Adhikarana vartmarogavij~jAnIyAdhyAyaH||8|| (2-3) · Śloka 3
प्राधान्यात् पूर्वमुपन्यास इत्याह अथातो वर्त्मरोगविज्ञानीयमध्यायं व्याख्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः|
(गद्यसूत्रे|२|
)|३|
अपस्मारादनन्तरं शालाक्यमुपक्रम्यते| यथैव हृदयाख्यमहामर्माश्रितैरपस्मारो जन्यते तथैव मुर्धाख्यमहामर्माश्रितैरूर्ध्वजत्रूत्था रोगा जन्यन्ते| तेषामपि च मध्ये चक्षूरोगाणां स०-वर्त्मनि रोगा वर्त्मरोगाः,-कृच्छ्रोन्मीलादयः, तेषां विज्ञानं-बोधः, स विद्यते यस्मिन्निति छः, तस्य पूर्ववल्लुक्|
Adhikarana nayanarogANAM samprAptiH (1-3) · Śloka 3
सर्वरोगनिदानोक्तैरहितैः कुपिता मलाः|
अचक्षुष्यैर्विशेषेण प्रायः पित्तानुसारिणः||१||
शिराभिरूर्ध्वं प्रसृता नेत्रावयवमाश्रिताः|
वर्त्म सन्धिं सितं कृष्णं दृष्टिं वा सर्वमक्षि वा||२||
रोगान् कुर्युः|
|३|
स०-सर्वरोगनिदाने उक्तानि-अभिहितानि यथायोगं तिक्तोषणादीनि, तैराहारविहारैः प्रकुपित मला रोगान् कुर्युः| विशेषादचक्षुष्यैराहारविहारैः कुपिता मलाः प्रायो-बाहुल्येन, पित्तानुसारिणस्तथा शिरादिभिः करणभूताभिरूर्ध्वं जत्रुणः प्रसृतास्तथा नेत्रस्य सम्बन्धिनमवयवं-वक्ष्यमाणं वर्त्मादिकं, आश्रिताः| वर्त्मेत्यादि| वाशब्दः प्रत्येकं युज्यते, वर्त्म वा सन्धिं वा सितं वाऽसितं वा दृष्टिं वा सकलं लोचनमाश्रिताः| इति सामान्येन नयनरोगाणां सम्प्राप्तिः|
Adhikarana 1 kRucchronmIlasya lakShaNam (3-4) · Śloka 4
चलस्तत्र प्राप्य वर्त्माश्रयाः सिराः|
सुप्तोत्थितस्य कुरुते वर्त्मस्तम्भं सवेदनम्||३||
पांशुपूर्णाभनेत्रत्वं कृच्छ्रोन्मीलनमश्रु च|
विमर्दनात् स्याच्च शमः कृच्छ्रोन्मीलं वदन्ति तत्||४||
स०-तत्र-तेषु वर्त्माद्याश्रितेषु मध्ये, वर्त्माश्रयाः सिरा वायुः प्राप्य सुप्तोत्थितस्य नरस्य वर्त्मस्तम्भं कुरुते, रुजया सह| तथा पंशुपूर्णाभनयनत्वं कृच्छ्रेणोन्मीलनमश्रु च कुरुते| विमर्दनात्-मलनाच्च, शमः स्यात्| तं-ईदृक्स्वरूपं, कृच्छ्रोन्मीलाख्यं नेत्रेरोगं वदन्ति|
Adhikarana 2 nimeShasya lakShaNam (5) · Śloka 5
चालयन् वर्त्मनी वायुर्निमेषोन्मेषणं मुहुः|
करोत्यरुङ् निमेषोऽसौ|५|
स०-वायुर्वत्मनी चालयन् निमेषोन्मेषणं पीडारहितं पुनः पुनः करोति| असौ निमेषाख्यो रोगो ज्ञेयः|
Adhikarana 3 vAtahatasya lakShaNam (5-6) · Śloka 6
|
वर्त्म यत्तु निमील्यते||५||
विमुक्तसन्धि निश्चेष्टं हीनं वातहतं हि तत्|
|६|
स०-यत्पुनर्वर्त्म विमुक्तसन्धि तथा निश्चेष्टं हीनम् च निमील्यते तं वातहताख्यं रोगं वदन्ति, 'मुनयः' इति शेषः|
Adhikarana 4 kumbhipiTikAyAH lakShaNam (6-7) · Śloka 7
|
कृष्णाः पित्तेन बह्व्योऽन्तर्वर्त्म कुम्भीकबीजवत्||६||
आध्मायन्ते पुनर्भिन्नाः पिटिकाः कुम्भिसंज्ञिताः|
|७|
स०-पित्तेन कृष्णवर्णाः पिटिका बह्व्यो वर्त्मनोर्मध्ये कुम्भीकबीजतुल्यास्तथा भिन्नाः सत्यः पुनरध्मायन्ते, ताः कुम्भीसंज्ञाः|
Adhikarana 5 pittotkliShTasya lakShaNam (7-8) · Śloka 8
|
सदाहक्लेदनिस्तोदं रक्ताभं स्पर्शनाक्षमम्||७||
पित्तेन जायते वर्त्म पित्तोत्क्लिष्टमुशन्ति तत्|
|८|
स०-पित्तेन सदाहक्लेदनिस्तोदं तथा रक्ताकारं स्पर्शनाक्षमं वर्त्म जायते, तत् पित्तोत्क्लिष्टमुशन्ति-कथयन्ति|
Adhikarana 6 pakShmashAtasya lakShaNam (8-9) · Śloka 9
|
करोति कण्डूं दाहं च पित्तं पक्ष्मान्तमास्थितम्||८||
पक्ष्मणां शातनं चानु पक्ष्मशातं वदन्ति तम्|
|९|
स०-पित्तं पक्ष्मान्तमास्थितं कण्डूम् दाहं च करोति| अनुपश्चात्, पक्ष्माणां शातं करोति| तं पक्ष्मशातं वर्णयन्ति|
Adhikarana 7 pothakyAH lakShaNam (9-10) · Śloka 10
|
पोथक्यः पिटिकाः श्वेताः सर्षपभा घनाः कफात्||९||
शोफोपदेहरुक्कण्डूपिच्छिलाश्रुसमन्विताः|
|१०|
स०-कफात् पिटिकाः सिताः सर्षपोपमा घनाः-निबिडाः, शोफादियुताः पोथकीसंज्ञाः|
Adhikarana 8 kaphotkliShTasya lakShaNam (10) · Śloka 10
|
कफोत्क्लिष्टं भवेद्वर्त्म स्तम्भक्लेदोपदेहवत्||१०||
स०-स्तम्भादियुतं वर्त्म यद् भवेत् तत्कफोत्क्लिष्टं नाम|
Adhikarana 9 lagaNasya lakShaNam (11) · Śloka 11
ग्रन्थिः पाण्डुररुक्पाकः कण्डूमान् कठिनः कफात्|
कोलमात्रः स लगणः किञ्चिदल्पस्ततोऽथ वा||११||
स०-कफात् यो ग्रन्थिः कोलमात्रः, अथवा ततः-तस्मात् कोलात्किञ्चिदल्पः, पाण्डुः पीडापाकरहितः कण्डूमान् कठिनश्च स्यात्, स लगणाख्यः|
Adhikarana 10 utsa~ggAyAH lakShaNam (12) · Śloka 12
रक्ता रक्तेन पिटिका तत्तुल्यपिटिकाचिता|
उत्सङ्गाख्या|१२|
स०-रक्तेन रक्तेवर्णा पिटिका तत्तुल्यपिटिकैराचिता उत्सङ्गाख्या|
Adhikarana 11 utkliShTasya lakShaNam (12) · Śloka 12
|
तथोत्क्लिष्टं राजिमत्स्पर्शनाक्षमम्||१२||
स०-तथा-उत्सङ्गवत्, उत्क्लिष्टाख्यं वर्त्म| तच्च न पिटिकारुपम्, किं तर्हि ? राजियुतं स्पर्शनाक्षमं च स्यात्|
Adhikarana 12 arshasaH lakShaNam (13) · Śloka 13
अर्शोऽधिमांसं वर्त्मान्तः स्तब्धं स्निग्धं सदाहरुक्|
रक्तं रक्तेन तत्स्रावि छिन्नं छिन्नं च वर्धते||१३||
स०-अधिकमांसं च वर्त्माभ्यन्तरस्थितमर्शो नाम रक्तेन स्यात्| रक्तं वर्णतः, तथा स्तब्धतादिगुणं स्यात्| तथा तत्स्रावितद्रक्तं स्रवत्यभीक्ष्णम्| तत् पुनःपुनस्छिन्नमपि वर्धते|
Adhikarana 13 a~jjanAyAH lakShaNam (14) · Śloka 14
मध्ये वा वर्त्मनोऽन्ते वा कण्डूषारुग्वती स्थिरा|
मुद्गमात्राऽसृजा ताम्रा पिटिकाऽञ्जननामिका||१४||
स०-असृजा ताम्रा पिटिका मुद्गप्रमाणा वर्त्मनो मध्येऽन्ते वा कण्ड्वादिमती स्थिरा चाञ्जननामिका स्यात्|
Adhikarana 14 visavartmanaH lakShaNam (15) · Śloka 15
दोषैर्वर्त्म बहिः शूनं यदन्तः सूक्ष्मखाचितम्|
सस्रावमन्तरुदकं बिसाभं बिसवर्त्म तत्||१५||
स०-दोषैः-वातादिभिः, बहिः शूनं यद्वर्त्म सूक्ष्मैः खैःछिद्रैः, अन्तराचितं सस्रावं च तद् बिसवर्त्म, उदकान्तःस्थितसच्छिद्रबिसतुल्यत्वात्|
Adhikarana 15 utkliShTavartmanaH lakShaNam (16) · Śloka 16
यद्वर्त्मोत्क्लिष्टमुत्क्लिष्टमकस्मान्म्लानतामियात्|
रक्तदोषत्रयोत्क्लेशाद्भवत्युत्क्लिष्टवर्त्म तत्||१६||
स०-यद्वर्त्म रक्तोत्क्लेशाद्दोषत्रयोत्क्लेशाच्च उत्क्लिष्टं-उत्क्लेशितं सत्, अकस्मात्-हेतुं विनैव, म्लानिमियात्-शुष्कत्वं यायात्, तदुत्क्लिष्टवर्त्म स्यात्|
Adhikarana 16 shyAvavartmanaH lakShaNam (17) · Śloka 17
श्याववर्त्म मलैः सास्रैः श्यावं रुक्क्लेदशोफवत्|
|१७|
स०-रक्तसहितैस्त्रिमलैर्यद्वर्त्म श्यावं रुजा क्लेदेन शोफेन च युक्तं भवति, तच्छ्याववर्त्म|
Adhikarana 17 kliShTavartmanaH lakShaNam (17) · Śloka 17
|
श्लिष्टाख्यं वर्त्मनी श्लिष्टे कण्डूश्वयथुरागिणी||१७||
स०-श्लिष्टे-एकत्र संलग्ने, वर्त्मनी कण्ड्वादियुते श्लिष्टवर्त्म नाम|
Adhikarana 18 sikatAvartmanaH lakShaNam (18) · Śloka 18
वर्त्मनोऽन्तः खरा रूक्षाः पिटिकाः सिकतोपमाः|
सिकतावर्त्म|१८|
स०-वर्त्मनो मध्ये वालिकातुल्याः पिटिकाः खरस्पर्शास्तथा रूक्षाः, तत् सिकतांवर्त्म|
Adhikarana 19 kardamavartmanaH lakShaNam (18) · Śloka 18
|
कृष्णं तु कर्दमं कर्दमोपमम्||१८||
स०-कर्दमसदृशं कृष्णं वर्त्म कर्दमाख्यम्|
Adhikarana 20 bahalavartmanaH lakShaNam (19) · Śloka 19
बहलं बहलैर्मांसैः सवर्णैश्चीयते समैः|
|१९|
स०-बहलैः-घनैः, मांसैः सवर्णैः समैः-न विषमैः, चीयते तद्बहलं नाम|
Adhikarana 21 kukUNasya lakShaNam (19-20) · Śloka 20
|
कुकुणकः शिशोरेव दन्तोत्पत्तिनिमित्तजः||१९||
स्यात्तेन शिशुरुच्छ्रनताम्राक्षो वीक्षणाक्षमः|
सवर्त्मशूलपैच्छिल्यः कर्णनासाक्षिमर्दनः||२०||
स०-कुकूणकः शिशोरेव-न महतो, जयते| यतोऽसौ दन्तोत्पत्तिहेतुको भवति| तेन-कुकूणकेन, बाल उच्छूनताम्रनयनो वीक्षणाक्षमस्तथा वर्त्मशूलादिमान् कर्णादिमर्दनश्च स्यात्|
Adhikarana 22 pakShmoparodhasya lakShaNam (21-22) · Śloka 22
पक्ष्मोपरोधे सङ्कोचो वर्त्मनां जायते तथा|
खरताऽन्तर्मुखत्वं च रोम्णामन्यानि वा पुनः||२१||
कण्टकैरिव तीक्ष्णाग्रैर्घृष्टं तैरक्षि शूयते|
उष्यते चानिलादिद्विडल्पाहः शान्तिरुद्धृतैः||२२||
स०-पक्ष्मोपरोधे वर्त्मनां सङ्कोचो भवति| तथा खरत्वमन्तर्मुखत्वं च रोम्णाम्, अन्यानि व रोमाणि जायन्ते| तैश्चखरान्तर्मुखैः, अपूर्वैर्वा रोगस्वभावात्तीक्ष्णाग्रैः कण्टकैरिव घृष्टमक्षिशूयते| उष्यते च-सान्तर्दाहस्तीव्रोष्मा स्यादित्यर्थः| तथा पवनादिद्विट्, आदिशब्देनानलातपौ गृह्येते| स्तोकान्यहान्युद्धृतैः-उत्पाटितैस्तैस्तैः, शान्तिर्भवति|
Adhikarana 23 alajyAH lakShaNam (23) · Śloka 23
कनीनके बहिर्वर्त्म कठिनो ग्रन्थिरुन्नतः|
ताम्रः पक्वोऽस्रपूयस्रुदलज्याध्मायते मुहुः||२३||
स०-कनीनके वर्त्मनोर्बाह्यतः कठिन उन्नतो ग्रन्थिरलजीत्युच्यते| किम्भूतो ग्रन्थिः ? ताम्रः पक्वश्चास्रस्रावी पूयस्रावी च| तथा मुहुर्मुहुः स्रुतः सन्नाध्मायते|
Adhikarana 24 arbudasya lakShaNam (24) · Śloka 24
वर्त्मान्तर्मांसपिण्डाभः श्वयथुर्ग्रथितोऽरुजः|
स्रास्रैः स्यादर्बुदो दोषैर्विषमो बाह्यतश्चलः||२४||
स०-वर्त्मनोऽन्तरे मांसपिण्डाकृतिः श्वयथुः सरक्तैस्त्रिभिर्दोषैरर्बुदः स्यात्| किम्भूतः श्वयथुः ? ग्रथितो नीरुजः| स च बाह्यतश्चलो विषमश्च स्यात्|
Adhikarana evaM vartmasaMshrayAshcaturviMshatiH (25) · Śloka 25
चतुर्विंशतिरित्येते व्याधयो वर्त्मसंश्रयाः|
|२५|
स०-इति-अनेन प्रकारेण, चतुर्विंशतिसङ्ह्ख्या वर्त्माश्रया रोगाः स्युः|
Adhikarana teShAM sAdhyAsAdhyatvam (25-26) · Śloka 26
|
आद्योऽत्र भेषजैः साध्यो द्वौ ततोऽर्शश्च वर्जयेत्||२५||
पक्ष्मोपरोधो याप्यः स्याच्छेषाञ्छस्त्रेण साधयेत्|
|२६|
स०-[ अत्र-] एषु मध्यात्, आद्यः-कृच्छ्रोन्मीलनाख्यो, भेषजैः साध्यः| ततः-अनन्तरं, द्बौ-निमेषवातहतौ अर्शश्च वर्जयेत्| पक्ष्मोपरोधो यापनीयः| शेषान्-एकोनविंशतिं, शस्त्रेणोपचरेत्|
Adhikarana shastrasAdhyeShu kuTTanacchedanAdi (8) · Śloka 8
|
कुट्टयेत्पक्ष्मसदनं छिन्द्यात्तेष्वपि चार्बुदम्||२६||
भिन्द्याल्लगणकुम्भीकाबिसोत्सङ्गाञ्जनालजीः|
पोथकीश्यावसिकताश्लिष्टोत्क्लिष्टचतुष्टयम्||२७||
सकर्दमं सबहलं विलिखेत्सकुकूणकम्|
२७ १/२|
इति श्रीवैद्यपतिसिंहगुपसूनुश्रीमद्वाग्भटविर- चितायामष्टाङ्गहृदयसंहितायां षष्ठे उत्तर- स्थाने वर्त्मरोगविज्ञानीयो नाम अष्टमोऽध्यायः||८||
स०-तेष्वपि-शस्त्रसाध्येषु मध्ये, पक्ष्मसदनं कुट्टयेत् सूचीकूर्चेन| अर्बुदं च छिन्द्याद्वृद्धिपत्रादिना| लगणादीनि व्रीहिमुखादिना भिन्द्यात्| पोथक्यादयः कुकूणकान्ता एकादश विलेख्याः| उत्क्लिष्टचतुष्टयं-पित्तोत्क्लिष्टं कफोत्क्लिष्टं रक्तोत्क्लिष्टमुत्क्लिष्टवर्त्मचेति| इति श्रीमृगाङ्कदत्तपुत्रश्रीमदरुणदत्तविरचितायामष्टाङ्गहृदय- टीकायां सर्वाङ्गसुन्दराख्यायां षष्ठे उत्तरस्थाने वर्त्मरोग- विज्ञानीयो नामाष्टमोऽध्यायः समाप्तः|| ८||