Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

1. jvaracikitsitam

Adhikarana atha jwaracikitsitannAma prathamo~adhyAyaH, avataraNikA · Śloka

🔊 Audio coming soon

निदानस्थाने ज्वरादिक्रमेण प्रधानरोगाणाम् हेत्वादिकमुक्त्वा तेषामेव तेनैव क्रमेण साध्यानां सतामवसरप्राप्तं प्रतीकारं प्रदर्शयितुं चतुर्थस्थानमारभ्यते|

Adhikarana adhyAyapratij~jA (1) · Śloka 1

अथातो ज्वरचिकित्सितं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः||१||

🔊 Audio coming soon

अथेत्यादि पूर्ववद्व्याख्येयम्| इतीत्यदि च| चिकित्सितं प्रतीकारः|१|

Adhikarana la~gghanam (2) · Śloka 2

आमाशयस्थो हत्वाऽग्निं सामो मार्गान्पिधाय यत्| विदधाति ज्वरं दोषस्तस्मात् कुर्वीत लङ्घनम्| प्राग्रूपेषु ज्वरादौ वा बलम् यत्नेन पालयन्| बलाधिष्ठानमारोग्यमारोग्यार्थः क्रियाक्रमः||२||

🔊 Audio coming soon

आमाशयस्थ इत्यादिना प्रकृतार्थप्रस्तावना| यद्यस्मादामाशयस्थत्वादिरूपो दोषोः दुष्टो वातादिर्ज्वरं विदधाति तस्माज्ज्वरे प्रथमं लङ्घनं कुर्वीतेति सम्बन्धः| यद्यपि लङ्घनं द्वादशसु परिभाषितं लङ्घनबृंहणीयेऽत्र पुनरुपवासे वर्तते| कुतः? तेषामवस्थावशात् प्रयोगः इति जेज्जटः| हेतुनिर्देशेनैतत् प्रदर्श्यते येषु ज्वरेष्वेवंरुपतसम्प्राप्तेस्तत्रैव लङ्घनं विधेयं नाऽन्यत्र| तथा च वक्ष्यति - `शुद्धवातक्षयागन्तुजीर्णज्वरिषु लङ्घनं| नेष्यत' इति| अत्र च लङ्घन शब्देन न वमनादिकम् सर्वं लङ्घनमुच्यते; किन्तु उपवास एव| ननु तल्लङ्घनं कस्यामवस्थायां कुर्वीतेत्याह-प्राग्रूपेष्वित्यादि| ज्वरस्य पूर्वरूपदर्शन एव लङ्घनं कुर्वीत| यदा तु प्राग्रूपदर्शनकाले निदानस्य साधारणत्वादपरिज्ञानाद्वा लङ्घनविषयता आशङ्क्यते तदा ज्वरादावपि योज्यम्| ज्वरस्यादिर्ज्वरादिः, ज्वरो प्रारम्भ इत्युक्तं प्राग्रूपेषु ज्वरादौ वेति| अन्ये पुनरेवं वर्णयन्ति ज्वरस्य प्राग्रूपेषु लङ्घनमवश्यं कुर्वीत ज्वरादौ ज्वरव्यक्तता प्रादुर्भावे वा लङ्घनं कुर्वीत ;तेन शुद्धवातादिविषये व्यक्ते ज्वरे लङ्घनं न विधेयम्| बलं यत्नेन पालयन्नित्यनेनैतदुच्यते- तावल्लङ्घनं कुर्वीत यावता बलहानिर्न भवति| तेन लङ्घितलिङप्रादुर्भावेऽपि बलपालनानुरोधेन लङ्घनाद्विरमेत्| बलाधिष्ठादिनमित्यादिना बलपालने हेतुरुच्यते||२||

Adhikarana la~gghanaphalam (3) · Śloka 3

लङ्घनैः क्षपिते दोषे दीप्तेऽप्नौ लाघवे सति| स्वास्थ्यं क्षुतृडृचिः पक्तिर्बलमोजश्च जायते||३||

🔊 Audio coming soon

लङ्घनैरित्यादिना सर्वलङ्घनानां ज्वरविषयाणां सुप्रयुक्तानां फलनिरूपणम्| लङ्घनैर्वमनादिभिर्दोषे तत्साध्ये ज्वरारम्भके क्षपिते तत्क्षपणाच्च भस्मापनयनेनेवाग्नौ दीप्ते लाघवे चोत्पन्ने स्वास्थ्यादिकं जायते| दोषक्षपणादूर्ध्वं लङ्घनेनानिन्धनत्वादग्नेर्नाश एवं स्वास्थ्याद्यभावश्च| तथा चोक्तम्- संशोधनास्रविस्रावस्नेहयोजनलङ्घनैः| यात्यग्निर्मन्दता...............|| इति| तत्र च भण्यते-स्वास्थं रोगाभावः| पक्तिरन्नादीनां पाकः||३||

Adhikarana vamanam (4) · Śloka 4

तत्रोत्कृष्टे समुत्क्लिष्टे कफप्राये चलेमले| सहृल्लासप्रसेकान्नद्वेषकासविषूचिके| सद्योभुक्तस्य सञ्जाते ज्वर सामे विशेषतः| वमनं वमनार्हस्य शस्तं कुर्यात्तदन्यथा| श्वासातीसारसम्मोहहृद्रोगविषमज्वरान्|४|

🔊 Audio coming soon

ननु किं सर्वत्र नियमेन सर्वमेव लङ्घनं विधेयमाहोस्वित् केनचिद्विशेषेणेत्याह -तत्रेत्यादि| उत्कृष्टः प्रभूतः| समुत्क्लिष्टः स्थानात्समन्ताच्चलितः| कफप्रायः श्लेष्मप्रधानः| चलो नैकत्र स्थितिशीलः| सह हृल्लासादिभिर्वर्तते यो मलः तथाविधे मले दोषे वमनार्हस्य सतो ज्वरितस्य वमनमेव शस्तं नात्यलङ्घनमिति सम्बन्धः|सद्योभुक्तस्य त्वष्टविधेऽपि ज्वरे सञ्जाते वमनमेव शस्यते|आगन्तावपि भोजनस्याजारणादिना दोषानुबन्धरक्षणार्थः| सामे तु ज्वरे सद्योभुक्तस्य सञ्जाते विशेषतो वमनम्| वमनार्हग्रहणेन प्रतिषिद्धवमनानां गर्भिण्यादीनां वमनविषयेऽपि ज्वरे वमनं प्रतिषिद्ध्यते| तच्च वमनमन्यथा उत्क्लिष्टत्वादिलक्षणविपरीते मले प्रयुक्तं श्वासादीन् ज्वरितस्य कुर्यात्| अनुत्क्लिष्टस्योत्क्लेशेन वायोर्मार्गरोधाच्छ्वासः| ईषदुत्क्लिष्ट्स्य स्यन्दनेनाग्निनाशादतीसारः| उपशुष्के दोषे औषधस्य तैक्ष्ण्यात्सम्मोहः| तथाविध एवोर्ध्वनयनाद् हृद्रोगः| दोषस्य स्वल्पत्वात् बहिरनिर्हरणाद्दूरदूरतरस्रोतः पूरणेन वा यथाहेतुः सततकादिको विषमज्वरः||४||

Adhikarana vamanam (4) · Śloka 4

तत्रोत्कृष्टे समुत्क्लिष्टे कफप्राये चलेमले| सहृल्लासप्रसेकान्नद्वेषकासविषूचिके| सद्योभुक्तस्य सञ्जाते ज्वर सामे विशेषतः| वमनं वमनार्हस्य शस्तं कुर्यात्तदन्यथा| श्वासातीसारसम्मोहहृद्रोगविषमज्वरान्||४||

🔊 Audio coming soon

ननु किं सर्वत्र नियमेन सर्वमेव लङ्घनं विधेयमाहोस्वित् केनचिद्विशेषेणेत्याह -तत्रेत्यादि| उत्कृष्टः प्रभूतः| समुत्क्लिष्टः स्थानात्समन्ताच्चलितः| कफप्रायः श्लेष्मप्रधानः| चलो नैकत्र स्थितिशीलः| सह हृल्लासादिभिर्वर्तते यो मलः तथाविधे मले दोषे वमनार्हस्य सतो ज्वरितस्य वमनमेव शस्तं नात्यलङ्घनमिति सम्बन्धः|सद्योभुक्तस्य त्वष्टविधेऽपि ज्वरे सञ्जाते वमनमेव शस्यते|आगन्तावपि भोजनस्याजारणादिना दोषानुबन्धरक्षणार्थः| सामे तु ज्वरे सद्योभुक्तस्य सञ्जाते विशेषतो वमनम्| वमनार्हग्रहणेन प्रतिषिद्धवमनानां गर्भिण्यादीनां वमनविषयेऽपि ज्वरे वमनं प्रतिषिद्ध्यते| तच्च वमनमन्यथा उत्क्लिष्टत्वादिलक्षणविपरीते मले प्रयुक्तं श्वासादीन् ज्वरितस्य कुर्यात्| अनुत्क्लिष्टस्योत्क्लेशेन वायोर्मार्गरोधाच्छ्वासः| ईषदुत्क्लिष्ट्स्य स्यन्दनेनाग्निनाशादतीसारः| उपशुष्के दोषे औषधस्य तैक्ष्ण्यात्सम्मोहः| तथाविध एवोर्ध्वनयनाद् हृद्रोगः| दोषस्य स्वल्पत्वात् बहिरनिर्हरणाद्दूरदूरतरस्रोतः पूरणेन वा यथाहेतुः सततकादिको विषमज्वरः||४||

Adhikarana pippalyAdivamanayogaH (5) · Śloka 5

पिप्पलीभिर्युतां गालां कलिङ्गैर्मधुकेन वा| पीत्वोष्णतोयेन वमेन्मध्वम्बुलवणाम्बु वा||५||

🔊 Audio coming soon

पिप्पलीत्यादिना वमनयोगमाह - दोषदेशाद्यपेक्षया यथायोग्यं योगविकल्पः| गाला मदनफलम्| तां गालां कदाचित् पिप्पलीभिर्युक्ततामुष्णामाम्बुना पीत्वा वमेत्| कदाचिदिन्द्रयवैः कदाचिन्मधुयष्ट्या अथवा मधुना संयुक्तमुष्णामाम्बु पीत्वा वमेत्| लवणेन वा संयुक्तमत्र मधुनोऽप्रयोगः| गालानां संयोगिनां समानां कोष्टापेक्षा मात्रा| मधुलवणयोरौषधं याति योग्यता मात्रा||५||

Adhikarana paTolAdayo vamanayogAH (6) · Śloka 6

पटोलनिम्बकर्कोटवेत्रपत्रजलानि वा| पेयां मन्डं रसं चेक्षोर्मध्यं कल्पोदितानि च| वमनानि प्रयुञ्जीत बलकालविभागवित्||६||

🔊 Audio coming soon

अथवा पटोलादीनां पत्रजलं पीत्वा वमेदिति सम्बन्धः| पत्राणां जलस्य च जलसंस्कारापादनी मात्रा| पाने तु जलस्य कोष्ठाद्यपेक्षया तृप्त्यवसानं वा मात्रा| पेयामण्डादीनामिवात्रापि पीत्वा वमेदिति सम्बध्यते| वमेदित्यन्गुल्यादिनोपायेनोद्गिरेत्| मद्यं पूर्वभुकाहारापेक्षया यथायोग्यमिति| वमनानि बलकालविभागवित् प्रयुञ्जीत| वमनानीति बहुवचनं किं उच्यते| न सकृद्यावन्निर्हतदोष इति जेज्जटः| तेनैतदुक्तं व्याध्यौषधबलानुरोधेन चान्यतमस्य वमनस्य प्रयोग इति||६||

Adhikarana upavAsamahatvam (7) · Śloka 7

कृतेऽकृते वा वमने ज्वरी कुर्याद्विशोषणम्| दोषाणाम् समुदीर्णानां पाचनाय शमाय च||७||

🔊 Audio coming soon

अनन्तरोक्तप्रकारेण कृते वमने विशोषणमुपासादिना कुर्यान्नतु सम्य्ग्योगेऽप्यवश्यं तदहरेव वमनविधिप्रदर्शितप्रकारेण पेयां सेवेत| तथा यत्रापि वमनस्याविषयत्वाद्विषयेऽपि वा निमित्तान्तराद्वमनं न कृतं तत्रापि विशोषणं कुर्यात्| दोषाणामित्यादिना यथोक्तोपशोषणप्रयोजनप्रदर्शनम्||७||

Adhikarana upavAsasyAvadhiH (8) · Śloka 8

आमेन भस्मनेवाग्नौ छन्नेऽन्नं न विपच्यते| तस्मादादोषपचनज्ज्वरितानुपवासयेत्||८||

🔊 Audio coming soon

आमेनेत्यादिनोपवासावधिप्रदर्शनम्| यथा बाह्येऽग्नौ भस्मना छन्नेऽन्नं न विपच्यते एवमान्तरेऽप्यामेन च्छन्ने| तस्माद्दोषस्य निरामतोत्पत्तिरुपवासानामवधिः| उपपूर्वो वसिर्भोजननिवृत्तौ वर्तते||८||

Adhikarana uShNAmbupAnaM tadguNAshca (9) · Śloka 9

तृष्णगल्पाल्पमुष्णाम्बु पिबेद्वातकफज्वरे| तत्कफं विलयं नीत्वा तृष्णामाशु निवर्तयेत्| उदीर्य चाग्निं स्रोतांसि मृदूकृत्य विशोधयेत्| लीनपित्तानिलस्वेदशकृन्मूत्रानुलोमनम्| निद्राजाड्यारुचिहरं प्राणानामवलम्बनम्||९||

🔊 Audio coming soon

तस्मिंश्च लङ्घने क्रियमाणे तृष्णागतिमात्रां तृष्णामनुभवन्नेव वातकफज्वरे द्वन्द्वसमुत्थ एव नेत्याह| वाते श्लेष्मणि वा कवोष्णं जलं हितम्| तयोः समुदितयोरप्युष्णमविरोधीति च| तच्चोष्णाम्बु पीतं मार्गावरकं कफं विलयं नीत्वा तृष्णां निवर्तयेत्| तथा लीनानामनुत्क्लिष्टरूपाणामपि पित्तादीनामनुलोमनं मार्गप्रेरकं निद्रादिहरं च| निद्रा ह्यस्वास्थ्यहेतुका गृहीता| प्राणानामवलम्बनमम्बुसन्तर्पणस्वभावत्वात्| एवं यथोक्तविषये उष्णाम्बुना एव प्रयोगः||९||

Adhikarana shItajalapAnaparihAraH (10) · Śloka 10

विपरीतमतः शीतं दोषसङ्घातवर्धनम्||१०||

🔊 Audio coming soon

विपरीतमित्यादिना तत्रैव शीताम्बुपरिहारे हेतुरुच्यते-उष्णाम्बुनो गुणैर्विपरीतं शीताम्बु दोषसङ्घातवर्द्धनञ्च||१०||

Adhikarana uShNajalAnarhAH (11) · Śloka 11

उष्णमेवङ्गुणत्वेऽपि युञ्ज्यान्नैकान्तपित्तले| उद्रिक्तपित्ते दवथुदाहमोहातिसारिणि| विषमद्योत्थिते ग्रीष्मे क्षतक्षीणेऽस्रपित्तिनि||११||

🔊 Audio coming soon

उष्णमित्यादिना केवलपित्तादीनामुष्णाम्बुप्रतिषेधं दर्शयति- उष्णमनन्तरप्रदर्शिताग्न्युदीरणस्रोतश्शोधनत्वादिगुणसंयुक्तत्वेऽप्येकान्तपित्तलादौ व्याधावातुरे वा न युञ्ज्यात्| उद्रिक्तमन्यदोषाभिभावि पित्तं यत्र| दवथुश्चक्षुरादीन्द्रियाश्रयेषु दाहः| दाहः सर्वाङ्गीणस्तीव्र एव| ग्रीष्मे देशादिविशेषवशाद्वातकफस्योत्कृष्टता; तदा स्तोकं हितमेव||११||

Adhikarana tatra shItaM ShaDa~ggaM jalam (12) · Śloka 12

घनचन्दनशुण्ठ्यम्बुपर्पटोशीरसाधितम्| शीतं तेभ्यो हितं तोयं पाचनं त्रुड्ज्वरापहम्||१२||

🔊 Audio coming soon

तत्र शीताम्बुप्रयोगं दर्शयति- तेभ्यश्चैकान्तपित्तलादिभ्यो घनादिसादितं शीतं तोयं हितं , तद्धि पाचनं तृड्ज्वरापहं च| ननु नागरस्य कटुकत्वात् कथं प्रयोगः; उच्यते - आमाशयसमुत्थत्वाज्ज्वरस्येष्यत एवान्यद्रव्यसंयुक्तस्य जलसंस्कारर्थमावाप एति जेज्जटः| तथ चान्ये पठन्ति- यच्चास्य श्रुतशीताम्बु षडङ्गादि प्रयुज्ज्यते| कर्षमात्रम् ततो दत्वा क्वथयेत्प्रास्थिकेऽम्भसि|| इति||१२||

Adhikarana prasa~ggAjjvare pittaviruddhapratiShedhastatra hetuSca (13) · Śloka 13

उष्मा पित्तादृते नास्ति ज्वरो नात्यूष्मणा विना| तस्मात्पित्तविरुद्धानि त्यजेत्पित्ताधिकेऽधिकम्| स्नानाभ्यङ्गप्रदेहांश्च परिशेषं च लङ्घनम्||१३||

🔊 Audio coming soon

उष्णाम्बुप्रतिषेधप्रसङ्गे सर्वेषां पित्तविरुद्धानां ज्वरे प्रतिषेध उच्यते- उष्मेत्यादि| पित्ताधिके तु ज्वरे पित्तविरुद्धान्याधिकं त्यजेत्| पित्तविरुद्धं यत् पित्तकारि तच्च कफज्वरादौ किञ्चित् त्यजेदित्यधिकशब्दाल्ल्भ्यते| स्ननादींश्च सर्वस्मिन् ज्वरे त्यजेत्| तथा परिशेषं लङ्घनं अवस्थाविशेषवशेनोक्ताल्लङ्घनादन्यलङ्घनं परिशेषम्||१३||

Adhikarana sAmajvare auShadhapratiShedhastatra hetushca (14) · Śloka 14

अजीर्ण इव शूलघ्नं सामे तीव्ररुजि ज्वरे| न पिबेदौषधं तद्धि भूय एवाममावहेत्| आमाभिभूतकोष्ठस्य क्षीरं विषमहेरिव||१४||

🔊 Audio coming soon

अजीर्ण इत्यादिना सामे ज्वरे औषधप्रतिषेधप्रदर्शनम्| इवेत्यादिना- तीव्रार्तिरपि नाजीर्णी पिबेच्छूलघ्नमौषधम्| आमसन्नोऽनलो नालं पक्तुं दोषौषधाशनम्| निहन्यादपि चैतेषां विभ्रमः सहसातुरम्| इति स्मारयति| तीव्ररुजाग्रहणं प्रभूतोपलक्षणार्थम्| अल्पेत्Vवामेऽग्नेः किञ्चिच्छक्तत्वात् क्वाथादिकं प्रयुज्यत| एवं न केवलं साम औषधं त्यजेत् यावत् क्षीरमपि त्यजेदिति प्रदर्शनार्थमाह-आमाभिभूतकोष्ठ्स्येत्यादि| यस्य ह्यामेनाभिभूतः कोष्ठस्तस्य दीपनत्वादियुक्तमप्यौषधं न युज्यते किमुत क्षीरम्| अहिदृष्टान्तेन विषस्य दुष्टता प्रदर्शिता||१४||

Adhikarana sodardAdau svedanaM tatphala~jca (15) · Śloka 15

सोदर्दपीनसश्वासे जङ्घापर्Vवास्थिशूलिनि| वातश्लेष्मात्मके स्वेदः प्रशस्तः स प्रवर्तयेत्| स्वेदमूत्रशकृद्वातान् कुर्यादग्नेश्च पाटवम्| स्नेहोक्तमाचारविधिं सर्वतश्चानुपालयेत्||१५||

🔊 Audio coming soon

इति प्रसङ्गेन ज्वरे परिहार्यदर्शनं कृत्वा सोदर्देत्यादिनाऽवस्थाविशेषेण विधेयविशेषं नियमयति| वातश्लेष्मात्मके ज्वरे उदर्दादिना यथासंभवं संयुक्ते स्वेदाख्य उपक्रमः शस्तः| स स्वेदः स्वेदादीनि प्रवर्तयेत्| उद्र्दोनाम कफरोगः प्रदर्शितः| स्नेहाक्त आचारविधिरुष्णोदकोपचारी स्यादित्यादिकः||१५||

Adhikarana pAcanasaMgrahaH (16) · Śloka 16

लङ्घनं स्वेदनं कालो यवाग्वस्तिक्तको रसः| मलानां पाचनानि स्युर्यथावस्थं क्रमेण वा||१६||

🔊 Audio coming soon

लङ्घनमित्यादिना पूर्वोक्तस्यानियमेन क्रमनियमेन च प्रदर्शनम्| `लङ्घनादि तिक्तरसान्तं पञ्चविधं पाचनमिति' जेज्जटः| लङ्घनमुपवासः| स्वेदनं स्वेदः| कालः परिवासक्रमः| यवाग्वः पेयाः| तिक्तो रसस्तिक्तरसयुक्तद्रव्योपयोगः|वमनं शोधनं न तु पाचनम्| यथास्वमित्युक्तविषयानतिक्रमेण मलानां पाचनानि स्युः| अथवा क्रमेण लङ्घने क्रियमाणे दोषस्य निविडत्वविनाशाय प्रथममेव स्वेदनं, ततः उपवासेन स्वेदेन कालक्रमेण च दोषे मार्दवं याते बुभुक्षायां जातायां यवाग्वस्ततस्तिक्तो रसो मुस्तापर्पटादिः||१६||

Adhikarana la~gghanAnarhAstatra kArya~jca (17) · Śloka 17

शुद्धवातक्षयागन्तुजीर्णज्वरिषु लङ्घनम्| नेष्यते तेषु हि हितं शमनं यन्न कर्शनम्||१७||

🔊 Audio coming soon

सामान्येन नवज्वरे लङ्घनोपक्रमाच्छुद्धवातादिज्वराणां लङ्घनस्य प्रतिषेधः जीर्णज्वरे च लङ्घनविषयेऽपि| तेषु च शुद्धवातादिषु यस्माच्छमनं तच्च शमनं यन्न कर्शनं नाप्यतिबृंहणं रोगस्वभावादित्यर्थाल्लभ्यते||१७||

Adhikarana la~gghanasyAyogasamyagyogalakShaNam (18) · Śloka 18

तत्र सामज्वराकृत्या जानीयादविशोषितम्| द्विविधोपक्रमज्ञानमवेक्षेत च लङ्घने||१८||

🔊 Audio coming soon

तत्रेत्यादिना लङ्घनस्यायोगसम्यग्योगप्रदर्शनम्| ज्वरोपद्रवतीक्ष्णत्वादिकं सामज्वराकृतिः| आकृतिर्ल्लक्षणमिति पर्यायौ||१८||

Adhikarana peyA tadguNashca (19) · Śloka 19

युक्तं लङ्घितलिङ्गैस्तु तं पेयाभिरुपाचरेत्| यथास्वौषधसिद्धाभिर्मण्डपूर्वाभिरादितः| षडहं वा मृदुत्वं वा ज्वरो यावदवाप्नुयात्| तस्याग्निर्दीप्यते ताभिः समिद्भिरिव पावकः| ताश्च भेषजसंयोगाल्लघुत्वाच्चाग्निदीपनाः| वातमूत्रपुरीषाणां दोषाणां चानुलोमिकाः| स्वेदनाय द्रवोष्णत्वान्मृदुत्वात्तृट्प्रशान्तये| आहारभवात्प्राणाय सरत्वाल्लाघवाय च| ज्वरघ्न्यो ज्वरसात्म्यत्वात्तस्मात्पेयाभिरादितः| उपक्रमेज्ज्वरान् सर्वानृते मद्यसमुत्थितान्||१९||

🔊 Audio coming soon

तञ्च ज्वरितञ्च शब्दाभिहितेन सामज्वरलिङ्गविपर्यासेन द्विविधोपक्रमणीयोक्तैश्च लङ्घितलिङ्गैर्युक्तं ज्ञात्वा पेयाभिरुपाचरेत्| किम्भूताभिराह- यथास्वौषधसिद्धाभिर्यस्मिन् ज्वरे यदेव काषायकल्पनौषधयुक्तं तेनौषधेन साधिताभिः| मण्डः पूर्वो यासां ताभिः| लङ्घने कृते मण्डः ततः पेया| कियत्कालमित्याह- आदितो ज्वरारम्भदिनात् प्रभृति षडहं यावत्| यत्र तु षडहात् पूर्वं लङ्घितलिङ्गाभावात् पेया न प्रयुक्ता तत्र यदा प्रयुज्यते तदा तासां ज्वरमार्दवोत्पत्तिर्यावत् प्रयोगः| सुबोधम्| (अथवा यवागूनां प्रति स्वं संस्कारकपिप्पलीनागरादिकमिति जेज्जटः )|

Adhikarana peyAyogAH (20) · Śloka 20

प्राग्जलाजपेयां सुजरां सशुण्ठीधान्यपिप्पलीम्| ससैन्धवां तथाम्लार्थी तां पिबेत्सह दाडिमाम्| सृष्टविड् बहुपित्तो वा सशुण्ठीमाक्षिकां हिमाम्| बस्तिपार्श्वशिरःशूली व्याघ्रीगोक्षुरसाधिताम्| पृश्निपर्णी बलाविल्वनागरोत्पलधान्यकैः| सिद्धां ज्वरासार्यम्लां पेयां दीपनपाचनीम्| ह्रस्वेन पञ्चमूलेन हिक्कारुक्श्वासकासवान्| पञ्चमूलेन महता कफार्तो यवसाधिताम्| विबद्धवर्चां सयवां पिप्पल्यामलकैः कृताम्| यवागूं सर्पिषा भृष्टां मलदोषानुलोमनीम्| चविकापिप्पलीमूलद्राक्षाऽऽमलकनागरैः| कोष्टे विबद्धे सरुजि पिबेत्तु परिकर्तिनि| कोलवृक्षाम्लकलशीधावनीश्रीफलैः कृताम्| अस्वेदनिद्रस्तृष्णार्तः सितामलकनागरैः| सिताबदरमृद्वीकासारिवामुस्तचन्दनम्| तृष्णाच्छर्दिपरीदाहज्वरघ्नीं क्षौद्रसंयुताम्| कुर्यात् पेयौषदैरेव रसयूषादिकानपि||२०||

🔊 Audio coming soon

यदा पेयानामवसरस्तदा मण्डादनु सुजरत्वाल्लाजपेयां पिबेत्| प्राग्लाजपेयां सुजरामिति श्लेष्मण्येषा प्रथमा| अम्लाभिलाषी तामेव दाडिमाम्लां इत्यैषा वाते द्वितीया| सृष्टविड् बहुपित्तो वेत्येषा तृतीया पित्ते| अत्र नागरं मधुरपाकित्वात् पित्तेन विरुद्ध्यते| आमपाचनार्थमिष्यत एव| शेषाणां विषयनिर्देशस्तु शास्त्रस्य कर्त्रा कृत एव इति जेज्जटः| ततस्तण्डुलपेयां सैन्धवलाजपेयां वा| अम्लार्थी ग्रहणेन `कुर्वते हि रुचिर्दोषा' इति स्मार्यते| नत्वर्थितमात्रे प्रयोगः| सर्वासां च पेयानां साधनजलसंस्कारकारी दोषाद्यपेक्षया चौषधमात्रा| अन्ये पठन्ति- यवागूरसयूषेषु रसालापानकादिषु| द्रव्यमात्रां प्रयुञ्जीत लोकसिद्धं यथार्हतः| अथवा यावता व्याप्तिर्नाति स्याद्भेषजेन तु|| सुबोधम्| यवसाधिता यस्यां तण्डुला न प्रविशन्ति| सयवा यत्र स्तोकं यवानाम्| परिकर्तिनि कोष्ठे कोलादिभिः श्रीफलं बिल्वम्||२०||

Adhikarana peyAnarhAH (21) · Śloka 21

मद्योद्भवे मद्यनित्ये पित्तस्थानगते कफे| ग्रीष्मे तयोर्वाधिकयोस्तहृच्छर्दिदाहपीडिते| ऊर्ध्वं प्रवृत्ते रक्ते च पेयां नेच्छन्ति ......||२१||

🔊 Audio coming soon

मद्योद्भवादिके विषये पेयमाचार्या नेच्छन्ति मद्यनित्ये पुरुषे| तयोरित्यनन्तरश्रुतयोः पित्तश्लेष्मणोः| ग्रीष्मकाले वृद्धयोर्वेति समुच्चये| नेच्छतीत्यनेनानुपयुज्यमाने युक्तिविशेषतैवागमस्य प्रदर्शिता||२१||

Adhikarana tatra lAjatarpaNaM deyam (22) · Śloka 22

........................................तेषु तु| द्राक्षादाडिमकाश्मर्यपथ्यापीलुपरूषकैः| समधूकैः सबदरैः सक्षौद्रान् ससितोपलान्| ज्वरघ्नैस्तोयमृदितैरद्भिर्वा लाजतर्पणान्| पिबेत् सुसूक्ष्मरजसस्ततो जीर्णे तु तर्पणे| यवाग्वां वौदनं क्षुद्वानश्नीयाद्भृशताण्डुलम्| दकलावणिकैर्यूषै रसैर्वा मुद्गलावजैः| इत्ययं षडहो नेयो बलं दोषं च रक्षता||२२||

🔊 Audio coming soon

तेषु तु मद्योद्भवादिषु पेयाप्रसङ्गे लाजतर्पणान् पिबेत्| तर्पणाः सक्तवः केन पिबेदाह- ज्वरापहैर्दाडिमादिभिस्तोयमृदितैर्यथायोग्यमथवा केवलाभिरेवाद्भिः| किम्भूतानाह- सशर्कराक्षौद्रान्| तथा सुसूक्ष्मरजसः वस्त्रतितऊच्चारितवान्| ततः पीत्वा तदहरेव जीर्णे यवाग्वां वा स्वविषयप्रयुक्तायां तदहरेव तर्पणे जीर्णे यवाग्वां वा स्वविषयप्रयुक्तायां जीर्णायां यदा क्षुद्वान् भवति तदा भृष्टतण्डुलकृतमोदनमद्यात् केनेत्याह- दकलावणिकैर्यूषैर्वा मुद्गलावाभ्यां वा रसैः| इत्यनेन पेयादिक्रमेणायं लङ्घितोत्तरः षडह आतुरेण बलं देहस्य दोषं च क्षयवृद्धितो रक्षता नेयः|

Adhikarana kaShAyaprayogaH (23) · Śloka 23

ततः पक्वेषु दोषेषु लङ्घनाद्यैः प्रशस्यते| कषायो दोषशेषस्य पाचनः शमनोऽथवा||२३||

🔊 Audio coming soon

ततः पयोक्रमादनन्तरं लङ्घनस्वेदनकाले यवागूभिर्दोषेषु ज्वरारम्भकेषु पक्वेषु दोषशेषस्य पाचनो वा शमनो वा कषायः पञ्चविधकल्पनः प्रशस्यते| कषाय इति पाकेनोपलब्धत्वादौषधस्य संज्ञा- लङ्घनाम्बुयवागूभिर्यदा दोषो न पच्यते| तदा तं मुखवैरस्यतृष्णारोचकनाशनैः| कषायैः पाचनैर्हृद्यैर्ज्वरघ्नं समुपाचरेत्| पाचनीयविषयोऽयम्| संशमनीयविषयश्च| मृदौ ज्वरे लघौ देहे प्रचलेषु मलेषु च| पक्वं दोषं विजानीयाद्यदा देयं तदौषधम्|| तस्मात् संशमनीयकालोऽयमिति जेज्जटः||२३||

Adhikarana kaShAyasya viShayAviShayau (24) · Śloka 24

तिक्तः पित्ते विशेषेण प्रयोज्यः कटुकः कफे| पित्तश्लेष्महरत्वेऽपि कषायः स न शस्यते| नवज्वरे मलस्तम्भात् कषायो विषमज्वरान्| कुरुतेऽरुचिहृल्लासहिध्माऽऽध्मानादिकानपि| न च्यवन्ते न पच्यन्ते कषायस्तम्भिता मलाः| तिर्यग्गता विमार्गा वा वर्धयन्त्यपि च ज्वरम्||२४||

🔊 Audio coming soon

स च कषायस्तिक्तरसः पित्ते विशेषेण योज्यः| विशेषग्रहणात् कफेऽपि योज्या इति लभ्यते| कटुकश्च कफ एव योज्यः| स च कषायः कषायो रसेन पित्तश्लेष्महरोऽपि नवज्वरे न शस्यते|तत्रा हि नवज्वरे कषायो मलानां स्तम्भात् बहिर्गमनपाचनाभावेन तिर्यग्गमनविमार्गगमनाभ्यां यथासंप्राप्तिविषयज्वरानरुच्यादीनपि करोति| कषायरसस्तम्भिता मलाः न च्यवन्ते नाप्यन्तः पच्यन्ते; प्रत्युत तिर्यक्स्रोतस्सु विपरीतं वा मार्गेषु गमनात् ज्वरं वर्धयन्ति| बद्धामादित्वाच्च कषायो यथासम्प्राप्तिशूलादिकार्यपि भवतीति तिर्यग्गमनेन विमार्गगमनेन च विषमज्वरस्य स्वरूपं प्रदर्शितं भवति| नवतायां त्वतीतायां हरीतक्यादेः प्रयोगो दृष्टः;,एवं षडहादौषधयोजनम्||२४||

Adhikarana auShadhakAlaviShaye matAntarANi (25) · Śloka 25

सप्ताहादौषधं केचिदाहुरन्ये दशाहतः| केचिल्लघ्वन्नभुक्तस्य योज्यमामोल्बणेन तु||२५||

🔊 Audio coming soon

केचिदाचार्याः सप्ताहादौषधमाहुः| अन्ये तु दशाहात्| केचित्वेवमाहुः-यथा लङ्घनादनन्तरं यदौषधमुपयुज्यते तदा ये लघ्वन्नं भुक्तं तस्यैव योज्यम्| पक्षत्रयेऽपि समानयोज्यमालोल्बणे त्वौषधं नेति| केवलं केषाञ्चित् षडहमामोल्बणत्वं केषाञ्चित्सप्ताहं केषाञ्चिद्दशाहमिति||२५||

Adhikarana AmolbaNe auShadhaniShedhe hetuH (26) · Śloka 26

तीव्रज्वरपरीतस्य दोषवेगोदये यतः| दोषेऽथवातिनिचिते तन्द्रास्तैमित्यकारिणी||२६||

🔊 Audio coming soon

आमोल्बणे न योज्यमित्यत्र हेतुरुच्यते यतो यस्मात्तीव्रज्वरपरीतस्य दोषवेगोदये सति प्रयुक्तमौषधमत एवापच्यमानं भूयोज्वरं ज्वलयति| अथवा नवज्वरेऽतिनिचिते दोषे तन्द्रास्तैमित्यकारिणी औषधं प्रयुक्तं भूयो ज्वरं ज्वलयति||२६||

Adhikarana acirajvarite~apyauShadhaprayogArhAvasthA (27) · Śloka 27

यदा ज्वरो मृदुर्देहो लघुः प्रचलिता मलाः| अचिरज्वरितस्याऽपि योजयेद्भेषजं तदा||२७||

🔊 Audio coming soon

यदा मृदुज्वरो देहश्च लघुर्मलश्चालिता न तु स्तिमितास्तदा अचिरज्वरितस्यापि भेषजं योजयेत्| कैस्तैः तदुक्तम्| यद्यपि पक्षत्रयं प्रदर्शितं तत्राप्येवमेवावगन्तव्यम्| यस्य ज्वरस्य तीव्रत्वं प्राप्तस्य च लङ्घनस्यायोजनाद्दोषस्यातिवृद्धत्वं सामत्वञ्च तत्रावश्यमौषधं न योज्यम्| एतद्विपर्यये तु योज्यमेव न तु षडहादिकमपेक्षणीयमिति||२७||

Adhikarana kaShAyayogAH pAcanAH kaShAyAH (28) · Śloka 28

मुस्तया पर्पटं युक्तं शुण्ठ्या दुःस्पर्शयापि वा| पाक्यं शीतकषायं वा पाठोशीरं सवालकम्| पिबेत्तद्वच्च भूनिम्बगुडूचीमुस्तनागरम्| यथायोग्यमिमे योज्याः कषाया दोषपाचनाः| ज्वरारोचकतृष्णाऽऽस्यवैरस्यापक्तिनाशनाः| पाठेन्द्रयवभूनिम्बमुस्तपर्पटका मृता| जयन्त्याममतीसारं ज्वरं च समहौषधाः||२८||

🔊 Audio coming soon

मुस्तयेत्यादिना तदेवौषधमुच्यते| एवं दोषादिविशेषापेक्षया पर्पटं कदाचिद्दुरालभया| पाठादित्रयं शृतं वा शीतं वा| भूनिम्बादिचतुष्टयं तद्वच्छृतं वा शीतं वा| इमे च मुस्तापर्पटकादयः कषायाः नियतानियतकल्पना यथायोगं दोषाद्यपेक्षया योगानतिक्रमेण योज्याः| एते च ज्वरादिनाशनाः पाठादयः सनागरा आमादिकं ज्वरिणो यजन्ति यथेच्छकल्पनाप्रयुक्तावातपित्तश्लेष्मणि| यथायोग्यमित्यत्र जेज्जटः पाक्यं शीतकषायञ्च मुस्तापर्पटकं पिबेत्| पाक्यं क्वाथ्यं शीतकषायमनुत्क्वथितमेवोष्णोदके संक्षुद्य द्रव्यं यद्रात्रिपर्युषितं पीयते तत्केवलपित्ते| पैत्तिके च स नागरं पर्पटकं मन्दाग्निः| पित्तकफप्राये सदुरालभं पर्पटकं दुरालभपित्तश्लेष्मोपशमनानामित्याभ्नानात्| दाहबहुलं पाठोशीरं वालकम्| शीतप्राये भूनिम्बगुडूचीमुस्तनागरमिति| अन्ये व्याख्यानयन्ति - पञ्चाप्यमी सर्वयौगिकाः कुतः व्याधिप्रत्यानीकत्वाद्यथा कुष्ठे खदिरं ग्रहण्यां तक्रं प्रमेहे हरिद्रेति|२८||

Adhikarana doShAnusAraM pAcanAni (29) · Śloka 29

दुरालभाऽमृतामुस्तानागरं वातजे ज्वरे| अथवा पिप्पलीमूलगुडूचीविश्वभेषजम्| कनीयः पञ्चमूलं च पित्ते क्षौद्रसमन्विताः| कलिङ्गमुस्तकटुका मुस्तापर्पटकं तथा| सधन्वयासभूनिम्बं वत्सकाद्यो गणः कफे| अथवा वृषगाङ्गेयीशृङ्गवेरदुरालभाः| रुग्विबन्धानिलश्लेष्मयुक्ते दीपनपाचनम्| अभयापिप्पलीमूलशम्याककटुकाघनम्||२९||

🔊 Audio coming soon

दुरालभादिकं वातज्वरे| पिप्पलीमूलादित्रयं वातज्वर एव| केवलमेव ह्रुस्वप्ञ्चमूलकं वाते| कलिङ्गादित्रयं सक्षौद्रं पित्ते|मुस्तापर्पटकं दुरालभाकिराततिक्तसंयुक्तं पित्ते|कफे वत्सकाद्यो गणः| अथवा वृषादयः| गाङ्गेयी मुस्ता|रुगादियुक्ते वातश्लेष्मज्वरे अभयादिकं तच्च दीपनं पाचनं च||२९||

Adhikarana santatAdijvareShu kaShAyayogAH (30) · Śloka 30

कलिङ्गकाः पटोलस्य पत्रं कटुकरोहिणी| पटोलं सारिवा मुस्ता पाठा कटुकरोहिणी| पटोलनिम्बत्रिफलामृद्दीकामुस्तवत्सकाः| किराततिक्तममृताः चन्दनं विश्वभेषजम्| धात्रीमुस्तामृताक्षौद्रमर्धश्लोकसमापनाः| पञ्चैते सन्ततादीनां पञ्चानां शमना मताः| पटोलेन्द्रियवारिष्टभद्रमुस्तामृताऽभयाः| सारिवाद्वितयं पाठा त्रयन्ती कटुरोहिणी| पटोलारिष्टमृद्वीकाशम्याकात्रिफलावृषम्| चन्दनोशीरधान्याब्दगुडूचीविश्वभेषजम्| देवदारूस्थिराशुण्ठीवासाधात्रीहरीतकीः| पञ्च पञ्चज्वरान् घ्नन्ति योगा मधुसितोत्कटाः||३०||

🔊 Audio coming soon

कलिङ्गदिभिः पञ्चभिरर्द्धश्लोकैः पञ्च यथायोग्यकल्पनाः कषायाः यथासंख्येन पञ्चानां सन्ततादीनां शमना मता आचार्याणाम्| एवमेव पटोलादिभिर्योगयोग्यकल्पना मधुसितोत्कटाः प्रभूतमधुसिताः||३०||

Adhikarana vAtajvare katipayAH yogAH (31) · Śloka 31

सगुडाः सारिवा द्राक्षाशताह्वाकणरेणुकाः| काश्मर्यसारिवाद्राक्षात्रयाणाऽमृतागुडः| शतपुष्पावचाकुष्ठदेवदारूहरेणुकाः| शर्करामधुसंयुक्ताः समांसीमुस्तधान्यकाः| कृष्णापुनर्नवाद्राक्षाशताह्वागुडसारिवाः| शालिपर्णीबलाद्राक्षासारिवाच्छिन्नसम्भवाः| आरग्वधो बला रास्ना काश्मर्यं मधुकं गुडाः| शतावरीच्छिन्नरूहास्वरसो वा गुडान्वितः| सकृष्णाजीरकसितानागरश्चामृतारसः| वातज्वरं जयन्त्याशु केवलो वाऽमृतारसः| भार्ङ्गीसरलगाङ्गेयीदारूकुष्ठैलवालुकम्| कोष्णं घृतगुडोपेतं पिबेद्वा वातजे ज्वरे||३१||

🔊 Audio coming soon

सगुडा इत्यादिना नवयोगा वातज्वरे नियताः नियमकल्पनाः| तत्र सारिवादयो रेणुकान्ताः सगुडाः| शतपुष्पादयः समांसीमुस्तधान्यकाः शर्करामधुसंयुक्ताः| कृष्णादयः सारिवान्ताः शालपर्ण्यादयश्छिन्नसम्भवान्ताः| आरग्वधादिकः सगुडः| शतावरीगुडूच्योः स्वरसः सगुडः| गुडूचीरसः सकृष्णाजीरकादिः| केवलश्च गुडूचीरसः| सर्वत्र च मधुगुडशर्कराणां व्यप्तिजनिका मात्रा| भार्ङ्ग्यादिघृतगुडसंयुक्तो वातज्वरे|गाङ्गेयी मुस्ता| एलवालुकमैलेयं सुगन्धि हरिवालुकमिति पर्यायाः||३१||

Adhikarana pittajvare yogAH (32) · Śloka 32

पटोलादिगुडूच्यादि सूत्रोक्तौ पित्तजे ज्वरे| अञ्जनादिः सकाश्मर्यः सारिवादिः सशर्करः| सितामधुककाश्मर्यशीतोशीरपरूषकम्| गुडूचीसारिवोरोध्रकमलोत्पलशर्करः| द्राक्ष्०आऽभयातिक्तघनशम्याकफलपर्पटम्| श्यामापर्पटदुःस्पर्शातिक्तातिक्तसितावृषाः| शर्करातिक्तकटुकात्रायमाणाबिभीतकम्| गुडूच्यामलकैर्युक्तः केवलो वाऽपि पर्पटः| कषायो वा हिमस्तिक्ताद्राक्षामधुकनिम्बजः| पित्तज्वरघ्नी कटुका श्लक्ष्णपिष्टा सशर्करा||३२||

🔊 Audio coming soon

पित्तज्वरे पटोलादिगणो गुडूच्यादिर्वा|सकाश्मर्योऽञ्जनादिः| सशर्करः सारिवादिः| पञ्चभिरर्द्धश्लोकैः सितेत्यादिना यथायोग्यकल्पनम्|सुबोधम्| शीतञ्चन्दनम्| तिक्तः किराततिक्तः| घनो मुस्तः| शम्याक आरग्वधः| तस्य फलम्| गुडूच्यामलकयुक्तः पर्पटः केवलो वा| तिक्तादिजो वा शीतः कषाय इति पित्तजे ज्वरे| कटुका शर्कराचूर्णञ्च पित्तज्वरे||३२||

Adhikarana kaphajvaraghnAH yogAH (33) · Śloka 33

कफजेतिविषोशीरपटोलमरिचक्षपाः| समूर्वेन्द्रयवद्वीपिकुष्ठनिम्बवचागुडाः| सप्तच्छदामृतानिम्बस्फूर्जातं माक्षिकान्वितम्| निशात्रिकटुकं तिक्तानागपुष्पकलिङ्गकाः| सारिवातिविषाकुष्ठदुःस्पर्शामुस्तगुग्गुलुः| परूषं त्रिफला तिक्ता बीजं वृषकजं घनम्| नागरत्रिफलामुस्तामूर्वापाठाः समाक्षिकाः||३३||

🔊 Audio coming soon

अतिविषादयो वचान्ताः सगुडाः कफे| क्षपा हरिद्रा| द्वीपिः चित्रकः| सप्तच्छदादिकं समाक्षिकम्| सप्तच्छदः सप्तपर्णः| स्फूर्जातं काकतिक्तः| निशा सारिवापरूषनागराद्याश्चत्वारः कषयाः समाक्षिकाः| निशा हरिद्रा| कलिङ्गकः इन्द्रयवः| वृषकजं बीजं शाकबीजमिति कफज्वरे||३३||

Adhikarana doShasaMsarge yogAH (34) · Śloka 34

संसर्गसन्निपातेषु मिश्रानेतान् विकल्पयेत्||३४||

🔊 Audio coming soon

एते च योगाः दोषविशेष उक्तास्ते सदृशे दोषे युज्यन्ते| अपि त्वान्तरे विशेषवच्छिन्ने प्रयोगावयवसमुदायशक्त्यानुगुण्येन| तच्च योगमिति करणविधिः कर्माभ्यासादय भिद्यन्ते| एतांश्च कषायान् ययोरेव संसर्गः तयोरेव उक्तान् मिश्रीभावेन कल्पयेत्||३४||

Adhikarana vAtapittaghnAH yogAH (35) · Śloka 35

गोकण्टकबलादर्भाः ससिता वातपित्तजे| द्राक्षामलकभूनिम्बाः सगुडूचीशठीगुडाः| त्रायन्ती सारिवाद्राक्षा काश्मर्यच्छिन्नजागुडाः| द्राक्षामसूरत्रायन्ती गुडूचीसारिवाबलाः| द्राक्षामधूकमधुकलोध्रकाश्मर्यसारिवाः| मुस्तामलकह्रीबेरपद्मकेसरपद्मकम्| मृणालचन्दनोशीरनीलोत्पलपरूषकम्| फाण्टो हिमो वा द्राक्षादिर्जातीकुसुमवासितः| युक्तो मधुसितालाजैर्जयत्यनिलपित्तजम्| ज्वरं मदात्ययं छर्द्दिं मूर्छां दाहं श्रमं भ्रमम्| ऊर्ध्वगं रक्तपित्तञ्च पिपासां कामलामपि||३५||

🔊 Audio coming soon

गोकण्टकादि सशर्करं वातपित्तजे|द्राक्षाद्यर्धश्लोकैर्वातपित्तजे कषाययोग्ये त्रयः कषायाः| द्राक्षामधूकादिना सार्धेनश्लोकेन फाण्टः शीतकषयो वा मध्वादिभिर्युक्तो जातीपुष्पाधिवासितश्चानिलपित्तज्वरमूर्छादिकं जयति| ह्रीबेरं वालकम्||३५||

Adhikarana kaphavAtaghnAH yogAH (36) · Śloka 36

कफवाते वचातिक्तापाठारग्वधवत्सकाः| पिप्पलीचूर्णयुक्तो वा क्वाथश्छिन्नोद्भवोद्भवः| व्याघ्रीशुण्ठ्यमृतक्वाथः पिप्पलीचूर्णसंयुतः| वातश्लेष्मज्वरश्वासकासपीनसशूलजित्| पथ्याकुस्तुम्बरीमुस्ताशुण्ठीकत्तृणपर्पटम्| सकट्फलवचाभार्ङ्गी देवाह्वं मधुहिङ्गुमत्| कफवातज्वरष्ठीवकुक्षिहृत्पार्श्ववेदनाः| कण्ठामयास्यश्वयथुकासश्वासन्नियच्छति||३६||

🔊 Audio coming soon

वचादयः समस्ताः कफवातज्वरे| तत्रैव गुडूचीक्वाथः पिप्पलीचूर्णेन दोषाद्यपेक्षमात्रेण युक्ताः व्याघ्र्यादिक्वाथस्तद्वातश्लेष्मज्वरादिजित्| शूलं शिरसि| पथ्यादिको माक्षिकहिङ्गुयुक्तः कफवातज्वरादिकं नियच्छति||३६||

Adhikarana kaphapittaghnAH yogAH (37) · Śloka 37

आरग्वधादिः सक्षौद्रं कफपित्तज्वरं जयेत्| तथा तिक्तावृषोशीरत्रायन्तीत्रिफलामृताः| पटोलातिविषानिम्बमूर्वाधन्वयवासकाः| वृषपुष्पच्छदरसः शर्करामाक्षिकान्वितः| पित्तश्लेष्मज्वरं हन्ति सासृक्पित्तं सकामलम्| अनन्ताविश्वभैषज्यकटुकातोयतोयदाः| ज्वरतृड्भ्रमसम्मोहधूमकाम्लकनाशनाः||३७||

🔊 Audio coming soon

आरग्वधादिगणो माक्षिकायुक्तः कफपित्तज्वरे| तिक्तादिधन्वयवासान्तं तथा सक्षौद्रमेवेत्यर्थः| वृषस्य पुष्पपत्राभ्यां रसो यथोक्तगुणः| अनन्तादयो ज्वरादिनाशनाः| अनन्ता मूर्वा| तोयं वालकम्| तोयदो मुस्तः धूमकाऽम्लकौ दोषभेदीये प्रदर्शितौ||३७||

Adhikarana sannipAtaghnA yogAH (39) · Śloka 38

सन्निपातज्वरे व्याघ्री देवदारूनिशाद्वयम्| पटोलपत्रनिम्बत्वक् त्रिफलाकटुकायुतम्| मुस्तापर्पटकं पथ्या मृद्दीका कटुरोहिणी| त्रायन्तीकणतन्मूलद्राक्षापथ्यामधूलिकाः| त्रिफलोशीरषड्ग्रन्थायष्टीमधुबलाघनाः| नागरं पौष्करं मूलं गुडूची कण्टकारिका| सकासश्वासपार्श्वार्त्तौ वातश्लेष्मोत्तरे ज्वरे| मधूकपुष्पमृद्दीका त्रायमाणा परूषकम्| सोशीरतिक्तात्रिफलकाश्मर्याकल्पयेद्धिमम्| कषायं तं पिबन् काले ज्वरान् सर्वानपोहति| जात्यामलकमुस्तानि तद्वद्धन्वयवासकम्| बद्धविट्कटुकाद्राक्षात्रायन्तीत्रिफलागुडान्||३८||

🔊 Audio coming soon

सन्निपातज्वरे व्याघ्र्यादिः कटुकान्ताः| मुस्ताद्यर्धश्लोकैस्त्रयो योगा यथायोग्यं सन्निपाते| नागरादिवातश्लेष्मोत्तरे हीनपित्ते सन्निपाते मधूकपुष्पदि शीतकषायं विकल्प्य कस्मिंश्चित् काले ज्वरे प्रयुक्तं सर्वज्वरहरम्| तद्वदेव जात्यादि| तद्वदुरालभा| यस्तु ज्वरं बद्धविट् तद्विषये कटुकादीन् पिबेत्| इति कषायाः||३९||

Adhikarana jvare annaprayogaH (39) · Śloka 39

जीर्णौषधेऽन्नं पेयाद्यमाचरेच्छ्लेष्म्वान्न तु| पेया कफ वर्द्धयति पङ्कं पांसुषु वृष्टिवत्||३९||

🔊 Audio coming soon

अस्मिन्श्चौषधे निरन्नप्रयुक्ते तदहरेव पेयाविलेप्यादिकमन्नमाचरेत्| किं सर्वमित्याह- श्लेष्मवान्न तु| अनेन पेयाद्यन्ने प्रतिषेधः| अत्र हेतुः पेया कफं वर्धयतीत्यादिः| एवं प्रतिषिद्धायां श्लेष्मवतः पेयायां किं योज्यमित्याह||३९||

Adhikarana shleShmavatAM yUShakalpanA (40) · Śloka 40

श्लेष्माभिष्यण्णदेहानामतः प्रागपि योजयेत्| यूषान् कुलत्थचणककलायादिकृतान् लघून्| रूक्षांस्तिक्तरसोपेतान् हृद्यान्रुचिकरान् पटून्||४०||

🔊 Audio coming soon

श्लेष्मेत्यादि| अभिष्यण्णशब्देनोत्क्लिष्टपर्यायेण कफे पाचनत्वेन पेयानां विधाने विरोधं निर्वर्तयति| प्रागपीति न केवलमौषधे जीर्णे पेयादिप्रतिषेधो यावत् कफाधिके लङ्घितलिङ्गादनन्तरमपि यूषानेवोदनेन भृष्टतण्डुलेन सह योजयेत्| रूक्षानिति विना स्नेहेन संस्कृतान्| तिक्तो रसः ज्वरघ्नानां कषायाणां यथायोग्यान्यतमद्रव्याश्रयः||४०||

Adhikarana jIrNA raktashAlayaH (41) · Śloka 41

रक्ताद्याः शालयः जीर्णाः षष्टिकाश्च ज्वरे हिताः| श्लेष्मोत्तरे वीततुषास्तथा वाट्यकृता यवाः| ओदनस्तैः स्रुतो द्विस्त्रिः प्रयोक्तव्यो यथायथम्| दोषदूष्यादिबलतो ज्वरघ्नक्वाथसाधितः|४१|

🔊 Audio coming soon

ज्वरे चाऽन्नं जीर्णा रक्ताद्याः शालयः षष्टिकाश्च पाठक्रमेण हिताः| श्लेष्मोत्तरे तु यवा अपि| तैश्च शालिभिर्दोषदूष्याद्यपेक्षया ज्वरघ्नानन्तरोक्तक्वाथसाधितः सिद्ध ओदनः द्वौ वारौ त्रीन् वारान् वा प्रक्षाल्य स्रुतो यथायथं ज्वरे प्रयोक्तव्यः||४१||

Adhikarana rucikarANi vya~jjanAni (42) · Śloka 41

मुद्गाद्यैर्लघुभिर्यूषाः कुलत्थैश्च ज्वरापहाः| कारवेल्लककर्कोटवालमूलकपर्पटैः| वार्ताकनिम्बकुसुमपटोलफलपल्लवैः| अत्यन्तलघुभिर्मासैर्जाङ्गलैश्च हिता रसाः| व्याघ्री परुषतर्कारी द्राक्षामलकदाडिमैः| संस्कृताः पिप्पलीशुण्ठीधान्यजीरकसैन्धवैः| सितामधुभ्यां प्रायेण संयुता वा कृताकृताः| अनम्लतक्रसिद्धानि रुच्यानि व्यञ्जनानि च| अच्छान्यनलसम्पन्नान्यनुपानेऽपि योजयेत्| तानि क्वथितशीतं च वारि मद्यं च सात्म्यतः||४१||

🔊 Audio coming soon

मुद्गाद्यैरित्यत्र लघुग्रहणेन राजमाषादीनां गुरूणां प्रतिषेधः| कारवेल्लादिभिः पृथगतिलघुभिश्च जाङ्गलानां मांसैस्तद्योग्यज्वरे रसाः हिताः| ते च यूषरसा यथाविषयं व्याघ्र्यादिभिः सितामधुभ्यां च संस्कृताः वा संयुता वा कृता वाऽप्यकृता वा| नाऽत्यम्लेन च तक्रेण सिद्धानि व्यञ्जनान्यन्नेन सह योजयेत्| तान्येव च यूषरसादीन्यनुपानेऽपि योजयेत्| सात्म्यापेक्षया च क्वथितशीतादिकमप्यनुपाने योजयेत्||४२||

Adhikarana pakveShu doSheShu sarpiramRutopamam (43) · Śloka 43

कषायपानपथ्यान्नर्दशाह इति लङ्घिते| सर्पिर्दद्यात्कफे मन्दे वातपित्तोत्तरे ज्वरे| पक्वेषु दोषेष्वमृतं तद्विषोपममन्यथा| दशाहे स्यादतीतेऽपि ज्वरोपद्रववृद्धिकृत्| लङ्घनादिक्रमं तत्र कुर्यादाकफसंक्षयात्||४३||

🔊 Audio coming soon

अस्मिंश्च कषायान्ते लङ्घनक्रमे कृतेऽपि यदि ज्वरो न शान्तस्तत आदितो दशाहेऽतीते लङ्घनक्रमेण च कफे मन्दीभूते वातपित्ते च पूर्वं सम्प्राप्त्यभिमुखीभूते सम्प्रति लङ्घने नैवाधिक्यमुपगतविति सर्पिर्दद्यात्|दशाहग्रहणमस्यां यथोक्तायां ज्वरावस्थायांस्तदा प्रायोभवत्वादुपलक्षणार्थम्| तत्पूर्वेष्वहस्सु सर्पिःप्रतिषेधार्थं च| तच्च सर्पिज्वरे दोषेषु पक्वेषु सत्सूपयुक्तममृतं भवति| अन्यथाऽऽमेष्वप्क्वेष्वतीतेऽपि दशाहे प्रयुक्तं विषोपमं सत् ज्वरोपद्रववृद्धिकृत् स्यात्| उपद्रवाः श्वासादय उक्ताः| ननु यदि सर्पिरत्र प्रतिषिद्धं किमन्यद्योज्यमित्याह-लङ्घनादिक्रममिति| तस्य च क्रमस्य कफसङ्क्षयः अवधिः||४३||

Adhikarana jvare bhojanakAlaH (44-1) · Śloka 1

सज्वरं ज्वरमुक्तं वा दिनान्ते भोजयेल्लघु| श्लेष्मक्षयविवृद्धोष्मा बलवाननलस्तदा| यथोचितेऽथवा काले दोषसात्म्यानुरोधतः| प्रागल्पवह्निर्भुञ्जानो न ह्यजीर्णेन पीड्यते||४४|| इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतावष्टाङ्गसंग्रहसंहितायां चिकित्सितस्थाने ज्वरचिकित्सितन्नाम प्रथमोऽध्यायः||१||

🔊 Audio coming soon

सज्वरमित्यादिना सर्वज्वरावस्थासु भोजनकालं नियमयति| सुबोधम्| यत्स्वल्पाग्निः स प्रागेव भुञ्जानः अजीर्णेन न पीड्यते| प्रथमदिने एष कषायान्ते लङ्घने क्रमः सामे तरुण एव ज्वरे साधुः| इत्यध्ययः समाप्यते||४४|| इति श्रीमन्महामहोपाध्यायेन्दुविरचितायम् अष्टाङ्गसंग्रहव्याख्यायां शशिलेखायां चिकित्सितस्थाने प्रथमोऽध्यायः