Adhikarana atha grahaNIdoShacikitsitannAma dvAdasho~adhyAyaH | adhyAyapratij~jA (1) · Śloka 1
अथातो ग्रहणीदोषचिकित्सितं व्याख्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः||१||
क्रमप्राप्तस्य ग्रहणीदोषस्य चिकित्साप्रदर्शनायाध्याय आरभ्यते||१||
Adhikarana atideshenAdAvajIrNAdicikitsAnirdeshaH (2) · Śloka 2
ग्रहणिसमाश्रितं दोषमादावेव यथास्वमजीर्णानुसारतो मात्राशीतोयोक्तविधानेनोपक्रमेत|
अथातीसारविधिना च||२||
यथास्वमजीर्णानुसारत इति| कफवातपित्तेष्वामविष्टब्धविदग्धाख्यत्रिविधाजीर्णानुसारत इति यथास्वशब्दस्यार्थः| उप-क्रमेत चिकित्सेत|| २||
Adhikarana AmapAcanam (3) · Śloka 3
आमपाचनार्थं पिबेन्मुस्तातिविषाविश्वभेषजक्वाथम्|
तच्चूर्णं वा सुखोदकेन तेन वा शुण्ठीम्|
तद्वद्वचादिवर्गं ससैन्धवम्|
वारुणीमण्डेन वा गुल्मविध्युक्तं त्रिल वणादिचूर्णम्||३||
तदित्यनेनान्तरविधानप्राधान्यात् मुस्तादिक्वाथः परामृश्यते| तेनेत्यनेन सुखोदकं परामृशति| ससैन्धवं वचादिवर्गम्| त्रिलवणादिकं चूर्णं गुल्मविध्युक्तं वारुणीमण्डेन|| ३||
Adhikarana sapravAhaNAdiShu visheShaH (4) · Śloka 4
सप्रवाहे वा वर्चसि चूर्णीकृतान् बिड्लवणयुक्तान् बिल्वमध्यनागरचित्रकान् दाडिमाम्भसा सकफे वा|
अतिमात्र आमशूलेऽलसकोक्तं हिङ्ग्वादिमुष्णाम्भसा पिबेत्|
छर्दिशूलानाहानुग्रन्थिषु तु मरिचाजाजिसौवर्च लाभयाः|
सपित्तकफे चामे कटुकेन्द्रयवपाठापिप्पली मूलवचाभयानागराणि क्वथितानि चूर्णितानि वा||४||
शूलवदधोजठरवृद्धिरनुग्रन्थिरित्यरुणदत्तः| बिल्वादीन् दाडिमाम्भसा सबिड्लवणान् सप्रवाहे पुरीषे सकफे वा वर्चसि| अलसकमधिकृत्य सूत्रस्थानोक्तं हिङ्ग्वादिमतिमात्र आमशूले| छर्द्यादिषु मरिचादीनुष्णाम्भसा| आमे पित्तश्लेष्मसंयुक्ते प्रवर्तमाने कटुकादीनि क्वथितानि चूर्णितानि वा|| ४||
Adhikarana bhojanaM pAna~jca (5) · Śloka 5
भोजनकाले च पञ्चकोलपरिगृहीतं पटुलघुदीपनीयं पेयादिकमुपकल्पयेत्|
पेयां वा नागराति विषाभ्यां तक्र दाडिमवृक्षाम्लाणाम्|
पाने च तक्रमस्त्वारनालमदिरा रिष्टानतीसारनिर्दिष्टं चाम्बु||५||
एतदनन्तरोक्तमामपाचनं कुर्वतोऽन्नकाले बुभुक्षायां पट्वादिगुणं पेयादिकं पञ्चकोलेनानेककल्पपरिगृहीतं कल्पयेत्| नागरातिविषाभ्यां पेया तक्राद्यन्यतमसिद्धत्वादम्ला| पानेत्यादि सुबोधम्||५||
Adhikarana takrAriShTaH (6) · Śloka 6
यवानीपथ्यामलकमरिचानि त्रिपलिकानि लवणपञ्चकं च पलांशकमेकतश्चूर्णयित्वा कंसे सद्योमथितस्यानुसुनु यात्|
ततो व्यक्ताम्लकटुकं जातं पिबेत्|
एष तक्रारिष्टः परमग्निदीपनोऽर्शोगुल्मजठरश्वायथुकृमिप्रमेहहरः||६||
कंसोऽष्टविंशत्यधिकं पलानां शतम्|| ६||
Adhikarana takraprayogaprashaMsA (7) · Śloka 7
अपि च - ग्रहणीदोषिणां तक्रं दीपनग्राहिलाघवात्|
पथ्यं मधुरपाकित्वान्न च पित्तप्रदूषणम्|
कषायोष्णविकाशित्वाद्रूक्षत्वाच्च कफे हितम्|
वाते स्वाद्वम्लसान्द्रत्वात् सद्यस्कमविदाहि तत्|
तस्मात्तक्रप्रयोगा ये जठराणां तथार्शसाम्|
विहिता ग्रहणीदोषे सर्वशस्तान् प्रयोजयेत्||७||
अपि चेति समुच्चये| दीपनत्वादियोगाद्व्याधौ पथ्यम्| मधुरपाकित्वादिना दोषाणाम्| विकाषि मेदःप्रभृतीनां कर्शनशीलम्| उदरे ये तक्रप्रयोगा अर्शस्सु च तान्सर्वान् ग्रहणिदोषेऽपि प्रयोजयेत्|| ७||
Adhikarana dADimAdicUrNamannapAne (8) · Śloka 8
दाडिमकपित्थवृक्षाम्लाम्लीकानां पृथक् पृथक् कुडवं लवणपञ्चककुडवं त्र्यूषणत्रिफलं शर्करापलाष्टकं चैकध्यं चूर्णितमन्नपाने प्रणीतमजीर्णारुचिश्वासप्लीह गुल्मग्रहणीहृत्पाण्डुरोगघ्नम्|८|
००
Adhikarana ghRutayogaH ( agnighRutam ) (8) · Śloka 8
परिपक्वामञ्च मारुतग्रहणीरोगिणमग्निसन्धु क्षणार्थं सर्पिः पाययेत्|
द्विपञ्चमूलपञ्चकोलसरलसुरदारुसुरभि गजपिप्पलीशणबीजयवकोलकुलत्थान्मस्तुनारनालेन वा पाचयेत्|
तेन पादावशेषेण पञ्चलवणद्विक्षाराम्ल बदरयुक्तं सर्पैर्विपक्वमथवा सैन्धवव्योषक्षारद्वयपञ्च मूलाभयारास्नाजाजीग्रन्थिकशठीविडङ्गगर्भमार्द्रकमातु लुङ्गकोलाम्लीकादाडिमस्वरसशुष्कमूलकक्वाथम स्तुतक्रशुक्तप्रसन्ना सौवीरकतुषोदकारनालोपेतं परम ग्निदीपनमग्निघृताख्यम्||८||
दाडिमाद्यं सुबोधम्| द्विपञ्चमूलादीनि मस्तुनाकाञ्जिकेन वा क्वाथकल्पनया पाचयेत्| सुरभि गन्धसुरा| पञ्चलवणादिकं स्नेहाच्चतुर्थांशेन| अस्मिन्नेव द्विपञ्चमूलादीनामारनालेन मस्तुना वा क्वाथे पञ्चलवणादिकं दत्वा सैन्धवादिगर्भं दीयते| तथार्द्रकादिस्वरसं शुष्कमूलकक्वाथं मस्त्वादीनि च| 'पृथक् स्नेहसमं विद्यात्| पञ्चप्रभृति तु द्रव' मिति स्मर्तव्यम्| सतुषवितुषयवकृते सौवीरकतुषोदके भवतः| आरनालं काञ्जिकम्|| ८||
Adhikarana AgastyaM ghRutam (9) · Śloka 9
अथवा चव्यचित्रकपाठातेजोवतीपिप्पलीमूलानि कुड वोन्मितानि मुस्ताद्विकुडवमास्फोतजातीनिम्बसप्तच्छदा श्वमारकर्कोटकपटोलपल्लवानाञ्च मुष्टिं मुष्टिमन्तर्नख मुदकद्रोणे पक्त्वा पादावशेशमवतारयेत्|
अर्धपलोन्मिता ञ्चात्र चात्र कल्कितां दद्यादतिविषां कृष्णासारिवाभद्राश्च द्विपलांशं सैन्धवं बिडं यवक्षारञ्च मागधिकायाश्चतुष्प लपात्रं च घृतस्य|
एतदगस्त्यनिर्मितमलमनलजननम्||९||
आगस्त्यं घृतं सुबोधम्| आस्फोतादिपल्लवानां प्रत्येकं मुष्टिः| नात्र पलं मुष्टिरिति प्रदर्शनार्थमाह-अन्तर्नखं यस्मिन् मुष्टौ पल्लवगर्भे नखानि दृश्यन्ते| भद्रा कृष्णशारिवा|| ९||
Adhikarana analoddIpanottaraH kramaH (10) · Śloka 10
उद्दीपिते तु किञ्चिदनले विबद्धमलमास्थापयेत्|
ततो जिते मातरिश्वनि स्रस्तदोषमेरण्डतैलेन तिल्वकसर्पिषा वा क्षारवता मिश्रकस्नेहेन वा विरेचयेत्|
कृतसंसर्गक्रमं च बद्धवर्चसमनुवासयेद्वातहरदीपनीयाम्लद्रव्यसिद्धेन तैलेन|
ततः पुनरपि लघ्वन्नभोजनः सर्पिरेव यथाग्नि बलमल्पशोऽवचारयेत्|
अग्निघृतं च छर्दिविबन्धशूल श्वासकासिनः सबीजपूरकरसम्|
अभ्यङ्गार्थं च तैल मग्निघृतौषधैः साधयेत्|
अनिलकफसंसर्गे तु चूर्णमेषा मेवौषधानामुष्णोदकेन पिबेत्||१०||
उद्दीपिते किञ्चिदनले स्नेहेनेत्यर्थः| तत इत्यास्थापनस्य पश्चात्| सुबोधम्| छर्द्यादिमतः सबीजपूररसमग्निघृतमवचारयेत्| एषामिति घृतपाकनिर्दिष्टानाम्|| १०||
Adhikarana pittajagrahaNIcikitsA, tatrAdau pittaharaNam (11) · Śloka 11
पित्तदुष्टायां तु ग्रहण्यां स्वस्थानगतमुत्क्लिष्टं द्रवमनल निर्वापणं पित्तमास्थापनेन वमनेन वा निर्हरेत्|
तिक्तलघु द्रव्यैश्च कृतसंसर्जनस्य दोषशेषशमनार्थं मधुनावलेह्य मुष्णाम्बुना वा पातुं प्रणयेत्||११||
पित्तदुष्टायामित्यादि सुबोधम्| अनलनिवापणं शमनम्| संसर्जनं पेयादिकम्|| ११||
Adhikarana mUrvAcUrNam ( tiktakashcUrNaH ) (12) · Śloka 12
मूर्वाकिराततिक्तपर्पटकवचाचन्दनमुस्तत्रिकटुकत्राय माणायवानीकलिङ्गत्वक्फलकटुरोहिणीदेवदारुदार्वीत्व कपद्मकोशीरारिष्टपटोलपत्रातिविषासौराष्ट्रीत्वगेलामधु शिग्रुबीजचूर्णम्|
अयं हि ग्रहणीदोषशूलातिसारपाण्डु हृद्रोगगुल्मज्वरप्रमेहकामिलामुखरोगारोचकनिबर्हणः||१२||
मूर्वादीनां चूर्णं माक्षिकेणोष्णाम्बुना वा दोषशेषोपशमनार्थं प्रणयेत्| अयं तिक्तकश्चूर्णो ग्रहणिदोषादिनिबर्हणः|| १२||
Adhikarana bhUnimbAdicUrNam (13) · Śloka 13
भूनिम्बत्रिकटुकामुस्तेन्द्रयवाः समाश्चित्रकभागौ द्वौ कुटजत्वग्भागाश्च षोडश सर्वमेकत्र चूर्णितं सगुडशीतो दकं पीतं समानं पूर्वेण||१३||
भूनिम्बादीनां परस्परसमानामेको भागो द्वौ भागौ चित्रकस्य| वत्सकस्य त्वचो भागाः षोडशेति सर्वं मिश्रीकृत्यावचूर्णयेत्| ततस्तोकं गुडमृदितेन शीतोदकेन पिबेत्|| १३||
Adhikarana nAgarAdicUrNam (14) · Śloka 14
नागररसाञ्जनातिविषाधातकीघनपाठाकलिङ्गत्वग्बी जबिल्वकटुकाः सक्षौद्रास्तण्डुलाम्बुपीताः पित्तग्रहणी विकारं रक्तातिसारमर्शांसि सप्रवाहिकं गुदशूलं च व्यपोहति||१४||
नागराद्यश्चूर्णः सुबोधः| बीजं कलिङ्गस्यैव|| १४||
Adhikarana agnisthairyArthaM ghRutam (15) · Śloka 15
ततश्चैवं शमितपित्तोद्रेकस्याग्नेः स्थिरीकरणाय सर्पिः पूर्वोक्तमूर्वादिक्वाथेन सारिवास्फोतसप्तपर्णाटरूषके न्द्रयववीराभूनिम्बधान्यन्यग्रोधाश्वत्थोदुम्बरप्लक्षोपकु ल्यानीलोत्पलगर्भसिद्धं पानाय प्रयुञ्जीत कुष्ठोक्तं वा तिक्तकम्||१५||
मूर्वादीनां चूर्णौषधानां क्वाथेन सारिवादिवर्गं घृतम्|| १५||
Adhikarana shleShmagrahaNIcikitsA (16) · Śloka 16
श्लेष्मदुष्टायां पुनर्ग्रहण्यां मागधिकासिद्धार्थकल्कती क्ष्णेन मदनफलकषायेण पुनः पुनर्वामयेत्|
अब्धातुर्हि प्रवृद्धस्तेजो निर्वापयाति|
ततः कृतपेयादिक्रमस्य लव णक्षाराम्लकटुकोत्कटैर्यथोक्तैरन्नपानौषधैरनलमुत्तेजयेत्||१६||
श्लेष्मदुष्टायामित्यादि सुबोधम्| अब्धातुर्देहे जलभागः| सुबोधम्|| १६||
Adhikarana ma~jjiShThAdyAsavaH (17) · Śloka 17
मञ्जिष्ठाचित्रकारुष्करकृमिघ्नमधूकपुष्पाणि क्रमात् द्विकुडवार्धाद्धाढकाढकार्धद्रोणद्रोणांशान्यपां दोणत्रये क्वाथयेत्|
द्रोणशेषश्च पूतशीतः स निर्यूहो मधुद्विप्रस्थ वांश्चन्दनोशीरसूक्ष्मैलागरुरूषितं जतुसृतं घृतकुम्भम ध्युषितो मासमासवः|
सर्वदोषघ्नोऽग्निजननो बृंहणः शोषकुष्ठकिलासप्रमेहानाहगुल्मपाण्डुहृद्रोग जिच्च||१७||
मञ्जिष्ठाया द्वौ कुडवौ| चित्रकस्यार्धाढकः| भल्लातकानामाढकः| विडङ्गानामर्धद्रोणः मधूकपुष्पाणां द्रोण इति क्रमार्थः| शुष्कस्य यद् द्रोणादि तद्द्विगुणमप्रसिद्धार्द्रप्रयोगस्य द्रव्यस्य| रूषितं कुम्भमन्तर्लिप्तम्|| १७||
Adhikarana madhUkapuShpAdyAsavAH (svarasAsavAH) (18) · Śloka 18
मधूकपुष्पाणाम् स्वरसोऽर्धावशेषक्वथितः क्षौद्रपाद युक्तः सर्वथा समानः पूर्वेण|
अनेन द्राक्षेक्षुकाश्मर्य फलस्वरसासवा व्याख्याताः||१८||
मधूकपुष्पाणां स्वरसस्य क्वथनेनार्धावशेषस्य सतश्चतुर्थेन भागेन माक्षिकं देयम्| मधूकपुष्पस्वरसवद् द्राक्षादिस्वरसैरप्यासवाः कर्तव्या इति व्याख्याताः|| १८||
Adhikarana mUlAsavaH (19) · Śloka 19
दशमूलवीरारजनीत्रिफलाजीवकर्षभकाणां पृथक् पृथक् पञ्चपलान् भागानपांवहे पक्त्वा पादशेषे रसे शीतिभूते गुडतुलाद्वयं दद्यादर्शकुडवं च माक्षिकात्तत् प्रमाणांश्च चूर्णितान् मुस्ताप्रियङ्गुमञ्जिष्ठामधुकविडङ्गप्लवशाबर लोध्रान् एषोऽर्धमासस्थितो मूलासवोऽयं समानः पूर्वेणः||१९||
अपांवहः सहस्रद्वयमष्टचत्वारिंशदधिकं शतं| माक्षिकस्यार्धकुडवश्चत्वारि पलानि| मुस्तादीनां तु प्रत्येकं द्वे पले अर्धकुडवः| मूलासवो नाम्ना|| १९||
Adhikarana mahAvRukShAdikShAraguDikAH (20) · Śloka 20
महावृक्षकाण्डचतुष्पलं द्विगुणार्ककाण्डं लवणत्रयत्रिपलं पक्ववार्ताककुडवं चित्रकमूलपलद्वयं चान्तर्धूमं दग्ध्वा वार्ताकरसेन गुडिकाः कुर्यात्|
ता बोजनोत्तरं भक्षिता ग्रहणीदुर्नामविषूचिकालसककासश्वासपीनसप्लीह पाण्डुश्वयथुमेहारोचकगुल्महराः||२०||
महावृक्षः सुधा| लवणत्रयस्य मिश्रीभूतस्य त्रिपलम्||२०||
Adhikarana dashamUlAdikShAraguTikAH (21) · Śloka 21
दशमूलार्कमूलदन्तीत्रिवृच्चित्रकास्फोतपाठारास्नास्नु हीकाण्डानां पृथग्दशपलान् भागान् कपालोदरे दग्ध्वा क्षारमुदकद्रोणैश्चतुर्भिः क्वाथयेत्|
पादावशेषञ्च पूतं पुनः पादावशेषमेव क्वथितावतारितं गुडपलशतोन्मिश्र मधिश्रयेत्|
घनीभवति च तस्स्मिन् सुश्लक्ष्णरजसां वृश्चिकालीद्वययावशूकानां त्रिंशत्पलान्यावपेत्|
त्रिंशदेव वचाभयाव्योषचित्रकाणाम्|
द्विपलञ्च पृथक् पृथक् हिङ्ग्वम्लवेतसयोः|
ततोऽक्षमात्राः गुडिकाः कृत्वा यथाबलमुपयुक्ताः समानाः पूर्वाभिरधिका वा|२१|
दशमूलादिक्षारमम्भसश्चतुर्भिद्रोणैश्चतुर्भागावशेषं क्वाथयेत्| ततः परिस्रुतमुदकं निक्षारं केवलमेव पुनः पादशेषं क्वाथयेत्| ततो गुडेन सम्मिश्र्याधिश्रयेत्| पाकाय चुल्यामारोपयेत्| वृश्चिकाल्यादीनां पलानि त्रिंशन्मिश्रीभूतानाम्| तथैव वचादीनाम्| हिंग्वादीनां पृथक् द्विपलम्| सुबोधम्|| २१||
Adhikarana atideshacikitsitam (21) · Śloka 21
अर्शोविहितांश्च क्षारतक्रारिष्टान् घृतान्यन्नपानञ्च सेवेत्|
वट्पलं भल्लातकघृतं धान्वन्तरं च||२१||
००
Adhikarana sannipAtagrahaNyA~jcikitsAkramaH (22) · Śloka 22
सन्निपाते तु पञ्च कर्माणि कुर्याद्यथावस्थं वा ग्रहणी चिकित्सितमिति||२२||
भल्लातकघृतं कफगुल्मोक्तम्| धान्वन्तरं दशमूलेत्यादिना प्रमेहचिकित्सिते वक्ष्यते|| २२||
Adhikarana AvasthikI cikitsA, alpAgneH prasekAdiShu (23) · Śloka 23
भवति चात्र- प्रसेके श्लैष्मिकेऽल्पाग्नेर्दीपनं रूक्षतिक्तकम्|
योज्यं कृशस्य व्यत्यासात् स्निग्धरूक्षं कफोदये|२३|
००
Adhikarana vividhAvasthAsu snehadIpanam (23) · Śloka 23
क्षीणक्षामशरीस्य दीपनं स्नेहसंयुतम्|
दीपनं बहुपित्तस्य तिक्तं मधुरकैर्युतम्|
स्नेहोऽम्ललवणैर्युक्तो बहुवातस्य शस्यते|
स्नेहमेव परं विद्याद्दुर्बलानलदीपनम्|
नालं स्नेहसमिद्धस्य शमायान्नं सुगुर्वपि|
मलमांसकफे क्षीणे मन्दाग्निर्योतिसार्यते|
स पिबेत्सर्पिषो मात्रां दीपनीयौषधैर्युताम्|
प्रसन्नो मार्गमापन्नः स्वं समानोऽनिलस्तथा|
अग्नेः समीपचारित्वादाशु प्रकुरुते बलम्||२३||
भवति चात्रेति रीतिः| प्रसेक इत्यादि सुबोधम्| कृशस्य कफोद्रेके पर्यायेण स्निग्धरूक्षं योज्यम्| तिक्तं यत्किञ्चित्| स्नेहेन समिद्धस्य गुर्वप्यन्नं शमाय नालं पर्याप्तम्| आमं मलमपक्वं पुरीषम्| तयेति दीपनीयौषधयुक्तया सर्पिषा मात्राया समानो नामानिलः स्वमार्गमापन्नः प्रसन्नः शुद्धः सन्नग्नेर्बलं प्रकुरुते||२३||
Adhikarana malakAThinyAdiShu dIpanavisheShaH (24) · Śloka 24
पुरीषं यस्तु कृच्छ्रेण काठिनत्वाद्विमुञ्चति|
स घृतं लवणैर्युक्तं नरोऽन्नावग्रहं पिबेत्|
रौक्ष्यान्मन्देऽनले सर्पिस्तैलं वा दीपनैः पिबेत्|
क्षारचूर्णासवारिष्टान् मन्दे स्नेहातिपानतः||२४||
यो नरः कठिनत्वाद्धेतोश्चिरेण पुरीषं मुञ्चति सोऽन्नावग्रहं घृतं पिबेत्| अन्नावग्रहः प्रतिबन्धो यस्य अन्नात्पूर्वमित्यर्थः|| २४||
Adhikarana udAvartAdiShu dIpanasnehavisheShaH (25) · Śloka 25
उदावर्तात्तु योक्तव्या निरूहस्नेहबस्तयः|
दोषातिवृद्ध्या मन्देऽग्नौ संशुद्धेऽन्नविधिं चरेत्|
व्याधिमुक्तस्य मन्देऽग्नौ सर्पिरेव तु दीपनम्|
अध्वोपवासक्षामत्वैर्यवाग्वा पाययेत् घृतम्|
अन्नावपीडितं बल्यं दीपनं बृंहणं च तत्||२५||
उदावर्तात्तु मन्देऽग्नौ निरूहा स्नेहाः बस्तयश्च योज्याः| अन्नविधिः पेयादिक्रमः| सर्पिरेवेति केवलस्य निरौषधस्य सर्पिषः प्रयोगप्रदर्शनम्| अध्वादिभिर्मन्दे यवाग्वा घृतं पाययेत्| तच्चान्नेन तत्कालोपयुक्तेनावपीडितं सद्बल्यत्वादिगुणं भवति|| २५||
Adhikarana dIrghakAlavyAdhiprasakte visheShaH (26) · Śloka 26
दीर्घकालप्रसङ्गात्तु क्षामक्षीणकृशान् नरान्|
प्रसहानां रसैः साम्लैर्भोजयेत् पिशिताशिनाम्|
लघूष्णकटुशोधित्वैर्दीपयन्त्याशु तेऽनलम्|
मांसोपचितमांसत्वात् परं च बलवर्धनाः||२६||
दीर्घकालप्रसङ्गात् बहुकालं व्याध्यन्तरस्य प्रसक्तत्वात् मन्देऽग्नौ तत एव क्षामत्वादियुक्तान् नरान् पिशिताशनो ये प्रसहाः तेषां रसैर्भोजयेत्| ते पिशिताशिनः प्रसहा लघुत्वादिभिर्गुणैराश्वनलं दीपयन्ति| तेषां प्रसहानां यन्मांसं तदन्येन मांसेन यत उपचितं भवत्यतस्ते परं बलवर्धनाः|| २६||
Adhikarana snehAsavAdInAM samyakprayogamahattvam (27) · Śloka 27
स्नेहासवसुरारिष्टाचूर्णक्वाथहिताशनैः|
सम्यक्प्रयुक्तैर्देहस्य बलमग्नेश्च वर्द्धते|
दीप्तो यथैव स्थास्नुश्च बाह्योऽग्निः सारदारुभिः|
सस्नेहैर्जायते तद्वदाहारैः कोष्ठगोऽनलः||२७||
स्नेहादयः पथ्या अपि ग्रहणीदोषे मात्रादिविशेषवशादसम्यक्प्रयुक्ता रोगायैव भवन्तीति प्रदर्शनार्थमाह-यथा बाह्योऽग्निः सारदारुभिर्दीपनशीलः स्थिरश्च जायते तद्वदान्तरोऽग्निः सस्नेहैराहारैर्जायते|| २७||
Adhikarana samAhArasya prashaMsA (28) · Śloka 28
नाभोजनेन कायाग्निर्दीप्यते नातिभोजनात्|
यथा निरिन्धनो वह्निरल्पो वातीन्धनावृतः||२८||
तस्य चाहारयोगस्य समयोग एव साधुरिति प्रदर्शनार्थमाह-नाभोजनेनेत्यादि| यथा बाह्यो वह्निरिन्धनेन विना न दीप्यते तथा कायाग्निरभोजनेन| अल्पश्च वह्निर्बहुनेन्धनेनावृतो यथा न दीप्यते तथा कायाग्निरप्यतिभोजनात्|| २८||
Adhikarana atyagnernidAnam (29) · Śloka 29
यदा क्षीणे कफे पित्तं स्वे स्थाने पवनानुगम्|
प्रवृद्धं वर्द्धयत्यग्निं तथाऽसौ सानिलोऽनलः|
पक्त्वान्नमाशु धातूंश्च सर्वानोजश्च संक्षिपन्|
मारयेत्स्यात्स ना स्वस्थो भुक्ते जीर्णे च ताम्यति|
तृट्कासदाहमूर्च्छाया व्याधयोऽत्यग्निसम्भवाः||२९||
ये चोक्ता विषमाद्यास्रयोऽग्नयः तेऽपि स्युर्ग्रहणीदोषा इति निदानस्थाने उक्तं तत्र विषमस्य मन्दस्य च वातश्लेष्मचिकित्सयैवे प्रायेण प्रतीकारः प्रदर्शितः| तीक्ष्णस्य त्वग्नेः प्रस्तुतस्य व्याधिवैलक्षण्यान्महारोगत्वाच्च पृथगेव यदेत्यादिना कारणं चिकित्सितं चोच्यते| स्वकारणात् कफक्षये सति यदा स्वस्थाने पित्तं वातानुगं वृद्धं भवति तदा तदग्निं वर्धयति| वृद्धे चाग्नौ स वायुरग्निरन्नं पक्त्वा रसादींश्च धातून् पक्त्वा क्रमेण चौजः संक्षिपं स्तोकत्वं नयन् मारयेदपि| अतः स तीक्ष्णाग्निर्भुक्ते भोजने कृते ना पुरुषः स्वस्थः स्यात्| जीर्णे त्वन्ने ताम्यति| तेन चाग्निना तृडादयः सम्भवन्ति|| २९||
Adhikarana atyagnicikitsA (30) · Śloka 30
तमग्यग्निं गुरुस्निग्धमन्दसान्द्रहिमस्थिरैः|
अन्नपानैर्नयेच्छान्तिं दीप्तमग्निमिवाम्बुभिः|
मुहुर्मुहुरजीर्णेऽपि भोज्यान्यस्योपहारयेत्|
निरिन्धनोऽन्तरं लब्ध्वा यथैनं न विपादयेत्|
कृसरां पायसं स्निग्धं पैष्टिकं गुडवैकृतम्|
अश्नीयादौदकानूपपिशितानि भृतानि च|
मत्स्यान् विशेषतः श्लक्ष्णान् स्थिरतोयचराश्च ये|
आविकं सुभृतं मांसमद्यादत्यग्निवारणम्|
पयः सह मधूच्छिष्टं घृतं वा तृषितः पिबेत्|
गोधूमचूर्णं पयसा बहुसर्पिः प्लुतं पिबेत्|
आनूपरसयुक्तान् वा स्नेहांस्तैलविवर्जितान्|
श्यामात्रिवृद्धिपक्वं वा पयो दद्याद्विरेचनम्|
असकृत् पित्तहरणं पयसा प्रतिभोजनम्|
यत्किञ्चिद्गुरु मेध्यञ्च श्लेष्मकारि च भोजनम्|
सर्वं तदत्यग्निहितं भुक्त्वा च स्वपनं दिवा||३०||
तं चात्यग्निं गुर्वाद्यैरन्नपानैः शान्तिं नयेत्| दीप्तमग्निमिवाम्बुभिः| सुबोधम्| अस्येति तीक्ष्णाग्नेः| अन्यथाऽग्निर्निरिन्धनः सन् अन्तरं हृदयं प्राप्तः कदाचिद्व्यापादयेत्| एनमिति पुरुषम्| कृसरादिकं वाश्नीयादिति सुबोधम्| भृतानि गृहेषु पुष्टानि| सर्वान् मत्स्यानश्नीयात्| स्थिरे जले ये चरन्ति मत्स्यास्तान् विशेषतोऽश्नीयात्| सुभृतं गृहे पुष्टम्| तृषितश्च सन् मधूच्छिष्टेन सह पयः पिबेत्| अथवा घृतं बहुसर्पिर्गोधूमचूर्णं पयसा प्लुतं पिबेत्| अथवा तैलवर्जितानां स्नेहानामनूपमांसरससंयुक्तमन्यतमं पिबेत्| श्यामाख्या त्रिवृत्सिद्धं क्षीरं विरेचनं दद्यात्| तच्च विरेचने पयसा ओदनं प्रति भोजनम्| यदित्यादि सुबोधम्|| ३०||
Adhikarana agnirakShAprashaMsA (31-12) · Śloka 12
आहारमग्निः पचति दोषानाहारवर्जितः|
धातून् क्षीणेषु दोषेषु जीवितं धातुसंक्षये|
अग्निमूलं बलं पुंसां बलमूलं हि जीवितम्|
एष सारश्चिकित्साया यदग्नेः परिरक्षणम्||३१||
इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृताव ष्टाङ्गसंग्रहसंहितायां चिकित्सितस्थाने ग्रहणी दोषचिकित्सितन्नाम द्वादशोऽध्यायः||१२||
अस्य चाग्नेरनन्तरोक्तमतियत्नेन प्रतीकारं कुर्यात्| यतस्तीक्ष्णोऽग्निराहारमित्यादिना क्रमेण धातुदाहाज्जीवितमपि नाशयति| अतो यत्नेन शीघ्रमेव चिकित्सेत्| अग्निमूलमित्यादि सुबोधम्| अग्नेः परिरक्षणं चिकित्सायाः सार इति|| ३१|| इति श्रीमन्महामहोपाध्यायेन्दुविरचितायाम् अष्टाङ्गसंग्रहव्याख्यायां शशिलेखायां चिकित्सितस्थाने द्वादशोऽध्यायः