Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

29. granthyarbudaślīpadāpacīnāḍīvijñānīyādhyāyaḥ

Adhikarana adhyAyopakramaH · Śloka

🔊 Audio coming soon

ग्रन्थ्यादिविज्ञानमुच्यते-

Adhikarana granthyarbushlIdApacInADIvij~jAnIyAdhyAyaH grantheH samprAptirniruktishca (2-1) · Śloka 1

अथातो ग्रथ्यर्बुदश्लीपदापचीनाडीविज्ञानीयं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः| (गद्यसूत्रे|२| ) कफप्रधानाः कुर्वन्ति मेदोमांसास्रगा मलाः| वृत्तोन्नतं यं श्वयथुं स ग्रन्थिर्ग्रथनात्स्मृतः||१||

🔊 Audio coming soon

सं-मेदोमांसरक्तस्थिताः कफप्रधाना दोषा वृत्तोन्नतं यं श्वयथुं, कुर्वन्ति, स ग्रथनाद् ग्रन्थिः स्मृतः|

Adhikarana grantheH navavidhatvam (2) · Śloka 2

दोषास्रमांसमेदोस्थिसिराव्रणभवा नव| ते|२|

🔊 Audio coming soon

सं-ते च-ग्रन्थयो, दोषाद्यात्मकत्वात् नवसङ्ख्याः स्युः|

Adhikarana 1 vAtajasya grantherlakShaNam (2-3) · Śloka 3

| तत्र वातादायामतोदम्भेदान्वितोऽसितः||२|| स्थानात्स्थानान्तरगतिरकस्माद्धानिवृद्धिमान्| मृदुर्बस्तिरिवानद्धो विभिन्नोऽच्छं स्रवत्यसृक्||३||

🔊 Audio coming soon

सं-तेषु मध्ये वातादायामादिगुणः श्वयथुः स्यात्| स च विभिन्नो लोहितमच्छं स्रवति|

Adhikarana 2 pittajasya grantherlakShaNam (4) · Śloka 4

पित्तात्सदाहः पीताभो रक्तो वा, पच्यते द्रुतम्| भिन्नोऽस्रमुष्णं स्रवति|४|

🔊 Audio coming soon

सं-पित्तेन दाहयुतः पीतच्छविरथवा रक्तः| शोफः शीघ्रं पच्यते| भिन्नः स उष्णमसृक् स्रवति|

Adhikarana 3 kaPajasya grantherlakShaNam (4-5) · Śloka 5

| श्लेष्मणा नीरुजो घनः||४|| शीतः सवर्णः कण्डूमान्, पक्वः पूयं स्रवेद्घनम्| |५|

🔊 Audio coming soon

सं-कफेन नीरुजो घनः शोफः शीतस्पर्शः शरीरसमानवर्णः कण्डूयुतश्च स्यात्| स पक्वः पूयं घनं स्रवेत्|

Adhikarana 4 raktajasya grantherlakShaNam (5-6) · Śloka 6

| दोषैर्दुष्टेऽसृजि ग्रन्थिर्भवेन्मूर्च्छत्सु जन्तुषु||५|| सिरामांसं च संश्रित्य सस्वापः पित्तलक्षणः| |६|

🔊 Audio coming soon

सं-दोषैर्दुष्टे लोहिते सति ग्रन्थिर्भवेत्| जन्तुषु-कृमिषु, वृद्धिं गच्छत्सु सिरामांसं च संश्रित्य स्वापान्वितः शोफः पित्तसमानलक्षणः स्यात्|

Adhikarana 5 mAMsajasya grantherlakShaNam (6-7) · Śloka 7

| मांसलैर्दूषितं मांसमाहारैर्ग्रन्थिमावहेत्||६|| स्निग्धं महान्तं कठिनं सिरानद्धं कफाकृतिम्| |७|

🔊 Audio coming soon

सं-मांसलैराहारैर्मांसं दूषितं ग्रन्थि स्निग्धादिगुणयुक्तं कफाकारं करोति|

Adhikarana 6 modojasya grantherlakShaNam (7-9) · Śloka 9

| प्रवृद्धं मेदुरैर्मेदो नीतं मांसेऽथवा त्वचि||७|| वायुना कुरुते ग्रन्थि भृशं स्निग्धं मृदुं चलम्| श्लेषमतुल्याकृतिं देहक्षयवृद्धिक्षयोदयम्||८|| स विभिन्नो घनं मेदस्ताम्रासितसितं स्रवेत्| |९|

🔊 Audio coming soon

सं-मेदुरैर्भोजनैर्मेदः प्रवृद्धं वायुना मांसे नीतमथवा त्वचि नीतं मेदोग्रन्थिं भृशं स्निग्धादिगुणं श्लेष्मसमानाकारं तथा शरीरक्षयवृद्धिभ्यां क्षयोदयौ यस्य तं तादृशं करोति| स च ग्रन्थिभिन्नः सन् घनं ताम्रमसितं सितं च मेदः स्रवति|

Adhikarana 7 asthijasya grantherlakShaNam (9-10) · Śloka 10

| अस्थिभाङ्गाभिघाताभ्यामुन्नतावनतं तु यत्||९|| सोऽस्थिग्रन्थिः| |१०|

🔊 Audio coming soon

सं-अस्थिभाङ्गेनाभिघातेन वाऽस्थ्न्युन्नतमवनतं वा यत् स्यात्, सोऽस्थिग्रन्थिः |

Adhikarana 8 sirAjasya grantherlakShaNam (10-11) · Śloka 11

पदातेस्तु सहसाऽम्भोवगाहनात्| व्यायामाद्वा प्रतान्तस्य सिराजालं सशोणितम्||१०|| वायुः सम्पीड्य सङ्कोच्य वक्रीकृत्य विशोष्य च| निःष्फुरं नीरुजं ग्रन्थिं कुरुते स सिराह्वयः||११||

🔊 Audio coming soon

सं-पदातेः सहसैव जलावगाहाद् व्यायामाद्वा प्रतान्तस्यग्लानस्य, पवनः क्रुद्धः सरक्तं सिराजालं सम्पीड्य तथा सङ्कोच्य वक्रीकृत्य विशोष्य च निःष्फुरं नीरुजं ग्रन्थिं कुरुते स सिरासंज्ञः| निःष्फुरमिति "स्फुरतिस्फुलत्योः" इत्यादिना षत्वम्|

Adhikarana 9 vraNajasya grantherlakShaNam (12-13) · Śloka 13

अरुढे रूढमात्रे वा व्रणे सर्वरसाशिनः| सार्द्रे वा बन्धरहिते गात्रेऽश्माभिहतेऽथवा||१२|| वातोऽस्रमस्रुतं दुष्टं संशोष्य ग्रथितं व्रणम्| कुर्यात्सदाहः कण्डूमान् व्रणग्रन्थिरयं स्मृतः||१३||

🔊 Audio coming soon

सं-अरुढे व्रणे तथा रूढमात्रे-सद्योरूढे व्रणे, सर्वरसाशिनो नरस्याथवा सार्द्रे व्रणे बन्धरहिते शरीरेऽश्माभिहते वा वातो रक्तमस्रुतं दुष्टं संशोष्य ग्रथितं व्रणं कुर्यात्| दाहादियुत एष व्रणग्रन्थिः स्मृतो मुनिभिः|

Adhikarana eteShAM sAdhyAsAdhyatvam (14) · Śloka 14

साध्या दोषास्रमेदोजाः, न तु स्थूलखराश्चलाः| मर्मकण्ठोदरस्थाश्च|१४|

🔊 Audio coming soon

सं-दोषास्रमेदोजा ग्रन्थयः साध्याः| न पुनः स्थूलाः खराश्चलास्तथा मर्मस्थाः कण्ठस्था उदरस्थाश्च ग्रन्थयः साध्याः |

Adhikarana arbudasya granthito mahatvam,arbuda ShaDUvidhatvam,arbudaM prAyo na pacyate, (14-15) · Śloka 15

| महत्तु ग्रन्थितोऽर्बुदम्||१४|| तल्लक्षणं च मेदोन्तैः षोढा दोषादिभिस्तु तत्| प्रायो मेदः कफाढ्यत्वास्थिरत्वाच्च न पच्यते||१५||

🔊 Audio coming soon

सं-ग्रन्थेर्यन्महत् तदर्बुदम्| तस्य चार्बुदस्य लक्षणं षट् प्रकारम्| कथम् ? दोषैस्त्रीणि, रक्तमांसमेदोभिस्त्रीणीति| तच्च-अर्बुदं, मेदःकफबाहुल्यात् स्थिरत्वाच्च प्रायः पचनं न याति|

Adhikarana 1/2/3/4/5/ vAtajapittajakaPajamAMsajamedojAnAmrbudAnAM lakShaNaM tattadranthilakShaNa tulyaMj~jeyam,6 shoNitArbudasya lakShaNam (16-17) · Śloka 17

सिरास्थं शोणितं दोषः सङ्कोच्यान्तः प्रपीड्य च| पाचयेत तदानद्धं सास्रावं मांसपिण्डितम्||१६|| मांसाङ्कुरैश्चितं याति वृद्धि चाशु स्रवेत्ततः| अजस्रं दुष्टरुधिरं भूरि तच्छोणितार्बुदम्||१७||

🔊 Audio coming soon

सं-सिरास्थितं रक्तं दोषो-वाताद्यन्यतमः, सङ्कोच्यान्तः अभ्यन्तरे, च प्रपीड्य पाचयेत्| तत्पक्वं च सदानद्धं सास्रावं मांसपिण्डितं मांसाङ्कुरैश्चितं वृद्धिं गच्छति| वृद्धं च सदाशु सततं दुष्टं रुधिरं प्रभूतं स्रवति| तत्-एवंविधं, शोणितार्बुदं गद्यते| मांसार्बुदमेदोर्बुदयोश्च लक्षणं तद्ग्रन्थिलक्षणेनैवोक्तप्रायत्वान्नेहोक्तम्|

Adhikarana arbudAnAM sAdhyAsAdhyatvam (18) · Śloka 18

तेष्वसृङ्मांसजे वर्ज्ये, चत्वार्यन्यानि साधयेत्| |१८|

🔊 Audio coming soon

सं-तेषु-षट्स्वर्बुदेषु मध्ये,शोणितमांसजे द्वे अर्बुदे नोपक्रमेत्| अपराणि चत्वारि साधयेत्|

Adhikarana shlIpadasya samprAtpitlakShaNaM ca (18-19) · Śloka 19

| प्रस्थिता वङ्क्षणोओर्वादिमधःकायं कफोल्बणाः||१८|| दोषा मांसास्रगाः पादौ कालेनाश्रित्य कुर्वते| शनैःशनैर्घनं शोफं श्लीपदं तत्प्रचक्षते||१९||

🔊 Audio coming soon

सं-अधःकायं वङ्क्षणोरुप्रभृति दोषा गताः कफोल्बणा मांसलोहितगाः कालेन पादौ समाश्रित्य निबिडं श्वयथुं शनैःशनैर्विदधति| तदेतद्छ्लीपदं प्रचक्षते |

Adhikarana vAtajasya shlIpadasya lakShaNam (20) · Śloka 20

परिपोटयुतं कृष्णमनिमित्तरुजं खरम्| रूक्षं च वातात्|२०|

🔊 Audio coming soon

सं-श्लीपदं वातात् परिपोटेन युक्तं कृष्णवर्णमहेतुपीडं खरं रूक्षं च स्यात्|

Adhikarana pittajasya shlIpadasya lakShaNam (20) · Śloka 20

| पित्तात्तु पीतं दाहज्वरान्वितम्||२०||

🔊 Audio coming soon

सं-पित्तात् पीतं दाहज्वरयुतं च स्यात्|

Adhikarana kaPajasya shlIpadasya lakShaNam (21) · Śloka 21

| कफाद्गुरु स्निग्धमरुक् चितं मांसाङ्कुरैर्बृहत्|२१|

🔊 Audio coming soon

सं-कफेन गुरु स्निग्धं रुजारहितं मांसाङ्कुरैश्चितं महच्च स्यात्|

Adhikarana shlIpadasya sAdhyAsAdhyatvam (21) · Śloka 21

| तत्त्यजेद्वत्सरातीतं सुमहत् सुपरिस्रुति||२१||

🔊 Audio coming soon

सं-तत्-श्लीपदं, वर्षातिक्रान्तं सुमहत् सुपरिस्रावं च त्यजेत्|

Adhikarana pANyAdiShvapi shlIpadamityeke (22) · Śloka 22

पाणिनासौष्ठकर्णेषु वदन्त्येके तु पादवत्| श्लीपदं जायते तच्च देशेऽनूपे भृशं भृशम्||२२||

🔊 Audio coming soon

सं-पाण्यादिष्वपि पादवच्छ्लीपदं जायत इत्येके वदन्ति| तच्चानूपदेशेऽतिशयेन रोगस्वभावाज्जायते|

Adhikarana gaNDamAlAyAH samprAtpirlakShaNaM ca (23-25) · Śloka 25

मेदस्थाः कण्ठमन्याक्षकक्षावङ्क्षणगा मलाः| सवर्णान् कठिनान् स्निग्धान् वार्ताकामलकाकृतीन्||२३|| अवगाढान् बहून् गण्डांश्चिरपाकांश्च कुर्वते| पच्यन्तेऽल्परुजस्तेऽन्ये स्रवन्त्यन्येऽतिकण्डुराः||२४|| नश्यन्त्यन्ये भवन्त्यन्ये दीर्घकालानुबन्धिनः| गण्डमालाऽपची चेयं दूर्वेव क्षयवृद्धिभाक्|२५|

🔊 Audio coming soon

सं-मेदस्थाः कण्ठादिगा दोषाः सवर्णान् कठिनान् स्निग्धान् वार्ताकामलकाकारानवगाढान् बहून् गण्डांश्चिरपाकांश्च कुर्वते| ते च-गण्डाः स्तोकपीडाः पच्यन्ते| अन्ये च स्रवन्ति| अपरे चातिकण्डुराः, कण्डुं रान्ति ददत इति कण्डुराः| नश्यन्त्यन्ये| अन्ये जायन्ते दीर्घकालानुबन्धिनः| इयं-ईदृशी, गण्डमाला अपची चोच्यते| दूर्वेव क्षयवृद्धिभाक्|

Adhikarana gaNDA asAdhyalakShaNam (25) · Śloka 25

तां त्यजेत्सज्वरच्छर्दिपार्श्वरुक्कासपीनसाम्| ||२५||

🔊 Audio coming soon

सं-तां-गण्डमालां, ज्वरादियुतां त्यजेत्| अथ नाडीविज्ञानमाह--

Adhikarana nADyAH samprAtpirlakShaNaM ca (26-28) · Śloka 28

| अभेदात्पक्वशोफस्य व्रणे चापथ्यसेविनः||२६|| अनुप्रविश्य मांसादीन् दूरं पूयोऽभिधावति| गतिः सा दूरगमनान्नाडी नाडीव संस्रुतेः||२७|| नाड्येकाऽनृजुरन्येषां सैवानेकगतिर्गतिः| |२८|

🔊 Audio coming soon

शाम्-पक्वशोफस्याभेदनादपथ्यसेविनश्च पुंसो व्रणे पूयो मांसादीननुप्रविश्य दूरं व्रजति| सा दूरगमनात् गतिरित्युच्यते| नाडीव संस्रुतेर्नाडीत्युच्यते| अन्येषां तु तन्त्रकृतां मत एका नाड्यनृजुः-वक्रा, नाडीत्युच्यते| सैव नाड्यनेकगतिर्गतिरित्युच्यत इति |

Adhikarana nADcA pa~jcavidhatvam (28) · Śloka 28

| सा दोषैः पृथगेकस्थैः शल्यहेतुश्च पञ्चमी||२८||

🔊 Audio coming soon

सं-सा-नाडी, पृथग्दोषैस्त्रिसङ्ख्या, सन्निपातेन चतुर्थी, पञ्चमी शल्यहेतुः |

Adhikarana 1 vAtajAyA nADyAH lakShaNam (29) · Śloka 29

वातात् सरुक्सूक्ष्ममूखी विवर्णा फेनिलोद्वमा| स्रवत्यभ्यधिकं रात्रौ|२९|

🔊 Audio coming soon

सं-वातात् सरुजादिगुणा|

Adhikarana 2 pittajAyAH nADyAH lakShaNam (29-30) · Śloka 30

| पित्तात्तृड्ज्वरदाहकृत्||२९|| पीतोष्णपूतिपूयस्रुद्दिवा चाति निषिञ्चति| |३०|

🔊 Audio coming soon

सं-पित्तात्तृडादिकृत्| पीतोष्णपूतिपूयस्रावी| दिवसे चातिशयेन स्रवति |

Adhikarana 3 kaphajAyAH nADyAH lakShaNamy (30-31) · Śloka 31

| घनपिच्छिलसंस्रावा कण्डूला कठिना कफात्|३०| निशि चाभ्यधिकक्लेदा| |३१|

🔊 Audio coming soon

सं-कफात् ग़नपिच्छिलस्रावा कण्डूमती कठिना निशिचाभ्यधिक्लेदा स्यात्|

Adhikarana 3 kaphajAyAH nADyAH lakShaNamy (30-31) · Śloka 31

| घनपिच्छिलसंस्रावा कण्डूला कठिना कफात्||३०|| निशि चाभ्यधिकक्लेदा| |३१|

🔊 Audio coming soon

सं-कफात् ग़नपिच्छिलस्रावा कण्डूमती कठिना निशिचाभ्यधिक्लेदा स्यात्|

Adhikarana 5 shalyajAyAH nADyAH lakShaNam (29) · Śloka 29

अन्तःस्थितं शल्यमनाहृतं तु करोति नाडीं वहते च साऽस्य| फेनानुविद्धं तनुमल्पमुष्णं सास्रं च पूयं सरुजं च नित्यम्||३१|| इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचि- तायामष्टाङ्गहृदयसंहितायां षष्ठे उत्तरस्थाने ग्रन्थ्यर्बुदश्लीपदापचीनाडीविज्ञानीयं नामैकोनत्रिंशोऽध्यायः||२९||

🔊 Audio coming soon

सं-अन्तरे स्थितं शल्यमनाकृष्टं सन्नाडीं करोति| अस्य च-शल्यवतः पुंसः, सा-नाडी, फेनिलं तन्वादिगुणं च पूयं नित्यमेव सरुजं वहत इति| उपजातिवृत्तम्| इति श्रीम्ऱृगाङ्कदत्तपुत्रश्रीमदरुणदत्तविरचितायामष्टाङ्गहृदय- टीकायां सर्वाङ्गसुन्दराख्यायां षष्ठ उत्तरस्थाने ग्रन्थ्य र्बुदश्लीपदापचीनाडीविज्ञानीयं नाम एकोनत्रिं- शोऽध्यायः समाप्तः|| २९||