Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

11. atīsāracikitsitam

Adhikarana athAtIsAracikitsitannAmaikAdasho~adhyAyaH adhyAyapratij~jA (1) · Śloka 1

अथातोऽतीसारचिकित्सितं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः||१||

🔊 Audio coming soon

क्रमप्राप्तस्यातीसारस्य चिकित्सां प्रदर्शनार्थमध्याय||१||

Adhikarana Adau la~gghanam (2) · Śloka 2

प्रायेणातीसारो ह्यग्निमुपहत्य प्रागामाधिष्ठानो भवति| तस्मादनिलजमप्यामपाचनार्थमादौ लङ्घनेनोपक्रमेत| तत्र शूलानाहप्रसेकार्तं लवणाम्बुनोष्णेन वामयेत्| न तु सामे पूर्वं सङ्ग्राहि प्रयुञ्जीत विबद्धे वा मले| स्तिमिता- ध्मातगुरुसरुजकोष्ठः प्राणदामुष्णाम्बुनोपयुञ्जीत विबद्धे वा मले| सव्योषां वा धान्याम्लक्वथितं वा| अन्यद्वा स्रंसनदीपनमौषधम्||२||

🔊 Audio coming soon

प्रायेणेत्यादि सुबोधम्| प्रायोग्रहणं भयशोकपरिहारार्थम्| लङ्घन-शब्देन सर्वं लङ्घनं संगृहीतम्| भूयसादौ वमनम्| संग्रहणप्रतिषेधः| विबन्धप्रवृत्त्यादावुष्णाम्बुना प्राणदा हरीतकी| अथवा प्राणदा धान्याम्लेनोत्क्वथिता त्रिकटुकेन सह| अन्यद् यत्किञ्चिद्दीपनं स्रंसनम्| स्रण्सनोत्तरं संग्राहद्रव्यप्रयोगः|| २||

Adhikarana Adau la~gghanam (3) · Śloka 3

अपि च- विशुद्धस्रोतसो ह्यस्य दोषशेषे प्रवाहिते| सुखं संग्रहणं कर्त्तुं पाचनैः स्तम्भनेन वा||३||

🔊 Audio coming soon

अपि चेति समुच्चये| अस्येत्यतिसारिणः स्रंसनैर्विशुद्धस्रोतसः संग्रहणं कर्त्तु सुखं सुखेन क्रियत इत्यर्थः| दोषस्यातीसारप्रबृत्तस्य शेषस्तस्मिन् प्रवाहिते स्राविते बहिरेकेन संग्रहणं सुखमित्याह-पाचनैः स्तम्भनेन वा|| ३||

Adhikarana madhyadoShe kvAthAdikam (4) · Śloka 4

मध्यदोषस्तु विशोषयन् मागधीनागरवचाभूतीकधनिका हरीतकीनां क्वाथं पिबेत्| जलजलदबिल्वपेशिकशुण्ठी धान्यकानां वा| उभयमपि चैतत् प्रमथ्यारभ्यम्| वचा दिवर्गं क्वथितं चूर्णितं वा| तद्वद्वचाभयाविडङ्गपाठा शुण्ठीबिड्लवणानि वा| मुस्तपिप्पलीन्द्रयवपाठातेजो वतीर्वा| विडङ्गाभयाकणालवणपञ्चकानि वा| पिप्पली न्द्रयवपाठाशुण्ठीर्वा सरक्ते तु प्रवृत्त आमे जगपिप्पलीं मधुशर्करामधुराम्||४||

🔊 Audio coming soon

मध्यदोष इत्यादि सुबोधम्| विशोषयन्नित्युपवासं कुर्वन्| जलादीनां वा क्वाथं पिबेत्| जलं वालकम्| मुस्तं जलदम्| बिल्वपेशिका बिल्वमज्जा| यत्र च प्रमथ्या प्रयोज्येत्युच्यते तत्र मागधिकाजलदादियोगयोरन्यतरो विज्ञेयः| वचादिवर्गं सूत्रओक्तं चूर्णितानि वा| तद्वदेव मुस्तादीनि च लवणानाञ्च सर्वत्र चूर्णितानामेव प्रयोगः| सरक्त आमे प्रवृत्ते मधुशर्करामधुरां हस्तिपिप्पलीमित्येवमन्तं मध्यदोषस्य|| ४||

Adhikarana alpadoShe upavAsAdikam (5) · Śloka 5

अल्पदोषे पुनरुपवासयेत्| पानं त्वतिसारिणोऽम्बुवचा तिविषाभ्यां क्वथितम्| शुण्ठ्यतिविषाभ्यां मुस्तपर्पट काभ्यां नागरधान्यकाभ्यां वा| क्षुद्वतस्तु लघुपञ्चमूल पञ्चकोलहस्तिपिप्पलीबलाबिल्वपाठाहिङ्गुधान्यकजीर कशठीगन्धपलाशहपुषायवानीतिन्तिणीकदाडिमबिड सैन्धवैरन्नपानं यवाग्वादि कल्पयेत्||५||

🔊 Audio coming soon

अप्लपोषस्योपवासो यावल्लङ्घितलिङ्गम्| सर्वस्यातिसारिणस्तृषायां वचादिद्वयैः क्वथितानि जलानि यथायोग्यं पानं स्वच्छमल्पौषधं जलपानमिच्छन्ति| क्षुद्वतोऽतिसारिणो लघुपञ्चमूलादिभिर्दोषाद्यपेक्षया संयुक्तैः पृथग्भूतैर्वा नानाविधया कल्पनया क्वाथादिकया यवागूयूषौदनादिकमन्नं कल्पयेत्|| ५||

Adhikarana mUDhavAtAdiShu visheShaH (6) · Śloka 6

बिल्वशलाटुहरीकीपिप्पलीमूलैर्मूढवातस्य| अंशुमती द्वयबलाबिल्वशलाटुभिः पित्तोल्बणस्य| पिबेच्च तृषितः पटपूतं तक्रम्| मधुसुराधान्याम्लयवागूमण्डान्यतमं वा| एष क्रमोऽनिलकफघ्नो दीपनपाचनों रोचनः सङ्ग्राही बल्यश्च||६||

🔊 Audio coming soon

मूढवातस्य कोष्ठाचलद्वायोर्बिल्वशलाट्वादिभिर्यवाग्वादिकं कल्पयेत्| पित्तोल्बणस्यांशुमतीद्वयादिभिः| अंशुमतीद्वयं सालपर्णीपृश्निपर्ण्यौ| भुक्ते तृषितो पटेन वस्त्रेण पुतं तक्रादिकं पिबेत्| मधु मार्द्वीकम्| एष चानन्तरोक्तो लङ्घनादिक्रमोऽनिलकफघ्नत्वादियुक्तो भवति|| ६||

Adhikarana pravAhikA tatra kramashca (7) · Śloka 7

पक्वदोषेऽपि योऽतिसार्यते बहुशोऽनिलेन विबद्धं सपिच्छं सफेनं सशूलपरिकर्तिकं सरोमहर्षं निष्पुरीषं च तां प्रवा हिकां बिंबिसीमिति चाचक्षते| तत्रोदावर्तोपदिष्टांस्तेनैव विधिना संस्कृतांश्छागपिशितरसान् दद्यात्||७||

🔊 Audio coming soon

पक्वदोषस्य सतो वायुना बहुशो विबद्धत्वादियुक्तो योऽतिसारस्तं प्रवाहिकां बिंबिसीमिति चाचार्यां आचक्षते| तत्र प्रवाहिकायामुदावर्तोक्तविधानेन संस्कृतांश्छागमांसरसान् दद्यात्|| ७||

Adhikarana varcaHkShaye visheShaH (8) · Śloka 8

यूषांश्च वर्चःक्षये तृष्यतो यवमुद्गमाषतिलकृतान्| समेन वा तिलबालबिल्वयोः कल्केन दधिरसस्नेहयुक्तं खलकम्| चित्रकशृङ्गीवेरपूतीककरञ्जबिल्वाजमौदैर्वा तक्रदाडिम तैलाढ्यं सैन्धवोपेतमजिताख्यम्| शठीतिन्तिणीकबिड दाडिमक्षारपञ्चकोलमरिचत्रिफलाधातकीधनिकापाठाजमो दाजाजीजीरककपित्थजम्ब्वाम्रास्थिभिर्वा तुल्यभागैः षड्गुणबिल्वमध्यैर्गुडमुद्गरसस्नेहदधिसिद्धोऽपराजिताख्यः खलको दीपनः पाचनो रुच्यो ग्राही बिंबिसिनाशनः| दधिसरं वा सगुडदाडिमं यमकभृष्टम्| यमक भृष्टान् वा सशुण्ठीचूर्णान् सक्तून्| माषान् वा सुसिद्धान् घृत मण्डोपसेचनान् मरिचोपदंशान्| छागमेषयोर्वान्तराधि रसं दाडिमाम्लं धान्यनागरोपेतं स्नेहविपक्वं व्यञ्जनं पानं च| तद्वत् सुरां यमकस्निग्धां पिबेद्वा| शुण्ठीबदर चूर्णं दधिघृततैलक्षौद्रफाणितोपेतम्| हिङ्गुदाडिममहौषधपकुल्याचूर्णं वा घृतक्षीरोष्णाम्बु मद्यान्यतमेन| लिह्याद्वा लोध्रबिल्वशलाटुगुडांस्त्रिकटु कोत्कटांस्तैलेन| अश्वत्थवातपोतक्वाथसिद्धं वा शा ल्योदनं घृततैलक्षौद्रयुक्तं दध्ना खजाहतदधिसरानुपा मश्नीयात्||८||

🔊 Audio coming soon

वर्चसः पुरीषस्य क्षये तृष्यतो यवादिकृतान् यूषान् दद्यात्| तिलकल्कां बालबिल्वकल्कश्च समौ ताभ्यां दधिसरादियुक्तं खलकम्| चित्रकादिभिर्वा खलकं तक्रादियुक्तमजिताख्यम्| शठ्यादिभिर्यथोक्तैः खलकोऽपराजिताख्यो भवति| गुडादीन्यत्र संस्कारयोग्यानि| अयं खलको दीपनत्वादियुक्तः बिंबिसीप्रवाहिकेत्यत्रैवोक्तम्| दधिसरमित्यादि सुबोधम्| छागस्य मेषस्य वा| मध्यमांसरसं दाडिमाम्लं धानकाफलशुण्ठीयुक्तं स्नेहे च विपक्वं व्यञ्जनं पानं च| यमकसिद्धां सुरां तद्वद्व्यञ्जनं पानं च| दध्यादियुक्तं शुण्ठीबदरयोर्वा चूर्णं पिबेत्| फाणितं क्षुद्रगुडः| हिङ्ग्वादिचूर्णं घृतादीनामन्यतमेन| लोध्रादीन् वा त्रिकटुकेनोत्कटांस्तैलेन पिह्यात्| सुबोधम्| वातपोतः पलाशः तस्य क्वाथेन सिद्धं शाल्योदनं दध्ना सहाश्नीयात् स्तोकैर्घृतादिभिर्युक्तम्| तच्च भुक्त्वा खजमथितं दधिसरं पिबेदित्येतत् प्रवाहिकायं वर्चःक्षये विधिः|| ८||

Adhikarana dIpanAdika~jca (9) · Śloka 9

अपि च - दीपनं पाचनं रुच्यं दधि वातहरं परम्| बद्धविड्वा हरत्यस्माच्चिरोत्थामपि बिंबिसीम्||९||

🔊 Audio coming soon

अपि चेति समुच्चये| दीपनत्वादियुक्तं यदस्माद्धेतोश्चिरकालप्ररूढामपि बिंबिसीं हन्ति| रोचनं रुचिकृद्रुच्यं स्वयं रोचते|| ९||

Adhikarana tRuShNolbaNe visheShaH (10) · Śloka 10

तृष्णोल्बणस्तु सरक्तपिच्छोपवेशीपानान्नविरतो धारो ष्णं क्षीरमाकांक्षं पिबेत्| शृतं वा गन्धर्वहस्तमलेना थवा बिल्वशलाटुभिः| तदेव वाल्पतृष्णः सगुडतैलम्| शृतेन वा पयसा मरिचकल्कं द्विगुणतिलकल्कयुक्तम्| क्षीरेणैव वा पिप्पलीम्| व्योषसिद्धेन वा पयसान्नानि भुञ्जीत||१०||

🔊 Audio coming soon

तृष्णोल्बण इत्यादि सुबोधम्| पानान्नप्रतिषेधेन धारोष्णस्य पयसो विधानमन्नपानाशक्तस्य| गन्धर्वहस्त एरण्डः| अल्पतृष्णस्तदेव क्षरीमेव गुडतैलाभ्यां सह| केवलेन क्षीरेण पिप्पलीम्| व्योषसिद्धेन वा पयसान्नानि भुञ्जीत|| १०||

Adhikarana shUlAdhikye visheShaH (11) · Śloka 11

शूलाधिक्ये तु दशमूलक्वथितेन पयसा सक्षौद्रेणा स्थापनं दद्यात्| अथवा पिच्छाबस्तिमनुवासनं च वातघ्नं वा पित्तघ्नं वा||११||

🔊 Audio coming soon

शूलाधिक्ये त्वास्थापनं दशमूलसिद्धेन सक्षौद्रेण पयसा दद्यात्| पिच्छाबस्तिः शाल्मलीपत्रकृतोक्तैव| वातघ्नं वा पित्तघ्नं वेति शूलाधिक्ये इत्यनेन सम्बध्यते|| ११||

Adhikarana gudabhraMshe visheShaH (12) · Śloka 12

गुदभ्रंशे शूले चाम्लबदरचाङ्गेरीरसदधिक्षारनागरकल्केन शृतमम्लं सर्पिर्निराममातुरं पाययेत् मरिचपञ्चकोला जाजीधनिकाबिडदाडिमगर्भं वा पूर्ववदम्लम्| अनु वासयेद्वा दशमूलसिद्धेन स्नेहेन| पिप्पल्यादिना वा| गुदंचाभ्यङ्ग्य पूर्वं स्वेदेन मृदुभूतं प्रवेशयेत्| सच्छिद्रेण चास्य चर्मणा गोष्फणाबन्धं कुर्यात्| मूषिकमनान्वं कृत्वा महापञ्चमूलकषायञ्च क्षीरे विपचेत्| तेन पयसा वातहर कल्कप्रतीवापं तैलम्पाचयेत्| तदभ्यञ्जनेन पानेन च सुकृ च्छ्रमपि गुदभ्रंशं साधयति||१२||

🔊 Audio coming soon

अम्लबदरचाङ्गेरीरसयोर्दध्नश्च मिश्रीभूतानां सर्पिस्समत्वं यवक्षारशुण्ठीकल्कः स्नेहाच्चतुर्थांशेन| एतत् घृतमम्लं गुदभ्रंशे शूले च पाययेत्| पूर्ववदेवाम्लवत्क्षारनागररहितं मरिचादिगर्भञ्च कृत्वा पाययेत्| दशमूलसिद्धस्नेहेनानुवासनम्| पिप्पल्यादिना वार्शश्चिकित्सितोनोक्तेन| गुदमतिसरतो निस्सृतं रक्तं यथोक्तेन प्रकारेण प्रवेशयेत्| सूत्रस्थानोक्ते गोष्फनाबन्धे चर्ममये मध्ये छिद्रं कृत्वा तेन गुदं बध्नीयात्| सच्छिद्रेण हि चर्मणा| गुदोऽतिशयेन न पीड्यते| महापञ्चमूलकषायस्तैलसमः| तद्वत् क्षीरम्| मूषिकस्य मानं रास्नाघृते अजमांसवत्| बोध्यमित्यरुणः| मूषिके त्वेकसङ्ख्या न विवक्षिता तत्संस्कारापादनात्| वातघ्नद्रव्यकल्कः स्नेहाच्चतुर्थांशेन|| १२||

Adhikarana pittAtisAracikitsA (13) · Śloka 13

पित्तातिसारमपि साममादौ तीक्ष्णवर्ज्यैरौषधैर्वाताति सारवत् पाचयेत्| तृष्णायं सशारिवाभूनिम्बं ज्वरविहित मम्भः षडङ्गमवचारयेत्| उपोषितस्य चान्नकालेऽभीरु ह्रस्वपञ्चमूलबलाद्वयसूप्यपर्ण्यादिमृदुमधुरतिक्तदीपन द्रव्यनिर्यूहयुक्तान् कालविन्मण्डपेयासक्तुयूषरसादीनिष दम्लाननम्लान् वा कवोष्णान् सुशीतान् वा सक्षौद्रान्||१३||

🔊 Audio coming soon

पित्तातिसारमित्यादि सुबोधम्| ज्वरविहिते घनादिके षडङ्गे सारिवाकिराततिक्ते अधिके संयोज्य पित्तातिसारे प्रयोगः| सामपित्तातिसारिणोऽन्नकाले व्याध्यादिकालविद्वैद्योऽभीर्वादिनिर्यूहयुक्तान् मण्डादीन् सक्षौद्रान् यथोक्तानवचारयेदिति सम्बन्धः| अभीरुः शतावरी|| १३||

Adhikarana anubandhe cikitsA (14) · Śloka 14

अनुबन्धे तु मूर्वातिविषेन्द्रयवहरिद्रारसाञ्जनानि क्वथि तानि पिबेत्| केवलं वा वृक्षकबीजम्| पाठागुडूची कटुकाकिराततिक्तानि वा| हरिद्रादिगणं वा| वत्सक बीजातिविषाबिल्वाम्बुमुस्तानि वा तण्डुलोदकेन वाति विषावृक्षकत्वक्फलानि सक्षौद्राणि| चन्दनोशीरशुण्ठी लोध्रनीलोत्पलानि व| नागरोत्पलधातकीपुष्पदाडिम त्वचो वा| कमलोत्पललोध्रमोचरससङ्गातिलान् वा| मधुकशृङ्गिवेरदीर्घवृन्तत्वचो वा मधुयुक्तानि शर्करापद्म केसरमुस्तापयस्याचन्दनानि वा शाल्मलीवृन्तकृतं वा शीतकषायं मधुमधुकोपेतम्| मधुकप्रियङ्गुकट्वङ्गत्वग्दाडिमाङ्कुरकल्केन वा दधियुतां यवागूं खलकं वा| बिल्वकपित्थजम्ब्वाम्रास्थिभिर्वा| मधुयुक्तान् वा लोध्राम्बष्ठाप्रियङ्ग्वादिगणान् क्वा थादिषु पृथक्कल्पितान्| श्यामादिमहाकषायं वा||१४||

🔊 Audio coming soon

अनुबन्ध उक्तया चिकित्सयानुपशमः| केवलं वा वृक्षकबीजम्| वृक्षकः कुटजः| पाठादीनि वा क्वथितानि| हरिद्रादिगणं वा| वत्सकबीजादीनि वा| अतिविषादीनि वा मधुयुक्तानि| शाल्मली-वृन्तानि शाल्मलीपत्राणि| तेषां शीतकषायो मधुर्मधुयष्टीयुक्तः| दध्ना संयुक्तां वा यवागूं मधुकादिकल्कं दत्वा पिबेत्| मधुकादियुक्तं दधियुक्तं खलकं वा पिबेत्| बिल्वादिभिर्यवागूं खलकं वा| लोध्रादिगणः क्वाथादिकया पञ्चविधयापि कल्पनया माक्षिकयुक्तः| तद्वदम्बष्ठादिः प्रियङ्ग्वादिश्च| महाकषायसंग्रहोक्तश्यामादिको महाकषायश्च|| १४||

Adhikarana shUlarte visheShaH (15) · Śloka 15

शूलार्त्तस्तु रूक्षकोष्ठो घृतं सक्षारं पिबेत्| क्षीरं वा बृहतीबलांशुमतीकच्छुरामूलसिद्धं मधुककट्वङ्गाजमो दशर्करावचूर्णितं सतैलक्षौद्रम्| क्षीरमेव वा धारोष्णम्||१५||

🔊 Audio coming soon

निरामकोष्ठः सन् शूलार्तो घृतं सक्षारं पिबेत्| बृहत्यादिसिद्धं वा क्षीरं मधुकाद्यवचूर्णितं तैलमाक्षिकयुक्तं पिबेत्| केवलमेव वा धारोष्णं क्षीरम्|| १५||

Adhikarana balavati virekaH (16) · Śloka 16

बलवान् विबद्धमलो विरेकार्थं त्रिफलाचूर्णयुक्तं वा पलाशफलक्वाथसिद्धं वा पयः पीत्वा पय एव कवोष्ण मनुपिबेत्| एवमेव च त्रायमाणया शृतम्| ततो निस्सृते शकृति पुराणेऽतिसारः शान्तिमेति||१६||

🔊 Audio coming soon

यस्तु बलवान् विबद्धमलश्च सः त्रिफलाचूर्णयुक्तं पयः पीत्वा पलाशफलक्वाथेन वा सिद्धं पयः कवोष्णं पयोऽनुपिबेत्| सुबोधम्||१६||

Adhikarana anuvAsanam (17) · Śloka 17

स्रुतदोषस्य च संसर्जनकाले शूलं चेदनुवर्तेत ततो बिल्व मधुकशताह्वाद्वयगर्भं सक्षीरं तैलचतुर्गुणं सर्पिरनुवासनं दद्यात्||१७||

🔊 Audio coming soon

शूलवतो बलिनो विबद्धमलस्य विरेचने प्रयुक्ते संसर्जनकालेऽपि यदि शूलमनुवर्तेत ततो बिल्वादिसिद्धं सर्पिरनुवासनं दद्यात्| क्षीरं स्नेहसमम्|| १७||

Adhikarana picchAbastiH (18) · Śloka 18

ततः सम्यक्कृतायामपि संसर्ग्यामतीसारानुबन्धे पिच्छा बस्तयो योज्यः| शाल्मलीवृन्तान्यार्द्रदर्भैर्वेष्टयित्वा कृष्णमृदावलिप्य गोमयाग्निना स्वेदयेत्| शुष्कायां मृदि स्विन्नानि ज्ञात्वा वृन्तान्युलूखले समापोथ्य तेषां मुष्टि सम्मितं पिण्डं क्षीरप्रस्थे विमर्दयेत्| ततस्तेन पयसा पूतेन सघृततैलेन मधुमधुककल्कयुक्तेनास्थापयेत्| प्रत्यागते च स्नातः पयसा कच्छुराशृतेन जाङ्गलर सैर्वाऽश्नीयात्| एष पिच्छाबस्तिः पित्तरक्तातिसार ग्रहणीगुल्मशोषज्वरान् विरेचनास्थापनातियोगं च शम यति||१८||

🔊 Audio coming soon

तत इति विरेके| संसर्गी पेयादिक्रमः| शाल्मलीवृन्तानि तत्पत्राणि| तेषामिति स्विन्नानां शाल्मलीवृन्तानाम्| मुष्टिः पलम्| घृतादीनां तु बस्तिविध्युक्तविधानं स्मर्तव्यम्| प्रत्यागते बहिः प्रवृत्ते आस्थापने| सुबोधम्|| १८||

Adhikarana puTapAkaprayogaH (19) · Śloka 19

चिरोत्थितं त्वतीसारमवेदनं पक्वमप्यशाम्यन्तं पुट पाकैरुपाचरेत्| अरलुत्वक्कल्कं काश्मर्यपत्रप्रच्छन्नं पुटपाकविधिना पाचयेत्| तद्रसं सुशीतं मधुयुतं पिबेत्| वटादित्वक्प्ररोहकल्कमप्येवं कल्पयेत्| अथवा तित्तिरि मपनीतान्त्रपिच्छं न्यग्रोधादेर्वल्कलस्य प्ररोहाणां वा कल्केन पूरयित्वा पूर्ववत् पुटपाकं कुर्यात्| ततस्तस्मा द्रसमादाय सिताक्षौद्रयुक्तं पाययेत्| अनेन सर्वे जाङ्गल सत्वा व्याख्याताः||१९||

🔊 Audio coming soon

चिरोत्थितमित्यादि सुबोधम्| अरलुकादिना पुटपाकविधिः| अरलुको मयूरजङ्घः| पुटपाकविधिः सूत्रोक्तः| वटादीत्यादिग्रहणेन वटसमानरसादीनामन्येषां ग्रहणम्| पिच्छां जघनपक्षसंहितः| न्यग्रोधादेर्गणस्य वल्कलं त्वक्| प्ररोहोऽङ्कुरः| तित्तिरेरान्त्रेषु अपनीतेषु तत्कल्केन जठरपूरणम्| सर्वे जाङ्गलप्राणिनो मृगविष्किरप्रतुदाः पुटपाकाय व्याख्याताः|| १९||

Adhikarana raktAtisAre kShIraprayogaH (20) · Śloka 20

यस्तु पित्तातिसारी पित्तलान्यासेवेत तस्य पित्तमतिवृद्धं रक्तातिसारं तृड्दाहमोहज्वरशूलपायुपाकांश्च करोति| तत्र क्षीरमाजं न्यग्रोधादिप्रसवशृतं सितामधुयुक्तमाहारे गुदप्रक्षालने च विदध्यात्| तद्विधं वा सर्पिः सपयस्कं पिबेत्| क्षीरोत्थं वा सर्पिः क्षीरानुपानं कपिञ्जलरसाशी क्षीराशी वा लिह्यात्||२०||

🔊 Audio coming soon

यस्वित्यादि सुबोधम्| तद्विधमित्यादि न्यग्रोधादिप्रसवसिद्धं ससितामाक्षिकं सक्षीरं सत् पिबेत्| क्षीरोत्थं क्षीरं प्रमथ्य यदुत्पादितं घृतं तत् कपिञ्जलरसाशी क्षीरानुपानं वा लिह्यात्||२०||

Adhikarana raktAtisAre prayogAntarANi (21) · Śloka 21

सल्लकीप्रियङ्गुतिनिशशाल्मलीप्लक्षत्वक्संसृष्टं सिद्धं वा सक्षौद्रं क्षीरं पिबेत्| यष्टीलोध्रशारिवाभिर्वा शृतं समधुसितम्| तद्वत् कृष्णतिलसमङ्गोत्पलयष्टीमधुभिः शशकपिञ्जलपारावततण्डूलीयकमुद्गकाश्मर्यबीजा दिरसांश्च सेवेत| घृतभृष्टं वा रक्तमाजं मार्गं वा| पूर्वोक्तान् वा पुटपाकान् मधुककृष्णमृत्तिकाशङ्ख कल्कं वा सरुधिरं पिबेत् तण्डुलोदकेन| तेन वा समा क्षिकं फलिनीकल्कम्| अथवा ससिताक्षौद्रं चन्दनम्| एते हि प्रयोगाः तृष्णादिप्रशमना रक्तातियोगघ्नाश्च| वातोत्तरस्तु शतावरीघृतं लिह्यात्| सशर्करं वा नव नीतम्| पिच्छिलस्वरससाधितं वा सर्पिः| लाक्षा पिप्पलीशृङ्गीवेरकटुकेन्द्रयवदार्वीत्वग्भिर्घृतं सिद्धं पेया मण्डेन पीतमतिसारं त्रिदोषमपि वारयेत्||२१||

🔊 Audio coming soon

सल्लक्यादियुक्तं सक्षौद्र क्षीरं वा पिबेत्| यष्ट्यादिशृतं माक्षिकशर्करायुक्तं क्षीरम्| तद्वदिति समधुसितं यष्टीमधुर्मधुयष्टी| शशादिरसांश्च सेवेत| अजस्य मृगस्य वा रक्तं घृतभृष्टम्| सुबोधम्| तेनेति तण्डुलोदकेन| फलिनी गन्धप्रियङ्गुः| एत इत्यजाक्षीरादयः| शतावरीघृतं गुह्यरोगे वक्ष्यते| पिच्छिलानि शाल्मल्यादीनि तेशां स्वरसेन| लाक्षादि सर्पिः सुबोधम्|| २१||

Adhikarana raktAtisAre picchAbastyanuvAsanam (22) · Śloka 22

यदा पुनर्वायुना विड्बद्धं सशोणितमल्पाल्पं सफेनं कृच्छ्रादुपवेश्यते तदा पूर्वोक्तं पिच्छाबस्तिं दद्यात्| मधुरौषधसिद्धेन च सर्पिषाऽनुवासयेत्| प्रायेण हि दुर्बलगुदा गुदाश्रयामयिनो भवन्ति| विशेषतश्चिर कालातीसारिणः| अतिसारातिप्रवृत्तौ स्वस्थानबलवृद्धो वायुः पित्तमनु बलमवाप्य दुर्जयतरो भवति| तस्मा त्तोषामभीक्ष्णमनुवासं प्रयुञ्जीत||२२||

🔊 Audio coming soon

यदा पुनरित्यादि अतिसारेण वायोः कोपः स्वस्थानत्वात् बलवान् भवति|| २२||

Adhikarana gudadAhe visheShaH (23) · Śloka 23

गुददाहे पुनः पटोलमधुकमधूकक्षीरिवृक्षादिकषायेण सघृतशर्कराक्षौद्रेण वा गुदं तदासन्नाश्च प्रदेशान् सिञ्चेत्| शतधौतादिभिर्घृतैश्च पिचूनभ्यङ्गांश्च दद्यात्| पटोलादीनामेव च कल्केन सघृतेन प्रदिह्यात्| तच्चूर्णौ र्धातकीलोध्रमाषचूर्णेन च पायुद्वारमवचूर्णयेत्| एवमेव च शूले वातहरतैलप्रदेहैरुपाचरेत्| यः पुनरेवमपि पित्त लान्यासेवेत स शीघ्रं गुदवलीषु पक्वासु व्यापद्यते||२३||

🔊 Audio coming soon

शतधौतादित्यादिशब्देन शीतानां घृतानां ग्रहणम्| पटोलादीनि विविधगणसंग्रहोक्तानि| शूले गुदस्येत्यर्थः|| २३||

Adhikarana shleShmAtisAracikitsA (24) · Śloka 24

श्लेष्मातीसारं तु प्रागेव नितरामामपाचनार्थं लङ्ह्घनेन साधयेत्| अनुबन्धे च पिबेत् कषायं मुस्ताभयाशुण्ठी बिल्वशलाटूनाम्| वचाविडङ्गभूतीकदेवादारुणां वा| पाथातिविषाकुष्ठचव्यकटुरोहिणीनां वा| चित्रक पिप्पलीद्वयपिप्पलीमूलानां वा| सुखाम्बुना वा हिङ्ग्वा द्यलसकोक्तम्| पथ्यासैन्धवशुण्ठीचूर्णं वा लिह्याद्वा त्रिकटुचूर्णं क्षौद्रशर्करोपेतम्| कपित्थं क्षौद्रेण वा| कट्फलं व पिप्पलीर्वा| पुर्ववच्च सर्वं वातपित्तामरक्त संसर्गमपेक्ष्य यथायथमुपकल्पयेत्| सशूलप्रवाहिकस्य च निरामस्य वातेऽधिके वचाबिल्वपिप्पलीकुष्ठशता ह्वाकल्कयुक्तं सलवणं पिच्छाबस्तिमनुवासनं च कोष्णेन बिल्वतैलेन बहुशो वचादिगर्भेण वा तैलेनेति||२४||

🔊 Audio coming soon

श्लेष्मातिसारे प्रागेवेत्युच्यामानाध्यायोक्तविधानेन| मुस्तादिवचादिपाठादिचित्रकादिक्वाथाः यथायोग्यं योज्याः| त्रिकटुकचूर्णं क्षौद्रशर्करोपतं लिह्यात्| कपित्थं वा कट्फलं वा पिप्पलीर्वा क्षौद्रेण| सुबोधम्| कोष्णेन बिल्वशृततैलेन बहुशोऽन्वासनम्| वचादिगणगर्भेण वा तैलेन|| २४||

Adhikarana shleShmAtisAracikitsA (25) · Śloka 25

भवति चात्र स्वस्थाने मारुतोऽवश्यं वर्धते कफसंक्षयात्| स वृद्धः सहसा हन्यात्तस्मात्तं त्वरया जयेत्||२५||

🔊 Audio coming soon

बावतीत्यादि शैली| अतिसारवतो लङ्घनादिनातिसरणेन च क्रमेण कफे क्षीणे स्वेस्थाने पक्वाशये मारुतोऽवश्यं वर्धते| स च मारुतो वृद्धः सहसा हन्यात्| तस्मात्तं मारुतं त्वरया जयेत्||२५||

Adhikarana bhayajashokajayoH kriyA (26) · Śloka 26

भीशोकाभ्यामपि मरुच्छीघ्रं कुप्यत्यतस्तयोः| कार्या क्रिया वातहरा हर्शणाश्वासनानि च||२६||

🔊 Audio coming soon

भीशोकाभ्यामित्यादि सुबोधम्| तयोरिति भीशोकयोः||२६||

Adhikarana vigatAtisAra lakShaNam (27) · Śloka 27

यस्योच्चाराद्विना मूत्रं पवनो वा प्रवर्तते| दीप्ताग्नेर्लघुकोष्ठस्य शान्तस्तस्योदरामयः||२७||

🔊 Audio coming soon

यस्येत्यादि विगतातिसारलक्षणम्|| २७||

Adhikarana saMkShepeto punaH kramasmaraNam (28) · Śloka 28

आमस्य पाको मलसंग्रहोऽनु न संग्रहे रुग्गुदनाभिजन्मा| विलङ्घनैर्ग्राहिभिरीरणघ्नैः क्रमेण तैस्तैर्विधिभिर्विधेयः||२८||

🔊 Audio coming soon

विलङ्घनादिभिरोषधाहारैः क्रमेणामपाकादिर्विधेयः| अनु च समीरणघ्नैर्ग्राहिभिर्मलसंग्रहो विधेयः| न संग्रहे संग्रहं विना गुदादिजन्मा रुग्भवति| अत एव समीरणघ्नैरुपशमः| अथवा संग्रहे गुदनाभिजन्मा रुङ् न भवतीति स्पष्ट एव सम्बन्धः|| २८||

Adhikarana purIShabandhahetuH (29) · Śloka 29

न रिक्तकोष्ठस्य पुरीषबन्धो न रूक्षकुक्षेः सुहितस्य चाति| पित्तास्रतोऽन्यत्र च चातिशीतैर त्युष्णतीक्ष्णैर्न कदाचिदेव||२९||

🔊 Audio coming soon

न रिक्तकोष्ठस्येत्यादिना वैपरीत्येन पुरीषबन्धहेतुः प्रदर्श्यते| रिक्तकोष्ठस्य श्लेमाद्यनुलेपकालिप्रकोष्ठस्य पुरीषबन्धो न भवति| पित्तास्रं वर्जयित्वाऽन्यत्रातिशीतैः पुरीषबन्धो न भवत्येव| अत्युष्णैरतितीक्ष्णैश्च न कदाचिदेव|| २९||

Adhikarana pravAhikopayogI kalpanAsaMgrahaH (11) · Śloka 11

खलरसदाधिका यमकदाडिमसारकृता दधि सगुडं पयोऽसिततिलाश्च सुजर्जरिताः| सलवणमारुतघ्नगणसाधिततैलमलं घृतमपि वा प्रवाहणकृतां विजयेद्रुजाम्||३०|| इति वैद्यपतिसिंहगुप्तस्य सूनोर्वग्भटस्य कृताव ष्टाङ्गसंग्रहसंहितायां चिकित्सितस्थानेऽतीसार चिकित्सितन्नामैकादशोऽध्यायः||११||

🔊 Audio coming soon

खलादिकैः प्रवाहणकृतां विजयेत रुजामिति सम्बन्धः| प्रवाहणं निस्तननम्| यमकदाडिमरसाभ्यां कृताः खलादिकाः| खलः फलयूषः| रसो मांसरसः| दध्ना संस्कृतो दाधिकः| सगुडं दधि| तथा केवलं पयः| असिततिलाः कृष्णतिलाः| सुजर्जरिताः क्षुण्णाः| सलवणेन वातघ्नगणेन सूत्रोक्तेन साधितं तैलं वा घृतमपि वेति सर्वमलं प्रवाहणकृतां रुजां विजयेतेति|| ३०|| इति श्रीमन्महामहोपाध्यायेन्दुविरचितायाम् अष्टाङ्गसंग्रहव्याख्यायां शशिलेखायां चिकित्सितस्थान एकादशोऽध्यायः||११||