Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

3. r̥tucaryādhyāyaḥ

Adhikarana adhyAyopakramaH · Śloka

🔊 Audio coming soon

स०-दिनचर्याध्यायानन्तरमृतुचर्याध्यायस्य उपोद्घातः| पूर्वाध्याये सामान्येन दिनचर्योपदिष्टा|

Adhikarana RutucaryAdhyAyastRutIyaH (2) · Śloka 2

ऋतुविशेषवशाच्चाहारविहारसेवनप्रतिपादनार्थमृतुचर्याया आरम्भ इत्याह अथात ऋतुचर्याध्यायं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः| (गद्यसूत्रे|२|

🔊 Audio coming soon

स०- पूर्ववद्व्याख्येयम्|

Adhikarana ShaDRutavaH ,uttarAyaNam (1-2) · Śloka 2

अथ क ऋतवः ? इत्याह मासैर्द्विसंख्यैर्माघाद्यैः क्रमात् षडृतवः स्मृताः| शिशिरोऽथ वसन्तश्च ग्रीष्मो वर्षाशरद्धिमाः||१|| शिशिराद्यास्त्रिभिस्तैस्तु विद्यादयनमुत्तरम्| आदानं च, तदादत्ते नृणां प्रतिदिनं बलम्||२||

🔊 Audio coming soon

स०-मासैरित्यादिना कालोपवर्णनमाह| ननु, कालोपवर्णनं दिनचर्यायां कस्मान्न कृतम् ? उच्यते| ऋतुगौरवोद्भावनार्थम्| ऋतवो हि विशेषेणोपयोगिनः, विप्रतिपत्तेश्च| यथा- एके चातुर्मासिकमृतुं कृत्वा शीतोष्णवृष्टिलक्षणान् हेमन्तग्रीष्मवर्षाख्यांस्त्रीनृतूनिच्छन्ति| अपरे तु द्विमासिकान् शिशिरवसन्तग्रीष्मवर्षाशरद्धेमन्तलक्षणान् षडृतूनिति| द्वे संख्ये येषां ते द्विसंख्याः, तैर्द्विसंख्यैः| माघ आद्यो येषां फाल्गुनादीनां त एवम्| तैर्द्विसंख्यैर्माघाद्यैर्मासैः क्रमात्- परिपाठ्या षडृतव स्मृताः| के ते ? इत्याह- शिशिराद्याः- शिशिरवसन्तग्रीष्मवर्षाशरद्धेमन्ताः| उपचारादेव षट्त्वे लब्धे षड्ग्रहणं परमतक्षेपार्थम्| तथा हि- केचित् त्रय एव ऋतव इति मन्यन्ते| तैस्तु ऋतुभिस्त्रिभिः शिशिरादिभिरुत्तरायणं विद्यात्- जानीयात्| अयनमुत्तरं- सवितुरुत्तरमार्गप्रतिपत्तिः, उत्तरायणम् आदानं जानीयात्| आदानमिति चान्वर्थं नाम इति प्रतिपादयति| तदा- तस्मिन् काले, नृणां प्रतिदिनं- अन्वहं, बलमादत्ते- सारं गृह्णाति| कोऽसौ ? प्रकृतत्वादादित्यः|

Adhikarana balAdAne yuktiH (3-4) · Śloka 4

कया युक्त्या बलमादत्ते ? इत्याह तस्मिन् ह्यत्यर्थतीक्ष्णोष्णरूक्षा मार्गस्वभावतः| आदित्यपवनाः सौम्यान् क्षपयन्ति गुणान् भुवः||३|| तिक्तः कषायः कटुको बलिनोऽत्र रसाः क्रमात्| तस्मादादानमाग्नेयम्|४|

🔊 Audio coming soon

स०-आदित्यश्च पवनाश्चादित्यपवनाः, ते तस्मिन् काले यस्मात्सौम्यान्गुणान् भुवः सम्बन्धिनः क्षपयन्ति- विनाशयन्ति| कीदृशास्ते ? अत्यर्थं- अतिशयेन तीक्ष्णाश्चोष्णाश्च रूक्षाश्चात्यर्थ- तीक्ष्णोष्णरूक्षाः| कस्मादेवंविधास्ते ? इत्याह- मार्गस्वभावतः- वर्त्मस्वाभाव्यात्| न च स्वभावः पर्यनुयोगमर्हति| मार्गः- उष्णांशोरुत्तरदिग्गमनम्| यतश्चादित्यपवना रूक्षास्ततस्तिक्तादयो रसा बलिनो भवन्ति| क्रमादित्यनेन यथासंख्यमत्र बोधयति| तेन तिक्तः शिशिरे, वसन्ते कषायो, ग्रीष्मे कटुको, बलीत्यवतिष्ठते, न सर्वे तिक्तादय एकैकस्मिन्नृताविति| तिक्त इत्याद्यसमासकरणं ज्ञापनार्थम्| तिक्तादिरेकैको बली भवति| द्वौ तु स्वप्रमाणावस्थितौ| नैवर्तौ पृथग्भूय तिक्तादेर्बलवत्त्वमित्यर्थः| यत एवं भूमेः सौम्यगुणहानिर्वर्धनं च रूक्षाणां रसानाम्, तस्मात्कारणादादानमाग्नेयम्|

Adhikarana dakShiNAyanam (4-5) · Śloka 5

| ऋतवो दक्षिणायनम्||४|| वर्षादयो विसर्गश्च| |५|

🔊 Audio coming soon

स०-त्रयो वर्षादय ऋतवो दक्षिणायनं भगवतो दिवाकरस्य दक्षिणदिग्गमनम्| स च कालो विसर्गाख्यः|

Adhikarana balavisargai yuktiH (5-6) · Śloka 6

यद्बलं विसृजत्ययम्| सौम्यत्वादत्र सोमो हि बलवान् हीयते रविः||५|| मेघवृष्ट्यनिलैः शीतैः शान्ततापे महीतले| स्निग्धाश्चेहाम्ललवणमधुरा बलिनो रसाः||६||

🔊 Audio coming soon

स०-यत्- यस्मात्, बलमयं कालो विसृजति- ददाति दक्षिणायनाख्यः, तस्माद्विसर्गोऽन्वर्थसंज्ञः कालः| हि- यस्मात्, अत्र- विसर्गाख्ये काले, सौम्यत्वात्- सोमभूयिष्ठत्वात्, सोमो बलवान्, तदाश्रितरात्रिवृद्धिदर्शनात्| हीयते रविः- तदाश्रितदिनहान्युपलब्धेर्हीनशक्तिः सम्पद्यते| कदा ? महीतले- भूपृष्ठे, शान्ततापे सति| कैः ? मेघवृष्ट्यनिलैः शीतैः| शीतैरित्युपलक्षणार्थम्, विसर्गकालत्वान्मृदुभिः स्निग्धैरपीति| अत एव स्निग्धा रसा अम्ललवणमधुरा बलिनो भवन्ति| अत्रापि क्रमादित्यनुवर्तते| पूर्ववच्च व्याख्येयम्|

Adhikarana shItAdau balavicAraH (7) · Śloka 7

शीतेऽग्र्यं वृष्टिधर्मेऽल्पं बलं मध्यं तु शेषयोः| |७|

🔊 Audio coming soon

स०-शीतस्वभावे काले हेमन्तशिशिराख्ये नृणामग्र्यं बलं भवति| वृष्टिश्च घर्मश्च तस्मिन्वृष्टिघर्मे- वर्षाग्रेएष्माख्ये कालेऽल्पम्| तुरवधारणे| शेषयोः- शरद्वसन्तयोरृत्वोर्मध्यमेव बलम्| ननु, वसन्ते आदानकालत्वादत्यर्थतीक्ष्णोष्णरूक्षैरादित्यपवनैः शोष्यमाणेषु बलवृद्धिहेतुषु भुवः सौम्येषु गुणेषु, कथं मध्यबलत्वमिति ? अत्र ब्रूमः| वर्षादिषु त्रिष्वृतुषु बलमुपचितं क्रमेणैवापचीयते| यथा- कॄष्णपक्षे चन्द्रः| तस्माद्दीर्घकालानुवृत्तं बलमुपचितं वसन्ते क्रमेणैवापचीयते, इति मध्यबलत्वं युक्तम्| अनेनैव हेतुना शिशिरेऽग्र्यबलत्वम्| यतः सकलेन विसर्गिणा कालेन यदुपचितमतिशयेन बलं तत् शिशिरे प्रारम्भमात्रादानकालेऽपचीयमानमपि बलं न हीनं लक्ष्यते| यथा- कृष्णपक्षादौ चन्द्रः क्षीयमाणः, इति युक्तमुक्तं शीतेऽग्र्यं बलं वसन्ते च मध्यं बलमिति|

Adhikarana hemante~analasya prabalyam hemantacaryA svAdvamlAdisevanam (7-8) · Śloka 8

अत एवाह शास्त्रकृत् | बलिनः शीतसंरोधाद्धेमन्ते प्रबलोऽनलः||७|| भवत्यल्पेन्धनो धातून् स पचेद्वायुनेरितः| अतो हिमेऽस्मिन्सेवेत स्वाद्वम्ललवणात्रसान्||८||

🔊 Audio coming soon

स०-किल विसर्गाभिवर्द्धितबलत्वात्पुमान् बली भवति| तस्य बलिनः पुंसो हेमन्ते काले शीतसंरोधाद्धेतोरनलोऽग्निर्बली भवति| यतः सर्वतः स्रोतोरोधाज्जाठरोऽग्निरान्तरैरेव स्वेरर्चिर्भिरभिवर्धते| वर्धितश्चासौ युक्तमाहारं सम्यक्पचति| पक्वाच्चाहाराद्बलमभ्याधिकं जायते| हेमन्ते इत्यनेन एतत् द्योतयति, अस्मिन्नेव काले शीतसंरोधात् प्रबलोऽग्निर्भवति, न तु ऋत्वन्तरोपजनितशीतसंरोधात्| तथा हि- अन्यर्तुजेन शीतेनाग्निसादो भवति, यथा- वर्षासु| तत्र हि वृष्टिवाताभ्यां भवति शीतम्, न चाग्निदीप्तिः| तथा चाष्टाङ्गसङ्ग्रहे (सू.अ.४)- "वृष्टिवाताकुले त्वह्नि भोजनं क्लेदवातजित्| परिशुष्कं लघुस्निग्धमुष्णाम्ललवणं भजेत्" इति| इह पुनरनेकरूपं गौरवयुक्तं भोजनं शस्यते| वक्ष्यति हि- "अतो हिमेऽस्मिन्" इत्यारभ्य यावत् "रसान् स्निग्धान्पलं पुष्टम्" इत्यादि| तथोक्तम्- "ऊष्मा बहिः प्रतिहतो हिमशीतवातैरन्तः शरीरविवरं प्रतिपद्यमानः| स्वस्थानपिण्डितवपुर्भवति प्रचण्डः शीतेऽनिलानलहरो विधिरिष्यतेऽतः" इति| तथा, यद्यपि "तत्र सत्त्वशरीरोत्थं" इत्यारभ्य यावत् "तथोर्जस्करयोगजम्" इत्यादिना (हृ.शा.अ.३/७८) ग्रन्थेनाहारो युक्तजस्यैकस्यैव बलस्य हेतुरित्युक्तो ग्रन्थकृता| तथाऽपि युक्त्या निरूप्यमाणः सहजकालजयोरपि बलयोराहार एव हेतुः, अनुवृत्तिहेतुत्वात्| तथा ह्याहारं विना शरीरमेव न स्यात्| तदनया युक्त्या त्रिविधमपि बलमाहारजमिति बोद्धव्यम्| ननु, यदि प्रबलोऽनलो भवति, ततः किम् ? इत्याह- अल्पेन्धन इत्यादि| अल्पमिन्धनमाहाराख्यं यस्य सोऽल्पेन्धनः सन्, सोऽनलो, धातून्- रसादीन् पचेत्| कीदृशः ? वायुनेरितः- वातोद्दीपितः| अतः- अस्मादनन्तरोक्ताद्धेतोरल्पेन्धनत्वे सति धातुपाकाख्यात्| अस्मिन् हिमे शीते स्वाद्वम्ललवणाख्यान् रसान् सेवेत| नान्यर्तुसम्भवे हिम इत्यस्यार्थस्य द्योतनाय (अस्मिन्) हिम इत्युक्तम्|

Adhikarana bubhukShitasya prAtareva bhojanam vAtaghnatailAbhya~ggAdi (9-10) · Śloka 10

दैर्घ्यान्निशानामेतर्हि प्रातरेव बुभुक्षितः| अवश्यकार्यं सम्भाव्य यथोक्तं शेएलयेदनु||९|| वातघ्नतैलैरभ्यङ्गं मूर्ध्नि तैलं विमर्दनम्| नियुद्धं कुशलैः सार्धं पादाघातं च युक्तितः||१०||

🔊 Audio coming soon

स०-एतर्हि- एतस्मिन्काले, बुभुक्षितः प्रातरेव- प्रत्युषसि, नान्यकाले यत्किञ्चिद्दिनातिक्रान्तौ सत्याम्, अवश्यकार्यं- मूत्रोत्सर्गादिकं दिनचर्योक्तं, सम्भाव्य- सम्पाद्य, यथोक्तं- यथानिर्दिष्टम्, अनु- पश्चत्, वातघ्नतैलाभ्यङ्गादिकं शीलयेत्| यद्यपि "बुभुक्षितः, अवश्यकर्यं सम्भाव्य यथोक्तं शीलयेदनु" इत्युक्तम्, तथापि बुभुक्षितेन न तथान्यत्कार्यं कार्यम्, यथा भोजनम्| तथा चोक्तम्- "आहारकाले सम्प्राप्ते यो न भुङ्क्ते बुभुक्षितः| तस्य सीदति कायाग्निर्निरिन्धन इवानलः||" इति| तस्मादौचित्याद्बुभुक्षितेनाहारः कार्य इति वेद्यम्| नन्वन्यस्मिन्नपि काले बुभुक्षितस्यैवाहारानुज्ञानादिह बुभुक्षितग्रहणं न कार्यम्| युक्तमाह भवान्| किन्त्वस्मिन्काले जाठराग्निरत्यग्निच्छायानुकारी भवति| ततोऽस्य जाठराग्नेरत्यग्नेरिवोपचारो युक्तः| यथा (चरके चि.अ.१५/२१९, हृदये चि.अ.१०/८४)- "मुहुर्मुहुरजीर्णेऽपि भोज्यान्यस्योपहारयेत्| निरिन्धनोऽन्तरं लब्ध्वा यथैनं न विपादयेत्||" इति| अबुभुक्षितस्यैव भोजनाधिकारित्वमिति भ्रान्तिनिरासायेह बुभुक्षितग्रहणम्| निशानां दैर्घ्यादिति विशिष्टकालोपलक्षणार्थं कृतम्| यदाऽत्र हेमन्ते शर्वर्यो दीर्घा जायन्ते, तदैष विधिः सर्वोनुष्ठेयो न प्रारब्धमात्र एवास्मिन्निति| नन्वत्र सेवेत शीलयेद्भजेदित्येकार्थाभिधायीनि बहूनि क्रियापदानि किं निर्दिष्टानि ? एकेनैवार्थाधिगतेः| अत्र ब्रूमः| कार्यान्तरसूचनार्थमेतत्पदत्रयं कृतम्| तथा हि- "अतो हिमेऽस्मिन्सेवेत" इत्यत्र यः सेवेतशब्दः स इदं द्योतयति- स्वाद्वम्ललवणरसाः पवनविजयार्थमस्मिन् काले नितरामुपयोक्तव्याः| न कादाचित्क एषामस्मिन्नृतावुपयोगो विधेय इति| अत एव वातघ्नतैलाभ्यङ्गादेः पृथगेषां रसानामुपन्यासः| तथा, "यथोक्तं शीलयेत्" इत्यत्र यः शीलयेदित्येष शब्दः स वातघ्नतैलादेः सर्वस्य तुल्यकक्षतां द्योतयति| तथा, "प्रावाराजिन" इत्यादौ यो भजेच्छब्दः स सकलस्याहारविहारशीलनस्य शयनविधेश्च तुल्यतां प्रथयति| तथा च वक्ष्यति (सू.अ.७/५१)- "आहारशयनाब्रह्मचर्यैर्युक्त्या प्रयोजितैः| शरीरं धार्यते नित्यमागारमिव धारणैः||" इति| वातघ्नतैलैरभ्यङ्गं शीलयेत्| तैलस्य सर्वस्यैव वातघ्नत्वाद्वातघ्नेति विशेषणमतिशयप्रतिपादनार्थम्, तेन बलातैलादिभिरिति बोध्यम्| मूर्ध्नि तैलं-शिरोभ्यङ्गादि| विमर्दनं- शरीरसंवाहनम्, एतदौचित्यादभ्यक्तः सन् शीलयेत्| कुशलैः- तद्विद्भिः सार्धं, नियुद्धं- बाहुयुद्धं, शीलयेत्| पादाघातं- पादेन विमर्दनम्, युक्तित इत्यनेनार्धशक्त्यैव शीलनं द्योतयति| बाहुयुद्धपादाघातयोश्चानभ्यक्तस्यैव शीलनं युक्तम्|

Adhikarana snAnAdi, mAMsAdisevanam (11-14) · Śloka 14

कषायापहृतस्नेहस्ततः स्नातो यथाविधि| कुङ्कुमेन सदर्पेण प्रदिग्धोऽगुरुधूपितः||११|| रसान् स्निग्धान् पलं पृष्टं गौडमच्छसुरां सुराम्| गोधूमपिष्टमाषेक्षुक्षीरोत्थविकृतीः शुभाः||१२|| नवमन्नं वसां तैलं, शौचकार्ये सुखोदकम्| प्रावाराजिनकौशेयप्रवेणीकौचवास्तृतम्||१३|| उष्णस्वभावैर्लघुभिः प्रावृतः शयनं भजेत्| युक्त्याऽर्ककिरणान् स्वेदं पादत्राणं च सर्वदा||१४||

🔊 Audio coming soon

स०-कषायेण- रोध्रादिना, अपहृतः- अपनीतः, स्नेहो यस्य स एवम्| ततः- अनन्तरं, यथाविधि- शास्त्रोदितेन विधानेन, स्नातः| कुङ्कुमेन- काश्मीरेण, प्रदिग्धः- अनुलिप्तः| दर्पः- कस्तूरिका, तेन सह वर्तते यत्कुङ्कुमं तदेवम्| तथा, अगुरुणा- जोङ्गकेन धूपितः| रसान्- मांसरसान्, स्निग्धान् भजेत्| मांसरसानां स्निग्धत्वेऽपि स्निग्धानिति विशेषणमतिशयद्योतनार्थम्| स्निग्धतमान् रसानित्यर्थः| पलं- मांसं, पुष्टं- मेदुरं, भजेत्| तथा, गुडस्येदं गौडं तन्मध्यम्| तथा, अच्छसुरां- सुरामण्डं, सुरां- मदिरां, च भजेत्| अम्लेनान्नेन कषायद्रव्यैश्च या क्रियते सा सुरा भण्यते| ननु, द्विधैव सुरा सेव्यत्वेनेहाभीष्टा, तत्सुराशब्द एव निर्देष्टुं न्याय्यः| तस्मिन्हि सामान्यपदे निर्दिष्टे द्विधैव सुरा निर्दिष्टा भवति| सत्यमेतत्| किन्त्वच्छसुरां नितरां भजेत्, न तथा सुरामिति ज्ञापनार्थं द्वयोरुपादानम्| अत एवाच्छसुरामिति पूर्वं निर्दिष्टम्| गोधूमेत्यादि| गोधूमश्च पिष्टं च माषश्च इक्षुश्च क्षेएरं च तान्येवम्| गोधूमपिष्टमाषेक्षुक्षीरेभ्य उत्थानं यासां विकृतीनां ता एवम्| उत्पूर्वात्तिष्ठतेः सुपेएति योगविभागाद्भावे कः| "उदः स्थास्तम्भोः पूर्वस्य" इति सस्य तकारः| गोधूमपिष्टमाषेक्षुक्षीरोत्थाश्च ता विकृतयश्च, ताः शुभाः- रम्याः, भजेत्| तथा, नवं- अपुराणमन्नं, तथा वसांभजेत्| "शुद्धमांसस्य यः स्नेहः सा वसा परिकीर्तिता"| तथा, तैलं भजेत्- भक्षयेत्| अभ्यङ्गस्तु प्रागनुज्ञात एव| शौचकार्ये- शौचक्रियायां, सुखोदकं- उष्णोदकं, भजेत्| प्रावारः- कार्पासो रोमवान् घनः पटः, स्थूलपटकादिः| अजिनं- सुखस्पर्शरोमचर्म| कौशेयं- पट्टवसनम्| प्रवेणी- सूचीबाणाख्यो वस्त्रविशेषः| कौचवं- राङ्कववस्त्रभेदः, तवरक इत्यन्ये| एतैरास्तृतं- दत्तप्रच्छदपटं, शयनं भजेत्| कीदृक् शयनं भजेत् ? उष्णस्वभावैः- रोमशिकारल्लिकाप्रायैः, प्रावृतः- प्रकर्षेणाच्छादितः| तथा, अर्ककिरणान्भजेत्| कथम् ? युक्त्या- सम्यग्योगलक्षणया| अतिसेविता हि ग्लान्यादीन् कुर्युः| तथा, स्वेदं भजेत्| युक्त्यैवेत्यत्रापि योज्यम्| अतिसेवितो हि स्वेदो ग्लान्यादीन् जनयेत्| पादत्राणं च- पादुकादिकं, सर्वदा भजेत्|

Adhikarana vilAsinInAM shItaharatvam (15) · Śloka 15

पीवरोरुस्तनश्रोण्यः समदाः प्रमदाः प्रियाः| हरन्ति शीतमुष्णाङ्ग्यो धूपकुङ्कुमयौवनैः||१५||

🔊 Audio coming soon

स०-ऊरू च स्तनौ च श्रोणिश्च ऊरुस्तनश्रोणि| पीवरं- पीनं, ऊरुस्तनश्रोणि यासां ता एवम्भूताः, प्रमदाः- विलासिन्यः, शीतं हरन्ति- नुदन्ति| पीनत्वेनातिकार्श्यमत्र निषिध्यते| तथा चाह ग्राम्यधर्माधिकारे (हृ.सू.अ.७/६९)- "त्यजेदतिकृशाम्" इति| किम्भूताः ? सह मदेन- यौवनोद्भूतेन सुरादिपानजेन कामोद्रेककारिणा वा, वर्तन्ते ताः समदाः| तथा, प्रियाः- वल्लभाः, शीतं हरन्ति| किम्भूताः ? उष्णाङ्ग्यो धूपकुङ्कुमयौवनैः- अगुर्वादिधूपेनोष्णाङ्ग्यः, तथा कुङ्कुमानुलेपनेनोष्णाङ्ग्यः, तथा यौवनोष्मणा, सहजेनोष्णाङ्ग्य इति योज्यम्|

Adhikarana nivAtoShNagRuhasevanam (16) · Śloka 16

अङ्गारतापसन्तप्तगर्भभूवेश्मचारिणः| शीतपारुष्यजनितो न दोषो जातु जायते||१६||

🔊 Audio coming soon

स०-अङ्गाराणां तापोऽङ्गारतापः, तेन सन्तप्तं च तद्गर्भेऽभ्यन्तरे भूवेश्म च तत्तस्मिंश्चरति- तिष्ठति नित्यं यस्तस्याङ्गारतापसन्तप्तगर्भभूवेश्मचारिणः पुंसो यतः शीतपारुष्यजनितो दोषो- दुःखं, न जातु- कदाचिज्जायते, ततोऽङ्गारतापसन्तप्तगर्भभूवेश्मचारी स्यादिति भावः|

Adhikarana shishiracaryA shishire~api pUvoktavidhiH (17) · Śloka 17

अयमेव विधिः कार्यः शिशिरेऽपि विशेषतः| तदा हि शेएतमधिकं रौक्ष्यं चादानकालजम्||१७||

🔊 Audio coming soon

स०-अयमेव- हैमन्तः, विधिः- पूर्वोक्तः, शिशिरे च विशेषतः- अतिशयेन कार्यः| कुतः ? इत्याह- यस्मात्तस्मिन् काले शीतमधिकं भवति, कालस्वाभाव्यात्| तथा, आदानकालाज्जातमादानकालजं च रौक्ष्यं भवति| ततो हेतुद्वयाद्विशेषेण हैमन्तिको विधिः सेव्यः| हेमन्ते "रसान् स्निग्धान् शीलयेत्" इत्युक्तम्| शिशिरे तानतिशयेन शीलयेत्| एवं सर्वोऽपि हैमन्तिकौ विधिर्योजनीयः| आदानकालजमित्यनेनैतद्द्योतयति| आदानकाल एव रौक्ष्यस्य कारणम्, नान्यत्| अत एव हेमन्ते शीतेऽपि रौक्ष्यं नास्त्येवेति| आदानस्य च प्रारम्भमात्रत्वे एव शिशिरस्य सम्भव इति शिशिरे किञ्चिदेव रौक्ष्यं वेद्यम्| ननु, यथा रौक्ष्यमादानकालजं तथौष्ण्यमपि| तथा चोक्तम्- "तस्मिन् ह्यत्यर्थतीक्ष्णोष्णरूक्षाः" इति| एवं चौष्ण्यसद्भावाच्छीतस्य हेमन्ततो हानिः प्राप्ता, न त्वाधिक्यम्| तत्कथमुक्तं "तदा हि शीतमधिकम्" इति ? ब्रूमः| रौक्ष्यस्य द्वौ हेतू| एकस्तावद्भगवद्दिवाकरकरैर्जगत्स्नेहादानम्| द्वितीयस्त्वाग्नेयः कालः| तदेवं रौक्ष्येणोभयहेतुजेन शिशिरे काले वाताः शीतस्वभावा आहिताधिकशक्तयो जायन्ते हैमन्तेभ्यो मारुतेभ्यः| तथाविधाश्चौष्ण्येनादानकालजेनादानकालप्राथम्यादप्राप्तबलेन शिशिरे नाभिभूयन्ते| अनभिभूताश्च शीतस्वभावत्वाच्च शीतमेव वर्धयन्ति| अतो युक्तं शीताधिक्यं शिशिर इति|

Adhikarana vasantacaryA shleShmajayaprakArAdi shuNThIkvathitajalapAnAdi (18-23) · Śloka 23

सम्प्रति वसन्तचर्यां विवक्षुरिदमाह कफश्चितो हि शिशिरे वसन्तेऽर्कांशुतापितः| हत्वाऽग्निं कुरुते रोगानतस्तं त्वरया जयेत्||१८|| तीक्ष्णैर्वमननस्याद्यैर्लघुरूक्षैश्च भोजनैः| व्यायामोद्वर्तनाघातैर्जित्वा श्लेष्माणमुल्बणम्||१९|| स्नातोऽनुलिप्तः कर्पूरचन्दनागुरुकुङ्कुमैः| पुराणयवगोधूमक्षौद्रजाङ्गलशूल्यभुक्||२०|| सहकाररसोन्मिश्रानास्वाद्य प्रिययाऽर्पितान्| प्रियास्यसङ्गसुरभीन् प्रियानेत्रोत्पलाङ्कितान्||२१|| सौमनस्यकृतो हृद्यान्वयस्यैः सहितः पिबेत्| निर्गदानासवारिष्टसीधुमार्द्वीकमाधवान्||२२|| शृङ्गबेराम्बु साराम्बु मध्वम्बु जलदाम्बु च| |२३|

🔊 Audio coming soon

स०-शिशिरे मधुरस्निग्धादिना आहारेण कालस्वाभाव्याच्च श्लेष्मा सञ्चितोऽतिशयेन स्त्यानत्वादतिकुपितो वसन्ते ऋतावर्कांशुतापितः- सूर्यप्रभाभिर्विलायितो, द्रवस्वरूपत्वाज्जलमिव विपरीतं जाठराग्निं हत्वा, हि- यस्मात्, रोगान्- विकारान्, कुरुते- जनयति| अतः- अस्मात्कारणात्, तं- कफं, त्वरया- शीघ्रमेव, जयेत्| दोषानिति केचित्पठन्ति| अर्कतापित इत्यनेनैव सिद्धे अंशुशब्दोऽत्र रश्मीनां पटिमानं सूचयति, न तथा शीते| तत्र हि (सं.सू.अ.४)- "धूमधूम्ररजोमन्दास्तुषाराविलमण्डलाः| दिगादित्याः" इत्यधिजगे| कैर्जयेत्? तीक्ष्णैर्वमननस्यविरेकादिभिरुपक्रमेत्| तथा, लघूनि रूक्षाणि च यानि भोजनानि, तैश्च| तथा, व्यायामश्चोद्वर्तनं च आघातश्च तैश्च कफं जयेदिति| चशब्दो लुप्तनिर्दिष्टः| ततः कफमुल्बणं- उद्धतं, जित्वाऽनन्तरं स्नातोऽनुलिप्तः- समालिप्तः कर्पूरचन्दनागुरुकुङ्कुमैः| तथा, पुराणं च तद्यवगोधूमं च, तथा, क्षौद्रं- माक्षिकं, तथा जाङ्गलं च तच्छूल्यं च- "शूलेन संस्कृतं मांसं शूल्यम्" भटित्रं च, तत्तानि भुङ्क्ते पुराणयवगोधूमक्षौद्रजाङ्गलशूल्यभुक्| शूल्य इति "शूलोखाद्यत्" इति यत्| एवंविधः सन् वयस्यैः- मित्रैः सहित आसवादीन् पिबेत्| किम्भूतान्? निर्गदान्- निवृत्तगदान्निर्दोषान्, पिबेदिति वक्ष्यमाणेन सम्बन्धोऽत्र दीपकत्वात्| आसवो- यो द्रव्याण्यासुत्य क्रियते| उक्तं च- "मद्याकराधिकद्रव्यमदिराद्यैः कृतस्तु यः| सोऽरिष्टः स्यादासवस्तु द्रव्याण्यासुत्य यः कृतः||" इति| सीधुः- इक्षुरसोद्भवः| मार्द्वीकं- मृदीकारसोद्भवम्| माधवो- मधुना संस्कृतः| किम्भूतानासवादीन्? सहकाररसोन्मिश्रान्- अधिवासितान्| तथा, प्रियया- दयितया, आस्वाद्य- किञ्चित्पीत्वा, अर्पितान्- ढौकितान्| तथा, प्रियास्यसङ्गेन सुरभीन्,-सुगन्धीन्| तथा, प्रियानेत्राण्येवोत्पलानि तैरङ्कितान्-सञ्जातशोभान्| तथा, सौमनस्यकृतः- चित्तप्रसादकृतः| तथा, हृद्यान्- हृदयाय हितान्| तथा, शृङ्गबेराम्बु- शुण्ठीक्वथितजलं पिबेत्| तथा, सारः-असनचन्दनादिजः, तेन क्वथितमम्बु पिबेत्| तथा, मधुना युक्तमम्बु मध्वम्बु| जलदेन- मुस्तया च क्वथितमम्बु पिबेत्| चेति समुच्चये|

Adhikarana madhyAhne udyAnasevanam (23-25) · Śloka 25

| दक्षिणानिलशीतेषु परितो जलवाहिषु||२३|| अदृष्टनष्टसूर्येषु मणिकुट्टिमकान्तिषु| परपुष्टविघुष्टेषु कामकर्मान्तभूमिषु||२४|| विचित्रपुष्पवृक्षेषु काननेषु सुगन्धिषु| गोष्ठीकथाभिश्चित्राभिर्मध्याह्नं गमयेत्सुखी||२५||

🔊 Audio coming soon

स०-काननेषु- उपवनेषु, स्थितो मध्याह्नं गमयेत्- अतिवाहयेत्| अह्नो मध्यो मध्याह्नः| "संख्याविसा" इत्यादिज्ञापकात्पूर्वापरेत्यादिना एकदेशिसमासः| "अह्नोऽह्न एतेभ्यः" इत्यह्नादेशः| कथम् ? गोष्ठ्यां- क्रीडायां कथा गोष्टीकथास्ताभिः, चित्राभिः- कमनीयाभिः, न त्वर्थव्यवहारसम्बन्धिनीभिः| कीदृशः सन् ? सुखी- रागद्वेषादिरहितः| किम्भूतेषु काननेषु ? दक्षिणदिक्प्रवृत्तैरनिलैः शीतानि, तेषु दक्षिणानिलशीतेषु| तथा, परितः- समन्ताज्जलं नित्यं वहन्ति यानि तेषु| आभीक्ष्ण्ये णिनिः| तथा, क्वचित्प्रदेशे अदृष्टः- ईषद्दृष्टः, क्वचिदतिघनत्वात् नष्टः- न दृश्यते, सूर्यो येषूपवनेषु तान्येवं तेषु| तथा, मणीनां- वज्रमरकतादीनां, कुट्टिमानि- विशिष्टा भुवः, ताभिः कान्तिः- शोभ, येषां तान्येवं तेषु| तथा, परपुष्टैः- कोकिलैः विघुष्टेषु- कृतशब्देषु| तथा, कामस्य कर्मान्ताः कामकर्मान्ताः- मदनव्यापाराः| अन्तशब्दोऽत्र प्रशंसावचने| यथोद्भटस्य (काव्यालङ्कारसङ्ग्रहे प्रथमसर्गे) वचनम्- "वनान्तदेवतावेण्यः" इति) कामकर्मान्तनिमित्तं भूमयो येषां वनानां तान्येवं तेषु| विचित्राणि- नानारूपाणि, पुष्पाणि येषां ते तथाविधा वृक्षा येषां तान्येवं तेषु| सुष्ठु गन्धो येषां तेषु| "गन्धस्येत्" इतीत्समासान्तः|

Adhikarana gurushItAdityAgaH (26) · Śloka 26

गुरुशीतदिवास्वप्नस्निग्धाम्लमधुरांस्त्यजेत्| |२६|

🔊 Audio coming soon

स०-अस्मिन्काले कफोपचयदोषभयात् गुरुशीतादींस्त्यजेत्| ननु, लवणमपि श्लेष्माणं करोति, तत्कस्मादिह न निषिद्धम् ? अतो ब्रूमः| लवणः पूर्वं कफमम्लमधुराविव न करोति| किं तर्हि ? निधने चिरन्तनसञ्चितं स्रुतिरूपं श्लेष्माणं विधत्ते, विष्यन्दित्वात्| न च लवणस्य मधुरादेरिव बहुतरस्य प्रयोगः प्रसिद्धः, किं तर्हि ? अल्पस्यैव| तस्माल्लवणस्यात्रानिषेध एव न्याय्यः|

Adhikarana grIShmacaryA paTvAdityAgaH (26-27) · Śloka 27

अधुना ग्रीष्मचर्यामुपदिदिक्षुराह | तीक्ष्णांशुरतितीक्ष्णांशुर्ग्रीष्मे संक्षिपतीव यत्||२६|| प्रत्यहं क्षीयते श्लेष्मा तेन वायुश्च वर्धते| अतोऽस्मिन्पटुकट्वम्लव्यायामार्ककरांस्त्यजेत्||२७||

🔊 Audio coming soon

स०-यत्- यस्मात्, तीक्ष्णांशुः- भास्करः, अतितीक्ष्णा अंशवः- कराः, यस्य स एवंभूतः सन्, ग्रीष्मे संक्षिपतीव जगत्स्नेहमित्यत्रानुक्तमप्यर्थाल्लभ्यते| केचित्तु "स्नेहमर्कोऽतितीक्ष्णांशुः" इति पठन्ति| स्नेहस्तेजो बलं सारमित्येकोऽर्थः| तं स्नेहमर्कः संक्षिपतीव- यत्सम्बन्धात् संहरतीव पिबतीव| इवशब्देनैतत्सूचयति- हेतुप्रत्ययपरतन्त्रेषु सर्वभावेषु न कश्चित्क्वचित् तद्बुद्धिपूर्वकं संहरति| अतः- अस्मात्कारणात्, अस्मिन्- ग्रीष्मकाले, पट्वादीस्त्यजेत्| परमार्थतो बलहानिकृत्त्वादेषाम्|

Adhikarana madhurAnnAdisevanam (28) · Śloka 28

किमत्र सेव्यम् ? इत्याह भजेन्मधुरमेवान्नं लघु स्निग्धं हिमं द्रवम्| |२८|

🔊 Audio coming soon

स०-मधुरमेवान्नं भजेत्- बाहुल्येन मधुरमन्नं सेव्यम्, न तथाऽन्यरसाघ्रातम्, इत्येवकाराल्लभ्यते| तथा, लघु स्निग्धं हिमं द्रवं चेति| चश्ब्दो लुप्तनिर्दिष्टो द्रष्टव्यः|

Adhikarana saktusharkarAdilehaH (28) · Śloka 28

सामान्येन भोजनमुक्त्वा विशेषेणाह | सुशीततोयसिक्ताङ्गो लिह्यात्सक्तून् सशर्करान्||२८||

🔊 Audio coming soon

स०-सक्तून् सशर्करान् लिह्यात्| सुष्ठु शीतं सुशीतं च तत्तोयं च, तेन सिक्तं- आप्लुतं, अङ्गं- कायो, यस्य स एवंभूतः सन्|

Adhikarana madyapAnaniShedhaH (29) · Śloka 29

मद्यं न पेयं, पेयं वा स्वल्पं, सुबहुवारि वा| |२९|

🔊 Audio coming soon

स०-अस्मिन्काले मद्यं न पेयम्| पेयं वा स्वल्पमिति वातश्लेष्मप्रकृतिना श्लेष्मवातक्षयार्थमन्यर्तुवद्बहु न पेयम्, किंतर्हि ? स्वल्पमेव पातव्यम्| सुबहुवारि वेति पित्तश्लेष्मप्रकृतिना मद्योचितेन श्लेष्मक्षयार्थं पित्तप्रतीकारमपीच्छता सुबहुवारि तन्मद्यं पेयम्| इत्यत्रानुक्तोऽप्येवमर्थाद्विषयविभागो बोध्यः| अन्यथा निषेधविध्योर्विरोधः स्यात्|

Adhikarana uktavidhyatikrame doShaH (29) · Śloka 29

उक्तविध्यतिक्रमे दोषमाह | अन्यथाशोषशैथिल्यदाहमोहान् करोति तत्||२९||

🔊 Audio coming soon

स०-तत्- मद्यम्, अन्येन प्रकारेण पीतं सत् शोफादीन् करोति| शोफः- श्वयथुः| शैथिल्यं- अङ्गानामनैष्ठुर्यम्| दाहः- सर्वाङ्गीणस्तापः| मोहः- अज्ञानं जन्तोः|

Adhikarana mAMsaiH saha shuklashAliBakShaNam (30) · Śloka 30

कुन्देन्दुधवलं शालिमश्नीयाज्जाङ्गलैः पलैः| |३०|

🔊 Audio coming soon

स०-कुन्दः- पुष्पविशेषः, इन्दुः- चन्द्रः, तयोर्द्वन्द्वः| कुन्देन्दुवद्धवलं- शुक्लं शालिं जाङ्गलैः पलैः- मांसैः सहाश्नीयात्- अद्यात्| "क्षुण्णः सितः स्मृतः शाली रक्तो व्रीहिरुदाहृतः"|

Adhikarana nAtighanarasAdeH pAnam, surabhIkRutajalapAnam (30-32) · Śloka 32

| पिबेद्रसं नातिघनं रसालां रागखाण्डवौ||३०|| पानकं पञ्चसारं वा नवमृद्भाजने स्थितम्| मोचचोचदलैर्युक्तं साम्लं मृन्मयशुक्तिभिः||३१|| पाटलावासितं चाम्भः सकर्पूरं सुशीतलम्|३२|

🔊 Audio coming soon

स०-रसं नातिघनं पिबेत्| रसशब्देनादिलोपाख्यया तन्त्रयुक्त्या मांसरस उच्यते| तथा, रसालं- मार्जिकाख्यां पिबेत्| तथा, रागखाण्डवौ पानकं च पञ्चसाराख्यम्| एतेषां च लक्षणं तन्त्रान्तरे उक्तम्| यथा- "सितामध्वादिमधुरा रागास्तत्राच्छकान्तयः| ते साम्लाः खाण्डवा लेह्याः पेयाश्चांशुकगालिताः|| स्वाद्वम्लपटुकट्वाद्याः प्रलेहास्तत्र खाण्डवाः| गुडदाडिममांसाद्या रागा अंशुकगालिताः|| हृद्या वृष्या रुचिकरा ग्राहिणो रागखाण्डवाः" इति| तथा- "द्राक्षामधूकखर्जूरकाश्मर्यैः सपरूषकैः| तुल्यांशैः कल्पितं पूतं शीतं कर्पूरवासितम्|| पानकं पञ्चसाराख्यं दाहतृष्णानिवर्तकम्|" अन्यत्र चोक्तम्| यथा- "गुडदाडिमादियुक्ता विज्ञेया रागखाण्डवाः| त्रिजातमरिचाद्यैस्तु संस्कृताः पानकास्तथा " इति| कीदृशं पानकं पिबेत् ? इत्याह- नवं यन्मृद्भाजनं तत्र स्थितम्| तथा, मोचं- कदलीफलं, चोचं- पनसफलं, तयोर्दलानि, तैर्युक्तम्| तथा, साम्लम्, तित्तिडीकादियोगात् खाण्डवरसानुगतम्| केचित्तु क्षीरं घृतपिप्पलीशशिमाक्षिकशर्करोपेतं पञ्चसारं पानकमित्याहुः| केन पिबेत् ? इत्याह- मृन्मयशुक्तिभिः| पाटलया वासितं- सुरभीकृतं, तथा सकर्पूरं सुशीतलं चाम्भः पिबेत्| मृन्मयशुक्तिभिरित्यत्रापि योज्यम्| सुश्रुते चोक्तम्- "परिपेलवया तुल्या गुडगुग्गुलुमुस्तकाः| चूर्णिताः शशिनोपेता नवभाजनधूपनम्|| कुष्ठमुस्तकसंयुक्तैः पेलवोशीरवालकैः| मृदिता मृत्सुपिष्टैस्तैः खदिराङ्गारपाचिताः|| सहकाररसाभ्यक्ताश्चम्पकोत्पलवालकैः| पद्मकुब्जककुन्दैश्च यथालाभाधिवासिताः|| श्रेष्ठः सलिलवासोऽयं स्मृतः सर्वर्तुको बुधैः"| इति|

Adhikarana rAtrau mAhiShakShIrapAnam (32-33) · Śloka 33

| शशाङ्ककिरणान् भक्ष्यान् रजन्यां भक्षयन् पिबेत्||३२|| ससितं माहिषं क्षीरं चन्द्रनक्षत्रशीतलम्| |३३|

🔊 Audio coming soon

स०-माहिषं क्षीरं ससितं- सशर्करं, रजन्यां- रात्रौ, पिबेत्| किम्भूतम् ? चन्द्रेण नक्षत्रैश्च शीतलम्| रात्रावाकाशे शैत्यार्थं स्थापितमित्यर्थः| किंकुर्वन् पिबेत् ? भक्ष्यान् भक्षयन्- भुञ्जन्| कीदृशान् ? शशाङ्ककिरणान्- कर्पूरनाडिकाख्यान्| [ (हृ.चि.अ.५/४९)- "तालीसचूर्णवटकाः सकर्पूरसितोपलाः| शशाङ्ककिरणाख्यास्तु भक्ष्या रुचिकराः परम्||"]

Adhikarana svApaprakAraH (33-34) · Śloka 34

| अभ्रङ्कषमहाशालतालरुद्धोष्णरश्मिषु||३३|| वनेषु माधवीश्लिष्टद्राक्षास्तबकशालिषु| |३४|

🔊 Audio coming soon

स०-अभ्रं- आकाशं, कषन्ति- उल्लिखन्ति, अत्युच्चतयाऽभ्रङ्कषाः| महान्तश्च ते शालाश्च तालाश्च महाशालतालाः| अभ्रङ्कषाश्च ते महाशालतालाश्च, तै रुद्धः- स्थगितः, उष्णरश्मिः- दिनकरो येषु वनेषु तेषु, मध्यन्दिने- मध्याह्ने, अर्कतापार्तः सन् स्वप्यात्- शयीत| माधव्यो- लताविशेषा अतिमुक्तकाख्याः, तासु श्लिष्टा माधवीश्लिष्टाः द्राक्षायास्तबकाः- गुच्छका द्राक्षास्तबकाः| माधवीश्लिष्टाश्च ते द्राक्षास्तबकाश्च, तैः शालितुं- श्लाघितुं शीलं येषां वनानां तानि माधवीश्लिष्टद्राक्षास्तबकशालीनि, तेषु वनेषु|

Adhikarana veNvAdinirmitagRuhe svApaH (34-35) · Śloka 35

कस्मिन् स्वप्यात् ? इत्याह | सुगन्धिहिमपानीयसिच्यमानपटालिके||३४|| कायमाने चिते चूतप्रवालफललुम्बिभिः| |३५|

🔊 Audio coming soon

स०-कायमाने- वेण्वादिनिष्पादिते गृहविशेषे| कीदृशे ? सुगन्धि च तद्धिमं च तत्पानीयं च तत्सुगन्धिहिमपानीयम्| पटानां- वस्त्राणां, आलिः- पङ्क्तिः, पटालिः| सुगन्धिहिमपानीयेन सिच्यमाना पटालिर्यस्मिन्नसौ सुगन्धिहिमपानीयसिच्यमानपटालिकः, तस्मिन् तथाविधे कायमाने| तथा, प्रवालाः- किसलयानि| फलानां लुम्बयः- स्तबकाः| प्रवालाश्च फललुम्बयश्च प्रवालफललुम्बयः| चूतानां प्रवालफललुम्बयस्ताभिः, चिते- परितो व्याप्ते|

Adhikarana shayanIyaprakAraH (35-37) · Śloka 37

ईदृशे कायमाने स्थितो यादृशे शयने शयीत तन्निरूपयन्नाह | कदलीदलकह्लारमृणालकमलोत्पलैः||३५|| कोमलैः कल्पिते तल्पे हसत्कुसुमपल्लवे| मध्यंदिनेऽर्कतापार्तः स्वप्याद्धारागृहेऽथवा||३६|| पुस्तस्त्रीस्तनहस्तास्यप्रवृत्तोशीरवारिणि| |३७|

🔊 Audio coming soon

स०-कदलीत्यादि| तल्पे- शयने, कल्पिते| कैः ? कदलीदलादिभिः| कदल्याः- रम्भायाः, दलानि- पत्राणि, कह्लारं- सौगन्धिकम्, मृणालं- बिसम्, कमलं- पद्मम्, उत्पलं- कुमुदम्, एतेषां द्वन्द्वः| तैः कदलीदलादिभिः, कोमलैः- सुकुमारस्पर्शैः, कल्पिते- रचिते| किम्भूते ? कुसुमानि च पल्लवाश्च कुसुमपल्लवाः| हसन्त इव कुसुमपल्लवा यत्र तस्मिन्| धारागृहेऽथवा स्वप्यादिति वर्तते| धारागृहं- अविरतं यतो जलधाराः पतन्ति| किम्भूते ? पुस्तस्त्रीस्तनहस्तास्यैः प्रवृत्तमुशीरवारि यत्र तस्मिन्| पुस्तो- दार्वादिमय्याः स्त्र्याद्याकृतेरुपादानकारणं यद्वस्तु तदुच्यते|

Adhikarana nishAsu saudhapRuShThe sthitiH (37-38) · Śloka 38

| निशाकरकराकीर्णे सौधपृष्ठे निशासु च||३७|| आसना| |३८|

🔊 Audio coming soon

स०-निशासु- रात्रिषु, सौधपृष्ठे- हर्म्यतले, आसना- स्थितिः| कार्येत्यध्याहार्यम्| तत्रासीतेत्यर्थः| किम्भूते सौधपृष्ठे ? निशाकरः- शीतांशुः, तस्य कराः- गभस्तयः, तैराकीर्णे- व्याप्ते|

Adhikarana tAlavRuntasevanaprakAraH (38-41) · Śloka 41

स्वस्थचित्तस्य चन्दनार्द्रस्य मालिनः| निवृत्तकामतन्त्रस्य सुसूक्ष्मतनुवाससः||३८|| जलार्द्रास्तालवृन्तानि विस्तृताः पद्मिनीपुटाः| उत्क्षेपाश्च मृदूत्क्षेपा जलवर्षिहिमानिलाः||३९|| कर्पूरमल्लिकामाला हाराः सहरिचन्दनाः| मनोहरकलालापाः शिशवः सारिकाः शुकाः||४०|| मृणालवलयाः कान्ताः प्रोत्फुल्लकमलोज्ज्वलाः| जङ्गमा इव पद्मिन्यो हरन्ति दयिताः क्लमम्||४१||

🔊 Audio coming soon

स०-स्वस्थचित्तस्य- रागाद्यनुपहतमनसः, जलार्द्राः क्लमं हरन्ति| एवं तालवृन्तादयो योज्याः| अन्तर्दीपकत्वादस्य| तथा च कीदृशस्य ? चन्दनार्द्रस्य- चन्दनेनानुलिप्तस्य| तथा, मालिनः- स्रग्विणः| तथा, निवृत्तं कामतन्त्रं- पुष्पधन्वपरिच्छदो यस्य| तथा, सुष्ठु सूक्ष्मे तनुनी स्वच्छे वाससी यस्य स एवम्| जलार्द्राः- पानीयप्लुताः शाटिकाः| तालवृन्तानि- मयूरपिच्छादिकृतानि तालवृन्ताकृतीनि व्यजनानि| तथा, विस्तृताः- महान्तः, पद्मिनीपुटाः- नलिनीपत्राणि, वीजनार्थम्| तथा, उत्क्षेपाः- मयूरपिच्छादिकृता व्यजनविशेषाः| ते च किम्भूताः ? मृदुरुत्क्षेपो येषु ते मृदूत्क्षेपाः| जलवर्षी हिमोऽनिलो येषु उत्क्षेपेषु ते जलवर्षिहिमानिलाः| शीतजलाभ्युक्षितैरेतैर्वातः कार्य इत्यर्थः| कर्पूरेत्यादि| मालाशब्दः प्रत्येकं युज्यते| स्फटिककर्पूरग्रथिता माला मल्लिकामालाश्चेत्यर्थः| तथा, हाराः- मुक्ताफलदामानि| किम्भूताः ? सह हरिचन्दनेन वर्तन्त इति सहरिचन्दनाः| यत् छेदे लोहितमतिसुगन्धि सुष्ठु शीतवीर्यं च, तद्धरिचन्दनमुच्यते| मनोहरेत्यादि| मनोहरो- रम्यः, कलो- मधुरः, आलापो येषां ते मनोहरकलालापाः| शिशवो- बालकाः| तथा, सारिकाः- शरारयः| शुकाः- कीराः| मृणालेत्यादि| मृणालानि- अतिकोमलानि बिसानि, वलयाः- कटकानि, यासां ताः| दयिताः- योषितः| किम्भूताः ? कान्ताः- रम्याः| तथा, प्रोत्फुल्लैः विकसितैः, कमलैरुज्ज्वलाः- शोभिताः| एवम्भूताश्चोत्प्रेक्ष्यन्ते, जङ्गमाः- सञ्चारिण्य इव पद्मिन्यः| क्लमं हरन्तीति योज्यम्| स्वस्थचित्तस्येति प्राधान्यख्यापनार्थं प्रागुपात्तम्| स्वस्थचित्तस्यैवैते जलार्द्रादयः क्लमं हरन्ति, न तथोपतप्तमनसः| [तथा हि- चन्दनार्द्रादिसकलविशेषेण विशेषितस्याप्युपतप्तमनसो न तथा क्लमं हरन्ति|] चित्तायत्ता हि सर्वभावानां शुभाशुभप्रवृत्तयः| तथा च स्निग्धमधुरोऽप्याहार उपयुक्तः, सुखशय्यादिरपि विहारः सेवितः, शोकाविष्टचेतसो न तथा शरीरस्य पुष्टिमादधाति| अत एव "शोकः शोषणानाम्" इत्यग्र्यसङ्ग्रहे (चरके सू.अ.२५/३९, सङ्ग्रहे सू.अ.१३) प्रोक्तम्| तथा, रूक्षोऽप्याहारस्तथाविधो विहारश्च सेवितो निर्वृत्तमनसः पुष्टिमेवादधाति, न कार्श्यम्| तथा चोक्तम् (च.सू.अ.२५/३९, सं.सू.अ.१३)- "निर्वृतिः पुष्टिहेतूनाम्" इति| सुश्रुते च क्लमस्य लक्षणमुक्तम् (शा.अ.४/५१)- "योनायासः श्रमो देहे प्रवृद्धः श्वासवर्जितः| क्लमः स इति विज्ञेय इन्द्रियार्थप्रबाधकः" इति|

Adhikarana varShAcaryA,varShAsu doShaNAM duShTatvam anyonyadUShiShu vAtAdiShu sAdhAraNanasevanam (42-44) · Śloka 44

इदानीं वर्षाचर्यां निर्दिदिक्षुरिदमाह आदानग्लानवपुषामग्निः सन्नोऽपि सीदति| वर्षासु दोषैर्दुष्यन्ति तेऽम्बुलम्बाम्बुदेऽम्बरे||४२|| सतुषारेण मरुता सहसा शीतलेन च| भूबाष्पेणाम्लपाकेन मलिनेन च वारिणा||४३|| वह्निनैव च मन्देन, तेष्वित्यन्योन्यदूषिषु| भजेत्साधारणं सर्वमूष्मणस्तेजनं च यत्||४४||

🔊 Audio coming soon

सं-आदानमुक्तम्, तेनादानाख़्येन कालेन ग्लानं-सक्लमं, वपुः-शरीरं, येषां पुरुषाणां ते आदानग्लानवपुषः, तेषामपचितधातूनामग्निरप्यपचितः सन्नो-मन्दः सन्, पुनर्वर्षासु सीदति-हानिं याति| अपिशब्दः पुनरर्थे, अनेकार्थत्वान्निपातानाम्| वर्षास्विति नित्यबहुत्वाद्बहुवचनम्| केन सीदति ? इत्याह-कालस्वभावाद्दोषैः,-वातपित्तश्लेष्मभिः, दुष्टैरित्यनुक्तमप्यर्थाद्गम्यते| यतोऽग्निसादहेतुत्वमदुष्टानां तेषां न सम्भवति| तस्माद्दुष्टैर्दोषैरग्निः सीदतीत्यर्थाल्लभ्यते| ननु, कथं वर्षासु दोषाणां दुष्टत्वं स्यात् ? इत्याह-दुष्यन्तीत्यादि| ते दोषा दुष्यन्ति| कदा ? अम्बरे-वियति, अम्बुलम्बाम्बुदे-अम्बुना लम्बा अतिनिर्भरत्वादम्बुलम्बा ईदृशा अम्बुदाः-मेग़ाः, यस्मिन्नेवंविधे सति| अनेन च विशेषणेनास्य कालस्य स्वरूपमुपलक्षयन्त्याचार्याः| यदैवंविधो वर्षाकालः सम्पद्यते, तदैवैते दोषा दुष्यन्ति-स्वकर्मण्ययोग्याः सम्पद्यन्ते, न वर्षाकालमात्रेऽनासादितस्वरूपे| तथा, सतुषारेण मरुता-सजलकणेन पवनेन, तथा, सहसा-ग्रीष्मतापसन्तापादनन्तरमेव, शीतलेनाभ्यन्तरो वायुर्दुष्यति| तथा, भुवो बाष्पः-ऊष्मा भूबाष्पस्तेन| तथा, कालस्वाभाव्याच्चाम्लपाकेन वारिणा पित्तं दुष्यति| तथा, मलिनेन वारिणा-लूतादितन्तुविण्मूत्रेत्यादिकलुषेण वर्षाजलेन, कालस्वाभाव्याच्चातिशयेन मन्दत्वं गतेनाग्निना श्लेष्मा दुष्यति| तदेवमस्मिन्काले वातपित्तश्लेष्माणो युगपत्कालस्वाभाव्याद्दुष्यन्ति| नन्विह त्रयाणामपि दोषाणां कोपोऽनुज्ञायते| वक्ष्यति तु (हृ.सू.अ. १२|२४)-"चयप्रकोपप्रशमा वायोर्ग्रीष्मादिषु त्रिषु" इति| तदिमे वचसी परस्परं व्याघ्नाते| अत्रोच्यते| नानयोर्वाक्ययोर्मिथो विरोधः सम्भाव्यते| यस्मादिह दुष्यन्तीत्युक्त्या स्वस्थानस्था एव दुष्टिं प्राप्ता विषादिस्पृष्टद्रव्यवत्कार्यकरणेऽसमर्था जायन्त इत्युक्तम्| चयप्रकोपप्रशमा इत्यत्र प्रकर्षेण कोपः स्थानान्तरगतिलक्षणो गदितः| तदेवमस्मिन् काले वायोः कदाचिद्दुष्टत्वं स्यात् कदाचित्कोपश्च, इति वचनाभ्यामेताभ्यां प्रत्यपादि| पित्तश्लेष्मणोस्तु दुष्टत्वमात्रमेव| इति न किञ्चिदत्रासमञ्जसम्| तेष्वित्यादि| इति-प्रकारे| अन्योन्यं दूषयितुं शीलं येषां वातादीनां त एवम्, तेषु-अनेन प्रकारेण परस्परं दूषणस्वभावेषु सत्सु, भजेत्साधारणं सर्वं-यत्किञ्चिद्वातादीनां युगपत् प्रशमनं प्रशमनं तत्सर्वं सेवेत| यच्चोष्मणो जाठराग्नेः, तेजनं-उद्दीपनं, तद्भजेत्| ऊष्मणस्तेजनस्यात्र चशब्दप्रयुक्तस्योपादानं प्राधान्यख़्यापनार्थम्| अग्निर्हि सर्वभावानां प्रधानम्| तथा च वक्ष्यति (सङ्ग्रहे शा.अ.६)- "शान्तेऽग्नौ म्रियते, युक्ते चिरं जीवत्यनामयः| रोगी स्याद्विकृते, मूलमग्निस्तस्मान्निरुच्यते" इति| तस्मादग्न्युत्तेजनार्थं यत्नः कार्य इति भावः| भजेदिति क्रियापदं आदिदीपकत्वात् "भोजनं त्वतिदुर्दिने" इति यावत्सर्वेषु योज्यम्|

Adhikarana sAdhAraNamAsthApanAdi,varShAvisheSheBojanavisheShaH (45-47) · Śloka 47

किं तत्साधारणमिति? तदुदाहरणार्थमाह आस्थापनं शुद्धतनुर्जीर्णं धान्यं रसान् कृतान्| जाङ्गलं पिशितं यूषान् मध्वरिष्टं चिरन्तनम्||४५|| मस्तु सौवर्चलाढ्यं वा पञ्चकोलावचूर्णितम्| दिव्यं कौपं शृतं चाम्भो भोजनं त्वतिदुर्दिने||४६|| व्यक्ताम्ललवणस्नेहं संशुष्कं क्षौद्रवल्लघु| |४७|

🔊 Audio coming soon

स०--शुद्धा तनुर्यस्य स एवम्भूतः-कृतविरेकादिः सन्, आस्थापनं-निरूहं, भजेत्| तथा, जीर्णं धान्यं-पुराणयवगोधूमादिकम्| तथा, रसान्-मांसरसान्| किम्भूतान् ? कृतान्,- स्नेहशुण्ठ्यादियुतान्| तथा, जाङ्गलं पिशितं-हरिणैणादिकं मांसम्| तथा, यूषान्-मुद्गदाडिमादिकृतान्| तथा, मधु-मार्द्वीकम्, अरिष्टम्, द्वयमप्येतत् चिरन्तनं-पुराणम्, न तु नवम्, आग्निमान्द्यभयात्| मस्तु सौवर्चलाढ्यं-अक्षलवणसंयुक्तम्| वेति समुच्चये| किम्भुतं मस्तु ? पिप्पलीपिप्पलीमूलचव्यचित्रकनागराः पञ्चकोलम्, तेनावचूर्णितम्| तथा, दिव्यं आकाशजं, तथा कौपं, तथा शृतं-क्वथितं, चाम्भः पिबेत्| चः समुच्चये| दिवि भवं दिव्यम्, दिगादित्वाद्यत्| कूपे भवं कौपम्, प्राग्दीव्यतोऽण्| अतिदुर्दिने-वातवर्षाकुलेऽहनि, व्यक्ताः-प्रधानाः, अम्ललवणस्नेहा यत्र तद्भोजनं भजेत्| तथा, संशुष्कं-शुष्कप्रायम्| तथा, क्षौद्रवत्-समाक्षिकम्| तथा, लघु| ननु, "वातलं मधु" इति (हृ.सू.अ. ५|५२) वक्ष्यति| पवनश्चात्र कुप्यतीत्युक्तम्| अतो माक्षिकस्यात्रोपयोगो न युक्तः| अत्रोच्यते| देहधातवोऽस्मिन् काले क्लेदमुपयान्ति| ततश्च क्लेदसंरक्षणे एवोपक्षीणप्रभवत्वात् मधु मरुत्कोपं विधातुमसमर्थम्| तस्मान्मधूपयोगो न्याय्य एव|

Adhikarana puruShavartanaprakAraH (47-48) · Śloka 48

अथाऽत्र काले यादृशः पुरुषः स्यात्तं दर्शयति | अपादचारी सुरभिः सततं धूपिताम्बरः||४७|| हर्म्यपृष्ठे वसेद्बाष्पशीतशीकरवर्जिते| |४८|

🔊 Audio coming soon

स०-पादाभ्यां चरति नित्यं पादाचारी, नैव यः सोऽपादचारी,-यानयायी स्यात्| तथा, सुरभिः-शोभनगन्धयोगात्| "स्नानशीलः सुसुरभिः" (हृ.सू.अ. २|३१) इत्यनेनैवास्यार्थस्योक्तत्वात् सुरभिग्रहणमतिशयार्थम्| तथा, सततं अविरतं, धूपितेऽम्बरे यस्य स एवम्| तथा, हर्म्यपृष्ठे-धवलगृहतले, वसेत्-तिष्ठेत्| कीदृशे ? बाष्पश्च शीतं च शीकरश्च तैर्वर्जिते|

Adhikarana nadIjalAdipa~jcatyAgaH (48) · Śloka 48

| नदीजलोदमन्थाहःस्वप्नायासातपांस्त्यजेत्||४८||

🔊 Audio coming soon

स०-तथा, नदीजलादीन् पञ्च त्यजेत्| उदकालोडिताः सक्तवः ससर्पिष्का उदमन्थवाच्या जलावक्षीरीसंज्ञाः| तदत्र काले साम्यत्वात्सक्तवस्तक्रादिसंयोगान्नात्यन्तमनिष्टाः| पानीय संयोगात्तु वातलाः, प्रकृष्टवातले काले नाभीष्टा एव| मुनिना त्वेवमुक्तम् (च. सू.अ. ६|३४)- "उदमन्थं दिवास्वप्नमवश्यायं नदीजलम्| व्यायाममातपं चैव व्यवायं चात्र वर्जयेत्" इति| अधुना शरच्चर्यां विवक्षुरिदमाह-

Adhikarana sharaccaryA (49-50) · Śloka 50

वर्षाशीतोचिताङ्गानां सहसैवार्करश्मिभिः| तप्तानां सञ्चितं वृष्टौ पित्तं शरदि कुप्यति||४९|| तज्जयाय घृतं तिक्तं विरेको रक्तमोक्षणम्| |५०|

🔊 Audio coming soon

स०-वर्षासु शीतं वर्षाशीतं, तदुचितं-सात्म्यं यस्य, तदेवंविधमङ्गं-वपुर्येषां ते वर्षाशीतोचिताङ्गा नराः, तेषां सहसैव-झटित्येव, शरदि जातायां, अर्करश्मिभिः-भानुभाभिस्तप्तानां सतां पित्तं कुप्यति| किम्भूतम् ? वृष्टौ सञ्चितं,-वर्षासु वृद्धिं गतम्| यतश्चैवं ततश्च तज्जयाय तिक्तं घृतं-कुष्ठचिकित्सितोक्तं, योज्यमिति वाक्यशेषः| यदि वा, तिक्तैर्द्रव्यैः साधितम्| तथा, विरेको योज्यः| तथा, रक्तमोक्षणं च| सर्वोपक्रमेभ्यः पित्ते विरेकस्य ज्यायस्त्वादिह पूर्वमुपन्यासः| तथा ह्याह (चरके सू.अ. २५|३९)- "विरेचनं पित्तहराणाम्" इति| ततो रक्तमोक्षणं, पित्ताधारत्वाद्रक्तस्य| विरेचनाङ्गत्वाच्च तज्जयाय घृतं तिक्तमिति घृतस्य पूर्वमुपन्यासः| न ह्यस्निग्धस्य विरेचनप्राप्तिरस्ति| तथा च वक्ष्यति (हृ. सू. अ. १८|५९)- "स्नेहस्वेदावनभ्यस्य कुर्यात्संशोधनं तु यः| दारु शुष्कमिवानामे शरीरं तस्य दीर्यते" इति| तथा, विरिक्तस्य स्रुतरक्तस्य च पवनप्रकोपभयम्| कालस्वाभाव्याच्च पित्तकोपभयम्| तदेतत्परिहर्तुं तथा देहपुष्ट्यर्थमग्निसन्धुक्षणार्थं च तिक्तघृतोपयोगः कार्यः| इत्यनेककार्यकरणत्वेन प्राधान्याच्च तिक्तघृतस्य पूर्वमुपन्यासः| असमासकरणं च ज्ञापनार्थम्| नैतानि सर्वाण्यवश्यं तिक्तघृतादीनि तदा कार्याणि| किं तर्हि ? देशाद्यनुरोधात् कदाचित्पित्तविजयाय तिक्तं घृतं, कदाचिद्विरेकः, कदाचिद्रक्तमोक्षः, कदाचिद्द्वयं, कदाचित्सकलान्येवेति| विरेकस्तु पित्तविजयार्थमवश्यं शरदि कार्यः| यथा-वसन्ते श्लेष्मविजयाय वमनम्, वर्षासु च पवनविजयाय बस्तिः| अत एव प्राङ्निर्दिष्टं वसन्ते वमनं, वर्षासु चास्थापनं, शरदि विरेक इति|

Adhikarana kShudhitasya tiktAdiguNayutaBojanAdi (50-51) · Śloka 51

| तिक्तं स्वादु कषायं च क्षुधितोऽन्नं भजेल्लघु||५०|| शालिमुद्गसिताधात्रीपटोलमधुजाङ्गलम्| |५१|

🔊 Audio coming soon

स०-क्षुधितोऽन्नं-भोजनं, तिक्तादिगुणयुक्तं भजेत्| क्षुधितग्रहणमतिबुभुक्षितप्रतिपादनार्थम्, अक्षुधितस्य भोजनाधिकाराभावात्| किं तत्तिक्तादिगुणयुक्तम् ? इत्याह-शालीत्यादि| शाल्यादीन् सप्त भजेत्|

Adhikarana haMsodakam (51-53) · Śloka 53

| तप्तं तप्तांशुकिरणैः शीतं शीतांशुरश्मिभिः||५१|| समन्तादप्यहोरात्रमगस्त्योदयनिर्विषम्| शुचि हंसोदकं नाम निर्मलं मलजिज्जलम्||५२|| नाभिष्यन्ति न वा रूक्षं पानादिष्वमृतोपमम्| |५३|

🔊 Audio coming soon

स०-समन्तात्-सर्वतः, सूर्यप्रभाभिरहनि तप्तं-क्वथितम्, चन्द्रकिरणैर्निशि शीतीकृतम्| तथा, अगस्त्योदयेन निर्विषीकृतम्| तथा, शुचि-पवित्रम्| वर्षासु ह्यशुचीत्युक्तम्| तच्च हंसोपभोग्यतया हंसवदतिनैर्मल्याद्धंसोदकं नाम तन्त्रकारैरायुर्वेदशास्त्रे संज्ञितम्| तथा, निर्मलं-अकलुषम्| तथा, मलान्वातपित्तश्लेष्मणो, जयतीति मलजित्| अगस्त्योदयनिर्विषशब्देन विशेषणेनैतत् प्रतिपादयति, यथा-यदन्तरिक्षप्रभवं सरस्तडागादिस्थं जलं, तदेव प्रायेण शरद्येवंगुणं वेद्यम्| न कूपादिप्रभवम्, तस्य सदा निर्विषत्वात्| तथा चान्तरिक्षप्रभवमेवं पठ्यते (हृ. सू. अ. ५|८)- "लूतादितन्तुविण्मूत्रविषसंश्लेषदूषितम्" इति| तच्च नाभिष्यन्दि-न स्रुतिरूपश्लेष्मकारि, न वा रूक्षं-न वातप्रकोपकारि| वाशब्दश्च शब्दस्यार्थेऽत्र| यतस्तप्तांशुकिरणैस्तप्तम्, यतश्च शीतांशुकरैः शीतं-प्राह्लादितम्, इत्थं स्नेहरौक्ष्ययोरन्तरे वर्तमानं पानादिष्वमृतोपमम्| आदिशब्देन स्नानावगाहयोर्ग्रहः| कुपितदोषशमनादकुपितदोषसाम्यानुवृत्तिहेतुत्वाच्चामृततुल्यमेतज्जलं भजेदिति योज्यम्| अत्रोष्णांशुग्रहणमग्नितापनिवृत्त्यै| किरणग्रहणं साक्षात्तत्स्पर्शसम्भावनार्थम्| तृणदवपलाशादिभिरास्तृतमपि रविस्तापयति न तु तत्तथा गुणवत्| अतः किरणग्रहणेन तद्व्यवधानव्युदासं करोति| ननु च, सर्वं दिनं सूर्यकिरणैस्तापः सम्भवति| चन्द्रकरैस्तु सर्वां रात्रिं कथमिव स्यात् ? यतः सकलस्य चन्द्रमसः पौर्णमास्यामेव सर्वस्यां रात्र्यां सम्भवो नान्यत्र| तस्माच्छीतं चन्द्रकिरणै रात्र्यामिति नैतद्युक्तम्| अत्रोच्यते| विमले व्योमनि यथैव रविचन्द्रौ यथाकालमव्याहतस्वरूपं प्राप्तौ पथ्यतां जलस्यापादयतस्तद्वन्नक्षत्राण्यपि| तस्मान्नक्षत्रैरपि शीतं चन्द्रेणेव श्रेष्ठमेव भवत्युदकम्| एवं चैतदवगच्छेत्, अन्यथैतद्वाक्यमयुक्तमिव स्यात्| चरकमुनिनाप्यनेनैवाऽभिप्रायेण नक्षत्रग्रहणं नाकारि| यथा (च. सू. अ. ६|४५)- "दिवा सूर्यांशुसन्तप्तं निशि चन्द्रांशुशीतलम्|" इति| अष्टाङ्गसङ्ग्रहेऽप्युक्तम् (सू.अ. ४.)- "दिवा दिवाकरकरैर्निशाकरकरैर्निशि" इति| अत्र हि सकलस्याहोरात्रस्य रविशशियोगाय दिवानिशाग्रहणम्, अन्यथैतदनर्थकं स्यात्, व्यभिचाराभावात्|

Adhikarana pradoShe kaumudIBajanam (53-54) · Śloka 54

| चन्दनोशीरकर्पूरमुक्तास्रग्वसनोज्ज्वलः||५३|| सौधेषु सौधधवलां चन्दिकां रजनीमुखे| |५४|

🔊 Audio coming soon

स०-चन्दनं चोशीरं च कर्पूरश्च मुक्ताश्च स्रजश्च वसनानि च, तैरुज्ज्वलः-शोभनः सन्, सौधेषु-धवलगृहपृष्ठेषु, चन्द्रिकां ज्योत्स्नां, भजेत्| कदा ? रजनीमुखे,-प्रदोषे| परतस्तु निदाघ इव न सेव्या, अवश्यायभयात्| अवश्यायो ह्यत्र परिहार्यः| तथा चाह-

Adhikarana tuShArAdidashaparityAgaH (54-55) · Śloka 55

| तुषारक्षारसौहित्यदधितैलवसातपान्||५४|| तीक्ष्णमद्यदिवास्वप्नपुरोवातान् परित्यजेत्| ||५५||

🔊 Audio coming soon

स०-तुषारादीन् दश परित्यजेत्| तुषारो-अवश्यायः| क्षारो-यवक्षारादिः| सौहित्यं-तृप्तिः| तीक्ष्णं च तन्मद्यं च तीक्ष्णमद्यम्| पुरोवातः-पूर्वदिगागतो वातः|

Adhikarana samAsena RUtucaryA RutuvisheShe~annapAnAdi (56-57) · Śloka 57

व्यासेन ऋतुचर्यामुक्त्वा समासेनाह- | शीते वर्षासु चाद्यांस्त्रीन् वसन्तेऽन्त्यान् रसान्भजेत् स्वादुं निदाघे, शरदि स्वादुतिक्तकषायकान्| शरद्वसन्तयो रूक्षं शीतं घर्मघनान्तयोः||५६|| अन्नपानं समासेन विपरीतमतोऽन्यदा| |५७|

🔊 Audio coming soon

स०-शीते-हेमन्तशिशिरयोः, वर्षासु चाद्यांस्त्रीन्-स्वाद्वम्ललवणाख्यान्, रसान् भजेत्| वसन्ते चान्त्यांस्त्रीन्-तिक्तकटुकषायान् भजेत्| स्वादुं निदाघे-ग्रीष्मे मधुरं, भजेत्| शरदि स्वादुतिक्तकषायान् भजेत्| शरद्वसन्तयो रूक्षमन्नपानं समासेन भजेत्| अतो विपरीतं-स्निग्धम्, अन्यदा-हेमन्तशिशिरग्रीष्मवर्षासु| शीतमन्नपानं घर्मघनान्तयोर्भजेत्| अतो विपरीतं-उष्णमन्नपानम्, अन्यदा-हेमन्तशिशिरवसन्तवर्षाख्ये काले, भजेत्|

Adhikarana upadiShTAhArasyApavAdaH (57) · Śloka 57

सम्प्रति सेव्यत्वेनोपदिष्टस्याहारस्यापवादमाह | नित्यं सर्वरसाभ्यासः स्वस्वाधिक्यमृतावृतौ||५७||

🔊 Audio coming soon

स०-नित्यं-सर्वदा, सर्वेषां-षण्णामपि रसानां, अभ्यासः-शीलनं, कार्यमिति वाक्यशेषः| "सर्वरसाभ्यासो बलकराणाम्" इति (सं. सू. अ. १३) वचनात्| नन्वेवं सति यथर्तुसेव्यत्वेन रसनियमो यः पूर्वं कृतः स विरुद्धः ? नेत्याह-स्वस्वेत्यादि| ऋतावृताविति वीप्सायां द्वित्वम्| स्वं च स्वं च स्वस्वं, तस्याधिक्य-भूयस्त्वं, कार्यमिति शेषः| यथा-शीते वर्षासु चाद्यांस्त्रीनित्युक्तम्| तदेतेषु ऋतुष्वेते रसा भूयसोपयोक्तव्याः, न त्वेत एवेत्यर्थः| तथा, समधातुं प्रति समे देशे चैष नियमो वेद्यः| अन्यत्र तु जाङ्गलेऽनूपे वा देशे विषमधातोश्च धातुसाम्योत्पादनार्थं देशदेहानुगुणमन्यर्तुविहितविधानमन्यस्मिन्नप्यृतावनुष्ठेयमेव|

Adhikarana RutusandhiH Rutusandhau sevanIyaprakAraH sahasA tyAgashIlanAdrogAH (3) · Śloka 3

किमन्यस्मिन्नृतौ प्राप्ते, पूर्वर्तुचर्या सहसैव त्याज्याऽन्या च सेव्या ? नेत्याह ऋत्वोरन्त्यादिसप्ताहावृतुसन्धिरिति स्मृतः| तत्र पूर्वो विधिस्त्याज्यः सेवनीयोऽपरः क्रमात्||५८|| असात्म्यजा हि रोगाः स्युः सहसा त्यागशीलनात्| ५८ १/२| इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां सूत्रस्थाने ऋतुचर्या नाम तृतीयोऽध्यायः||३||

🔊 Audio coming soon

स०-ऋत्वोः-शिशिरवसन्तयोर्ग्रीष्मप्रावृषोरित्यादिकयोः, अन्त्यश्चादिश्च यौ सप्ताहौ तावृतुसन्धिरिति स्मृतः-इत्युच्यते| तत्र-सप्ताहद्वयलक्षण ऋतुसन्धौ, पूर्वः-पूर्वर्तुसम्बन्धी, विधिस्त्याज्यः| अपरः-एष्यद्दतुसम्बन्धी, सेवनीयः| कथम् ? क्रमात्,-क्रमेण, "पादेनापथ्यमभ्यस्तम्" (हृ. सू. अ. ७|४७) इत्यादिना| सप्तानामह्नां समाहारः सप्ताहः| सप्ताहश्च सप्ताहश्च सप्ताहौ| "राजाहःसख़िभ्यष्टच्" इति टच् समासान्तः| "न संख़्यादेः समाहारे" इत्यह्नादेशनिषेधः| ननु, किमेवं त्यागः सेवनं च क्रियते ? इत्याह-असात्म्यजा इत्यादि| यस्मात् सहसा त्यागशीलनात् असात्म्यात्-अनुचिताज्जाता असात्म्यजा रोगाः स्युः| ततः सहसा त्यागशीलनं न कार्यमिति भावः| इति श्रीमृगाङ्कदत्तपुत्रश्रीमदरुणदत्तविरचितायामष्टाङ्गहृदयटीकायां सर्वाङ्गसुन्दराख़्यायां सूत्रस्थाने तृतीयोऽध्यायः समाप्तः|| ३||