Adhikarana adhyAyopakramaH · Śloka
🔊 Audio coming soon
अधुना ग्रन्थ्यादीनां चिकित्सितं बिभणिषुराह-
Adhikarana adhyAyopakramaH · Śloka
🔊 Audio coming soon
अधुना ग्रन्थ्यादीनां चिकित्सितं बिभणिषुराह-
Adhikarana granthyarbudashlIpadApacInADIpratiShedhAdhyAyaH granthiShvAmeShu shoPavat kriyA (2-1) · Śloka 1
अथातो ग्रन्थ्यर्बुदश्लीपदापचीनाडीप्रतिषेधं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः| (गद्यसूत्रे|२| ) ग्रन्थिष्वामेषु कर्तव्या यथास्वं शोफवत् क्रिया| |१|
🔊 Audio coming soon
स०- आमेषु-अपक्वेषु, ग्रन्थिषु यथास्वं शोफेष्विव क्रियाचिकित्सितम्|
Adhikarana vAtaje granthau snehanaM shodhanaM ca (1-2) · Śloka 2
| बृहतीचित्रकव्याघ्रीकणासिद्धेन सर्पिषा||१|| स्नेहयेच्छुद्धिकामं च, तीक्ष्णैः शुद्धस्य लेपनम्| |२|
🔊 Audio coming soon
स०- बृहत्यादिभिः सिद्धेन सर्पिषा शुद्धिकामं नरं स्नेहयेत्| ततः शुद्धस्य-कृतवमनविरेकस्य सतः, तीक्ष्णैर्द्रव्यैर्लेपनं कार्यम् |
Adhikarana vAtaje svedo vimardanaM ca punaH punaH (2) · Śloka 2
| संस्वेद्य बहुशो ग्रन्थिं विमृद्नीयात् पुनः पुनः||२||
🔊 Audio coming soon
स०-ग्रन्थिं सम्यक् स्वेदयित्वाऽङ्गुष्ठादिभिः पुनः पुनर्विमृद्नीयात्|
Adhikarana pittAstraje granthau jalaukasaH, pittAsraje pralepAdikaM sarvaM hitam, kaPaje granthau vAtiko vidhiH (3) · Śloka 3
एष वाते विशेषेण क्रमः, पित्तास्रजे पुनः| जलौकसो हिमं सर्वं, कफजे वातिको विधिः||३||
🔊 Audio coming soon
स०- एष क्रमो विशेषेण वाते कार्यः| पित्तास्रजे ग्रन्थौ जलौकसः| सर्वदा शीतं प्रलेपादिकं हितम्| कफजे ग्रन्थौ वातोद्भवग्रन्थिविहितः क्रमः|
Adhikarana evamapyapakve Cedo dAhaSca (4) · Śloka 4
तथाऽप्यक्वं छित्त्वैनं स्थिते रक्तेऽग्निना दहेत्| साध्वशेषं, सशेषो हि पुनराप्यायते ध्रुवम्||४||
🔊 Audio coming soon
स०- एवमप्यपक्वमेनं ग्रन्थिं साधु यथा भवत्यशेषं च तथा छित्त्वा स्थिते रक्ते सत्यग्निना दहेत्| शेषः कस्मान्न क्रियते ? इत्याह-सशेष इति| यस्मात् सशेषो ग्रन्थिर्निश्चयेनैव पुनराप्यायते-वृद्धिं याति|
Adhikarana mAMsavraNodBavayorgranthyorevameva (5) · Śloka 5
मांसव्रणोद्भवौ ग्रन्थी यापयेदेवमेव च| |५|
🔊 Audio coming soon
स- मांसव्रणोद्भवौ ग्रन्थी एवमेव यापयेत्|
Adhikarana medoBave granthau taptaPAlAdisparshaH shastreNa pATanam agnidAhaSca (5-6) · Śloka 6
| कार्यं मेदोभवेऽप्येतत्तप्तैः फालादिभिश्च तम्||५|| प्रमृद्यात्तिलदिग्धेन छन्नं द्विगुणवाससा| शस्त्रेण पाटयित्वा वा दहेन्मेदसि सूद्धृते||६||
🔊 Audio coming soon
स०- मेदोजेऽप्येतत् कार्यम्| तं च-मेदोद्भवं ग्रन्थिं, तिलकल्कदिग्धेन द्विगुणवाससा छन्नं सन्तं तप्तैः फालादिभिरुपस्पृशेत्| अथवा शस्त्रेण पाटयित्वा मेदसि निःशेषमुद्धृते सत्यग्निना दहेत्|
Adhikarana sirAgranthau sAhacaratailaM peyam,sirAgranthau vAtaghnairupanAhAdi (7) · Śloka 7
सिराग्रन्थौ नवे पेयं तैलं साहचरं, तथा| उपनाहोऽनिलहरैर्बस्तिकर्म सिराव्यधः||७||
🔊 Audio coming soon
स०- सिराग्रन्थौ च नवे साहचरं तैलं पेयम्| तथा वातघ्नैरुपनाहो हितो बस्तिकर्म सिराव्यधश्च|
Adhikarana arbude yathAsvaM granthivatkriyA, arbude ajAshakRudAdinA svedAdi (8-3) · Śloka 3
अर्बुदे ग्रन्थिवत् कुर्यात् यथास्वं सुतरां हितम्| |८| | अजाशकृच्छिग्रूमूललाक्षासुरस(लवणक्षार)-काञ्जिकैः| वस्त्रबद्धैरुपस्वेद्य मर्दयित्वा प्रलेपयेत्||१|| उपोदकापत्रपिण्ड्या छदैराच्छादितं घनम्| निवेश्य पट्टं बध्नीयाच्छाम्यत्येवं नवार्बुदम्||२|| जीर्णे चार्कच्छदसुधासामुद्रगुडकाञ्जिकैः| प्रच्छाने पिण्डिका बद्धा ग्रन्थ्यर्बुदविलायनी]||३||
🔊 Audio coming soon
स०- अर्बुदे ग्रन्थाविव सर्वं यथायोगं सुतरां हितं कुर्यात् |
Adhikarana vAtaje shlIpade vyadhaH, vAtaje eraNDatailapAnam, vAtaje jIrNAnnaBakShaNam, vAtaje traivRutaM vA pibet, vAtaje evamashAntAvagninA dahet (8-10) · Śloka 10
| श्लीपदेऽनिलजे विध्येत् स्निग्धस्विन्नोपनाहिते||८|| सिरामुपरि गुल्फस्य द्व्यङ्गुले, पाययेच्च तम्| मासमेरण्डजं तैलं गोमूत्रेण समन्वितम्||९|| जीर्णे जीर्णान्नमश्नीयाच्छुण्ठीशृतपयोन्वितम्| त्रैवृतं वा पिबेदेवमशान्तावग्निना दहेत्||१०||
🔊 Audio coming soon
स०- श्लीपदे वातोत्थे स्निग्धे स्विन्न उपनाहिते च गुल्फस्य द्वयङ्गुल उपरि सिरां विध्येत्| तं च-श्लीपदिनं, मासमेरण्डोद्भवं तैलं गोमूत्रयुतं पाययेत्| जीर्णे चैरण्डतैले पुराणमन्नं शाल्योदनं शुण्ठीशृतेन क्षीरेण सहाश्नीयात्| त्रैवृतं वा पिबेत्| एवमप्यशान्तौ वह्निना दहेत्| तथा गुल्फस्याधस्तात्सिरां मोक्षयेत्|
Adhikarana pittaje shlIpade gulPasyAdhaH, sirAmokShaH, pittajicca sarvam (11) · Śloka 11
गुल्फस्याधः सिरामोक्षः पैत्ते सर्वं च पित्तजित्| |११|
🔊 Audio coming soon
स०- पैत्ते तु श्लीपदे सर्वं पित्तजिच्चिकित्सितं हितम्|
Adhikarana kaPaje shlIpade~a~gguShThake sirAM vidhvA yavAnnAdi shIlayet, kaPaje sarShapAdinAM lepaH (11-12) · Śloka 12
| सिरामङ्गुष्ठके विध्वा कफजे शीलयेद्यवान्||११|| सक्षौद्राणि कषायाणि वर्द्धमानास्तथाऽभयाः| लिम्पेत्सर्षपवार्ताकिमूलाभ्यां धन्वयाऽथवा||१२||
🔊 Audio coming soon
स०- कफजे तु सिरामङ्गुष्ठके विध्वा यवान्नं शीलयेत्| कषायगुणयुक्तानि द्रव्याणि माक्षिकान्वितानि हितानि| तथा वर्धमाना द्वित्र्यादिक्रमेण हरीतक्यो हिताः| सर्षपैर्वार्ताकीमूलेन च लिम्पेत्| धान्य(धन्व)या-यवासकया वा, निशुण्ठ्या लिम्पेत्|
Adhikarana apacyAmUrdhvAdhaH shodhanaM dantyAdighRutam, apacyAM kaPamedoghnaM dhUmAdikam, apacyAM sirA raktaharaNam, apacyAM rasA~jjanaM gomUtreNa pibet, apacyAM kA~jcanAratvacaH pAnam (13-1) · Śloka 1
ऊर्ध्वाधःशोधनं पेयमपच्यां साधितं घृतम्| दन्तीद्रवन्तीत्रिवृताजालिनीदेवदालिभिः||१३|| शीलयेत्कफमेदोघ्नं धूमगण्डूषनावनम्| सिरयाऽपहरेद्रक्तं, पिबेन्मूत्रेण तार्क्ष्यजम्||१४|| | पलमर्द्धपलं वाऽपि कर्षं वाऽप्युष्णवारिणा| काञ्चनारत्वचं पीत्वा गण्डमालां व्यपोहति]||१||
🔊 Audio coming soon
स०- अपच्यामूर्ध्वाधः शोधनं दन्त्यादिभिः साधितं घृतं पातव्यम्| तथा कफमेदोहरं धूमादिकमभ्यसेत्| सिरया रक्तं हरेत्| रसाञ्जनं गोमूत्रेणालोडितं पिबेत्|
Adhikarana apacyAM apakvagranthiShu nAkulyAdi lepaH, apacyAM kaThiNagranthiShu svedo mardanaM ca (15) · Śloka 15
ग्रन्थीनपक्वानालिम्पेन्नाकुलीपटुनागरैः| स्विन्नान् लवणपोटल्या कठिनाननु मर्दयेत्||१५||
🔊 Audio coming soon
स०- आमान् ग्रन्थीन्नाकुल्यादिभिरालिम्पेत्| कठिनान् ग्रन्थील्लवणपोटल्या स्विन्नान् पश्चादङ्गुष्ठादिना मर्दयेत् |
Adhikarana apacyAM shamyAdilepo granthyAdi vilAyanaH, apacyAM nimbapatrAdilepaH (16-1.5) · Śloka 1
शमीमूलकशिग्रूणां बीजैः सयवसर्षपैः| लेपः पिष्टोऽम्लतक्रेण ग्रन्थिगण्डविलायनः||१६|| | क्षुण्णानि निम्बपत्राणि क्ल्ऱ्प्तैर्भल्लातकैः सह| शरावसम्पुटे दग्ध्वा सार्धं सिद्धार्थकैः समैः||१|| एतच्छागाम्बुना पिष्टं गण्डमालाप्रलेपनम्]||१.५||
🔊 Audio coming soon
स०- शम्यादिभिरम्लतक्रपिष्टैर्लेपो ग्रन्थ्यादिविम्लाप(लाय)नः|
Adhikarana apacyAM pAkonmukheShu granthiShu raktasrAvAdi, apakveShu granthiShu kShArAgniByAmupacAraH (17) · Śloka 17
पाकोन्मुखान् स्रुतास्रस्य पित्तश्लेष्महरैर्जयेत्| अपक्वानेव वोद्धृत्य क्षाराग्निभ्यामुपाचरेत्||१७||
🔊 Audio coming soon
स०- पाकोन्मुखान् ग्रन्थीन् स्रुतरक्तस्य पित्तश्लेष्मघ्नैर्द्रव्यैर्जयेत्| अथवाऽपक्वानेव ग्रन्थीनुद्धृत्य क्षाराग्निभ्यामुपक्रमेत् |
Adhikarana apakveShu kAkAdanyAditailena nasyAdikam (18-20) · Śloka 20
काकादनीलाङ्गलिकानहितोत्तुण्डिकीफलैः| जीमूतबीजकर्कोटीविशालाकृतवेधनैः||१८|| पाठान्वितैः पलार्धशैर्विषकर्षयुतैः पचेत्| प्रस्थं करञ्जतैलस्य निरुग्ण्डीस्वरसाढके||१९|| अनेन माला गण्डानां चिरजा पूयवाहिनी| सिध्यत्यसाध्यकल्पाऽपि पानाभ्यञ्जननावनैः||२०||
🔊 Audio coming soon
सं-काकादन्यादिभिः कल्कैर्द्विकर्षोन्मितैर्विषकर्षयुतैः करञ्जतैलस्य प्रस्थं निर्गुण्डीस्वरसस्याढके पचेत्| तेन (अनेन) तैलेन गण्डमाला चिरोत्था पूयवाहिनी चासाध्यप्रायाऽपि पानादिभिः सिध्यति|
Adhikarana apakveShu lA~ggalakyAditailena nasyAdikam (21) · Śloka 21
तैलं लाङ्गलिकीकन्दकल्कपादं चतुर्गुणे| निर्गुण्डीस्वरसे पक्वं नस्याद्यैरपचीप्रणुत्||२१||
🔊 Audio coming soon
स०- लाङ्गलिकीकन्दकल्कपादं निर्गुण्डीस्वरसे चतुर्गुणे तैलं पक्वं नस्याद्यैरपचीजित्| लाङ्गलिकीकन्दकल्कः पादो यस्मिस्तैले तदेवम् |
Adhikarana apakveShu BadrAditailena pAnAdikam (22-24) · Śloka 24
भद्रश्रीदारुमरिचद्विहरिद्रात्रिवृद्धनैः| मनः शिलालनलदविशालाकरवीरकैः||२२|| गोमूत्रपिष्टैः पलिकैर्विषस्यार्धपलेन च| ब्राह्मीरसार्कजक्षीरगोशकृद्रससंयुतम्||२३|| प्रस्थं सर्षपतैलस्य सिद्धमाशु व्यपोहति| पानाद्यैः शीलितं कुष्ठदुष्टनाडीव्रणापचीः||२४||
🔊 Audio coming soon
स०- भद्रश्रीदार्वादिभिः पलिकैर्गोमूत्रपिष्टैर्विषस्य चार्धपलेन युक्तैर्ब्राह्मीरसादिभिः संयुतं सर्षपतैलप्रस्थं पक्वं पानाद्यैरभ्यस्तं कुष्ठादीन् शीघ्रमेव हन्ति |
Adhikarana apakveShu vacAditailapAnam (25) · Śloka 25
वचाहरीतकीलाक्षाकटुरोहिणिचन्दनैः| तैलं प्रसाधितं पीतं समूलामपचीं जयेत्||२५||
🔊 Audio coming soon
स०- वचाहरीतक्यादिभिः कल्कितैस्तैलं पक्वं पीतं निर्मूलामपचीं कुर्यात्|
Adhikarana apakveShu sharapu~gKAdinA nasyaM lepaSca (26) · Śloka 26
शरपुङ्खोद्भवं मूलं पिष्टं तन्दुलवारिणा| नस्याल्लेपाच्च दुष्टारुरपचीविषजन्तुजित्||२६||
🔊 Audio coming soon
स०- शरपुङ्खामूलं तन्दुलजलेन पिष्टं नस्येन लेपनेन च दुष्टारुःप्रभृतीन् हन्ति|
Adhikarana apakveShu uttamakAraNyAditailena lepaH (27-28) · Śloka 28
मूलैरुत्तमकारण्याः पीलुपर्ण्याः सहाचरात्| सरोध्राभययष्ट्याह्वशताह्वाद्वीपिदारुभिः||२७|| तैलं क्षीरसमं सिद्धं नस्येऽभ्यङ्गे च पूजितम्| |२८|
🔊 Audio coming soon
सं-उत्तमकारण्यादीनां मूलैस्तैलं क्षीरतुल्यं सिद्धं नस्येऽभ्यङ्गे च हितम्| उत्तमैवोत्तमकेति "अन्यतरस्याम्" इति ह्रस्वः| उत्तमका चासावरणिश्च(णी च) उत्तमकारणीत्यर्थः| उत्तमकारणी-करम्भः(म्भा)|
Adhikarana apakveShu kRuShNasarpAdInAmi~ggudItailena lepaH (28-29) · Śloka 29
| गोव्यजाश्वखुरा दग्धाः कटुतैलेन लेपनम्||२८|| ऐङ्गुदेन तु कृष्णाहिर्वायसो वा स्वयं मृतः| |२९|
🔊 Audio coming soon
स०- गवादीनां खुरा दग्धाः कटुतैलेन विमिश्रितेन लेपो हितः| कृष्णसर्पो दग्ध इङ्गुदीतैलेन, काको वा स्वयं मृत इङ्गुदीतैलेन, लेपनं हितम् |
Adhikarana apakveShu ityashAnAvagninA dAhaH (29-30) · Śloka 30
| इत्यशान्तौ गदस्यान्यपार्श्वजङ्घासमाश्रितम्||२९|| बस्तेरूर्ध्वमधस्ताद्वा मेदो हृत्वाऽग्निना दहेत्| |३०|
🔊 Audio coming soon
सं-एवमप्यशान्तौ सत्यां रोगस्यापरपार्श्वजङ्घासमाश्रितं बस्तेरूर्ध्वमधस्ताद्वा मेदो हृत्वा ज्वलनेन दहेत् |
Adhikarana apakveShu granthiharaNe nimimunimatam (30-31) · Śloka 31
| स्थितस्योर्ध्वं पदं मित्वा तन्मानेन च पार्ष्णितः||३०|| तत ऊर्ध्वं हरेद् ग्रन्थीनित्याह भगवान्निमिः| |३१|
🔊 Audio coming soon
स०- स्थितस्य पुंस ऊर्ध्वं पदं मित्वा तन्मानेन पार्ष्णिप्रदेशात् तावन्मात्रं मित्वा तत ऊर्ध्व ग्रन्थीन् हरेत्, इति निमिमुनिः प्राज्याशयो वदतीति|
Adhikarana apakveShu granthi sushrutamatam (31) · Śloka 31
पार्ष्णिं प्रति द्वादश चाङ्गुलानि मुक्त्वेन्द्रबस्तिं च गदान्यपार्श्वे| विदार्य मत्स्याण्डनिभानि मध्याज्जालानि कर्षेदिति सुश्रुतोक्तिः||३१||
🔊 Audio coming soon
स०- पार्ष्णिं लक्षीकृत्य द्वादशाङ्गुलानि मित्त्वा इन्द्रबस्तिं मुक्त्वा गदस्यापरपार्श्वे विदार्य मध्यान्मत्स्याण्डसदृशानि जालानि कर्षेत्, एवं सुश्रुतस्य वचनम्| उपजातिवृत्तम्|
Adhikarana apakveShu granthi aparamunimatam (32) · Śloka 32
आ गुल्फकर्णात्सुमितस्य जन्तोस्तस्याष्टभागं खुडकाद्विभज्य| घ्राणार्जवेऽधः सुरराजबस्तेर्भित्त्वाऽक्षमात्रं त्वपरे वदन्ति||३२||
🔊 Audio coming soon
स०- गुल्फान्तं यावत् कर्णादारभ्य प्राणिनः सुष्ठु मितस्य कर्णानां ह्रस्वलम्बत्वेनानियतस्थानत्वात् स्थाननियमं करोति| घ्राणार्जव इति| एतदुक्तं भवति| नासाग्रात् कर्णं प्रति सृष्टत्वे सति सुमितस्य कर्णाद् गुल्फं यावन्न त्वेवमेव, तथा तस्य नरस्य खुडकाद् गुल्फादष्टभागं बिभज्य-त्यक्त्वा, इन्द्रबस्तेरधस्ताद्भीत्त्वाऽक्षमात्रं कर्षेत्, इत्यपरे वदन्ति| इन्द्रवज्रावृत्तम्|
Adhikarana vAtanADyAM upanAhanaM pATanaM pratyakpuShpyAdilepaSca (33) · Śloka 33
उपनाह्यानिलान्नाडीं पाटितां साधु लेपयेत्| प्रत्यक्पुष्पीफलयुतैस्तिलैः पिष्टैः ससैन्धवैः||३३||
🔊 Audio coming soon
स०- वातान्नाडीमुपनाह्य पाटयित्वा साधु कृत्वाऽपामार्गादिभिर्लेपयेत्|
Adhikarana pittanADyAM tilAdilepaH (34) · Śloka 34
पैत्तीं तु तिलमञ्जिष्ठानागदन्तीनिशाद्वयैः| |३४|
🔊 Audio coming soon
स०- पैत्तिं तु पाटितां सतीं तिलादिभिः प्रदेहयेत्|
Adhikarana kaPanADyAM tilasaurAShTryAdi lepaH (34) · Śloka 34
| श्लैष्मिकीं तिलसौराष्ट्रीनिकुम्भारिष्टसैन्धवैः||३४||
🔊 Audio coming soon
स०- शलैष्मिकीं च पाटितां तिलसौराष्ट्र्यादिभिः प्रदेहयेत्|
Adhikarana shalyanADyAM CinnashodhitAyAM tilAdilepaH (35) · Śloka 35
शल्यजां तिलमध्वाज्यैर्लेपयेच्छिन्नशोधिताम्| |३५|
🔊 Audio coming soon
स०- शल्यजां गतिं छिन्नां शोधितां च तिलमध्वाज्यैर्लेपयेत्|
Adhikarana CedanAnarhAyAM BitvA kShArasUtreNa dAraNam (35-36) · Śloka 36
| अशस्त्रकृत्यामेषिण्या भित्वाऽन्ते सम्यगेषिताम्||३५|| क्षारपीतेन सूत्रेण बहुशो दारयेद् गतिम्| |३६|
🔊 Audio coming soon
सं-शस्त्रेण छेदनानर्हां गतिं सम्यगेषितामेषिण्या भित्त्वाऽन्ते क्षारयुक्तेन सूत्रेण पुनःपुनर्दारयेत्|
Adhikarana duShTAdivraNeShu yatsAdhanaM tannADIShvapi (36-37) · Śloka 37
| व्रणेषु दुष्टसूक्ष्मास्यगम्भीरादिषु साधनम्||३६|| या वर्त्यो यानि तैलानि तन्नाडीष्वपि शस्यते| |३७|
🔊 Audio coming soon
स०- दुष्टेषु सूक्ष्ममुखेषु गम्भीरादिषु व्रणेषु यत्साधनं कथितं, या वर्तय उक्ताः, यानि तैलानि, तत्-एतच्चिकित्सितं, नाडीष्वपि युज्यते|
Adhikarana nADIvraNaharo ca~jcuPalalepaH (37) · Śloka 37
| पिष्टं चञ्चुफलं लेपान्नाडीव्रणहरं परम्||३७||
🔊 Audio coming soon
सं-चञ्चोः फलं पिष्टं लेपेन परं नाडीव्रणहृत्|
Adhikarana nADIGoNTAPalatvagAdikalkaH (38) · Śloka 38
घोण्टाफलत्वक् लवणं सलाक्षं बूकस्य पत्रं वनितापयश्च| स्रुगर्कदुग्धान्वित एष कल्को वर्तीकृतो हन्त्यचिरेण नाडीम्||३८||
🔊 Audio coming soon
स०- घोण्टाफलादिकः स्त्रीक्षीरस्रुगर्कदुग्धयुत एष कल्को वर्तीकृतो द्रागेव नाडीं हन्ति| इन्द्रवज्रावृत्तम्|
Adhikarana nADIsAmudrAdiBiH kalko~aBya~ggaScUrNo vartiSca (30) · Śloka 30
सामुद्रसौवर्चलसिन्धुजन्म सुपक्वघोण्टाफलवेश्मधूमाः| आम्रातगायत्रिजपल्लवाश्च कटंकटेर्यावथ चेतकी च||३९|| कल्केऽभ्यङ्गे चूर्णे वर्त्यां चैतेषु शील्यमानेषु| अगतिरिव नश्यति गतिश्चपला चपलेषु भूतिरिव||४०|| इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां षष्ठ उत्तरस्थाने ग्रन्थ्यर्बुदश्लीपदापचीनाडीप्रतिषेधो नाम त्रिंशोऽध्यायः||३०||
🔊 Audio coming soon
स०- समुद्रलवणादिकं कल्केऽभ्यङ्गे चूर्णे वर्त्यां चामीष्वभ्यस्यमानेष्वविद्यमानगतिरिव गतिः शीघ्रं नश्यति| चपला चपलेषु नरेषु भूतिः-वित्तं, यथेति| उपजातिरार्या च| इति श्रीमृगाङ्कदत्तपुत्रश्रीमदरुणदत्तविरचितायामष्टाङ्गहृद यटीकायां सर्वाङ्गसुन्दराख्यायां षष्ठ उत्तरस्थाने ग्रन्थ्यर्बुदश्लीपदापचीनाडीप्रतिषेधो नाम त्रिंशोऽध्यायः समाप्तः|| ३०||