नन्वाकाशात्पतत् लक्षणमन्तरेण गाङ्गमिदमिति न ज्ञायत इत्याह येनाभिवृष्टममलं शाल्यन्नं राजते स्थितम्|
अक्लिन्नमविवर्णं च तत्पेयं गाङ्गम्|३|
स०-येन-अम्बुना, अभिवृष्टं-आभिमुख्यतः सिक्तं, शाल्यन्नं राजतस्थितमक्लिन्नं-अक्लेदयुतं, अविवर्णं च भवति, तद्गाङ्गं जलं पेयम्| पेयमित्युपलक्षणार्थम्, स्नानावगाहयोरपि तत्पथ्यमेव| रजतस्य रूपस्य विकारो राजतम्| प्राणिरजतादिभ्योऽञ्|
Adhikarana sAmudrajalalakShaNam, sAmudrajalapAnaniShedhaH (3-4) · Śloka 4
|
अन्यथा||३||
सामुद्रं, तन्न पातव्यं मासादाश्वयुजाद्विना|
|४|
स०-अन्यथा सामुद्रमिति| एतल्लक्षणविपर्ययेण येनाम्बुना सिक्तं शाल्यन्नं विवर्णं मलिनं क्लिन्नं भवेत्, तत्सामुद्रम्| तच्च न पातव्यम्| अत्रापि पाननिषेध उपलक्षणार्थ:| स्नानावगाहावपि हि नानेन कार्यौ| सामुद्रस्य क्षारान्वयत्वात् क्लेदनादियोगः| ननु, सामुद्रमित्ययुक्तम्| यतः समुद्रशब्दस्य धूमादिपाठात् धूमादिभ्यश्चेति वुञा भवितव्यमिति केचित्| मैवम्| धूमादिभ्यश्चेत्यत्रैव गणे पठ्यते, समुद्रान्नावि मनुष्ये च वुञ्| सामुद्रिकी नौः सामुद्रिको मनुष्यः| अन्यत्र त्वणेव, सामुद्रं जलमिति| तस्मान्न्याय्यमेवैतत्| एवं सामुद्रो मणिरित्यादयो वैद्याः| अथ किं सदैवैतन्न पातव्यम् ? नेत्याह-मासादित्यादि| आश्वयुजमन्तरेणैतन्न पातव्यम्| आश्वयुजे तु मासि कालस्वाभाव्यात् पथ्यमेवेति भावः| सुश्रुतस्त्वधीते (सू.अ.४५| ७)- "गाङ्गमाश्वयुजे मासि प्रायो वर्षति माधवः| तदुपाददीत" इत्यादि|
Adhikarana AntarikShaM jalaM peyam, tadabhAve bhaumam (4-5) · Śloka 5
|
ऐन्द्रमम्बु सुपात्रस्थमविपन्नं सदा पिबेत्||४||
तदभावे च भूमिष्ठमान्तरिक्षानुकारि यत्|
शुचिपृथ्वसितश्वेते देशेऽर्कपवनाहतम्||५||
स०-ऐन्द्रं-आन्तरिक्षम्, अम्बु-जलं गाङ्गम्, सुपात्रस्थं शोभने भाजने राजतादौ स्थितम्, अविपन्नं-अदूषितमविनष्टं, पिबेत्| न मलिनाशुचिजुगुप्सितपात्रस्थम्| तदभावे-तस्यैन्द्रस्याभावे सति, भूयिष्ठं-बाहुल्येन, आन्तरिक्षानुकारि-आन्तरिक्षमैन्द्रं जलं यदनुकरोति स्वच्छादिगुणैः सदृशं, तत्पिबेत्| तदेवाह-शुचीत्यादि| शुचिश्चासौ पृथ्वसितश्वेतश्च शुचिपृथ्वसितश्वेत:, तस्मिन् देशे यज्जलं स्थितम्| तथा, अर्कपवनाभ्यामाहतं-आसमन्तात् क्रान्तम्| ईदृशमान्तरिक्षानुकारि स्यादिति भावः|
Adhikarana pAnAyogyaM jalam,AntarikShamapi pAne~ayogyam (6-8) · Śloka 8
इदानीं यादृशं जलं न पेयम्, तद्दर्शयति न पिबेत्पङ्कशैवालतृणपर्णाविलास्तृतम्|
सूर्येन्दुपवनादृष्टमभिवृष्टं घनं गुरु||६||
फेनिलं जन्तुमत्तप्तं दन्तग्राह्यतिशैत्यतः|
अनार्तवं च यद्दिव्यमार्तवं प्रथमं च यत्||७||
लूतादितन्तुविण्मूत्रविषसंश्लेषदूषितम्|
|८|
स०-पङ्क-कर्दमः| शैवालः-शैवलम्| तृणं-खटः| पर्णं-पत्रम्| आविलं चास्तृतं चाविलास्तृतम्, पङ्कादिभिराविलास्तृतं पङ्काद्याविलास्तृतम्| यथासम्भवमत्र सम्बन्धः, तेन पङ्केनाविलं-कलुषं, शैवालादिभिरास्तृतं-सञ्छादितमिति बोध्यम्| तथा, सूर्येन्दुपवनैरदृष्टं-अनासेवितं, न पिबेत्| तथा, अभिवृष्टं-तत्कालपतितान्यवर्षमिश्रीभूतं कालान्तराश्रितम्| खरनादे त्वेवमुक्तम्- "वार्षिकं तदहर्वृष्टं भूमिष्ठमहितं जलम्| व्युष्टं द्विरात्रं तच्चैव प्रसन्नममृतोपमम्||" इति| तथा, घनं-अस्वच्छम्| तथा, गुरु-गुरुगुणम्| तथा, फेनिलं फेनवत्| तथा, जन्तुमत्-कीटयुक्तम्| तथा, तप्तं-उष्णम्| तथा, अतिशैत्यतः-अतिजाड्यात्, दन्तग्राहि-दन्तान् गृह्णाति कार्याक्षमान् करोति, तच्छीलम्| न पिबेदिति प्रतिपदं योज्यम्| इत्ययं प्रायो भूमिष्ठतोयस्य निषेधः| अधुना आन्तरिक्षं यन्न पेयं तदाह-अनार्तवमित्यादि| यद्दिव्यं जलमार्तवं न भवति, तच्च न पिबेत्| ननु, सर्वमेव दिव्यं जलमार्तवम्, कालस्य ऋतुरूपत्वात्| ऋतौ च भवमार्तवम्| एवं च न किञ्चिदनार्तवं सम्भवति| उच्यते| अनार्तवं न पिबेत्| अर्थादार्तवं पिबेदित्युक्तं भवति| तदत्र सामान्योक्तावपि विशिष्टो दिव्यस्य जलस्य काल ऋतुरूपो बोध्यो वर्षाख्यः, यस्मिन् काले दिव्यं जलं पेयत्वेनाभ्यनुज्ञायते| यथा-"वर्षासु दिव्यनादेये" इत्यादि| अन्यर्तुभवं त्वनार्तवत्वान्न पेयम्| अत्र च वर्षाख्य ऋतुश्चातुर्मासिकोऽभिप्रेतः| अत एवाश्वयुजे मासि दिव्यं जलं पेयत्वेनानुजज्ञे| अन्यथा ह्यनार्तवत्वात्तदपेयमेव स्यात्| आर्तवं प्रथमं च यत्न केवलमनार्तवं न पिबेत् यावदार्तवमपि प्रथमं न पिबेत्| कुतो हेतो: ? इत्याह-लूतादीत्यादि| लूता आदिर्येषां ते लूतादयः,-क्षुद्रजन्तवः प्राणिविशेषाः, तेषां तन्तुविण्मूत्रविषाणि| तन्तुः-सूत्राकारविशेषो, लालेत्यन्ये| तेषां लूतादितन्तुविण्मूत्रविषाणां संश्लेषः-सम्पर्कः, तेन दूषितं यतः, ततस्तदार्तवमपि न पेयम्| केचित्त्वेवं व्याख्यानयन्ति-आर्तवं प्रथमं च यत्तन्न पेयम्, लूतादितन्त्वादिदूषितं च न पेयमिति| सङ्ग्रहे चाध्यगीष्ट (सू.अ.६)- "तत्कुर्यात्स्नानपानाभ्यां तृष्णाध्मानोदरज्वरान्| कासाग्निसादाभिष्यन्दकण्डूगण्डादिकानतः|| तद्वर्जयेदभावे वा तोयस्यान्यस्य शस्यते| घनवस्त्रपरिस्रावैः क्षुद्रजन्त्वभिरक्षणम्|| व्यापन्नस्यास्य तपनमग्न्यर्कायसपिण्डकैः| पर्णींमूलबिसग्रन्थिमुक्ताकतकशैवलैः|| वस्त्रगोमेदकाभ्यां वा कारयेत्तत्प्रसादनम्| पाटलाकरवीरादिकुसुमैर्गन्धनाशनम्||' इति|
Adhikarana nadInirupaNam (8-9) · Śloka 9
इदानीं नदीर्निरूपयन्नाह |
पश्चिमोदधिगाः शीघ्रवहा याश्चामलोदकाः||८||
पथ्याः समासात्ता नद्यो विपरीतास्त्वतोऽन्यथा|
|९|
स०- नद्यः समासात्-संक्षेपतः, पथ्याः-हिता:| काः ? इत्याह-याः पश्चिममुदधिं-समुद्रं गच्छन्तीति पश्चिमोदधिगाः| अन्येभ्योऽपि दृश्यत इति डः| तथा, शीघ्रवहाः-वेगवत्यः| तथा, अमलोदकाः-निर्मलसलिलाः| एवं त्रिविशेषणविशिष्टाः पथ्याः| अतः-आभ्यो, याः पुनरन्यथा-विपरीतलक्षणाः, ता विपरीताः- अपथ्याः|
Adhikarana nadyaH pathyApathyAH himavanmalayanadIguNAH (9-10) · Śloka 10
|
उपलास्फालनाक्षेपविच्छेदैः खेदितोदकाः||९||
हिमवन्मलयोद्भूताः पथ्यास्ता एव च स्थिराः|
कृमिश्लीपदहृत्कण्ठशिरोरोगान् प्रकुर्वते||१०||
स०-हिमवांश्च मलयश्च हिमवन्मलयौ, ताभ्यामुद्भूताः-सञ्जाताः पथ्याः| किं सर्वा एव ? नेत्याह-उपलेत्यादि| उपलानामास्फालनं-उल्लालनं, तेनाक्षेपः-क्षोभः, तेन विच्छेदाः-विश्लेषाः, उपलास्फालनाक्षेपविच्छेदाः तैः| खेदितं-जातक्षोभमुदकं यासां ताः खेदितोदकाः, या हिमवन्मलयोद्भूतास्ता एव पथ्या:| यास्त्वेवंभूता न भवन्ति ता अपथ्याः| स्थिरा इति| ता एवाऽवहन्त्यः सत्यः कृम्यादीन् कुर्वते| हृच्च कण्ठश्च शिरश्च तेषां रोगाः, कृमयश्च श्लीपदं च हृत्कण्ठशिरोरोगाश्चेति द्वन्द्वः| मुनिरपि हिमवत्प्रभवानां पथ्यत्वमाह| कृष्णात्रेयसुश्रुतौ त्वपथ्यत्वमाहतुः| अत एवायं ग्रन्थकारो युक्त्या मतद्वयमपि सङ्गिरमाणो विशेषणमुपन्यस्तवान्- 'उपलास्फालनाक्षेपविच्छेदै: खेदितोदका:' इति| तेन या एवंविधा न भवन्ति, ता न पथ्या इति|
Adhikarana avantinadiguNAH mahendraparvatanadIguNAH sahrAvindyanadIguNAH pAriyAtranadIguNAH samudrodakaguNAH (11-12) · Śloka 12
प्राच्यावन्त्यपरान्तोत्था दुर्नामानि, महेन्द्रजाः|
उदरश्लीपदातङ्कान्, सह्यविन्ध्योद्भवा: पुनः||११||
कुष्ठपाण्डुशिरोरोगान्, दोषघ्न्यः पारियात्रजाः|
बल पौरुषकारिण्यः, सागराम्भस्त्रिदोषकृत्||१२||
स०-प्राच्यादिजा नद्यो दुर्नामानि-अर्शासि कुर्वते| प्राच्याः-गौडाः| अवन्तयो-मालवाः| अपरान्ताः-कौङ्कणाः| महेन्द्रजा नद्य उदरादीन् कुर्वते| सह्यविन्ध्यपर्वतोत्थाश्च पुनः कुष्ठादीन् कुर्वते| पारियात्रात् सञ्जाता दोषघ्न्यो भवन्ति| सागराम्भः-समुद्रोदकं, दोषत्रयकारि|
Adhikarana kUpataDAgAdiguNAH (13) · Śloka 13
विद्यात्कूपतडागादीन् जाङ्गलानूपशैलतः|
|१३|
स०-आदिशब्देन सङ्ग्रहोक्ता (सू.अ.६) गृह्यन्ते| यथा-"कौपसारसताडागचौण्ड्यप्रास्रवणौद्भिदम्| वापीनदीतोयमिति तत्पुनः स्मृतमष्टधा|| [कौपं स्वादु त्रिदोषघ्नं लघु पथ्यं च सर्वदा| क्षारं तु कफवातघ्नं दीपनं पित्तकृत्परम्|| कषायबहुलं श्लेष्मपित्तघ्नं वातकृच्च तत्| तृष्णाघ्नं सारसं बल्यं कषायमधुरं लघु|| वातलं लघु ताडागं, चौण्ड्यं पित्तकरं स्मृतम्| लघुशीतामलं स्वादु प्रोक्तं प्रास्रवणं जलम्|| औद्भिदं स्वादु पित्तघ्नं दीपनं गुरु किञ्चन| सक्षारं कटु वाप्यम्बु पित्तलं कफवातजित्|| लघ्वल्पदोषं सुस्वादु नववापीष्ववार्षिकम्| अनभिष्यन्दि नादेयं कटुकं कफपित्तजित्|| विशदं वातलं रूक्षमनवस्थितलाघवम्|"] इति| सुश्रुते (?) चैषां लक्षणमुक्तम्| यथा-"भूम्युत्खातसमुद्भूतमिन्द्रनीलसमप्रभम्| विमलं मधुरास्वादं कौपं जलमुदाहृतम्|| नद्याः शैलवराद्वापि स्रुतमेकान्तसंस्थितम्| कुमुदाम्भोजसञ्छन्नं वारि सारसमुच्यते|| प्रशस्तभूमिभागस्थं नैकसंवत्सरोषितम्| कषायमधुरास्वादं ताडागं सलिलं स्मृतम्|| स्वयंशीर्णशिलाश्वभ्रे नीलोत्पलनिभं जलम्| लतावितानसञ्छ्न्नं बुधैश्चौण्डेयमुच्यते|| शैलसानुसमुद्भूतं स्पृष्टं वातहिमातपैः| लघु शीतामलं स्वादु स्मृतं प्रास्रवणं जलम्|| विदार्य भूमिमुद्भूतं महत्या धारया स्रवेत्| यज्जलं वेदितव्यं तदौद्भिदं स्वादु शीतलम्|| पाषाणैरिष्टकाभिर्वा बद्धा स्याद्या तु कूपवत्| वापि सा खलु विज्ञेया कृतसोपानपङ्क्तिका|| नद्यां शैलप्रसूतायां गोमेदकमणिप्रभम्| प्रशस्तभूमिभागस्थं जलं नादेयमुच्यते||" इति| "पौषादिद्वितयेष्विष्टं विशेषेण क्रमाज्जलम्| सरस्तडागयोः कूपचुण्डयोः प्रस्रवणोद्भिदोः|| कूपेन्द्रयोः कूपचुण्डयोः सर्वं पथ्यं ततः परम्|" तदेतान् कूपादीन् जाङ्गलानूपशैलान् समाश्रित्य जातान् विद्यात्| जाङ्गलादिदेशजान् यथायोगं लघून् गुरूंश्च जानीयादित्यर्थः| तत्र जाङ्गलदेशे कूपादीनां सप्तानां बहूदकसम्बन्धाभावाल्लघुत्वं वेद्यम्| आनूपे तु बहूदकसम्बन्धाद्गुरुत्वं वेद्यम्|शैले तूदकाल्पतया लघुतरत्वं वेद्यम्| तथा च सङ्ग्रहे (सू.अ.६)- "धन्वानूपमहीध्राणां सामीप्याद्गुरुलाघवम्|" इति|
Adhikarana keShA~jcijjalapAnaniShedhaH (13-14) · Śloka 14
इदानीं केषाञ्चिज्जलपाननिषेधमाह |
नाम्बु पेयमशक्त्या वा स्वल्पमल्पाग्निगुल्मिभिः||१३||
पाण्डूदरातिसारार्शोग्रहणीशोषशोथिभिः|
ऋते शरन्निदाघाभ्यां पिबेत्स्वस्थोऽपि चाल्पशः||१४||
स०-अल्पाग्न्यादिभिरम्बु न पेयम्| सर्वथैषां जलपाननिषेधप्रत्यपायमाशङ्कमान इदमाह-अशक्त्या वा,-पिपासामसहिष्णुभिः, स्वल्पं-अत्यल्पं पेयम्| यावन्मात्रेण प्रत्यपायो न भवति तावदेव पेयमित्यर्थः| अल्पाग्नयश्च गुल्मिनश्चेति द्वन्द्वः| पाण्ड्वादीनां सप्तानां द्वन्द्वः, ततो मत्वर्थीय इनिः| शरन्निदाघाभ्यामन्तरेण स्वस्थोऽप्यल्पशः पिबेत्| किं पुनरातुरः| सङ्ग्रहे त्वेवमुवाच (सू.अ.६)- "काममल्पमशक्तौ तु पेयमौषधसंस्कृतम्| पाषाणरूप्यमृद्भेमजतुतापार्कतापितम्|| पानीयमुष्णं शीतं वा त्रिदोषघ्नं तृडर्तिजित्|" इति|
Adhikarana Bojane~ambupAnaprakAraH (15) · Śloka 15
समस्थूलकृशा भुक्तमध्यान्तप्रथमाम्बुपाः|
|१५|
स०-समाश्च स्थूलाश्च कृशाश्च समस्थूलकृशाः| मध्यश्च अन्तश्च प्रथमश्च मध्यान्तप्रथमाः| भक्तस्य मध्यान्तप्रथमाः भक्तमध्यान्तप्रथमाः| तेषु कालेषु येऽम्बु पिबन्ति, ते भक्तमध्यान्तप्रथमाम्बुपाः, यथाक्रमं समाः स्थूलाः कृशाश्च भवन्तीत्यर्थः| भक्तमध्येऽम्बु पीतं धातुसाम्यं समानतां करोति| भक्तान्ते तु पीतमामाशये कफवृद्धिं विदधत्स्थौल्यमाधत्ते| भक्तादौ च पीतं निरिन्धनमग्निं तेजःप्रतिपक्षतयाऽवश्यमवसादयति, मन्दोऽग्निश्च सम्यगाहारं पक्तुमशक्तो भवति, आहारस्य चासम्यग्पाकान्न तथापुष्टिः, इति कृशत्वे युक्तिः| तथा च सङ्ग्रहे (सू.अ.६)-"भक्तस्यादौ जलं पीतमग्निसादं कृशाङ्गताम्| अन्ते करोति स्थूलत्वमूर्ध्वं चामाशयात्कफम्|| मध्ये मध्याङ्गतां साम्यं धातूनां जरणं सुखम्|" इति|
Adhikarana shItAmbuguNAH (15-16) · Śloka 16
|
शीतं मदात्ययग्लानिमूर्च्छाच्छर्दिश्रमभ्रमान्||१५||
तृष्णोष्णदाहपित्तास्रविषाण्यम्बु नियच्छति|
|१६|
स०-शीतमम्बु मदात्ययादीन् नियच्छति-पराकरोति| मदात्ययो-मद्योत्थो रोगः| ग्लानिः-क्लान्तिः| मूर्च्छा-मोहः| छर्दिः-वमिः| श्रमः-खेदः| भ्रमः-अनवस्थितिः| तथा, तृष्णादीनि नियच्छति| एवंगुणमप्यामं क्वचिन्नेष्यते| तथा चोक्तं सङ्ग्रहे (सू.अ.६)-"अनवस्थितदोषाग्नेर्व्याधिक्षीणबलस्य च| नाल्पमप्याममुदकं हितं, तद्धि त्रिदोषकृत्|" इति|
Adhikarana uShNAmbuguNAH (16-17) · Śloka 17
अधुनोष्णाम्बुगुणानाह |
दीपनं पाचनं कण्ठ्यं लघूष्णं बस्तिशोधनम्||१६||
हिध्माध्मानानिलश्लेष्मसद्यःशुद्धिनवज्वरे|
कासामपीनसश्वासपार्श्वरुक्षु च शस्यते||१७||
स०-दीपनादिगुणयुक्तमुष्णमम्बु भवति| बस्तिशब्देन तात्स्थ्यान्मूत्रं गृह्यते| तेन मूत्रशोधनमित्यत्रार्थो बोध्यः| हिध्माध्मानादिषु च शस्यते| कासश्च आमश्च पीनसश्च श्वासश्च पार्श्वरुक् च, तासु च शस्यते| आमो-अपक्वः, आहार इत्यर्थः| केचित्त्वामपीनस इति पीनसविशेषणमामशब्दमाहुः| तैरजीर्ण उष्णाम्बु नोक्तं स्यात्| अजीर्णे चालसकादिरूपे जलमुष्णमिष्यत एव|
Adhikarana kvathitashItalAmbuguNAH vyuShitakvathitashItalambuguNAH (18) · Śloka 18
अधुना क्वथितशीतलं निर्दिदिक्षुराह अनभिष्यन्दि लघु च तोयं क्वथितशीतलम्|
पित्तयुक्ते हितं दोषे, व्युषितं तत्त्रिदोषकृत्||१८||
स०-अनभिष्यन्दि-न श्लेष्मकारि| लघुगुणयोगोऽम्भसोऽस्त्येव, पुनर्लघुत्वकथनमग्निसंस्कारवशाल्लघुतरत्वप्रतिपत्त्यर्थम्| अथवा, आधारादिवशादक्वथितमम्भो लघ्वापि यद्गुरु सम्पन्नम्, तदपि क्वथितशीतलं लघु भवति| शीतलत्वादभिष्यन्दित्वं यत्तोयस्य प्राप्तम्, तत्क्वथितशीतलत्वेनास्य निषिद्धम्| मदात्ययादिहन्तृत्वं तु यच्छीतलत्वसामान्यात्तदस्यास्त्येव, न केनचिन्निषेद्धुं सम्भाव्यते| पित्तयुक्त इत्येकवचनमविवक्षितम्, तेन वातपित्ते पित्तश्लेष्मणि सन्निपाते च यत्र पित्तयोगः-पित्ताधिकत्वं दृश्यते, तत्रैतत् क्वथितशीतलं जलं हितम्| सङ्ग्रहोक्तं (सू.अ.६) तत्क्वथनलक्षणं सङ्क्षेपाभिप्रायेणेह नोक्तम्| यथा-"क्षीणपादत्रिभागार्धं देशर्तुगुरुलाघवात्| क्वथितं फेनरहितमवेगममलं हितम्||" इति| अस्यार्थः शिष्यव्युत्पत्त्यै दर्श्यते-धन्वसाधारणानूपेषु देशेषु क्रमशः क्षपितचतुर्भागात्रिभागार्धं सलिलमधिश्रपेत्| जाङ्गलो हि देशोऽनिलानलाभ्यां भूयिष्ठमधिष्ठितः, तेनात्र तोयं लाघवादाशु विशुद्धिं प्राप्नोति| आनूपस्तु भूमिसोमगुणबहुलः, तत्र गुरुत्वादिगुणयोगाच्चिरेण विशुद्धिमश्नुते| एवं साधारणो देशश्चिन्त्यः| तथा, ऋतुष्वपि यथायोगमयमेव क्रमो बोध्यः| सुश्रुते तूक्तम् (सू.अ.४५|४०)- "यत्क्वाथ्यमानं निर्वेगं निष्फेनं निर्मलं लघु| चतुर्भागावशिष्टं तु तत्तोयं कफरोगनुत्|| तत्पादहीनं पित्तघ्नं, हीनमर्धेन वातनुत्|" इति| सङ्ग्रहोक्तमेव (सू.अ.६) ग्रन्थमिमं केचिदत्राऽपि पठन्ति| यथा_ "पानीयं न तु पानीयं पानीयेऽन्यप्रदेशजे| अजीर्णे क्वथितं चामे पक्वे जीर्णेऽपि नेतरत्|| शीते विधिरयं, तप्ते त्वजीर्णे शिशिरं त्यजेत्| अतियोगेन सलिलं तृष्यतोऽपि प्रयोजितम्|| प्रयाति श्लेष्मपित्तत्वं ज्वरितस्य विशेषतः|" इति| अन्यप्रदेशजे पीते पानीये अजीर्णे पानीयं-जलं, न पानीयं-न पेयम्| एतदुक्तं भवति-पानीये पीते तज्जरणान्तं यावत् विजातीयं जलं न पेयमिति| अन्यप्रदेशज इति कोऽर्थः? कौपे पीते ताडागं न पेयम्, ताडागे पीते कौपं न पेयम्, एवं सर्वत्र चिन्त्यम्| तथा, आमे-अपक्वे जले, अजीर्णे क्वथितं च जलं न पेयम्| पक्वे-क्वथिते, पीते जीर्णेऽपि, इतरत्-आमं जलं न पेयम्, यावन्न भुङ्क्ते तावत्सजातीयमाप न पेयमित्यर्थः| शीते विधिरयं-क्वथितशीत एतद्विधानमित्यर्थः| तुरवधारणे| तप्तेऽजीर्ण एव शिशिरं त्यजेत्, जीर्णे तु शीतं पिबेदित्यर्थः| अतियोगेन-अतिबाहुल्येन, तृष्यतः-तृष्णावतोऽपि प्रयोजितं-उपयुक्तं, सर्वस्यापि नरस्य श्लेष्मपित्ततां याति| ज्वरितस्य विशेषतः-यत आमेनाग्नौ बहिष्कृते ज्वरस्योत्पत्तिः, आमस्य च पानीयं वर्धकमिति| सङ्क्षेपतयाऽल्पोपयोगित्वाच्च अवश्यायादिगुणा ग्रन्थकृता नोक्ताः| तांश्चात्र शिष्यहिताय ब्रूमः-"रूक्षस्तनुरवश्यायः शीतो वातास्रकोपनः| पानतृड्दाहपित्तास्रकुष्ठोरुस्तम्भमेहजित्|| ग्रीष्मे तु सर्वजन्तूनां स्पर्शनादपि शस्यते| पद्मिन्यम्बु च पित्तघ्नं कफकृद्विरसं गुरु|| हिमं तु शीतलं रूक्षं दारुणं सूक्ष्ममेव च| कफं न सन्दूषयति न पित्तं न च मारुतम्|| यथाऽश्मवर्षं प्रालेयं हिमादल्पान्तरं गुणैः| चराचराणामहितं, तुषारं त्वग्निनाशनम्|| (सुश्रुते सू.अ.४५|३५)- 'वैकिरं लघु सक्षारं श्लेष्मघ्नं वह्निदीपनम्| कैदारं मधुरं प्रोक्तं विपाके गुरु दोषलम्|| तद्वत्पाल्वलमुद्दिष्टं विपाके दोषलं तु तत्| अनेकदोषमानूपं वार्यभिष्यन्दिगर्हितम्|| एभिर्दोषैरसंयुक्तं निरवद्यं तु जाङ्गलम्| पाकेऽविदाहि तृष्णाघ्नं प्रशस्तं प्रीतिवर्धनम्|| दीपनं स्वादु शीतं च तोयं साधारणं लघु|' चन्द्रकान्तभवं रक्षोविषपित्तज्वरापहम्|| रत्नाकरसमुत्थं च सर्वदोषकरं मतम्||" इति|
Adhikarana nArikelodakaguNAH (19) · Śloka 19
नारिकेलोदकं स्निग्धं स्वादु वृष्यं हिमं लघु|
तृष्णापित्तानिलहरं दीपनं बस्तिशोधनम्||१९||
स०-नारिकेलान्तःस्थितमुदकं स्निग्धं स्वादु वृष्यं हिमं च भवति| एवम्भूतमपि प्रभावाल्लघु भवति| तथा, तृष्णादिहरं दीपनं मूत्रशोधनं च भवति|
Adhikarana divyanAdeyayorvarAvaratve (20-1) · Śloka 1
इदानीं युक्त्याऽग्र्यसङ्ग्रहं निर्दिशति वर्षासु दिव्यनादेये परं तोये वरावरे|
|२०|
इति तोयवर्गः||१||
स०-प्रावृष्यान्तरिक्षं जलं परं वरं-अत्यन्तं पथ्यम्| नदीसम्भवं त्वपथ्यम्| इति तोयवर्गः|
Adhikarana kShIravargaH sAmAnyakShIraguNAH (20-21) · Śloka 21
परिशेषेभ्यो वर्गेभ्यः प्राज्यजनोपयोगितयोपकारित्वेनाजन्मसात्म्येन प्राधान्यात् पयः सज्ञासामान्यात् पयस इव जीवनादिगुणयोगाच्च तोयवर्गादनु क्षीरवर्गः प्रक्रम्यते|
तत्रापि दध्यादीनां मूलकारणत्वात् क्षीरस्य प्रागुपादानम्|
तथा, जीवनीयानां रसायनानां चाग्रेसरत्वात्|
तथा चाष्टाङ्गसङ्ग्रहे (सू. अ. १३)- "क्षीरं जीवनीयानाम्|
क्षीरघृताभ्यासो रसायनानाम्|
" इत्यादि|
अथ क्षीरवर्गः|
|
स्वादुपाकरसं स्निग्धमोजस्यं धातुवर्धनम्||२०||
वातपित्तहरं वृष्यं श्लेष्मलं गुरु शीतलम्|
प्रायः पयः|२१|
स०-पयः-क्षीरं, प्रायः स्वादुपाकरसादियुक्तं भवति| पाकश्च रसश्च पाकरसौ, स्वादू पाकरसौ यस्य तदेवम्| ओजसे हितं-ओजस्यम्| धातून् वर्धयतीति धातुवर्धनम्| वृष्यं-शुक्रकरमतिशयेनेति बोध्यम्| धातुवर्धनत्वादेव शुक्रकरत्वमात्रस्य सिद्धेः प्रायोग्रहणात् क्वचित्क्षीरं नैवं भवति| तथा चोष्ट्रीक्षीरमीषद्रूक्षोष्णलवणं पठ्यते, अजाक्षीरं च लघु, आविकमुष्णम्, ऐकशफमुष्णं साम्ललवणं चेति| तस्मात्प्रायोग्रहणं कृतम्| स्वादुपाकारसत्वादेव क्षीरस्य स्निग्धवृष्यादयो गुणा लब्धा एव| किं पुनरेतैरुद्दिष्टैः ? इति केचित्| तान् ब्रूमहे| मधुररसाश्रितेभ्यः स्निग्धवृष्यादिभ्योऽपरे स्निग्धवृष्यादयो गुणा बहुतराः क्षीरस्य विद्यन्त इति ज्ञापनायैते स्निग्धादयो गुणाः पुनरुद्दिष्टाः| महाभूतानां हि संयोगादिविशेषात् क्वचिद्रससहचरिता एव गुणा द्रव्यमभिनिविशन्ते| ये रसे समारोप्य वर्ण्यन्ते| यथा-मधुर आयुष्यादिगुणाः, अम्लेऽग्निदीप्तिकृदादयः| केचिच्च रसमनपेक्ष्यैव द्रव्ये निविशन्ते| यथा-मधुररसद्रव्ये मकुष्टतण्डुलीयादौ रूक्षादयो गुणाः| तथा हि स्निग्धादीनां तत्रोपलम्भः प्राप्तो मधुररसाश्लिष्टत्वात्| तस्मान्मकुष्टादिद्रव्यं मधुररससहचरोक्तेन गुणौघेन संयुक्तं वक्तुं युक्तम्| अन्यथा तु, कृतं षड्रसगुणस्वरूपवर्णनमनर्थकमेव स्यात्| तस्मादयमत्र विषयविभागो ज्ञेयः| केचिद्गुणा रससहचरिता द्रव्ये निविशन्ते, यद्वशात्तद्द्रव्यं रसगुणाननुवर्तते| ईदृशं च विषयमुद्दिश्य तन्त्रकृद्भिर्मधुरादिरसानां स्निग्धादिगुणा वर्णिता वेद्याः| केचितु रसनिरपेक्षा एव द्रव्ये निविशन्ते| अत एव तद्द्रव्यं रसगुणान्नानुवर्तते| अस्मिंस्तु विषये रसगुणवर्णनं नोक्तमेव वेद्यम्| तस्मात्क्षीरस्य स्निग्धादियोगात्स्वादुपाकरसत्वे सत्यपि स्निग्धादिगुणवर्णनम्| एवं चोभयथा क्षीरस्य स्निग्धादिगुणयोगादधिकाः स्निग्धादयो ये गुणास्तेऽस्य सन्तीत्यवगच्छ| अयमेव च व्यवहारोऽन्यत्राप्येवंविधे शाल्यादौ द्रव्ये विज्ञेयः| ननु, "स्वादुः पटुश्च मधुरमम्लोऽम्लं पच्यते रसः|" इति (हृ. सू. अ. ९|२१) वक्ष्यते| ततश्च स्वादुरसत्वादेव स्वादुपाकत्वं लब्धम्, तत्किं पाकग्रहणेन ? भणामः| "शालिपिष्टमयं सर्वं गुरुभावाद्विदह्यते" इत्युक्तम्| तदेतत्क्षीरं गुरुगुणयुक्तमपि विदाहावस्थायां चिरं न तिष्ठति, प्रागेव स्वादुपाकतां याति| इतीममर्थं ज्ञापयितुं पाकग्रहणम्| स्त्रीणां चाहाररस एवापत्यस्नेहात् क्षीराय सम्पद्यते| तथा च दारुवाहिः- "स्त्रीणामपत्यजाद्धर्षाद्रसः क्षीराय कल्पते| स्नेहाद्रसः क्षरत्येवं हृदयात्क्षीरमेत्यतः||" इति| गव्यस्य च पूर्वतरमुपादानं सर्वक्षीरेभ्यो ज्यायस्त्वात्, तथा माहिषमपि तक्रादि गोरसशब्देन प्रथितमिति|
Adhikarana gokShIraguNAH (21-23) · Śloka 23
|
अत्र गव्यं तु जीवनीयं रसायनम्||२१||
क्षतक्षीणहितं मेध्यं बल्यं स्तन्यकरं सरम्|
श्रमभ्रममदालक्ष्मीश्वासकासातितृट्क्षुधः||२२||
जीर्णज्वरं मूत्रकृच्छ्रं रक्तपित्तं च नाशयेत्|
|२३|
स०- अत्र-एषु क्षीरेषु मध्ये, गव्यं पुनः क्षीरं जीवनीयमतिशयेनेति बोद्धव्यम्, जीवनीयमात्रस्यौजस्यमित्यनेनैव क्षीरसामान्यलक्षणेनोक्तत्वात्| ओजस्यं हि जीवनीयमुच्यते| तथा ह्योजःक्षये जीवनीयानामौषधानामुपयोगो निर्दिष्टः| यथा (हृ. सू. अ. ११|३९)- "ओजः क्षीयेत कोपादिभिः" इत्युक्त्वाऽनन्तरमुवाच-"जीवनीयौषधक्षीररसाद्यास्तत्र भेषजम्|" इति| अत्र च क्षीरं जीवनीयत्वेन गृहीतमपि पुनरुक्तं प्राधान्यख्यापनार्थम्| तथा च मुनिः (च. सू. अ. २७|२१४)- "प्रवरं जीवनीयानां क्षीरमुक्तं रसायनम्|" इति| रसायनंरसरक्तादीनां श्रेष्ठानां लाभोपायः| तथा चोक्तम् (हृ. उ. अ. ३९|२)- "लाभोपायो हि शस्तानां रसादीनां रसायनम्|" इति| तथा, क्षतक्षीणहितं-उरःक्षताय हितं क्षीणाय च हितम्| क्षीणः-क्षीणधातुः| तथा, मेधा-धारणाशक्तिः, तस्यै हितं-मेध्यम्| "उगवादिभ्यो यत्" इति यत्| एवं बल्यम्| तथा, स्तन्यकरम्| कृञो हेतुताच्छील्येति हेतौ टः, स्त्रीणां स्तन्यकरणे हेतुरित्यर्थः| तथा, सरम्| श्रमादींश्चैकादश नाशयेत्|
Adhikarana mAhiShakShIraguNAH (23) · Śloka 23
|
हितमत्यग्न्यनिद्रेभ्यो गरीयो माहिषं हिमम्||२३||
स०-महिष्या इदं-माहिषं क्षीरम्, अत्यग्निभ्योऽनिद्रेभ्यश्च हितम्| तथा, गरीयो-गुरुतरम्| तथा, हिमं-शीतवीर्यम्| मुनिरप्याह (च. सू. अ. २७|२१५)- "महिषीणां गुरुतरं गव्याच्छीततरं पयः| स्नेहादूनमनिद्राणामत्यग्नीनां हितं च तत्||" इति| [स्नेहात् अदूनं-आपूर्णं, स्नेहादूनमिति व्याख्येयम्| न तु स्नेहोनमिति, प्रत्यक्षविरोधात्| तथा च गोक्षीरात् माहिषक्षीरे बहुः स्नेह उपलभ्यते| हरिश्चन्द्रोऽप्येवमेव व्याचष्टे| तस्मात्स्नेहाधिकमिति व्याख्येयम्| ] खरनादे चोक्तम्-"गव्यं स्नेहोत्तमं क्षीरं गव्याच्च पयसः पयः| यथोत्तरं स्नेहहीनमौरभ्रच्छागमाहिषम्|| जाङ्गलानूपशैलेषु चरन्तीनां यथोत्तरम्| पयो गुरुतरं वत्सो यथा तासां प्रवर्धते|| गुरु शीततरं गव्यान्माहिषं स्वप्नलं पयः| चतुर्थभागस्नेहोनं पित्तघ्नं च विशेषतः||" इति| यत्तु रविगुप्तः सिद्धसारेऽध्यगीष्ट-"गव्यात् स्निग्धं गुरुतरं माहिषं स्वप्नकृत्पय:|" इति| तद्बुधैश्चिन्त्यम्, सर्वमतविरुद्धत्वात्|
Adhikarana AjakShIraguNAH (24) · Śloka 24
अल्पाम्बुपानव्यायामकटुतिक्ताशनैर्लघु|
आजं शोषज्वरश्वासरक्तपित्तातिसारजित्||२४||
स०-आजं-छागलं क्षीरं, लघु भवति, अल्पाम्बुपानादिभिर्हेतुभूतैः| अल्पाम्बुपानादित्वं चाजानां स्वभावः, अन्यासां तु देशसात्म्यापेक्षया| ननु, यद्येवं स्वभावादेवाल्पाम्बुपानादेर्गम्यमानत्वादेतदुपन्यासो व्यर्थ एव| अत्रोच्यते| ज्ञापनार्थम्| इदं ज्ञापयति,-यदा अजा अल्पव्यायामगुर्वशनादि कुर्युः, तदा तासामप्यन्यथा क्षीरं भवेत्| एवं च गवादीनामप्याहारादिवशाद्गुरुलघुत्वं चिन्त्यमिति| तेन प्रादोषमपराह्णे यद्गृहीतं पयः, तदपेक्षयौषसं प्रभाते यद्गृहीतं तद्गुरु, चेष्टारहितत्वात्| रात्रौ हि प्राणिनां न कदाचिच्चेष्टा भवति, अत औषसं गुरु| दिवा च धावनप्लवनादिकया चेष्टया प्रादोषं लघु| अनया च दिशा सर्वमपि चिन्त्यम्| अत एव सङ्ग्रहे यदुक्तम् (सू. अ. ६)- "पिण्याकाम्लाशिनीनां तु गुर्वभिष्यन्दि तद्भृशम्|" इति| तदेतेनैवोक्तप्रायत्वान्नेहोक्तम्| शोषेत्यादि| शोषादीनां द्वन्द्वः| तान् जयतीति क्विप्| शोषजित्| एवं ज्वरजिदित्यादि|
Adhikarana auShTrakakShIraguNAH (25) · Śloka 25
ईषद्रूक्षोष्णलवणमौष्ट्रकं दीपनं लघु|
शस्तं वातकफानाहकृमिशोफोदरार्शसाम्||२५||
स०-औष्ट्रकं-उष्ट्रीणां क्षीरं, लघु तथा ईषत्-मनाग्रूक्षोष्णलवणं तथा दीपनं भवति| तथा, वातादीनां शस्तं-वातादिषु पथ्यमित्यर्थः| औष्ट्रकमिति "उष्ट्राद्वुञ्" इति वुञ्| प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणमित्युष्ट्रीशब्दादपि|
Adhikarana mAnuShakShIraguNAH (26) · Śloka 26
मानुषं वातपित्तासृगभिघाताक्षिरोगजित्|
तर्पणाश्चोतनैर्नस्यैः|२६|
स०-मानुषीणां क्षीरं वातपित्तासृगभिघाताक्षिरोगजिद्भवति वातश्च पित्तं चासृक् चाभिघातश्चेति द्वन्द्वः, तैरक्षिरोगः, तं जयति यत्तदेवम्| केन प्रयोगेण ? इत्याह-तर्पणाश्चोतनैर्नस्यैः| न त्वभ्यवहारादिना| तर्पणादीनि-स्वे स्वेऽध्याये वक्ष्यमाणानि|
Adhikarana AvikakShIraguNAH (26-27) · Śloka 27
|
अहृद्यं तूष्णमाविकम्||२६||
वातव्याधिहरं हिध्माश्वासपित्तकफप्रदम्|
|२७|
स०-आविकं क्षीरमुष्णवीर्यं भवति| तथा, अहृद्यं-हृदयायाहितं भवति| तथा, वातव्याधिहरम्| तथा, हिक्कादिप्रदम्| आविकमित्यविशब्दात् स्वार्थे कप्रत्ययान्तात् "तस्येदम्" इत्यण्|
Adhikarana hastinIkShIraguNAH (27) · Śloka 27
|
हस्तिन्याः स्थैर्यकृत्|२७|
स०-हस्तिन्याः क्षीरं स्थैर्यकृद्भवति|
Adhikarana vaDavAdikShIraguNAH (27-28) · Śloka 28
बाढमुष्णं त्वैकशफं लघु||२७||
शाखावातहरं साम्ललवणं जडताकरम्|
|२८|
स०-एकः शफो-नखो, यासां वडवादीनां ता एकशफाः, तासामिदं-ऐकशफं क्षीरं, बाढं-अतिशयेनोष्णं भवति| तथा, शाखासु-बाहूरुप्रभृतिषु यो वातः, तं हरतीति शाखावातहरम्| "हरतेरनुद्यमनेऽच्" इत्यच्| तथा, सम्ललवणं-ईषदम्लमीषल्लवणं च| तथा, जडताकरं-अङ्गजाड्यकरणहेतुः| "कुञो हेतुः" इत्यादीना हेतौ टः|
Adhikarana apakvakShIraguNAH pakvakShIraguNAH (28) · Śloka 28
|
पयोऽभिष्यन्दि गुर्वामं, युक्त्या शृतमतोऽन्यथा||२८||
स०-आमं-अक्वथितं, पयोऽभिष्यन्दि-श्लेष्मप्रकोपि, तथा गुरु भवति| अतः-आमात्, अन्यथा-विपरीतं, युक्त्या शृतं भवति| अनभिष्यन्दि लघु च| लघिमा तु पूर्वावस्थामपेक्ष्योच्यते| युक्तिः-योग उपाय:| खरनादेन क्षीरस्य श्रपणे युक्तिः स्पष्टं कृत्वा दर्शिता-"अर्धोदकं क्षीरशिष्टमामाल्लघुतरं शृतम्|" इति|
Adhikarana atipakvakShIraguNAH dhAroShNakShIraguNAH (29) · Śloka 29
भवेद्गरीयोऽतिशृतं, धारोष्णममृतोपमम्|
|२९|
स०-अतिशयेन क्वथितं कवलभोज्यमिव सञ्जातं, गरीयो-गुरुतरं भवेत्| खरनादेनोक्तम्-"स्यान्निर्जलं शृतं द्वित्रिचतुरष्टांशशेषितम्| यथाशृततमं सारं गुरु बल्यतमं पयः||" इति| सुश्रुते (?) चोक्तम्-"शृतशीतं तु पित्तघ्नं शृतोष्णं कफवातजित्| त्यजेद्विवर्णं ग्रथितं विगन्धं विरसं पटु|| रक्तपित्तप्रशमनी वृष्या सन्तानिका गुरुः|" इति| खरनादेनोक्तम्-"धारोष्णात्सर्वशः क्षीराच्छीतं गुरुतरं भवेत्|" इति| धारोष्णममृतोपमम्, निर्दोषत्वात्|
Adhikarana dadhiguNAH,dadhiBojananiyamAH (29-33) · Śloka 33
|
अम्लपाकरसं ग्राहि गुरूष्णं दधि वातजित्||२९||
मेदःशुक्रबलश्लेष्मपित्तरक्ताग्निशोफकृत्|
रोचिष्णु शस्तमरुचौ शीतके विषमज्वरे||३०||
पीनसे मूत्रकृच्छ्रे च, रूक्षं तु ग्रहणीगदे|
नैवाद्यान्निशि नैवोष्णं वसन्तोष्णशरत्सु न||३१||
नामुद्गसूपं नाक्षौद्रं तन्नाघृतसितोपलम्|
न चानामलकं नापि नित्यं नो मन्दमन्यथा||३२||
ज्वरासृक् पित्तवीसर्पकुष्ठपाण्डुभ्रमप्रदम्|
|३३|
स०-अम्लौ पाकरसौ यस्य तदेवंभूतं दधि भवति| तथा, ग्राहि-स्तम्भनम्| तथा चोक्तम्-"भेदि तत्पिण्डितान् भावान् शकृदादीन् भिनत्ति यत्| विपरीतमतो ग्राहि तच्च स्तम्भनमुच्यते||" इति| तथा, गुरु उष्णं वातजिच्च| मेदआदीनां द्वन्द्वः, तान् करोति यत्तदेवम्| रोचत इति रोचिष्णु| न रोचत एव केवलम्, अरोचकमपि व्यावर्तयतीति शस्तमरुचौ| रोचनं हि घृतपूरादि न त्वरुचिं जयति| अरुचिघ्नं प पटोलपत्रं तन्न रोचते| तथा ह्यत्रैव पठिष्यति (हृ. सू. अ. १०|१४)- "तिक्तः स्वयमरोचिष्णुररुचिम्" इत्यादि| रोचिष्णुत्वादेव चोच्चावचव्यञ्जनपरिवृतैर्मांसमण्डकादिभिरपि सुहितस्यापि दधन्यभिलाष उत्पद्यत एव| अत एव चैतदाहारान्तेऽभ्यवहरन्ति| शीतक इति विषमज्वरविशेषणम्| शीतकारित्वं तु वाते श्लेष्मणि तत्संसर्गे वा यद्यपि त्रितये सम्भवति, तथाऽपि वातजिद्वातज एव विषमज्वरे दधि प्रयोज्यम्, संसर्गे वा वातोल्बणे| तथा हि शीतज्वर एवोक्तम् (हृ. चि. अ. १|१४२)- "अग्न्यनग्निकृतान् स्वेदान् स्वेदि भेषजभोजनम्|" इति| ननु, पीनसे शस्तमिति कथमविशेषेणोक्तम् ? यतश्चत्वारः पीनसा वातपित्तकफसन्निपातजा इति वक्ष्यन्ते| तत्र दध्नो वाताधिक एव युक्तत्वं, न शेषेषु| अत्र सञ्चक्ष्महे| परिपाकात् पीनसस्योपशान्तिः| परिपाककरं च दधि, उष्णत्वात्| अथवा पूर्ववत्सामान्योक्तावपि यत्र योग्यताऽस्य वातिके, तत्रैव तदुपकल्प्यताम्| अनुक्तेष्वपि हि सामान्योपक्रमो वस्तुवशाद्विशेष्वेव विपरिणमति| तथा ह्यत्रैवोपरिष्टाद्दुग्धकर्मसु व्यतीतम्-"श्रमभ्रममदालक्ष्मीश्वासकासातितृट्क्षुधः| जीर्णज्वरं मूत्रकृच्छ्रं रक्तपित्तं च नाशयेत्||" इति| न च सर्वेष्वेव कासश्वासकृच्छ्रास्रपित्तेषु पयः कार्मुकमिति| तथा, ग्रहणीरोगे तु तद्रूक्षं शस्तम्| अनेन च हेतुना दध्नः प्रकृतिस्थस्य स्निग्धत्वं युक्त्यैवोक्तम्| यतो ग्रहण्यां रूक्षं-उद्धृतसारमुद्दिष्टम्| निशि नैव-न किञ्चिदद्यात्| नैवाद्यान्निशि नैवोष्णमित्येवकारा आत्यन्तिकनिषेधाय| रात्रौ निषेधाद्दिवा भुञ्जीतेत्यर्थादवगम्यते| नैवोष्णं-अग्न्यादितापात्तप्तम्| तथा, वसन्तग्रीष्मशरत्सु न भोज्यम्| अन्यर्तावपि मुद्गसूपादीनामन्यतमेन रहितं न भोज्यम्| तत्र घृतसितोपलयोः समांशिकतयोरेव योगेन पथ्यत्वमिच्छन्ति| मुद्गसूपादीनां तु मिश्रीभावो दध्ना जन्यमानस्य दोषस्य प्रतिबन्धार्थं कल्प्यते, रक्तपित्तवत्| यथासमीरणोल्बणेऽस्रपित्ते तित्तिर्यादीनामौष्ण्यमुदुम्बरादिरसेन प्रतिबध्नाति| नित्यमिति| यद्युपशेते शरीरस्य तथाप्युदकरोगावहत्वान्न शीलनीयम्| अत एव मात्राशितीयेऽप्यतिदोषलत्वादस्य निषेधं करोति| तथा च वक्ष्यति (हृ. सू. अ. ८|४०)- "किलाटदधिकूचीका" इत्यादि| नो मन्दमिति| दुग्धावस्थां व्यतीत्य दध्यवस्थामसम्प्राप्तमन्तरालवर्ति-मन्दकमित्युच्यते| तस्मिन् सत्यपि स्नेहे परिणतिविशेषेण कालात्मना स्रोतसामत्यन्तोपलेपकृतो दोषत्रयकोपोऽपि भवतीत्यतीव वर्जनीयमेव मन्दकनिषेधश्चोपलक्षणार्थः, तेन मद्यादीनप्यप्राप्तरसान्नोपयुञ्जीतेत्यवगन्तव्यम्| अन्यथेत्यादि| प्रशब्द एवं द्योतयति-विधिभ्रष्टं दधि निषेव्यमाणं प्रकर्षेण ज्वरासृक्पित्तादीन् ददाति| ननु, शुक्रकृत्त्वबलवर्धनत्वाद्दीपनत्वमनुपपन्नम्| शुक्रकृद्बलवर्धनानि हि द्रव्याणि प्रायेण गुरूणि भवन्ति| अतो दध्येवंगुणं सत्कथं नामाग्निकृत्स्यात् ? अत्राचक्ष्महे| अम्लत्वादुष्णवीर्यत्वाच्च युक्तमेव| यतो रसविपाकाभ्यामम्लं वीर्येणोष्णं च दधि, अतोऽग्निकृत्त्वमस्मिन्नुपपन्नमिति| ननु, शुक्रकरत्वं दध्नो न युक्तम्| यतोऽम्लपाकरसं दधीत्यधीतमाचार्येण, अम्लश्च शुक्रनाशनः, तस्माच्छुक्रकृत्त्वमयुक्तम्| अत्राचक्ष्महे| स्निग्धत्वबृंहणत्ववातघ्नत्वबल्यत्वैः शुक्रकृत्त्वमुपपन्नमेव| तथा च वक्ष्यति (हृ. सू. अ. ९|२२)- "किञ्चिद्रसेन कुरुते कर्म पाकेन चापरम्| गुणान्तरेण वीर्येण प्रभावेणैव किञ्चन||" इति| ननु, वातजिदित्यनेन नार्थः| यानि खलु द्रव्याणि बल्यस्निग्धगुरूष्णयुक्तानि, तानि वातघ्नान्येव दृष्टानि| तस्माद्वातजिदिति न वाच्यम्| नैवम्| सक्तुमद्यसूर्यतापमन्दकादिषु व्यभिचारात्| तथा हि-सक्तवो वातला वृष्या रूक्षा बलकराश्च| मार्द्वीकादिमद्यं हर्षणत्वाद्वृष्यं वातलं च| तथा च वक्ष्यति (हृ. उ. अ. ४०|३५)- "मनसो हर्षणं यच्च तत्सर्वं वृष्यमुच्यते|" इति| मद्यं च मात्रा पीतं हर्षणं भवति| तथा च मुनिः (च.चि.अ.२४|५९)-"हर्षमूर्जप्रदं पुष्टिमारोग्यं पौरुषं परम्| युक्त्या पीतं करोत्याशु मद्यम्" इति| सूर्यतापश्चोष्णोऽपि सन्मारुतस्य वृद्धये| तथा च मुनिः (च.चि.अ. १४|१३)-"कषायकटुतिक्तानि रूक्षशीतलघूनि च|" इत्यारभ्य यावत् "वातातपौ भयं शोको हेतुर्वातार्शसामिति||" इति| मन्दकं च स्निग्धाम्लगुरुगुणयुक्तमपि त्रिदोषकरम्| तथा च मुनिः (च. सू. अ. २७|२२४)- "त्रिदोषं मन्दकम्" इति| त्रिषु च दोषेष्वन्तर्भूतः पवन इति चैवं व्यभिचारदर्शनाद्वातजिदित्युक्तम्| क्षीरस्य च दध्यात्मना परिणमतोऽनभिव्यक्ताम्लाभिव्यक्ताम्लात्यम्ललक्षणास्तिस्रोऽवस्थाः सम्पद्यन्ते| तत्र मन्दजातं-अनभिव्यक्ताम्लम्| सम्यग्जातं-अभिव्यक्ताम्लम्| अतिजातं-अत्यम्लम्| तत्र मन्दजातं त्रिदोषकृत्त्वान्निषिद्धम्| सम्यग्जातस्यैते पूर्वोक्ता गुणाः| किञ्चिद्धीनाश्चात्यम्लस्य| तथा, सुजातेऽत्यम्ले च दध्नि सरमण्डौ स्तः| तत्र दध्न उपरिभागः सरः, अधो मण्डः| एतद्गुणास्तु लाघविकत्वान्नेहोक्ताः| मुनिना च दर्शिताः (च.सू.अ. २७|२२४)- "त्रिदोषं मन्दकं जातं वातघ्नं दधि शुक्रलम्| सरः श्लेष्मानिलघ्नस्तु मण्डः स्रोतोविशोधनः||" इति| श्लेष्मपित्तरक्तकृत्त्वं चाम्लपाकरसोष्णवीर्यत्वादेवात्रगम्यते| यत्तु साक्षादेतेषामुपादानं तत् प्रकर्षार्थम्| अन्येभ्योऽम्लद्रव्येभ्यो दध्येतान्यतिशयेन करोतीति| नैवाद्यान्निशीत्यादौ ग्रन्थे चैकस्मिन्नेव नकारे कर्तव्ये यदनेकनकारकरणं तच्छास्त्रनिषिद्धदधिभक्षणादतिप्रत्यवायज्ञापनार्थम्| चरकोक्तश्च मङ्गल्यगुणो नेहोक्तः, चिकित्सायामनुपयोगित्वात्| अत एव सर्पिरादीनां मङ्गल्यानामपि चरकेऽपि मङ्गलत्वं नावादीदिति| सुश्रुते तु (सू.अ. ४५|६८) दध्नो विशेषगुणा उक्ताः| यथा-"दध्याजं कफपित्तघ्नं लघु वातक्षयापहम्| दुर्नामश्वासकासेषु हितमग्नेश्च दीपनम्|| विपाके मधुरं वृष्यं रक्तपित्तप्रणाशनम्| बलासवर्धनं स्निग्धं विशेषाद्दधि माहिषम्|| विपाके कटु सक्षारमम्लं भेद्यौष्ट्रकं दधि| वातमर्शांसि कुष्ठानि कृमीन् हन्त्युदराणि च|| वातघ्नं कफकृत्स्निग्धं विशेषान्न च पित्तकृत्| कुर्याद्भक्ताभिलाषं च दधि यत् सुपरिस्रुतम्|| शृतक्षीराच्च यज्जातं गुणवद्दधि तत्स्मृतम्| वातपित्तहरं रुच्यं धात्वग्निबलवर्धनम्|| दधि त्वसारं रूक्षं च ग्राहि विष्टम्भिवातलम्| दीपनीयं विशेषेण सकषायं रुचिप्रदम्||" इति| केवलमपि स्वल्पं कदाचिद्दधि भुञ्जीतेत्यर्थादवगम्यते| अन्यथा केवलस्य गुणकथनं निष्फलमेव स्यादिति केचिदाहुः|
Adhikarana takraguNAH (33-34) · Śloka 34
|
तक्रं लघु कषायाम्लं दीपनं कफवातजित्||३३||
शोफोदरार्शोग्रहणीदोषमूत्रग्रहारुचीः|
प्लीहगुल्मघृतव्यापद्गरपाण्ड्वामयान् जयेत्||३४||
स०-तक्रं लघु कषायाम्लं दीपनं कफवातजिच्च भवति| तथा, शोफादीनेकादश जयेत्| घृतस्यातिपानात् व्यापत्-रोगो घृतव्यापत्| गरः-कृत्रिमो विषविशेषः| सुश्रुते चोक्तम् (सू.अ.४५|८६)- "नैव तक्रं क्षते दद्यान्नोष्णकाले न दुर्बले| न मूर्च्छाभ्रमदाहेषु न रोगे रक्तपैत्तिके|| शीतकालेऽग्निमान्द्ये च कफोत्थेष्वामयेषु च| मार्गावरोधे दुष्टे च वायौ तक्रं प्रशस्यते||" इति| तथोक्तम् (सङ्ग्रहे सू. अ. ७)- "तक्रमामं कफं कोष्ठे हन्ति कण्ठे करोति तु| पीनसश्वासकासादौ सिद्धमेवोपयोजयेत्||" इति| "मन्दजातं मरुत्कोपि रूक्षाभिष्यन्दि दुर्जरम्| अतिजातं भृशाम्लौष्ण्यतैक्ष्ण्यात्पित्तकरं परम्|| दोषघ्नमुद्धृतस्नेहं सस्नेहमपि शोफजित्| (सु. सू. अ. ४५|८९)- 'वातेऽम्लं सैन्धवोपेतं, स्वादु पित्ते सशर्करम्|| हितं तक्रं कफे साम्लं व्योषसौवर्चलान्वितम्| तक्राल्लघुतरो मण्डो दुर्जरा तक्रकूर्चिका'||" इति|
Adhikarana mastuguNAH (35) · Śloka 35
तद्वन्मस्तु सरं स्रोतःशोधि विष्ठम्भजिल्लघु|
|३५|
स०-मस्तु तद्वत्-तक्रवद्गुणैर्वेद्यम्| तथा, सरम्| तथा, स्रोतःशोधिः| तथा, विष्टम्भजित्| सुश्रुते चोक्तम् (सू.अ.४५|८१)- "तृष्णाक्लमहरं मस्तु लघु स्रोतोविशोधनम्| अम्लं कषायानुरसमवृष्यं कफवातजित्|| आह्लादनं प्रीणनं च भिनत्त्याशु मलं च तत्| बलमावहति क्षिप्रं तथा भक्तस्य रोचकम्||" इति|
Adhikarana navanItaguNAH (35-36) · Śloka 36
|
नवनीतं नवं वृष्यं शीतं वर्णबलाग्निकृत्||३५||
सङ्ग्राहि वातपित्तासृक्क्षयार्शोर्दितकासजित्|
|३६|
स०-नवनीतं नवं-नवोद्धृतं, लघु वृष्यं च| तथा, शीतं-शीतवीर्यं, बलवर्णाग्निकरं च| तथा, सङ्ग्राहि वातादिजिच्च| सङ्ग्रहे चोक्तम् (सू.अ.६)-"शीतं स्वादु कषायाम्लं नवनीतं नवोद्धृतम्|" इत्यादि|
Adhikarana kShIrodBavanavanItaguNAH (36) · Śloka 36
|
क्षीरोद्भवं तु सङ्ग्राहि रक्तपित्ताक्षिरोगजित्||३६||
स०-क्षीरोद्भवं तु-क्षीरादेव जातं मथित्वोत्पादितं, नवनीतं सङ्ग्राहि रक्तपित्ताक्षिरोगजिच्च भवति|
Adhikarana ghRutaguNAH (37-39) · Śloka 39
शस्तं धीस्मृतिमेधाग्निबलायुःशुक्रचक्षुषाम्|
बालवृद्धप्रजाकान्तिसौकुमार्यस्वरार्थिनाम्||३७||
क्षतक्षीणपरीसर्पशस्त्राग्निग्लपितात्मनाम्|
वातपित्तविषोन्मादशोषालक्ष्मीज्वरापहम्||३८||
स्नेहानामुत्तमं शीतं वयसः स्थापनं परम्|
सहस्रवीर्यं विधिभिर्घृतं कर्मसहस्रकृत्||३९||
स०-घृतं धीप्रभृतीनामग्निग्लपितात्मान्तानां शस्तं-हितम्| धीः-बुद्धिः, वस्तुग्रहणशक्तिः| स्मृतिः-अतीतविचारशक्तिः| प्रजार्थिनां शस्तम्| प्रजा-अपत्यम्, तदर्थिनाम्| शुक्रस्य सफलताकरमित्यर्थः| तथा, वातादिघ्नम्| तथा, स्नेहानां-तैलादीनां, उत्तमं-श्रेष्ठम्| तथा, शीतम्| वयसः स्थापनं-जरया विना वयसः स्थापनमित्यर्थः| सहस्रवीर्यमिति| सहस्र-शब्दोऽनेकार्थः, अनेकशक्तीत्यर्थः| कथम् ? विधिभिः,-योगसंस्कारादिभिर्घृतमनेकशक्तिः सम्पद्यते| येन द्रव्येण प्रयुज्यते संस्क्रियते वा, तच्छक्तिमेवाऽनुरुध्यते| अथवा तत्संयोगाच्छक्त्यन्तरमन्यदारोहति| अतो हेतोः सहस्रशब्दोऽनेकार्थः| अन्यथा द्रव्याणामानन्त्यात्कथं दशशतवाची सहस्रशब्द उपपद्यते| अन्ये त्वेवं व्याचक्षते -सहस्रशब्दो दशशतसंख्यावाच्येव| सहस्रपाक्यं हि सर्पिरुक्तम्, न सहस्रपाक्यात्परेण| तत्र चेदं सहस्रपाक्यत्वे प्रयोजनम्-पाकसहस्रं यावदस्य संस्कारोऽनुवर्तते, नातःपरम्| अन्यथा सहस्रपाकात्परेण किमिति पाको नोक्तः ? तस्मादासहस्रं पाकानां शक्त्यन्तराण्यारोहन्ति पाकाः, न ततः परेणेति| तथा, कर्मसहस्रकृत्-अनेककार्यकृत्|
Adhikarana purANaghRutaguNAH (40) · Śloka 40
मदापस्मारमूर्छायशिरःकर्णाक्षियोनिजान्|
पुराणं जयति व्याधीन् व्रणशोधनरोपणम्||४०||
स०-पुराणं-अतीतबहु कालं, पञ्चदशादिवर्षस्थितं, घृतं मदादीन् व्याधीन् जयति| व्रणानां पैच्छिल्यादीन् शोधयति| तथा, व्रणान् रोपयति| सङ्ग्रहे चैवमध्यैष्ट (सू. अ. ६)- "व्रणशोधनरोपणम्| पूर्वोक्तांश्चाधिकान्कुर्याद्गुणांस्तदमृतोपमम्|| तद्वच्च घृतमण्डोऽपि रूक्षस्तीक्ष्णस्तनुस्तु सः|" इति|
Adhikarana kilATAdiguNAH (41) · Śloka 41
बल्याः किलाटपीयूषकूर्चिकामोरणादयः|
शुक्रनिद्राकफकरा विष्टम्भिगुरुदोषलाः||४१||
स०-किलाटादयो बल्याः| तथा, शुक्रादिकराः| तथा, विष्टम्भिनो गुरवो दोषलाश्च स्युः| आदिग्रहणात्तक्रपिण्डकक्षीरशाकयोर्ग्रहणम्| वह्निनाशकत्वं चैषां बल्यत्वेन शुक्रकृत्त्वेन विष्टम्भिदोषलत्वेनावगतमेवेति 'वह्निसादनाः' इति ग्रन्थकृता नेहकृतम्| सङ्ग्रहे तु स्पष्टार्थं कृतमेव| तत्र, किलाटः-अल्पक्षीरो बहुना तक्रेण कृतः| पीयूषः-सद्यःप्रसूताक्षीरकृतः| कूर्चिका-दधितक्रकृता किलाटिका| मोरणः-क्षीरसदृशः किलाटिकः| पिण्डनं-उत्तरापथे प्रसिद्धम्| क्षीरशाकः-प्रसिद्धः|
Adhikarana kShIraghRutayoHshreShThatvaninditatve (42-2) · Śloka 2
गव्ये क्षीरघृते श्रेष्ठे निन्दिते चाविसम्भवे|
|४२|
इति क्षीरवर्गः||२||
स०-गोसम्भवे क्षीरघृते श्रेष्ठे| आविके च निन्दिते-गर्हिते| घृतस्य च क्षीरविकारोपलक्षणार्थत्वाद्दधितक्रमस्त्वादीनामपि गव्यानां श्रेष्ठत्वमेव वेद्यम्| अत एवाविसम्भवानां दधितक्रादीनामधमत्वमेव वेद्यम्, न क्षीरघृतयोरेव| अत एव सङ्ग्रहे सुस्पष्टं कृत्वोक्तम् (सू. अ. ६)- "विद्याद्दधिघृतादीनां गुणदोषान् यथापयः|" इति| अस्य ह्ययमर्थः-घृतादीनां पयोगुणानतिक्रमेण गुणान् विद्यात्| यथाशब्दस्य पदार्थानतिवृत्त्यर्थेऽस्याव्ययीभावः| तेनैतदुक्तं भवति| यथा-"स्वादुपाकरसम्" इत्यादीना सामान्येन क्षीरगुणा उक्ताः| तद्वद्दध्यादीनामपि सामान्येनैव गुणा उक्ताः| विशेषाभिलाषे तु दध्यादीनां सत्स्वपि सामान्यगुणेषु प्रकृतिभूतं यत्क्षीरं तद्गुणोच्चयोऽपि ग्राह्य इति| खरनादे तूक्तम्-"दध्यादीनां तु तज्जानां सामान्ये गुणकर्मणी| तथा स्वात् स्वादपि क्षीराद्दध्यादीनां विशेषणम्||" इति| गव्यमिति "गोपयसोर्यत्" इति यत्| बाहुल्येन क्षीरनिर्देशात्क्षीरवर्गोऽयम्| दधिनवनीतादीनां तु तद्विकारभूतत्वात्| इति क्षीरवर्गः|
Adhikarana ikShuvargaH ikShurasaguNAH (42-43) · Śloka 43
क्षीरवर्गादनन्तरमिक्षुवर्ग आरम्भ्यते, गुणक्रियातुल्यत्वात्|
तथा, हि-इक्षुरपि क्षीरवत्सरगुरुस्निग्धबृंहणादिगुणकर्मा अथेक्षुवर्गः|
|
इक्षोः सरो गुरुः स्निग्धो बृंहणः कफमूत्रकृत्||४२||
वृष्यः शीतोऽस्रपित्तघ्नः स्वादुपाकरसो रसः|
सोऽग्रे सलवणो, दन्तपीडितः शर्करासमः||४३||
स०-इक्षो रसः सरत्वादिगुणयुक्तः| तथा, कफमूत्रकृत्| सरः-शकृद्भेदीति कथ्यते| तथा, (हृ. सू. अ. ६|८४)- "गुर्वी सरा तु पालक्या" इत्युक्त्वानन्तरमुक्तवान्-"पालक्यावत्स्मृतश्चञ्चुः स तु सङ्ग्रहणात्मकः|" इति चञ्चुशाकस्य सङ्ग्रहणेन गुणेन सरत्वं बाधितमिति| अत्र स्निग्धबृंहणवृष्यमधुरादिगुणेन युक्तं च द्रव्यं प्रायः पवनहन्तृ दृष्टम्| अतोऽस्यापीक्षुरसस्य मारुतजित्त्वं वेद्यम्| ग्रन्थकृता तु स्पष्टं कृत्वा नोक्तम्| भुक्ते हि समीरणकृत्त्वमस्य दृष्टम्| तथा च सङ्ग्रहे (सू.अ.६)-"वृष्यः शीतः पवनजिद्भुक्ते वातप्रकोपनः|" इति| खरनादेऽप्युक्तम्-"मारुताऽऽध्मानजननश्चक्षुष्यो बृंहणो रसः|" इति| स०-स च-रसः, अग्रे-इक्षुप्रान्ते जातः, सलवणः-ईषल्लवणः| सुश्रुते चोक्तम् (सू.अ.४५|१५६)-"अतीव मधुरो मूले, मध्ये मधुर एव च| अग्रे त्वक्षिषु विज्ञेय इक्षूणां लवणो रसः||" इति| पाषाणादिसङ्क्षुण्णस्येक्षोः सद्य एव यो रस उत्पद्यते, तस्यैते यथोक्ता गुणा वेद्याः, नान्यथा पीडितस्येक्षुरसस्य| यन्त्रदन्तादिपीडितस्यान्यथा शास्त्रकृता गुणो निर्दिश्यते| दन्तपीडितो यः, स शर्करासम इति|
Adhikarana yAntrikekShurasaguNAH (44-45) · Śloka 45
यान्त्रिकस्त्वन्यगुण एवेत्याह मूलाग्रजन्तुजग्धादिपीडनान्मलसङ्करात्|
किञ्चित्कालं विधृत्या च विकृतिं याति यान्त्रिकः||४४||
विदाही गुरुविष्टम्भी तेनासौ|
|४५|
स०-मूलं चाग्रं च जन्तुजग्धादयश्च मूलाग्रजन्तुजग्धादयः, तेषां तथाविधानामिक्षूणां पीडनं, तस्मान्मूलाग्रजन्तुजग्धादिपीडनात्| तथा, मलसङ्करात्-मलमिश्रणात्| तथा, किञ्चित्कालं विधृत्या च-यान्त्रिके रसे स्वल्पकालं विधृतिः-विलम्बश्च दृष्टः| तदेतैः कारणैर्यान्त्रिको रसो विकृतिं याति-स्वभावान्यथात्वं प्राप्नोति| तथा-गुरुरधिकं गुरुः सम्पद्यते, अविदाहि विदाहि, अविष्टम्भी विष्टम्भी, इत्येवंविधाऽस्य विकृतिः| यान्त्रिकस्य च रसस्य बाहुल्येन लोके मूलादिसहितस्य पीडनात्कालविलम्बोपलब्धेश्च ग्रन्थकृदेवं समवोचत्| अत एव हेतुनिर्देशोऽत्र कृतः, हेत्वभावात्कार्याभावप्रतिपादनाय| तेन यदाऽतिनिपुणधीभिर्मूलादिरहितः पीड्यते, कालविलम्बितं च नोपयुज्यते, तदा विकृतिं न यात्येवेर्थः|विदाहीत्यादि| यतो विकृतिं याति, तेन-हेतुना, असौ यान्त्रिको, विदाह्यादिगुणः सम्पद्यते| विदाही-जठराग्निसंयोगाद्यः पाकं गच्छन्मध्यमायामेवावस्थायां विदह्यमानः पित्तं कुर्वंश्चिरकालमवतिष्ठते, न द्रागेव जरां याति गुरुत्वादथवा वस्तुस्वभावात्, स विदाहगुणयुक्तो भावो भण्यते| तस्मात् गुरुस्वाभाव्याद्विदाही कथितः| तथा चोक्तं धान्वन्तरे-"शालिपिष्टमयं सर्वं गुरुभावाद्विदह्यते|" इति|
Adhikarana pauNDrikekShuguNAH vAMshikekShuguNAH (45) · Śloka 45
तत्र पौण्ड्रकः|
शैत्यप्रसादमाधुर्यैर्वरस्तमनु वांशिकः||४५||
स०-तत्र-तेषु इक्षुरसेषु मध्ये, पौण्ड्रको रसो वरः-सर्वेक्षुरसेभ्यः श्रेष्ठः| कथम् ? शैत्यादिभिर्हेतुभूतैः| शीतस्य भावः-शैत्यम्| "गुणवचन" इत्यादिना ष्यञ्| प्रसादः-प्रसन्नत्वम्| माधुर्यं-स्वादुता| तमनु वांशिकः-हीनार्थेऽनुशब्दस्य "कर्मप्रवचनीययुक्त" इति द्वितीया, शैत्यादिभिः पौण्ड्रकाद्धीनो वांशिक इत्यर्थः|
Adhikarana shataparvakAdInAM guNAH (46) · Śloka 46
शतपर्वककान्तारनैपालाद्यास्ततः क्रमात्|
सक्षाराः सकषायाश्च सोष्णाः किञ्चिद्विदाहिनः||४६||
स०-शतपर्वकादयः, ततः-वांशिकात्, क्रमात्-उत्तरोत्तरं, शैत्यादिभिर्हीनाः| ते च शतपर्वकादय ईषत्क्षारत्वेन युक्ता ईषत्कषायरसा ईषदुष्णाः किञ्चिद्विदाहिनश्च|
Adhikarana phANitaguNAH (47) · Śloka 47
फाणितं गुर्वभिष्यन्दि चयकृन्मूत्रशोधनम्|
|४७|
स०-फाणितं-क्षुद्रगुडीभूत इक्षुरसः, गुरु-अतिशयेनेत्यर्थाद्वेद्यम्, गुरुत्वमात्रस्येक्षुरसेऽप्युक्तत्वात्| अभिष्यन्दि| तथा, चयकृत्-त्रिदोषकरम्| मूत्रशोधनं-मूत्रमतिवाहयति| तन्त्रान्तरे चोक्तम्-"रूक्षं मधूकपुष्पोत्थं फाणितं वातपित्तकृत्| कफघ्नं मधुरं पाके कषायं बस्तिदूषणम्||" इति|
Adhikarana dhautaguDaguNAH adhautaguDaguNAH (47-48) · Śloka 48
नातिश्लेष्मकरो धौतः सृष्टमूत्रशकृद्गुडः||४७||
प्रभूतकृमिमज्जासृड्मेदोमांसकफोऽपरः|
|४८|
स०-गुडो धौतः-संस्कारवशान्निर्मलो, नातिश्लेष्मकरः-किञ्चित्कफकर इत्यर्थः| मूत्रं च शकृच्च मूत्रशकृत्, सृष्टं-बहिः क्षिप्तं, मूत्रशकृद्येन स एवम्| प्रभूत इति| अपर इति धौतात्-विशुद्धादन्यः, समल इति यावत्| प्रभूताः कृमिमज्जासृड्मेदोमांसकफा यस्य स एवम्| कारणे कार्योपचाराद्गुडोऽप्येवमुक्तः| यथा-आनूपोदकं पादरोग इति| प्रभूतकृम्यादीन् करोतीत्यर्थः|
Adhikarana purANaguDaguNAH navaguDaguNAH (48) · Śloka 48
|
हृद्यः पुराणः पथ्यश्च, नवः श्लेष्माग्निसादकृत्||४८||
स०-गुड इत्यनुवर्तते| पुराणो गुडो हृदयाय हितः| तथा, पथ्यः-अन्तर्मध्यबहिर्मार्गाय हितः| नवो गुडः श्लेष्माणमग्निसादं च करोति|
Adhikarana matsyaNDikAdiguNAH (49) · Śloka 49
वृष्याः क्षीणक्षतहिता रक्तपित्तानिलापहाः|
मत्स्यण्डिकाखण्डसिताः क्रमेण गुणवत्तमाः||४९||
स०-मत्स्यण्डिकादयस्त्रयो वृष्याः| तथा, क्षीणक्षतहिता रक्तपित्तानिलापहाश्च| तथा, क्रमेण गुणवत्तमाः-धौतगुडादपि मत्स्यण्डिका गुणकारी निर्मलतरत्वात्, ततोऽपि खण्डो गुणवत्तरः, खण्डादपि शर्करा गुणवत्तमा निर्मलतमत्वात्, गुणवत्तमेति गुणवतीशब्दस्य तमप्प्रत्यये पुंवद्भावोऽत्र पक्षे च वक्तव्य इति पुंवद्भावः|
Adhikarana yavAsasharkarAguNAH (50) · Śloka 50
तद्गुणा तिक्तमधुरा कषाया यासशर्करा|
|५०|
स०-तद्गुणेति शर्करासमा| यासशर्करा-यवासशर्करेति या लोके प्रसिद्धा, तिक्तमधुरकषायरसा च| केचित्त्वाचक्षते-दुरालभारसेन सा क्रियत इति|
Adhikarana sarvasharkarAguNAH (50) · Śloka 50
|
दाहतृट्च्छर्दिमूर्च्छासृक्पित्तघ्न्यः सर्वशर्कराः||५०||
स०-सर्वशर्करा इत्येताश्चान्याश्च दाहादिनाशनाः| ग्रन्थान्तरे चोक्तम् (सुश्रुते सू.अ. ४५|१६३)- "यथा यथाऽऽसां वैमल्यं मधुरत्वं तथा तथा| स्नेहलाघवशैत्यादि सारत्वं च तथा तथा||" इति|
Adhikarana sharkarAPANitayorvarAvaratve (51) · Śloka 51
अधुना वरावरत्वं निर्धारयति शर्करेक्षुविकाराणां फाणितं च वरावरे|
|५१|
स०-इक्षुविकाराणां मध्ये शर्करा फाणितं च क्रमेण वरावरे भवतः| शर्करा श्रेष्ठा, फाणितमश्रेष्ठम्|
Adhikarana madhuguNAH madhusharkarAguNAH (51-53) · Śloka 53
शर्करायोनिप्रसङ्गेन मधुनोऽपि गुणानाह |
चक्षुष्यं छेदि तृट्श्लेष्मविषहिध्मास्रपित्तनुत्||५१||
मेहकुष्ठकृमिच्छर्दिश्वासकासातिसारजित्|
व्रणशोधनसन्धानरोपणं वातलं मधु||५२||
रूक्षं कषायमधुरं, तत्तुल्या मधुशर्करा|
|५३|
स०-मधु चक्षुषे हितम्| तथा, छेदि-उभयथाऽऽश्चोतनव्रणलेपादावुपयुक्तम्, तथाऽभ्यवहारविषयेऽपि| तैक्ष्ण्याद्यो देहे पिण्डितान् भावान् छिनत्ति-विभजति, स छेदीति कथ्यते| तथा, तृडादिनुत् मेहादिजिदिति च प्रायेणाभ्यवहारविषय एव| व्रणानां शोधनं सन्धानं रोपणं च| शोधनं-यत् पूयपैच्छिल्यादिप्रेरकम्| सन्धानं-यद् द्वौ व्रणौ चैकीकरोति| रोपणं-सुप्रसिद्धम्| एतच्च कार्यं बाह्यविषयमेवास्य वेद्यम्| तथा, वातलमेतच्चास्य बाह्योपयोगेनाभ्यन्तरोपयोगेन च, अन्ते व्यस्तश्रुतत्वात्| "चक्षुष्यं छेदि" इत्यादिनाऽस्य मधुनः कर्मनिर्देशः| "रूक्षं कषायमधुरं" इत्यनेनास्य स्वरूपनिर्देशः| लाघवाच्चात्र ग्रन्थकारेणैतद्भेदादि नोक्तम्| तथा ह्ययमेव तन्त्रकारः सङ्ग्रहे (सू.अ.६) मधुनो भेदानाख्यत्| यथा-"भ्रामरं पौत्तिकं क्षौद्रं माक्षिकं च यथोत्तरम्| [तत्र स्याद्भ्रामरं शुक्लं घृतवर्णं तु पौत्तिकम्|| क्षौद्रं तु कपिलं प्रोक्तं तैलाभं माक्षिकं स्मृतम्| भ्रामरं तर्पणं स्वादु, त्रिदोषं पौत्तिकं विदुः|| वरं च गुर्वभिष्यन्दि क्षौद्रं रूक्षं मनाग्गुरु| माक्षिकं लघ्वपवनं मधुरं शस्यते व्रणे|| गरीयः स्वाद्वभिष्यन्दि नवं, जीर्णमतोऽन्यथा| मण्डः पुराणो मधुरस्तीक्ष्णो रूक्षो लघुस्तनुः||"] इति| तथा सङ्ग्रहे कटुपाकित्वगुरुत्वशैत्यविषान्वयत्वविरुद्धोपक्रमत्वयोगवाहित्वादीन् गुणानवोचत्| योगवाहित्वे च विवदन्ते बहुविदः| तत्र केचिदेवं समगिरन्त,-यध्रव्यं द्रव्यान्तरेण संयुज्यात्मीयं स्वभावं हित्वा संयुक्तद्रव्यस्वभावमेवानुवर्तते, तद्योगवाहीति| न चैतद्युक्तम्| यतो यद्येवं योगवाहिता निश्चीयते तदानीं योगवाहिद्रव्योपयोगो निरर्थकः स्यात्| तथा हि-योगवाहिद्रव्यमन्तरेणापि यत्स्वभावं द्रव्यं प्रागासीत् तत्स्वभावमेव योगवाहिद्रव्ययुक्तमपि| तस्मादसदेतद्योगवावाहिलक्षणमिति| केचित्त्वेवं प्रतिजानते,-यध्रव्यं द्रव्यान्तरेण युक्तं सत् तस्य द्रव्यस्य शक्त्युत्कर्षमुत्पादयति, तद्योगवाहीति| तदप्यसम्यक्| यस्मादेवमभ्युपगम्यमाने बहूनि द्रव्याणि योगवाहीनि स्युः| तथा च मध्वादेरपि द्रव्यस्य किञ्चिध्रव्यं समानगुणं शक्त्युत्कर्षं कुर्वदेव दृष्टम्| तत्कथं मध्वादेरेव योगवाहित्वमुच्यते नापरस्येति| तदेतदपि लक्षणमसच्छ्रुतत्वादलक्षणम्| अपरे त्वेवमाहुः,-यध्रव्यं द्रव्यान्तरेणाननुगुणेनापि युक्तं सत्तद्गुणाननुवर्तते स्वं च कार्यं तदविरुद्धं किञ्चित्करोति, तद्योगवाहि द्रव्यं भृत्यवत्| यथा भृत्यः स्वामिकार्यमत्यजन् स्वकार्यमपि शरीरयात्रादिकं स्वाम्यविरुद्धं करोति, तथैव मधु मदनफलसंयुक्तं वमनकार्यं करोति, न तु वमननिवारणं मधुकार्यम्| एवं मधु हरीतकीसंयोगाद्विरेचनकार्यमेव करोति, न मधुकार्यं स्तम्भनरूपमिति| ये त्वत्रैवं प्रतिपन्नाः,-मदनफलादेः शक्त्युक्तर्षस्तथाविधोऽस्ति येन मधुसम्बन्धिकार्यमवधूय, स्वं कार्यं करोतीति, ते चैवं चोदयन्तो भवन्तीति वचनीयाः| यतः स्तम्भनद्रव्येणान्येन येन केनचित्संयुक्तस्य सुधाक्षीरस्यापि शक्तिः किञ्चिदपहीयमाना दृष्टा, मधुना तु स्तम्भनस्वभावेनाप्यस्य नापहीयते मनागपि| अतो मध्वादेरेव योगवाहित्वं नान्यस्य| अपि चान्यदा योगवाहि द्रव्यं त्रिवृतादिमदनफलेन युक्तं सद्विरेचनं वमनं चोभयकार्यं कुर्वद्दृष्टम्, न केवलं वमनमेव विरेचनमेव वा| तस्मान्मध्वादेरेव योगवाहित्वमिति स्थितमेतत्| तत्तुल्येति मधुसमा गुणैर्मधुशर्करा|
Adhikarana uShNamadhuguNAH (53) · Śloka 53
|
उष्णमुष्णार्तुमुष्णे च युक्तं चोष्णैर्निहन्ति तत्||५३||
स०-तत्-मधु, उष्णमुपयुक्तं सन्निहन्ति-मारयति| तथा, उष्णार्तं-प्रतप्तं पुरुषं निहन्ति| उष्णे च काले देशे चोपयुक्तं तथा, उष्णैराहारादिभिश्च युक्तं सन्निहन्ति|
Adhikarana uShNamadhuna upayogaH (54-3) · Śloka 3
प्रच्छर्दने निरूहे च मधूष्णं न निवार्यते|
अलब्धपाकमाश्वेव तयोर्यस्मान्निवर्तते||५४||
इतीक्षुवर्गः||३||
स०-तच्च मधु प्रच्छर्दने-वमने, तथा निरूहे च उष्णं न निवार्यते-न निषिध्यते| यस्मात्कारणात्, तयोः-वमिनिरूहयोः, अलब्धपाकं-अपक्वमेवाशु निवर्तते-पुनरागच्छति| इतीक्षुवर्गः|
Adhikarana tailavargaH tailaguNAH tailasya bRuMhaNAdikaratvam (55-56) · Śloka 56
सर्पिषोऽनन्तरं स्नेहसामान्यात्तैलवर्गे वक्तव्ये गुडस्य समानरसवीर्यविपाककर्मत्वात् प्रायेण चाहारद्रव्येषु भक्ष्यभोज्येष्वस्यैव तैलेभ्यः सुतरां भोजनोपयोगित्वादीक्षुवर्गोऽन्तरा निर्दिष्टः|
भूरिभोजनोपयोगितया च मद्यात्प्राक् तैलवर्गो वक्तव्य इत्याह अथ तैलवर्गः|
तैलं स्वयोनिवत्तत्र मुख्यं तीक्ष्णं व्यवायि च|
त्वग्दोषकृदचक्षुष्यं सूक्ष्मोष्णं कफकृन्न च||५५||
कृशानां बृंहणायालं स्थूलानां कर्शनाय च|
बद्धविट्कं कृमिघ्नं च संस्कारात्सर्वरोगजित्||५६||
स०-सर्वं तैलं स्वकारणसमगुणं भवति| यतो यदभिनिर्वृत्तं तत्स्वरूपमेव तदित्यर्थः| तत्र-तैलेषु मध्ये, मुख्यं-तिलोद्भवं, यत्तैलं तत्तीक्ष्णं-मन्दविपरीतम्| तथा, व्यवायि-व्याप्तिशीलम्, यद्देहं व्याप्य पाकं याति| तथा, त्वग्दोषकृत्-पानाभ्यासेन त्वचं दूषयति| अचक्षुष्यं-चक्षुषे हितं न भवति| सूक्ष्मं-सूक्ष्मस्रोतोगामि| उष्णं-उष्णवीर्यम्| स्वयोनिवदित्यतिदेशात्कफकृत्त्वं प्राप्तमित्याह-कफकृन्न च,-कफं न करोति| सङ्ग्रहेऽप्युक्तम् (सू.अ.७)-"मेध्यस्तिलः स्पर्शशीतो, मेध्यं तैलं, खलो हिम:| तस्यैव श्लेष्मकर्तृत्वं, न तैलस्य खलस्य वा||" इति| पानकस्त्वायुर्वेदावतारेऽधिजगे-"विपाके कटुकं तैलं वातघ्नं कफपित्तकृत्|" इति| ननु च, तैलमिति कथमस्य मुख्यं नाम ? यतो यथा तिलस्य विकारः स्नेहस्तैलमित्युच्यते, तथैरण्डादीनामपि यो विकारः स्नेहः सोऽपि तैलमित्युच्यते| मुनरप्याह (च.वि.अ. ८|२१)- "अतैलमपि तैलमेव कृत्वोपदेक्ष्यते, तैलप्राधान्यात्|" स्नेहप्राधान्यादिति यावत्| सामानाधिकरण्यप्रयोगोऽत एवोपपन्नः| यथा-कौसुम्भं तैलमैरण्डं तैलमिति| अत्रोच्यते| तिलस्येदं वस्तु तैलमित्यन्वर्थता तिलोद्भवस्यैव तैलस्य सम्भवति, न कौसुम्भादीनाम्| अपि च, कौसुम्भं तैलमित्यादौ तैलशब्दः काण्डादिव्यवच्छेदपरः सम्भाव्यते| यथा-कौसुम्भं तैलं, न पत्रं काण्डं वेति| इदं तैलं तैलमित्यत्र तु सामानाधिकरण्येन यदि तैलशब्दो निर्दिश्यते ततः पूर्वस्मात्तैलशब्दात्स्नेहाभिधायिनोऽधिकमर्थान्तरं न वक्ति| ननु, अत्रापि तैलशब्दः कस्मात्काण्डादिव्यवच्छेदपरो न भवति ? इति चेत् ब्रूमः| रूढिरूपत्वात्तैलशब्दस्य| स्नेहविषय एव तैलशब्दो रूढः, न काण्डपत्रादिविषये| तिलस्य हि काण्डं पत्रं वा न तैलमित्युच्यते, किं तर्हि ? तिलपत्रं तिलकाण्डमिति| अत एव तैलशब्दोच्चारणस्य समनन्तरं स्नेहविषयैव धीर्जायते, न पत्रकाण्डादिविषया| तस्मादस्यैवैतन्मुख्यं नामेति युक्तमुक्तम्| संस्कारानुवर्तित्वेन सर्वरोगजित्त्वाच्चास्य मुख्यत्वम्| तथा चोक्तम्-"संस्कारात्सर्वरोगजित्" इति| कुसुम्भादीनां तिलशब्दस्य च स्नेहनार्थवाच्ये विकारे स्नेहे तैलच्प्रत्यये सति कुसुम्भतैलमेरण्डतैलं तिलतैलमिति रूपं भवति| कृशानां पुंसां बृंहणाय-बृहत्त्वाय, अलं-पर्याप्तम्| स्थूलानां च कर्शनायालम्| ननु, कथमेकस्माद्वस्तुनो विरुद्धं कार्यद्वयं कर्शनत्वबृंहणत्वरूपं स्यादिति ? ब्रूम:| कृशानां तात्वत्स्रोतांसि सङ्कोचमायान्ति| सङ्कुचितस्रोतसां च नराणां तैलमन्तरेणान्यानि द्रव्याणि बृंहणगुणयुक्तान्यपि न तथा प्रवेष्टुं समर्थानि भवन्ति| तैलं पुनः सङ्कुचितानि स्रोतांसि तीक्ष्णादिभिर्गुणैर्झटित्येव प्रविश्य शोधयति| स्रोतःशुद्ध्या च शरीरपुष्टिः| तथा च वक्ष्यति (हृ. चि. अ. ८|४३)- " स्रोतःसु तक्रशुद्धेषु रसो धातूनुपैति यः| तेन तुष्टिर्बलं वर्णः परं पुष्टिश्च जायते||" इति| तस्मात्कृशानां बृंहणायालमित्युपपन्नम्| तथा, स्थूलानां सूक्ष्मस्रोतोगामित्वात्सर्वस्रोतःसु तैलं प्रविश्य तीक्ष्णोष्णादिगुणयोगान्मेदः क्षपयति| तत्क्षपणाच्च कर्शनं सम्पद्यते, इति स्थूलानां कर्शनाय चेत्यप्युपपन्नम्| स्नेहादिगुणयोगात्तैलस्य बृंहणत्वकर्शनत्वे सिद्धे सति 'कृशानां बृंहणायालं स्थूलानां कर्शनाय च|' इत्युक्तं ज्ञापनार्थम्| यदित्थंभूतं तीक्ष्णादिगुणयुक्तमन्यदपि, तत् कृशानां बृंहणायालं स्थूलानां कर्शनाय चेति| बद्धेत्यादि| बद्धा विट् येन तद्बद्धविट्कम्| कप्समासान्तः| ग्रथितपुरीषमित्यर्थः| तथा, कृमिघ्नम्| संस्कारादित्यादि| विशिष्टद्रव्यकृतं संस्कारमाश्रित्याशेषरोगजित्|
Adhikarana eraNDatailaguNAH raktairaNDatailaguNAH (57-58) · Śloka 58
सत्तिक्तोषणमैरण्डं तैलं स्वादु सरं गुरु|
वर्ध्मगुल्मानिलकफानुदरं विषमज्वरम्||५७||
रुक्शोफौ च कटीगुह्यकोष्ठपृष्ठाश्रयौ जयेत्|
तीक्ष्णोष्णं पिच्छिलं विस्रं, रक्तैरण्डोद्भवं त्वति||५८||
स०-एरण्डतैलमीषत्तिक्तकटुकं भवति| तथा, स्वादु-मधुरम्| तथा, सरं गुरु च| वर्ध्मेत्यादि| वर्ध्मादीन् जयेत्| कटीगुह्यकोष्ठपृष्ठस्थितौ रुक्शोफौ जयेत्| तच्च तीक्ष्णोष्णं पिच्छिलं विस्रं च भवति| लोहितैरण्डतैलं त्वतिशयेन तीक्ष्णादिगुणयुक्तम्|
Adhikarana sArShApatailaguNAH (59) · Śloka 59
कटूष्णं सार्षपं तीक्ष्णं कफशुक्रानिलापहम्|
लघु पित्तास्रकृत् कोठकुष्ठार्शोव्रणजन्तुजित्||५९||
स०-सर्षपाणामिदं सार्षपं तैलं कटूष्णं च भवति| तथा, तीक्ष्णं कफशुक्रानिलापहं च| अपपूर्वाद्धन्तेरन्येष्वपि दृश्यत इति डः| तथा च, लघु पित्तास्रं च करोति| तथा, कोठादीन् जयति|
Adhikarana akShatailaguNAH (60) · Śloka 60
आक्षं स्वादु हिमं केश्यं गुरु पित्तानिलापहम्|
|६०|
स०-अक्षाणां-बिभीतकानामिदमाक्षं तैलं मधुरादिगुणयुक्तं पित्तानिलहृच्च|
Adhikarana nimbodBavatailaguNAH (60) · Śloka 60
|
नात्युष्णं निम्बजं तिक्तं कृमिकुष्ठकफप्रणुत्||६०||
स०-निम्बोद्भवं तैलमतिशयेनोष्णं न भवति| तथा, तिक्तम्| तथा, कृमिकुष्ठकफनाशनमतिशयेन|
Adhikarana umAkusumBajatailaguNAH (61) · Śloka 61
उमाकुसुम्भजं चोष्णं त्वग्दोषकफपित्तकृत्|
|६१|
स०- अतसीजं कुसुम्भजं च तैलमुष्णवीर्यं भवति| तथा त्वग्दोषकफपित्तानि करोति|
Adhikarana vasAmajjamedoguNAH (61-4) · Śloka 4
स्नेहप्रसङ्गादिदमप्याह |
वसा मज्जा च वातघ्नौ बलपित्तकफप्रदौ||६१||
मांसानुगस्वरूपौ च, विद्यान्मेदोऽपि ताविव|
|६२|
इति तैलवर्गः||४||
स०- वसा-तनुरूपेण शुद्धमांसस्य स्नेहः| मज्जा-धातुः| तौ वातनाशनौ| तथा, मांसानुगस्वरूपौ-यस्य प्राणिनः सम्बधि मांसं तत्सदृशरूपौ| मेदोऽपि ताविव-वसामज्ज्ञोः सदृशस्वरूपं विद्यात्| संक्षेपतया चायं तैलवर्ग इहोक्तः| तथा च सङ्ग्रहेऽधिकमप्युक्तम् (सू.अ.६)-"दन्तीमूलकरक्षोघ्नकरञ्जारिष्टशिग्रुजम्| सुवर्चलेङ्गुदीपीलुशङ्खिनीनीपसम्भवम्|| सरलागुरुदेवाह्वशिंशपासारजन्म च| तुवरारुष्करोत्थं च तीक्ष्णं कट्वस्रपित्तकृत्|| अर्शःकुष्ठकृमिश्लेष्मशुक्रमेदोऽनिलापहम्| करञ्जनिम्बजे तिक्ते नात्युष्णे तत्र निर्दिशेत्|| कषायतिक्तकटुकं सारलं व्रणशोधनम्| भृशोष्णतीक्ष्णकटुके तुवरारुष्करोद्भवे|| विशेषात्कृमिकुष्ठघ्ने तथोर्ध्वाधोविरेचने| अक्षातिमुक्तकाक्षोडनालिकेरमधूकजम्|| त्रपुसैर्वारुकूष्माण्डश्लेष्मातकप्रियालजम्| वातपित्तहरं वृष्यं श्लेष्मलं गुरु शीतलम्|| पित्तश्लेष्मप्रशमनं श्रीपर्णीकिंशुकोद्भवम्| तिलतैलं वरं तेषु कौसुम्भमवरं परम्|| वसा मज्जा च वातघ्नौ बलपित्तकफप्रदौ| मांसानुगस्वरूपौ च विद्यान्मेदोऽपि ताविव|| तौलूकी शौकरी पाकहंसजा कुक्कुटोद्भवा| वसा श्रेष्ठा स्ववर्गेषु कुम्भीरमहिषोद्भवा|| काकमद्गुवसा तद्वत्कारण्डोत्था च निन्दिता| शाखादमेदसां छागं हास्तिनं च वरावरम्||" इति| इति तैलवर्गः|
Adhikarana madyavargaH sAmAnyamadyaguNAH (62-65) · Śloka 65
तीक्ष्णोष्णसूक्ष्मादिगुणसामान्यात्तैलवर्गादनन्तरं मद्यवर्ग आरभ्यतेअथ मद्यवर्गः|
|
दीपनं रोचनं मद्यं तीक्ष्णोष्णं तुष्टिपुष्टिदम्||६२||
सस्वादुतिक्तकटुकमम्लपाकरसं सरम्|
सकषायं स्वरारोग्यप्रतिभावर्णकृल्लघु||६३||
नष्टनिद्राऽतिनिद्रेभ्यो हितं पित्तास्रदूषणम्|
कृशस्थूलहितं रूक्षं सूक्ष्मं स्रोतोविशोधनम्||६४||
वातश्लेष्महरं युक्त्या पीतं विषवदन्यथा|
|६५|
स०-सर्वं मद्यं दीपनादिगुणयुक्तम्| तुष्टिः-चित्तपरितोषः, पुष्टिः-शरीरपोषः, ते ददाति-जनयति, यत्तत्तुष्टिपुष्टिदम्| आतोऽनुपसर्गे कः| तथा ईषन्मधुरतिक्तकटुकम्| तथा, अम्लौ पाकरसौ यस्य तदेवम्| तथा, सरम्| तथा सकषायम्| तथा, स्वरश्चारोग्यं च प्रतिभा च वर्णश्च तान् करोति| ननु, सर्वाण्येव द्रव्याण्यारोग्यार्थमुपदिश्यन्ते| तस्मादारोग्यकृत्वं सर्वेषामेव द्रव्याणां प्राप्तम्| किमिति मद्यस्यैवारोग्यकृत्त्वमुच्यते ? युक्तमाह भवान्| किन्त्वतिशयख्यापनार्थमेतत्| मद्यमतिशयेनारोग्यकृदित्यर्थः| तथा, लघु| तथा, नष्टनिद्रेभ्यो नरेभ्योऽतिनिद्रेभ्यश्च हितम्| सर्वमेव मद्यं प्रभावादिति केचित्| अन्ये त्वेवं मन्यन्ते, यथा-सुरादि यन्मद्यं श्लेष्मादिवर्धनं, तन्नष्टनिद्रेभ्यो हितम्| यच्च माधवादि मद्यं श्लेष्मादिहन्तृ, तच्चातिनिद्रेभ्यो हितमिति| तथा, पित्तास्रदूषणम्| तथा, कृशेभ्यः स्थूलेभ्यश्च हितम्, इति सामान्येऽपि निर्देशेऽत्रायं विशेषो बोध्यः,-किञ्चिन्मद्यं कृशाय हितं किञ्चित्स्थूलायेति| अथवा, तैलोक्तन्यायेन कृशस्थूलहितत्वं बोध्यम्| तथा, रूक्षं| तथा, सूक्ष्मं-स्रोतोगामि| तथा, स्रोतो विशोधयति| तथा, वात श्लेष्महरम्| युक्त्या पीतं सदेवंगुणं मद्यं भवति| युक्तिस्तु-मदात्ययनिदाने चिकित्सिते च वक्ष्यमाणा| अन्यथा-अयुक्त्या पीतं सत्, विषतुल्यं भवति|
Adhikarana navajIrNamadyaguNAH (65) · Śloka 65
|
गुरु तद्दोषजननं नवं, जीर्णमतोऽन्यथा||६५||
स०-नवं-किञ्चित्कालातिक्रान्तम्, तत्-मद्यं, गुरु त्रिदोषकरं च भवति| नवं-अनतीतसंवत्सरमित्येके| जीर्णं-पुराणं बहुकालातिक्रान्तम्| अतः-नवात्, अन्यथा-लघु दोषहरं चेत्यर्थः|
Adhikarana uShNopacAreNa madyapAnaniShedhaH (66) · Śloka 66
पेयं नोष्णोपचारेण न विरिक्तक्षुधातुरैः|
नात्यर्थतीक्ष्णमृद्वल्पसम्भारं कलुषं न च||६६||
स०-तच्च मद्यमुष्णोपचारेण न पेयम्| उष्णो-विहाराहारादिक उपचारो यस्य स एवम्, तेन| न विरिक्तेत्यादि| कृतविरेचनेन न पेयम्, दोषासाम्यादिति भावः| तथा, क्षुधार्तेन न पेयम्| तथा, अतितीक्ष्णमतिमृदु च मद्यं न पेयम्| अल्पसम्भारमिति| यद्यावता सम्भारेण लोकप्रसिद्धेन सन्धीयते सुरादि, तत्र तदपेक्षया चाल्पसम्भारं न पेयम्| तथा, कलुषं-अस्वच्छं पांसुशर्करादिभिर्युक्तं, च न पेयम्|
Adhikarana surAguNAH (67) · Śloka 67
गुल्मोदरार्शोग्रहणीशोषहृत् स्नेहनी गुरुः|
सुराऽनिलघ्नी मेदोऽसृक्स्तन्यमूत्रकफावहा||६७||
स०--सुरा गुल्मादिहृद्भवति| तथा, स्नेहयतीति स्नेहनी| तथा, गुरुर्वातनाशिनी च| तथा, मेदश्चासृक् च स्तन्यं च मूत्रं च कफश्च तानावहति|
Adhikarana vAruNIguNAH,baiBItakIguNAH (68) · Śloka 68
तद्गुणा वारुणी हृद्या लघुस्तीक्ष्णा निहन्ति च|
शूलकासवमिश्वासविबन्धाध्मानपीनसान्||६८||
स०-एवं वारुणी-प्रसन्ना| त एव सुरोक्ता गुणा यस्याः सा तद्गुणा, सुरासमगुणेत्यर्थः| तथा, हृदयाय हिता-हृद्या| तथा, लघुस्तीक्ष्णा च| शूलादीन्निहन्ति च| विबन्धः-स्रोतसामुपलेपेन दोषादीनामवहनम्| जगलमेदकबक्कसानां सुतरामनुपयोगित्वाद्गुणा नेहोक्ताः| सङ्ग्रहे (सू.अ.६) तूक्ता एव| यथा-"जगलः पाचनो ग्राही रूक्षस्तद्वच्च मेदकः| बक्कसो हृतसारत्वाद्विष्टम्भी दोषकोपनः||" इति| वारुण्या अधोभागो घनो-जगलः| जगलस्याधोभागो-मेदकः| पानीयेन मद्यकल्कपीड(ने)नोत्पन्नो-बक्कसः|
Adhikarana baiBItakIguNAH yavasurAguNAH (69-70) · Śloka 70
नातितीव्रमदा लघ्वी पथ्या बैभीतकी सुरा|
व्रणे पाण्ड्वामये कुष्ठे न चात्यर्थं विरुध्यते||६९||
विष्टम्भिनी यवसुरा गुर्वी रूक्षा त्रिदोषला|
|७०|
स०-बिभीतकानामियं बैभीतकी| नातितीव्रो मदो यस्याः सैवम्| तीव्रमदं न जनयतीत्यर्थः| तथा, लघ्वी| तथा, पथ्या| तथा, व्रणादिषु चात्यर्थमन्यमद्यवन्न विरुध्यते|
Adhikarana ariShTaguNAH (22)) · Śloka 71
|
यथाद्रव्यगुणोऽरिष्टः सर्वमद्यगुणाधिकः||७०||
ग्रहणीपाण्डुकुष्ठार्शःशोफशोषोदरज्वरान्|
हन्ति गुल्मकृमिप्लीह्नः कषायकटुवातलः||७१||
स०-अरिष्टो यो यैर्द्रव्यैः सिद्धः, स तद्गुणाननुगच्छति| सर्वैश्च दीपनत्वादिभिर्मद्यगुणैरधिकः| तन्त्रान्तरे चोक्तम्-"मद्याकराधिकद्रव्यं मदिराद्यात्मकं त्वतः| यथाद्रव्यगुणोऽरिष्टः सर्वमद्यगुणाधिकः||" इति| ग्रहण्यादिकांश्च रोगान् हन्ति| तथा, कषायकटुश्चासौ वातलश्च स एवम्| लक्षणं चास्य प्रागुक्तम् (अ. ३|२२)|
Adhikarana mArdvIkaguNAH (72) · Śloka 72
मार्द्वीकं लेख़नं हृद्यं नात्युष्णं मधुरं सरम्|
अल्पपित्तानिलं पाण्डुमेहार्शःकृमिनाशनम्||७२||
स०-मार्द्वीकं-द्राक्षारसोद्भवं, लेख़नत्वादियुक्तम्| तथा, अल्पौ पित्तानिलौ यस्य तदेवम्| अन्यमद्यापेक्षयाऽल्पतरौ करोतीत्यर्थः| तथा, पाण्ड्वादिनाशनम्| "विलिख़त्यतितैक्ष्ण्याद्यद्धातूंस्तल्लेख़नं मतम्|"
Adhikarana khArjUramadyaguNAH shArkaramadyaguNAH (73) · Śloka 73
अस्मादल्पान्तरगुणं खार्जूरं वातलं गुरु|
शार्करः सुरभिः स्वादुहृद्यो नातिमदो लघुः||७३||
स०-खार्जूरं मद्यमस्मात्-मार्द्वीकादल्पान्तरगुणम्| अल्पान्तराः-किञ्चिद्विशेषा गुणा यस्य तदेवम्| तथा, वातलं गुरु च| द्राक्षासवश्चान्यत्रोक्तः| यथा-"शुष्कद्राक्षाम्बुसम्भूतो विशदो रोचनो हिमः| द्राक्षासवो मधुसमो बृंहणो भृशदीपनः||' इति| शार्करः-शर्करासम्बन्धी मद्यविशेषः, सुरभिः-सुगन्धिर्भवति| तथा, स्वादुश्च (श्चासौ) हृद्यश्च स्वादुहृद्यः| तथा, नातिमदो लघुश्च भवति|
Adhikarana gauDamadyaguNAH (74) · Śloka 74
सृष्टमूत्रशकृद्वातो गौडस्तर्पणदीपनः|
|७४|
स०-गुडसम्बन्धी-गौडः, सृष्टमूत्रत्वादिभिर्गुणैर्युक्तः| तथा, तर्पणाश्चासौ दीपनश्च तर्पणदीपनः|
Adhikarana pakvarasaguNAH (74-75) · Śloka 75
|
वातपित्तकरः सीधुः स्नेहश्लेष्मविकारहा||७४||
मेदःशोफोदरार्शोघ्नस्तत्र पक्वरसो वरः|
|७५|
स०-सीधुः वातपित्तकरः| तथा, स्नेहविकारान् श्लेष्मविकारांश्च हन्ति| ब्रह्मभ्रूणवृत्रेष्वित्यत्र चतुर्विधस्य नियमस्य प्रायिकत्वात् क्विप्| सीधुः-अपक्वेक्षुरसकृतः पक्वेक्षुरसकृतश्च| तत्र सीध्वोर्मध्ये, पक्वरसो मेदःशोफोदरार्शांसि हन्ति, श्रेष्ठश्च भवति| मेदःशोफोदरार्शोघ्न इति "अमनुष्यकर्तृके च" इति ठक्|
Adhikarana madhvAsavaguNAH (75) · Śloka 75
|
छेदी मध्वासवस्तीक्ष्णो मेहपीनसकासजित्||७५||
स०-मध्वासवो-माक्षिकेण सन्धीयते माधवाख्यो मद्यविशेषः, छेदी तीक्ष्णो मेहादिनाशनश्च| अष्टाङ्गसङ्ग्रहे तु (सू.अ.६) सुरासवादयो गदिताः| तथा चापठत्-"सुरासवस्तीव्रमदः स्वादुस्तीक्ष्णोऽनिलापहः| मैरेयो मधुरो वृष्यः सरः सन्तर्पणो गुरुः||" इत्यादि| तत्र मधुनैव सुरासन्धानेन या क्रियते, तां सुरां सुरासवमाहुः| मैरेयः-कोद्रवैर्जायते|
Adhikarana shuktaguNAH (76-77) · Śloka 77
रक्तपित्तकफोत्क्लेदि शुक्तं वातानुलोमनम्|
भृशोष्णतीक्ष्णरूक्षाम्लं हृद्यं रुचिकरं सरम्||७६||
दीपनं शिशिरस्पर्शं पाण्डुदृक्कृमिनाशनम्|
|७७|
स०-शुक्तं रक्तपित्तकफानुत्क्लेदयति| तथा, वातमनुलोमयति-मार्गान्तरेभ्यस्तमानीय स्वमार्गप्रतिपन्नं करोति, तद्वातानुलोमनम्| अतिशयेनोष्णतीक्ष्णरूक्षाम्लम्| तथा, हृद्यम्| तथा, परं-अतिशयेन रुचिकरम्| तथा, दीपनम्| तथा, शिशिरः स्पर्शो यस्य तदेवम्| तथा, पाण्ड्वादिघ्नम्|
Adhikarana guDAdInAM yathottaraM laghutvam (77) · Śloka 77
|
गुडेक्षुमद्यमार्द्वीकशुक्तं लघु यथोत्तरम्||७७||
स०-गुडादिभिवं शुक्रं यथोत्तरं लघु-यद्यदुत्तरं तत्तल्लघु, गुडकृताच्छुक्तादिक्षुशुक्तं लघु, इक्षुशुक्तान्मद्यशुक्तं लघु, मद्यशुक्तान्मार्द्वीकं शुक्तं लघु भवति|
Adhikarana shuktagatakandAdiguNAH (78) · Śloka 78
कन्दमूलफलाद्यं च तद्वद्विद्यात्तदासुतम्|
|७८|
स०-कन्दादिकं च तदासुतं-गुडशुक्ताद्यासुतं, तद्वद्विद्यात्- तच्छुक्तसमानगुणं जानीयात्| शुक्तेनात्युत्कृष्टशक्तिना परित्याज्य निजं स्वभावं, वशीकृत्याऽऽत्मरूपतां नीयत इत्यर्थः| आद्यग्रहणात्काण्डत्वक्पत्रादिपरिग्रहः| तेन काण्डाद्यपि तथैव वेद्यम्|
Adhikarana shukteMtarasandhAnaguNAH (78) · Śloka 78
अम्लत्वरोचनादिगुणतुल्यत्वादन्यदपि शाण्डाक्यादिकमाह |
शाण्डाकी चासुतं चान्यत्कालाम्लं रोचनं लघु||७८||
स०-मूलकसर्षपशाकानि क्वथितासुतानि कालजीरकराजिकाचूर्णभावितान्यम्लतीक्ष्णानि शाण्डाकीशब्देनोच्यन्ते| सा टक्कविषये प्रसिद्धा| सा चान्यच्चानुक्तमप्यासुतं कालेनाम्लं-अम्लीभूतम्, न तु स्वयमाम्ल्यमापाद्यम्| अनेनैव हेतुना सुतरां तत्संस्कारतामधिकरोतीति| तच्च रोचनं लघु भवति|
Adhikarana kA~jjikaguNAH (79-81) · Śloka 81
धान्याम्लं भेदि तीक्ष्णोष्णं पित्तकृत्स्पर्शशीतलम्|
श्रमक्लमहरं रुच्यं दीपनं बस्तिशूलनुत्||७९||
शस्तमास्थापने हृद्यं लघु वातकफापहम्|
एभिरेव गुणैर्युक्ते सौवीरकतुषोदके||८०||
कृमिहृद्रोगगुल्मार्शःपाण्डुरोगनिबर्हणे|
ते क्रमाद्वितुषैर्विद्यात्सतुषैश्च यवैः कृते||८१||
स०-धान्याम्लं-काञ्जिकं, भेदि तीक्ष्णम्| तथा, उष्णवीर्यम्| तथा, पित्तकृत्| स्वभावाच्च स्पर्शशीतलम्| व्यायामादिना श्रान्तत्वं-श्रमः, निर्व्यायामादेरेवोपश्रान्तत्वं-क्लमः, तौ हरति| तथा, रुच्यं दीपनं च| बस्तिशूलं च जयति| तथा, आस्थापने-निरूहे शस्तम्| तथा, लघु वातकफापहं च| हन्तेः "अन्येष्वपि दृश्यते" इति डः| धान्याम्लं-तण्डुलकण्डनादिकृतम्| सौवीरकतुषोदके तु वितुषैः सतुषैश्च यवैः क्रमात्कृते तद्वद्विद्यात्|
Adhikarana go~ajAdimUtraguNAH (82-83) · Śloka 83
मद्यवत्तीक्ष्णोष्णादियुक्तत्वात् गोमूत्रादिगुणानप्याह मूत्रं गोऽजाविमहिषीगजाश्वोष्ट्रखरोद्भवम्|
पित्तलं रूक्षतीक्ष्णोष्णं लवणानुरसं कटु||८२||
कृमिशोफोदरानाहशूलपाण्डुकफानिलान्|
गुल्मारुचिविषश्वित्रकुष्ठार्शांसि जयेल्लघु||८३||
स०-मूत्रं गोऽजादिभवं पित्तलादिगुणयुक्तम्| तथा, लवणोऽनुरसः स्वल्पो यस्य तदेवम्| तथा, कृम्यादीन् जयेत्| लघु च| गोमूत्रस्य च पूर्वमुपन्यासात् प्राधान्यं ज्ञेयम्| सङ्ग्रहे तु विशेषान्तरमप्युक्तम् (सू. अ. ६)- "श्वासकासहरं छागं पूरणात्कर्णशूलजित्| दद्यात्क्षारे किलासे च गजवाजिसमुद्भवम्| हन्त्युन्मादमपस्मारं कृमीन्मेहं च रासभम्| कषायतिक्तमेतेषां हिध्माश्वासहरं शकृत्|| पित्तं तिक्तं कृमिहरं, रोचना कफवातजित्| तिक्ता पामाहरा, मूत्रं मानुषं तु विषापहम्||" इति|
Adhikarana dravaikadeshodAharaNam (5) · Śloka 5
तोयक्षीरेक्षुतैलानां वर्गैर्मद्यस्य च क्रमात्|
इति द्रवैकदेशोऽयं यथास्थूलमुदाहृतः||८४||
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां सूत्रस्थाने द्रवद्रव्यविज्ञानीयो नाम पञ्चमोऽध्यायः||५||
स०-इति-अनन्तरोक्तेन प्रकारेण, तोयादीनां वर्गैः क्रमानतिक्रमेण द्रवाणामेकदेशो यथास्थूलमयमुदाहृतः-उक्तः| इति श्रीमृगाङ्कदत्तपुत्रश्रीमदरुणदत्तविरचितायामष्टाङ्गहृदयटीकायां सर्वाङ्गसुन्दराख्यायां सूत्रस्थाने पञ्चमोऽध्यायः समाप्तः|| ५||