Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

2. jīrṇajvaracikitsitam

Adhikarana atha jIrNajvaracikitsitaM nAma dvitIyodhyAyaH,adhyAya pratij~jA (1) · Śloka 1

अथातो जीर्णज्वरचिकित्सितं व्याख्यास्यामः इति ह स्माहुरात्रेयादयो महर्षयः||१||

🔊 Audio coming soon

Adhikarana jIrNajvarAnuvarttane hetuH (2) · Śloka 2

देहधात्वबलत्वेन ज्वरो जीर्णोऽनुवर्तते||२||

🔊 Audio coming soon

देहधात्वित्यादिना प्रयुक्तेऽपि विषये लङ्घनक्रमे ज्वरोऽनुवृत्तेर्हेतुरुच्यते| देहस्याबलत्वं धातूनां चापरिपोषो ज्वरानुवृत्तिहेतुः| तस्याञ्च जीर्णतायां प्रथमं कषायपानं पश्चात्सर्पिरुपक्षिप्तं पूर्वाध्याये| तस्यैवात्र विशेषेण विषयप्रदर्शनं क्रियते||२||

Adhikarana tatra sarpiHprayogaH tadguNAshca (3) · Śloka 3

रूक्षं हि तेजो ज्वरकृत्तेजसा रूक्षितस्य च| वमनस्वेदकालाम्बुकषायलघुभोजनैः| यः स्यादतिबलो धातुः सहचारी सदागतिः| तस्य संशमनं सर्पिर्दीप्तस्येवाम्बुवेश्मनः| वातपित्तजितामग्र्यं संस्कारमनुरुध्यते| सुतरां तद्ध्यतो दद्याद्यथास्वौषधसाधितम्||३||

🔊 Audio coming soon

तस्मिन् जीर्णज्वरे सर्पिः शस्यते| कथमित्याह- रूक्षमित्यादि| तेजो हि ज्वरकृत् पित्ताख्यं तच्च तेजस्त्वादेव रूक्षम्| तेन च तेजसा रूक्षितस्य सतः पुरुषस्य वमनादिभिरपतर्पणैर्यो धातुः सदागत्याख्यः प्रभञ्जनापरनामा तेन सहचार्यातिबलः स्यात्| तस्य सदागतेस्तेजसः सहचारिणः सर्पिः संशमनं भवति| यथा दीप्तस्य वेश्मनोऽम्बु| तच्च सर्पिः वातपित्तजितानामौषधानामग्र्यम्| तथा संस्कारमनुरुध्यते| येनैव संस्क्रियते तद्गुणैः सहात्मीयकार्यकरं भवतीत्यर्थः| यतश्च संस्कारमनुरुध्यतेऽतस्तत्सुतरां यथास्वौषधसाधितं ज्वरिणं दद्यात्| वातान्वये तदौषधैः सिद्धमेवं पित्तकफयोरपि विज्ञेयम्||३||

Adhikarana sarpiShaH sarvadoShaghnatvAtsaghRutAnAM kaShAyANAM prayogaH (4) · Śloka 4

विपरीतं ज्वरोष्माणं जयेत् पित्तं च शैत्यतः| स्नेहाद्वातं घृतं तुल्यं योगसंस्कारतः कफम्| पूर्वे कषायाः सघृताः सर्वे योज्या यथामलम्| त्रिफलापिचुमन्दत्वङ्मधुकं बृहतीद्वयम्| समसूरदलं क्वाथः सघृतो ज्वरकासहा||४||

🔊 Audio coming soon

तच्च सिद्धं सर्पिस्त्रयाणामपि दोषाणां पथ्यामिति प्रदर्शनार्थमाह- विपरीतमित्यादि| ज्वरोष्माणं पित्तं च विपरीतं शैत्याज्जयेत्| वातं तु विपरीतं स्नेहाज्जायेत्| कफं पुनस्तुल्यमपि तन्नाशकद्रव्यसंयोगसंस्काराभ्यां जयेत्| अतो हेतोः पूर्वे मुस्तापर्पटकाद्याः कषाया यथादोषं सघृता साज्या योज्याः| तेनैतदुक्तं भवति - दोषाद्यपेक्षया कदाचिदौषधैः सिद्धं सर्पिः पिबेत् कदाचिदौषधानि सर्पिषा सहेति| सुबोधम्| सुयोज्यम्||४||

Adhikarana nidigdhikAdighRutam (5) · Śloka 5

निदिग्धिकातामलकीत्रायमाणाकलिङ्गकैः| कृष्णांशुमत्यतिविषाकटुकासेव्यचन्दनैः| धात्रीबिल्वघनद्राक्षासारिवाभिश्च साधितम्| हन्ति सद्यो घृतं जीर्णज्वरं कासं हलीमकम्| अरुचिं विषमं वह्निं यक्ष्माणं च नवोत्थितम्||५||

🔊 Audio coming soon

निदिग्धिकादिभिः साधितं घृतं सद्यो जीर्णज्वरादिकं हन्ति| कल्काच्चतुर्गुणश्च स्नेहः पलसङ्ख्यया| स्नेहात्तोयं चतुर्गुणम्| एतच्च प्रमाणस्यानुक्तौ सर्वत्र स्नेहपाकेष्वपि विज्ञेयम्| तामलकी ताली| अंशुमती सालपर्णी| सेव्यमुशीरम्| वह्नेर्वैषम्यमुक्तलक्षणम्||५||

Adhikarana vAsAdighRutam (6) · Śloka 6

वासागुडूचीत्रिफलात्रायमाणायवासकात्| क्वाथे क्षीरे च विपचेज्ज्वरघ्नम् कल्कितैर्घृतम्| पिप्पलीमुस्तमृद्वीकाचन्दनोत्पलनागरैः||६||

🔊 Audio coming soon

वासादीनां क्वाथकल्पनया क्वाथे स्नेहाच्चतुर्गुणे क्वाथसमे च क्षीरे पिप्पल्यादिभिश्च कल्कितैर्मानेन स्नेहाच्चतुर्थांशैर्ज्वरघ्नं घृतं पचेत् पूर्ववत्||६||

Adhikarana balAdighRutam (7) · Śloka 7

बलादुरालभामुस्तात्रायन्तीनिम्बपर्पटम्| पञ्चमूलद्वयं यच्च क्वाथयित्वा घृतं पचेत्| सक्षीरं कल्कितैर्द्राक्षामेदामलकपौष्करैः| शठीतामलकीयुक्तैस्तच्च ज्वरहरं परम्| क्षयकासशिरःपार्श्वहृच्छूलांसाभितापनुत्||७||

🔊 Audio coming soon

बलादिक्वाथेन द्राक्षादिकल्केन घृतं पचेत्| अत्र क्षीरे घृतसमम्| तच्च घृतं परं ज्वरहरं क्षयादिनुच्च||७||

Adhikarana kulatthAdisarpiH (8) · Śloka 8

कुलत्थकोलत्रिफलादशमूलयवान् पचेत्| द्विपलान् सलिलद्रोणे पूते पिष्ट्वाक्षकान् क्षिपेत्| पञ्चकोलकसप्ताह्वयस्थानिम्बतुम्बरून्| शठीपुष्करमूलार्कमूलप्रतिविषावचाः| किराततिक्तकं मुस्तं कर्कटाख्यां दुरालभाम्| नक्तमालमुभे पाठे कटुकाशिग्रुतेजनीः| सोमवल्कद्विरजनीकण्टकीकण्टकारिकाः| पटोलहिङ्गुगोजिह्वाकेम्बुकं मदनाज्झटा| लवणानि पलांशानि क्षारानर्धपलोन्मितान्| प्रस्थं चाज्यस्य तत्सिद्धं दीपनं कफवातजित्| हृत्प्लीहग्रहणीगुल्मकासश्वासार्शसां हितम्| दीर्घज्वराभिभूतानां ज्वरिणाममृतोपमम्||८||

🔊 Audio coming soon

कुलत्थादिक्वाथद्रव्य्पलानि द्वात्रिंशत्| सलिलद्रोणः पलशतानि पञ्चद्वादशपलाधिकानि| क्वथितशेषं चतुर्थांशेन पलानां शतमष्टाविंशत्यधिकम्| अज्झटान्तानि कार्षिकाणि| कण्टकी खदिरः| गोजिह्वा गोजी| अज्झटा बहुपत्रा च भूधात्री तामलक्यपि||८||

Adhikarana ma~jjiShThAdighRutam (9) · Śloka 9

मञ्जिष्ठातिविषापथ्यावचानागररोहिणीः| देवदारू हरिद्रां च द्रोणेऽपां पालिकान् पचेत्| क्वाथेऽस्मिन् साधयेत् पिष्टैर्घृतप्रस्थं पिचून्मितैः| शृङ्गवेरकणाहिङ्गुद्विक्षारपटुपञ्चकैः| तत्कफावृतसर्वोत्थज्वरिणाममृतोपमम्| वर्ध्महिध्मारुचिश्वासकासपाण्डुविकारिणाम्| गलग्रहप्रमेहार्शः प्लीहापस्मारशोफिनाम्| उदावर्तपरीतानां मन्दाग्निकृमिकोष्ठिनाम्||९||

🔊 Audio coming soon

एवमेव मञ्जिष्ठाद्यम्| सुबोधम्| यत्र च सामान्येन क्वाथशब्दः तत्र `क्वाथं द्रव्यपले कुर्यात् प्रस्थार्धं पादशोषित'मित्येतदवगन्तव्यम्| तेन द्रव्यात् षोडशगुणं क्वथनजलम्| क्वथितशेषं चतुर्थांशं द्रव्याच्चतुर्गुणम्| पिचुः कर्णः||९||

Adhikarana guDUcyAdisnehAH (10) · Śloka 10

गुडूच्या रसकल्काभ्यां त्रिफलया वृषस्य च| मृद्वीकाया बलायाश्च सिद्धाः स्नेहा ज्वरच्छिदः||१०||

🔊 Audio coming soon

गुडूच्याः स्वरसः स्नेहाच्चतुर्गुणः तस्या एव कल्कः स्नेहाच्चतुर्थांशः| एवं त्रिफलाया वृषस्य च वाच्यम्||१०||

Adhikarana ghRute jIrNe pathyamapathya~jhca (11) · Śloka 11

जीर्णे ग़ृते च भुञ्जीत मृदुमांसरसौदनम्| बलं ह्यलं दोषहरं परं तच्च बलप्रदम्| कफपित्तहरा मुद्गकारवेल्लादिजा रसाः| प्रायेण तस्मान्न हिता जीर्णे वातोत्तरे ज्वरे| शूलोदावर्तविष्टम्भजनना ज्वरवर्धनाः||११||

🔊 Audio coming soon

यस्मिन् कस्मिंश्चित् घृते जीर्णे मृदुमांसरसाशनं भुञ्जीत| यतः तन्मांसरसाशनं परं बलप्रदं बलं च श्रेष्ठं दोषहरमौषढदितो यत एवमतः पूर्वोक्ताः कारवेल्लादिजा रसा ये पित्तश्लेष्महरास्ते जीर्णज्वरे वातोत्तरत्वान्न हिताः शूलादिजननाश्च||११||

Adhikarana shodhanam (12) · Śloka 12

न शाम्यत्येवमपि चेज्ज्वरः कुर्वीत शोधनम्| शोधनार्हस्य.............................................||१२||

🔊 Audio coming soon

एवञ्च स्नेहयोजनेनापि यदि विषये प्रयुक्तेन ज्वरः न शाम्यति ततः शोधनार्हस्य गर्भिणीसुकुमाद्यतिसार्यादिवर्जितस्य शोधनं योजयेत्||१२||

Adhikarana vamanaviShayaH yogAshca (13) · Śloka 13

...................वमनं प्रागुक्तं तस्य योजयेत्| आमाशयगते दोषे बलिनः पालयन् बलम्| सन्तर्पणोत्थे वमनं पिप्पलीलवणाम्बुना| शर्करामाक्षिकाम्भोभिर्दाहतृष्णोल्बणे ज्वरे||१३||

🔊 Audio coming soon

वमनं पूर्वोक्तपिप्पल्यादि यथायोगं योजयेत्| तच्च वमनं जीर्णज्वरिण आमाशयगते दोषे योज्यं बलिनश्च| यश्च ज्वरः पूर्वं सन्तर्पणोत्थस्तत्र पिप्पलीलवणाम्बुनैव वमनं योज्यम्| दाहतृष्णोल्बणे पुनः सर्वं वमनं पित्तान्वयेन शर्करामाक्षिकोदकैरेव योज्यम्||१३||

Adhikarana virecanaviShayaH yogAshca (14) · Śloka 14

पक्वे तु शिथिले दोषे ज्वरे वा विषमद्यजे| मोदकं त्रिफलाश्यामात्रिवृत्पिप्पलिकेसरैः| ससितामधुभिर्दद्याद्व्योषाद्यं वा विरेचनम्| द्राक्षाधात्रीरसं तद्वत्सद्राक्षां वा हरीतकम्| रसमामलकानां वा घृतभृष्टं ज्वरापहम्| लिह्याद्वा त्रिवृतश्चूर्णं कृष्णात्रिफलयोस्तथा| सर्पिर्मधुभ्यां त्रिफलां पिबेद् द्राक्षारसेन वा| आरग्वधं वा पयसा मृद्वीकानां रसेन वा| त्रिफलां त्रायमाणां वा पयसा ज्वरितः पिबेत्| सघृतं त्रिफलाक्वाथं सर्पिषा वा विना शृतम्| पयोऽनुपानमुष्णं वा मृद्वीकास्वरसं पिबेत्| विरिक्तानां च संसर्गी मण्डपूर्वां यथाक्रमम्||१४||

🔊 Audio coming soon

पक्वे तु दोषे शिथिले नातिलीने विरेचनं दद्यात्| तथा विषजे ज्वरे मद्यजे ज्वरे च सुतराम्| विषजो विषसंस्कारजः| किं विरेचनमित्याह- मोदकं त्रिफलादिभिः ससितामधुभिः| अथवा व्योषाद्यं मोदकं विरेचनकल्पपठितं व्योषत्रिजातकाम्भोदेत्यादिना| तथा द्राक्षामलकाभ्यां विमिश्रितं रसम्| सुबोधम्| त्रिफलाकृष्णमूलस्यैको योगः सर्पिर्मधुभ्याम्| तथा द्वितीयः त्रिफलाया द्राक्षारसेन पानम्| आरग्वधं वा मृद्वीकारसेन वा पूर्वापेक्षया विकल्पः| सर्वयोगानां च दोषाद्यपेक्षया भिन्नविषयत्वम्| संसर्गी पेयादिक्रमः| अत्र मण्डः पूर्वं पश्चात् पेयादिः यथाक्रममग्न्युत्कर्षार्थम्||१४||

Adhikarana svayampravRuttadoShANAmupekShaNIyatvam| (15) · Śloka 15

च्यवमानं ज्वरोत्क्लिष्टमुपेक्षेत मलं सदा| पक्वोऽपि हि विकुर्वीत दोषः कोष्ठे कृतास्पदः||१५||

🔊 Audio coming soon

यत्र तु ज्वरे संतापादुत्क्लेशेन मलः स्वयमूर्ध्वमधो वा बहिः प्रवर्तते तत्र तन्मलमुपेक्षेत न विधारयेदित्यर्थः| यतो दोषः पक्वोऽपि कोष्ठे कृतास्पदः सन्नवश्यमेव विकारं कुर्यात्| तस्मादुपेक्षेत||१५||

Adhikarana atipravRuttAnAM saMgrahaNIyatvam (16) · Śloka 16

अतिप्रवर्तमानं वा पाचयन् संग्रहं नयेत्||१६||

🔊 Audio coming soon

अथवा अतिप्रवर्तमानं बलहान्यादिभयात् पाचयन् वैद्यो मलं दोषं संग्रहं नयेत्||१६||

Adhikarana AmasaMgrahaNe doShAH (17) · Śloka 17

आमसंग्रहणे दोषा दोषोपक्रम ईरिताः||१७||

🔊 Audio coming soon

आमे च दोषे स्वयं प्रवर्तमाने संगॄहीते ये दोषा उपद्रवा भवन्ति ते दोषोपक्रमणाध्याये `विधृतास्ते हि कुर्वते| रोगानुत्पादनिर्दिष्टानतिस्थौल्यादिकान् गदानि'त्यनेन ग्रन्थेनोदिता उक्ताः| एतच्च दोषहरणं विरेचनं जीर्णज्वरे पक्वे दोषे योज्यम्||१७||

Adhikarana Amajvare shodhananiShedhaH (18) · Śloka 18

पाययेद्दोषहरणं मोहादमज्वरे तु यः| प्रसुप्तं कृष्णसर्पं स कराग्रेण परामृशेत्||१८||

🔊 Audio coming soon

यस्तु भिषङ्मूढो विरेचनमामज्वरे पाययेत् स स्वयमनर्थकारी प्रसुप्तं कृष्णसर्पं कराग्रेणापि परामृशेत्||१८||

Adhikarana jvarakShINasya malanirharaNopAyaH (19) · Śloka 19

ज्वरक्षीणस्य न हितं वमनं न विरेचनम्| कामं तु पयसा तस्य निरूहैर्वा हरेन्मलान्||१९||

🔊 Audio coming soon

एवं जीर्णे ज्वरेऽपि ज्वरक्षीणस्य न वमनं हितं नापि विरेचनम्| काममित्यङ्गीकरणे| तथाविधस्य क्षीणस्य शोधनसाध्यतायां पयसा निरूहैर्वा ज्वरघ्नैर्मलान् हरेत्||१९||

Adhikarana payaso viShayanirdeshaH (20) · Śloka 20

क्षीरोचितस्य प्रक्षीणश्लेष्मणो दाहतृड्वतः| क्षीरं पित्तनिलार्त्तस्य पथ्यमप्यतिसारिणः| तद्वपुर्लङ्घनोत्तप्तं प्लुष्टं वनमिवाग्निना| दिव्याम्बु जीवयेत्तस्य ज्वरं चाशु नियच्छति| संस्कृतं शीतमुष्णं वा तस्माद्धारोष्णमेव वा| विभज्य काले युञ्जीत ज्वरिणं हन्यतोऽन्यथा||२०||

🔊 Audio coming soon

क्षीरोचितस्येत्यादिना पयसो विषयनिर्देशः| तत् क्षीरं लङ्घनोत्तप्तं वपुर्जीवयेत्| यथाग्निना प्लुष्टं वनं दिव्याम्बु जीवयेत्| तस्य च क्षीणस्य क्षीरं ज्वरमाशु नाशयति| तस्माद्यथायोगं क्षीरं काले विकल्प्य दोषादीन् युञ्जीत| अतोऽन्यथा विपरीते विषये प्रयुक्तं क्षीरं ज्वरिणं हन्ति||२०||

Adhikarana kShIrayogAH (21) · Śloka 21

पयः सशुण्ठीखर्जूरमृद्वीकाशर्कराघृतम्| शृतशीतं मधुयुतं तृड्दाहज्वरनाशनम्| तद्वद् द्राक्षाबलायष्टीसारिवाकणचन्दनैः| चतुर्गुणेनाम्भसा वा पिप्पल्या वा शृतं पिबेत्| कासाच्छ्वासाच्छिरः शूलात्पार्श्वशूलाच्चिरज्वरात्| मुच्यते ज्वरितः पीत्वा पञ्चमूलीशृतं पयः| शृतमेरण्डमूलेन वालबिल्वेन वा ज्वरात्| धारोष्णं वा पयः पीत्वा विबद्धानिलवर्चसः| सरक्तपिच्छातिसृतेः सतृट्शूलप्रवाहिकात्| सिद्धं शुण्ठीबलाव्याघ्रीगोकण्टकगुडैः पयः| शोफमूत्रशकृद्वातविबन्धज्वरकासजित्| वृश्चीवबिल्ववर्षाभूसाधितं ज्वरशोफनुत्| शिंशिपासारसिद्धं च क्षीरमाशु ज्वरापहम्||२१||

🔊 Audio coming soon

सशुण्ठ्यादिकं पयःशृतमनु च शीतं मधुयुक्तञ्च तृडादिनाशनम्| शुण्ठ्यादीनां परस्परसमानां नातिव्याप्तिः| द्राक्षादिभिः पयस्तद्वच्छृतं शीतं मधुयुक्तं तृडादिनाशनमिति| अथवा विकल्प्य केवलेनैव क्षीराच्चतुर्गुणेनैवाम्भसा सिद्धं पिबेत्| अथवा केवलेनैव क्षीरात् चतुर्गुणेनैवाम्भसा सिद्धं पिबेत्| अथवा पिप्पल्यादि सिद्धम्| पञ्चमूलशृतं पयः पीत्वा कासादिभ्यो मुच्यते| एरण्डमूलादिना शृतं पयः पीत्वा ज्वरान् मुच्यत इति सम्बन्धः| किम्भूतादाह- विबद्धानिलवर्चसः सरक्तातिसृत्यादेश्च| शुण्ठ्यादिसिद्धं पयो ज्वरिणः शोफादिजित् व्याघ्री कण्टकारिका| त्रिकण्टको गोक्षुरकः| सुबोधम्| एका पुनर्नवा वृश्चीवो द्वितीया वर्षभूः| सारः स्थिरमाभ्यन्तरं शिंशिपाया इति पय उक्तम्||२१||

Adhikarana nirUhabastiviShayo guNAshca (22) · Śloka 22

निरूहस्तु बलं वह्निं विज्वरत्वं मुदं रुचिम्| दोषे युक्तः करोत्याशु पक्वे पक्वाशयं गते| पित्तं वा कफपित्तं वा पक्वाशयगतं हरेत्| स्रंसनं त्रीनपि मलान् बस्तिः पक्वाशयाश्रयान्||२२||

🔊 Audio coming soon

निरूह उच्यते| पक्वे दोषे पक्वाशयगते च युक्तो निरूहओ बलादिकमाशु करोति| तस्यैव विरेचनाद्गुणातिशय उच्यते| स्रंसनं विरेचनम्| तद्यपि परं पक्वाशयगतं पित्तमेव हरेत्| कफपित्तमेव वा| बस्तिः पुनस्त्रीनपि वातादीन् मलान् पक्वाशयाश्रयान् हरेत्||२२||

Adhikarana anuvAsanaviShayaH (23) · Śloka 23

प्रक्षीणकफपित्तस्य त्रिकपृष्टकटीग्रहे| दीप्ताग्नेर्बद्धशकृतः प्रयुञ्जीतानुवासनम्||२३||

🔊 Audio coming soon

प्रक्षीण इत्यादिना प्रसङ्गेनानुवासस्य स्नेहबस्तेर्ज्वरे विषय निर्देशः क्रियते||२३||

Adhikarana bastiyogAH (24) · Śloka 24

निरूहस्तत्रादौ पटोलादिनिरूहः पटोलनिम्बच्छदनकटुकाचतुरङ्गुलैः| स्थिराबलागोक्षुरकमदनोशीरबालकैः| पयस्यर्धोदके क्वाथं क्षीरशेषं विमिश्रितम्| कल्कितैर्मुस्तमदनकृष्णामधुकवत्सकैः| बस्तिं मधुघृताभ्याञ्च पीडयेज्वरनाशनम्||२४||

🔊 Audio coming soon

पटोलेत्यादिना निरूहा उच्यन्ते| तत्र पटोलाद्यौषधानि समानि| तेभ्यश्चाष्टगुणं क्षीरं ग्राह्यं तावज्जलम्| द्रव्याच्चतुर्गुणस्य क्वथितशेषस्य ग्रहणे प्राप्ते बाधकवचनं क्षीरशेषमिति| `कल्कसर्पिर्मधूनि च| सर्वत्र चाष्टमं भागं कल्कमुद्भवति वा यथा| नात्यच्छसान्द्रते 'त्यादिप्रकारेण| पटोलनिम्बयोः छादनं पत्रम्| चतुरङ्गुलः आरग्वधः| स्थिरा सालपर्णी| कृष्णा पिप्पली||२४||

Adhikarana parNinyAdirnirUhaH (25) · Śloka 25

चतस्रः पर्णिनीर्यष्टीफलोशीरनृपद्रुमान्| क्वाथयेत्कल्कयेद्यष्टीशताह्वाफलिनीफलम्| मुस्तं च बस्तिः सगुडक्षौद्रसर्पिर्ज्वरापहः||२५||

🔊 Audio coming soon

पर्णिन्यादिक्वाथे कल्कादिबस्तिविधिप्रदर्शितम्| पर्णिन्यः सालपर्णी पृश्निपर्णी मुद्गपर्णी माषपर्णी च| यष्टी मधुयष्टी| फलं मदनफलम्| नृपद्रुमः आरग्वधः| शताह्वा शतपुष्पा| फलिनी गन्धप्रियङ्गुः||२५||

Adhikarana trAyamANAdirnirUhaH (26) · Śloka 26

त्रायमाणाऽमृतायष्टीमदनांशुमतीद्वयैः| सबलाचन्दनवृषैर्जाङलैश्च मृगद्विजैः| क्वाथे कृते क्षिपेत्पिष्ट्वा फलयष्टीकणाघनम्| स सद्यो ज्वरहा बस्तिः साज्यक्षौद्रोऽल्पसैन्धवः||२६||

🔊 Audio coming soon

त्रायमाणाद्यैरौषधैः सह जाङ्गलानां मृगानां पक्षिणां च यथालाभं क्वाथसंस्कारकराः स्नेह्यत्वापादनीश्च मात्राः| शेषं पूर्ववत्| अंशुमतीद्वयं सालपर्णीपृश्निपर्ण्यौ| फलं मदनफलम्| कणा पिप्पली| घनो मुस्तः||२६||

Adhikarana AmrAdiko nirUho~anuvAsanashca (27) · Śloka 27

आम्रादिनां त्वचं शङ्खं चन्दनं मधुकोत्पलम्| स्वर्णगैरिकमञ्जिष्ठामृणालाञ्जनपद्मकम्| क्षीरेण कल्किनं बस्तिं शीतं समधुशर्करम्| दाहज्वरहरं दद्यात्सिद्धं तैश्चानुवासनम्||२७||

🔊 Audio coming soon

आम्रादिकं क्षीरेण पिष्टं बस्तिः| आम्रादिन्यम्लानि फलानि| मधुकं मधुयष्टी| अञ्जनं सौवीरम्| तैरेवाम्रादिभिस्सिद्धं तैलमनुवासनं||२७||

Adhikarana jIvantyAdyanuvAsanam (28) · Śloka 28

जीवन्तीं मदनं मेदां पिप्पलीं मधुकं वचाम्| ऋद्धिं रास्नां बलां बिल्वं शतपुष्पां शतावरीम्| पिष्ट्वा क्षीरं जलं सर्पिस्तैलं चैकत्र साधितम्| ज्वरेऽनुवासनं कुर्यात्तथा स्नेहं यथामलम्||२८||

🔊 Audio coming soon

जीवन्त्याद्ये क्षीरजलसर्पिस्तैलानां समानम्| स्नेहाच्चतुर्थांशः पिष्टानाम्| तथा स्नेहं यथामलमित्यनेनैतदुच्यते| दोषमधिकं ज्वरे ज्ञात्वा कदाचित्सर्पिरधिकमत्र कुर्यात् कदाचित्तैलमिति||२८||

Adhikarana parishiShTabastInAM nirdeshaH (29) · Śloka 29

चन्दनागरुकाश्मर्यपटोलमदनोत्पलैः| पटोलारिष्टमदनगुडूचीमधुकैरपि| ये च सिद्धिषु वक्ष्यन्ते बस्तयो ज्वरनाशनाः||२९||

🔊 Audio coming soon

चन्दनदिभिरपि साधितं तैलं ज्वरेऽनुवासनं दद्यादिति सम्बन्धः| पटोलादिभिरपि| सिद्धिषु बस्तिसिद्ध्यध्याये च ज्वरनाशना बस्तयो वक्ष्यन्ते| तान्यपि ज्वरे दद्यात्||२९||

Adhikarana nasyaviShayaH guNAshca (30) · Śloka 30

शिरोरुग्गौरवश्लेष्महरमिन्द्रियबोधनम्| जीर्णज्वरे रुचिकरं दद्यान्नस्यं विरेचनम्| स्नैहिकं शून्यशिरसो दाहार्ते पित्तनाशनम्||३०||

🔊 Audio coming soon

तथा जीर्णज्वरे अवस्थाविशेषज्ञो भिषग्विरेचनं नाम नस्यविधिप्रदर्शितं नस्यं दद्यात्| तद्धि जीर्णज्वरतः शिरोरोगादिहरमिन्द्रियपाटवं रुचिञ्च करोति| यो हि जीर्णज्वरवान् श्लेष्मणः क्षीणत्वात् शून्यशिरास्तस्य स्नैहिकं नाम नस्यं दद्यात्| स्नैहिकं बृंहणम्| दाहेनार्ते पित्तनाशनं शमनं नस्यम्||३०||

Adhikarana dhUmagaNDUShakavalAH (31) · Śloka 31

धूमगण्डूषकवलान् यथादोषं च कल्पयेत्| प्रतिश्यायस्यवैरस्यशिरः कण्ठामयापहान्||३१||

🔊 Audio coming soon

तथा जीर्णज्वरे कुपितदोषापेक्षया धूमादीनपि कल्पयेत्| ते हि तस्य प्रतिश्यायादिहराः|| ३१||

Adhikarana arucau mukhadhAraNam (32) · Śloka 32

अरुचौ मातुलुङ्गस्य केसरं साज्यसैन्धवम्| छात्रीद्राक्षासितानां वा कल्कमास्येन धारयेत्||३२||

🔊 Audio coming soon

जीर्णज्वरेऽरुचौ मातुलुङ्गकेसरं घृतसैन्धवयुक्तमास्येन धारयेत्| द्राक्षादिकल्कं वा||३२||

Adhikarana abhya~ggAlepamajjanadhUpAdika~jca (33) · Śloka 33

यथोपशयसंस्पर्शान् शीतोष्णद्रव्यकल्पितान्| अभ्यङ्गालेपसेकादीन् ज्वरे जीर्णे त्वगाश्रिते| कुर्यादञ्जनधूपांश्च तथैवागन्तुजेऽपि तान्||३३||

🔊 Audio coming soon

यश्च जीर्णो ज्वरस्त्वचमाश्रित्य वर्तते तत्राभ्यङ्गादीन् कुर्यात्| किम्भूतानाह- यथोपशयसंस्पर्शान्| य एव संस्पर्श उपशेते शीतो वा उष्णो वा तेन युक्तान् तथा कदाचिच्छीतद्रव्यकल्पितात् कदाचिदुष्णद्रव्यकल्पितात्| अञ्जनधूपांश्च त्वगाश्रिते कुर्यात्|आगन्तुकेऽपि ज्वरे तथैव यथोपशयेत्यादिना तानित्यभ्यङ्गादीन् योजयेत्||३३||

Adhikarana dAhajvaracikitsA (34) · Śloka 34

तत्रादौ सहस्रधौतघृताद्यभ्यङ्गः दाहे सहस्रधौतेन सर्पिषाभ्यङ्गमाचरेत्| सूत्रोक्तैश्च गणैस्तैस्तैर्मधुराम्लकषायकैः| दूर्वादिभिर्वा पित्तघ्नैः शोधनादिगणोदितैः| शीतवीर्यैर्हिमस्पर्शैः क्वाथकल्कीकृतैः पचेत्| तैलं सक्षीरमभ्यङ्गात् सद्यो दाहज्वरापहम्||३४||

🔊 Audio coming soon

दाह इत्यादिना दाहज्वरचिकित्सा| सहस्रधौतं सर्पिर्यत्तापितं तापितं शीतोदकेन शतशः स्त्यानीक्रियते| सूत्रस्थानोक्तैर्वा तैस्तैर्मधुरादिगणैरित्येवमादौ क्वाथकल्कीकृतैस्तैलं पचेदिति सम्बध्यते| घृतमध्वित्यादि मधुरो गणः| दाडिमामलकेत्यादिकोऽम्लः| हरीतक्यादि कषायः| शोधनादिगणाध्यायः तत्रोक्तानि दूर्वानन्तेत्यादीनि पित्तघ्नानि येषामेव क्वाथपरिभाषया क्वाथस्तेषामेव कल्कपरिभाषया कल्कः| क्षीरं तैलसमम्||३४||

Adhikarana candanAditailam (35) · Śloka 35

चन्दनं मधुकं काला द्राक्षा मधुरसा निशा| तत्सिद्धं पूर्ववत्तैलं दाहज्वरहरं परम्||३५||

🔊 Audio coming soon

चन्दनादिके पूर्ववत् तैलमित्यनेन न सक्षीरमिति स्मर्यते| काला नीलिनी| मधुरसा मूर्वा||३५||

Adhikarana tailadravyairevAlepAdikam (36) · Śloka 36

शिरोगात्रं च तैरेव नातिपिष्टैः प्रकल्पयेत्| तत्क्वाथेन परीषेकमवगाहं च योजयेत्| तथारनालसलिलक्षीरशुक्तघृतादिभिः||३६||

🔊 Audio coming soon

यान्येव द्रव्याणि तैलसाधनायोक्तानि तैरेव नातिश्लक्ष्णपिष्टैः दाहे शिरो गात्रञ्च प्रकल्पयेत्| तेषामेव क्वाथेन परीषेकमवगाहं च योजयेत्| तथैवारनालादिभिः परीषेकमवगाहं च||३६||

Adhikarana kapitthAdilepAH (37) · Śloka 37

कपित्थमातुलुङ्गाम्लविदारीलोध्रदाडिमैः| बदरीपल्लवोत्थेन फलेनारिष्टकस्यवा| कर्पूरपद्मकोशीरकालीयाम्बुकुचन्दनैः| तुङ्गप्रियङ्गुशैवालकमलोत्पलकर्दमैः| वेत्राग्रलोध्रपुण्ड्राह्वमारनालेन कल्कितैः| लेपा व्यस्तैः समस्तैर्वा दाहघ्ना वर्णकारिणाः||३७||

🔊 Audio coming soon

कपित्थादिभिर्यथादोषादि यथालाभञ्च व्यस्तैः समस्तैर्वा लेपा दाहघ्नत्वादियुक्ताः| समस्तेषु लेपा इति बहुवचनं पुनः पुनः क्रियापेक्षया| अम्लोऽम्लवेतसः| बदरीपत्राणामम्लानां च मुसलक्षुण्णानां फेन उद्गच्छति| अरिष्टको निम्बः| कालीयकं चन्दनम्| कुचन्दनं रक्तचन्दनम्| अम्बु वालकम्| तुङ्गः पुन्नागः| पद्मकेसरं वा| आरनालेन कल्कितानि नातिश्लक्ष्णपिष्टानि||३७||

Adhikarana dhAtryAdilepAH (38) · Śloka 38

धात्रीत्वक्पत्रनलदशङ्खव्याघ्रनखोत्पलैः| चन्दनाञ्जनमुस्तैश्च सवृक्षाम्लाम्लवेतसैः| सजीवकैः समधुकैः सपलाशैः सदाडिमैः| बीजपूररसक्षौद्रशुक्तयुक्तैः प्रलेपितैः| शिरस्यङ्गे च तृट्छर्दिदाहमोहशिरोरुजः| नश्यन्ति गण्डाः पिटकाः प्रलापश्च ज्वरार्दितः| गौरामलककल्कश्च साम्लः साज्यश्च तद्गुणः||३८||

🔊 Audio coming soon

धात्र्यादिभिर्वृक्षाम्लादिभिश्च बीजपूररसादियुक्तैः| शिरस्यङ्गे च प्रलेपितैस्तृडादयो नश्यन्ति| नलदं मांसी| वृक्षाम्लस्तिन्तिणी| गौराणामामलकानां कल्कोऽम्लेन काञ्जिकशुक्तादिना युक्तः सघृतश्च तद्गुणस्तृडादिनाशनः||३८||

Adhikarana vamanAdiprayogaH (39) · Śloka 39

मधूकमधुकोदीच्यनीलोत्पलमधूलिकाः| जयन्ति मधुसर्पिर्भ्यां लीढा दाहज्वरभ्रमान्| कासासृक्पित्तवीसर्पश्वासहिध्मावमीरपि| वाम्यं च वामयेदाशु शितेन मधुवारिणा| यो वर्णितः पित्तहरो दोषोपक्रमणे क्रमः| तञ्च शीलयतः शीघ्रं सदाहो नश्यति ज्वरः||३९||

🔊 Audio coming soon

मधूकादयः सर्पिर्मधुभ्यां लीढा दाहज्वरादीन् जयन्ति| उदीच्यं वालकम्| मधूकं मधुपुष्पकम्| मधुकं मधुयष्टि| तस्मिंश्च ज्वरे सदाहेऽवश्यमधिकं श्लेष्मलमाशु शीतेन मधुवारिणा वामयेत्| सुबोधम्||३९||

Adhikarana vallakImadhuragItAdikam (40) · Śloka 40

वल्लकीमधुरं गीतं चन्द्रिका हर्म्यमस्तकम्| हरन्ति दाहं हाराश्च हरिचन्दनशीतलाः| दाहं मन्दानिलोद्धूताः कुल्याः सलिलमालिनः| चलत्प्रवालाङ्गुलिभिस्तर्जयन्ति महाद्रुमाः| वाचः शिशूनामव्यक्ता योषितो मदनातुराः| दाहं निर्भर्त्सयन्त्याशु सज्जनानां च सूनृताः||४०||

🔊 Audio coming soon

वल्लकी वीणा| महाद्रुमाश्चलत्प्रवालाङ्गुलिभिर्दाहं तर्जयन्ति| किम्भूताः कुल्यासलिलमालिनः तथा मन्दानिलोद्धूताः यान्येव चलत्प्रवालानि तान्येव तर्जनाङ्गुल्यः| शिशूनामव्यक्ता वाचो दाहमाशु निर्भर्त्सयन्ति| योषितश्च मदनातुराः कामालसा वाचः| सज्जनानाञ्च सूनृता वाचः| सूनृताः प्रियसत्यरूपाः||४०||

Adhikarana priyastrIsa~ggamaH (41) · Śloka 41

रुचिभेदानुरोधेन नानाशक्तिसमन्वितः| दाहशीतज्वरहरः कान्ताकान्ताङ्गसङ्गमः| दाहशीतव्युपशमे तास्ततोऽपनयेत् पुनः||४१||

🔊 Audio coming soon

तथा कान्तानां प्रियाणां यानि कान्तानि चारुण्यङ्गानि तेषां सङ्गमो दाहज्वरशीतज्वरहरश्च| कथमेको विरुद्धकारी भवतीत्याह- रुचीत्यादि| रुच्यनुरोधेन नानाविधशक्तिभिरालेपनालङ्कारादिभिः समन्वितः| तथा च केचित् स्थूलामेव कामयन्ते| अन्ये तन्वीम्| तथा कुङ्कुमागर्वनुलेपनाच्छीतहराः| ताश्च दाहे शीते वा प्रयुक्ताः कान्ता दाहशीतव्युपरमे पुनपनेयाः न तु ताभिः सङ्गतं चिरं कुर्यात्||४१||

Adhikarana shItajvaracikitsA tatrAdau UShNavIryauShadhaiH siddhatailaprayogaH (42) · Śloka 42

वीर्योष्णैरुष्णसंस्पर्शैस्तगरागरुकुङ्कुमैः| कुष्ठस्थौणेयशैलेयसरलामरदारुभिः| नखरास्नापुरवचाचण्डैलाद्वयचोरकैः| पृथ्वीकाशिग्रुसुरसहिंस्राध्यामकसर्षपैः| दशमूलामृतैरण्डद्वयपत्तूररोहिषैः| तमालपत्रपूतीकसल्लकीधान्यदीपकैः| मिसिमाषकुलत्थाग्निप्रकीर्यानाकुलीद्वयैः| अन्यैश्च तद्विधैर्द्रव्यैः शीते तैलं ज्वरे पचेत्| क्वथितैः कल्कितैर्युक्तैः सुरसौवीरकादिभिः| तेनाभ्यज्यात्सुखोष्णेन तैः सुपिष्टैश्च लेपयेत्| कवोष्णैस्तैः परिषेकमवगाहं च योजयेत्||४२||

🔊 Audio coming soon

वीर्योष्णैरित्यादिना शीतज्वरचिकित्सा| तगरादिभिरन्यैश्च वीर्ये स्पर्शे चोष्णैः क्वथितैस्तैरेव च कल्कितैः सौवीरकसुरादियुक्तैः शीते ज्वरे तैलं पचेत्| तेन तैलेनाभ्यज्यात्| पृथक् स्नेहसमं कुर्यात् पञ्चप्रभृति तु द्रवम्| सुरादिकं चाम्लं यथालाभं प्रयुञ्जीत| न द्व्यादिकं द्रवं मिश्रीभूतं स्नेहसमम्| तैरिति तगरादिभिः| स्थौणेयम्| चारटी शुकबर्हाख्यं स्थौणेयं तैलपीतकम्| पुरो गुग्गुलुः| पृथ्वीका हिङ्गुपत्रिका| हिंस्रा मांसी| पत्तुरो मत्स्याक्षको जलशाकः| रोहिषो भूतिकम्| सल्लकी सुरभिः| मोचा महेरुण्यश्चमूत्रिका| दीप्यकोऽजमोदः| मिसिः शतपुष्पा| प्रकीर्यः पूतिकरञ्जः| नाकुली सर्पसुगन्धा||४२||

Adhikarana pariShekapradehAH (43) · Śloka 43

केवलैरपि तद्वच्च शुक्तगोमूत्रमस्तुभिः| कुङ्कुमागरुकस्तूरीनखैलासुरदारुभिः| शैलेयचण्डात्वङ्मुस्तरास्नाकपिवचामयैः| पृथक्प्रदेहाः सर्वैर्वा शीतघ्ना दृढकल्किताः| यवचूर्णं घृताभ्यक्तं पचेत् क्षीरे चतुर्गुणे| दर्वीप्रलेपनं लेपं ज्वरार्त्तस्य प्रयोजयेत्||४३||

🔊 Audio coming soon

शुक्तादिभिः केवलैर्द्रव्यसहितैरपि तद्वत्परिषेकमवगाहं च योजयेदित्यर्थः| कुङ्कुमादिभिः पृथक्सर्वैर्वा प्रदेहाः श्लक्ष्णपिष्टाः शीतज्वरहराः| सुबोधम्||४३||

Adhikarana pAnAdiShvAragvadhAdivargaprayogaH (44) · Śloka 44

आरग्वधादिवर्गं च पानाभ्यञ्जनलेपने||४४||

🔊 Audio coming soon

आरग्वधेन्द्रयवपाटलीत्यादिवर्गं पानाद्यन्यतमया कल्पनया योजयेत्| अभ्यञ्जनं तेन पक्वं तैलम्| लेपने स एव जलपिष्टः||४४||

Adhikarana atideshena dhUpaprayoganirdeshaH (45) · Śloka 45

धूपानगरुजान्ये च वक्ष्यन्ते विषमज्वरे||४५||

🔊 Audio coming soon

अगरुजो धूपः शीतज्वरे हितः| ये च धूपा विषमज्वरे वक्ष्यन्ते पलङ्कषेत्यादिना तान्यपि शीते योजयेत्||४५||

Adhikarana vividhAH shItApadodanaprakArAH (46) · Śloka 46

अग्न्यग्निकृतान् स्वेदान् स्वेदि भेषजभोजनम्| संसर्गबलयोगे च वातश्लेष्मनिबर्हणम्| गर्भभूवेश्मशयनं कुथकम्बलरल्लकान्| निर्धूमदीप्तैरङ्गारैर्हसन्तीश्च हसन्तिकाः| मद्यं सन्त्यूषणं तक्रं कुलत्थव्रीहिकोद्रवान्| सुशीलयेद्वेपथुमान् यच्चान्यदपि पित्तलम्| अजाज्याः सगुडं कल्कं सगुडं वामृतारसम्| रसं वार्ताकफलजं पिबेद्वा मधुसंयुतम्| मधुकागरुकौन्तीनां कल्को व्याघ्रनखस्य च| मद्येन पीतः सक्षौद्रस्तीव्रशीतज्वरापहः| दयिताः स्तनशालिन्यः पीना विभ्रमभूषणाः| यौवनासवमत्ताश्च तमालिङ्गेयुरङ्गनाः| वीतशीतं च विज्ञाय तास्ततोऽपनयेत्पुनः||४६||

🔊 Audio coming soon

अनग्निकृताः स्वेदाः निवातसदनगुरुप्रावरणमुहुर्मद्यपानक्षुद्व्यायामवतनियुद्धाध्वभारहरणामर्षभयैरिति| हसन्तीव दीप्तवातहसन्ती| हसन्तिका अङ्गारशकटी| त्र्यूषणं मरिचं पिप्पली शुण्ठी च| वेपथुः शीतेन प्रकम्पः| मधुकादीनां चतुर्णां कल्को मद्येन| सुबोधम्||४६||

Adhikarana AnAhe kriyAnirdeshaH (47) · Śloka 47

आनाहे कालवित्कुर्यात् क्रियामलसकोदिताम्| पिप्पलीपिप्पलीमूलयवानीचित्रसाधिताम्| यवागूं पाययेच्चैनमनिलस्यानुलोमनीम्||४७||

🔊 Audio coming soon

आनाहे मात्राशितीयेऽलसकोक्तां क्रियां कुर्यात्| कालवित् भिषग्व्याधेस्तद्योग्यं कालं ज्ञात्वेत्यर्थः| एवं चानाहिनं पिप्पल्यादि सिद्धां यवागूं पाययेत्||४७||

Adhikarana trapuShabhakShaNaprayogaH (48) · Śloka 48

सोपद्रवोऽपि चेदेवं ज्वरः शीतो न शाम्यति| अत्युदीर्णेऽनिलकफे स्वस्थाने पित्तधाम्नि वा| तक्रानुपानं त्रपुसं भक्षयित्वाऽनलं भजेत्| आस्वेदसंभवात्तिष्टेत् प्रावृतस्तद्वदातपे| ततो विमृदितस्नातो युक्ताशी स्याद्गते ज्वरे| शमं तौ पित्तवृद्ध्यैवं प्रपद्येते स्वधाम च| निवर्तते ततः शीघ्रं वातश्लेष्मोद्भवो ज्वरः|४८|

🔊 Audio coming soon

एवमनन्तरोक्तया क्रियया शीतज्वरो न शाम्यति| सोपद्रवो यदि वर्तते ततोऽस्मिन्नातुरस्रपुसमामं भक्षयित्वानलं भजेत्| न त्वेवं सर्वत्र अपि त्वनिलकफे अत्युदीर्णे स्वस्थानस्थे पित्तस्थानस्थे वा| कियन्तं कालम् भजेदित्याह-आस्वेदसंभवात्तथा तद्वत्तक्रानुपानं त्रपुसं भक्षयित्वा प्रावृतः सन्नास्वेदसंभवादातपे तिष्ठेत्| ततः स्वेदे सम्भूते मृदितः स्नातश्च मध्यभोजी भवेत्| गते ज्वर इत्यनेनैतत् प्रदर्शते| सज्वरो भक्षितत्रपुसश्च त्दहरन्नं न भुञ्जीतेति| एवं च भवतीत्यादि| शममित्यादि वातकफावेवं पित्तवृद्ध्या शमं स्वधाम च प्रपद्येते| ततश्च तयोः शमं स्वस्थानञ्च यातयोः वातश्लेष्मोद्भवः शीतज्वरः शीघ्रं निवर्तते||४८||

Adhikarana trapuShabhakShaNaprayogaH (48) · Śloka 48

सोपद्रवोऽपि चेदेवं ज्वरः शीतो न शाम्यति| अत्युदीर्णेऽनिलकफे स्वस्थाने पित्तधाम्नि वा| तक्रानुपानं त्रपुसं भक्षयित्वाऽनलं भजेत्| आस्वेदसंभवात्तिष्टेत् प्रावृतस्तद्वदातपे| ततो विमृदितस्नातो युक्ताशी स्याद्गते ज्वरे| शमं तौ पित्तवृद्ध्यैवं प्रपद्येते स्वधाम च| निवर्तते ततः शीघ्रं वातश्लेष्मोद्भवो ज्वरः||४८||

🔊 Audio coming soon

एवमनन्तरोक्तया क्रियया शीतज्वरो न शाम्यति| सोपद्रवो यदि वर्तते ततोऽस्मिन्नातुरस्रपुसमामं भक्षयित्वानलं भजेत्| न त्वेवं सर्वत्र अपि त्वनिलकफे अत्युदीर्णे स्वस्थानस्थे पित्तस्थानस्थे वा| कियन्तं कालम् भजेदित्याह-आस्वेदसंभवात्तथा तद्वत्तक्रानुपानं त्रपुसं भक्षयित्वा प्रावृतः सन्नास्वेदसंभवादातपे तिष्ठेत्| ततः स्वेदे सम्भूते मृदितः स्नातश्च मध्यभोजी भवेत्| गते ज्वर इत्यनेनैतत् प्रदर्शते| सज्वरो भक्षितत्रपुसश्च त्दहरन्नं न भुञ्जीतेति| एवं च भवतीत्यादि| शममित्यादि वातकफावेवं पित्तवृद्ध्या शमं स्वधाम च प्रपद्येते| ततश्च तयोः शमं स्वस्थानञ्च यातयोः वातश्लेष्मोद्भवः शीतज्वरः शीघ्रं निवर्तते||४८||

Adhikarana svarjikAditailam (49) · Śloka 49

स्वर्जिकाकुष्टमञ्जिष्ठालाक्षामूर्वानिशौषधैः| सतक्रं साधितं तैलमभ्यङ्गाद्दाहशीतजित्||४९||

🔊 Audio coming soon

स्वर्जिकादिभिः स्नेहाच्चतुर्थांशैस्तक्रेणैव स्नेहसमेन साधितं तैलमभ्यङ्गाद्दाहज्वरे दाहजित्| शीतज्वरे शीतजित्| सुबोधम्||४९||

Adhikarana doShAnusAramupakramanirdeshaH (50) · Śloka 50

वमनैश्च विरेकैश्च बस्तिभिश्च यथाक्रमम्| ज्वरानुपाचरेद्धीमान् कफपित्तानिलोद्भवान्||५०||

🔊 Audio coming soon

वमनैः कफोद्भवे बस्तिभिर्वातोद्भव इति क्रमः| परतश्च सर्वावस्थास्वप्रतिषिद्धासु विज्ञेयः||५०||

Adhikarana saMsargasannipAtayorupakramanirdhAraNam (51) · Śloka 51

संसृष्टैः सन्निपतितैरेकानेकोल्बणैः समैः| ज्वरान् दोषक्रमापेक्षा यथोक्तैरौषधैर्जयेत्||५१||

🔊 Audio coming soon

संसृष्टैर्द्विसङ्ख्यैर्मिश्रीभूतैस्तथा सन्निपतितैस्तुल्यैर्मिश्रीभूतैरुभयोरप्येकोल्बणैर्वा यो ज्वरस्तान् ज्वरान् यथोक्तैरेव यथादोषमौषधैर्जयेत्||५१||

Adhikarana sannipAtajvare cikitsAsUtrAntaram (52) · Śloka 52

वर्धनेनैकदोषस्य क्षपणेनोच्छ्रितस्य वा| कफस्थानानुपूर्व्या वा सन्निपातज्वरं जयेत्||५२||

🔊 Audio coming soon

विषमदोषं समदोषञ्च सन्निपातमधिकृत्याह- वर्धनेनेत्यादि| विषमदोषमेकस्य दोषस्य वर्धनेन जयेत्| अथवा एकस्योच्छ्रितस्य क्षपणेन जयेत्| अथवा यत्र द्वावुच्छ्रितौ तत्रैको हीनः| यत्र दौ हीनौ तत्रैक उच्छ्रित इति| समदोषं तु कफस्थानानुपूर्व्या जयेत्| प्रथममेव कफविपरीतमौषधं युञ्ज्यात्| ततः पित्तविपरीतं ततो वातविपरीतमिति||५२||

Adhikarana sannipAtopadravasya nidrAkhyasya dAruNatvaM tasya nivAraNa~jca (53) · Śloka 53

निद्रानिवारणोपायः संन्यासाभिहितो हितः| सन्निपाते विशेषेण दारुणोऽयमुपद्रवः||५३||

🔊 Audio coming soon

सर्वस्मिन् ज्वरे निद्राया निवारणोपायः संन्यासे योऽभिहितस्तीक्ष्णनस्यादिकः सहितः| सन्निपाते तु स विशेषेण हितः| योऽयं निद्राख्य उपद्रवो दारुणः सन्निपाते||५३|

Adhikarana karNamUlashophacikitsA (54) · Śloka 54

सन्निपातज्वरस्यान्ते कर्णमूले सुदारुणः| शोफः सञ्जायते तेन कश्चिदेव विमुच्यते| रक्तावसेचनैः शीघ्रं सर्पिष्पानैश्च तञ्जयेत्| प्रदेहैः कफपित्तघ्नैर्नावनैः कवलग्रहैः||५४||

🔊 Audio coming soon

सन्निपातज्वरस्यान्ते सन्निपातज्वरेण क्षपिते शरीरे पुरुषस्य कर्णमूले सुदारुणः शोफः सम्प्राप्तिविशेषवशाज्जायते| तेन शोफेन कश्चिदेव विमुच्यते, प्रायो मारयतीत्यर्थः| तस्मात्तं शोफं कवलग्रहान्तैः शीघ्रं जयेत्||५४||

Adhikarana shAkhAnusArijvare raktamokShaNam (55) · Śloka 55

शीतोष्णस्निग्धरूक्षाद्यैर्ज्वरो यस्य न शाम्यति| शाखानुसारी तस्याशु मुञ्चेद्वाह्वोः क्रमात्सिराम्||५५||

🔊 Audio coming soon

यस्य पुंसः शाखानुसारी धात्वाश्रितो ज्वरो रक्तावसेचनाच्छेषेण शीतोष्णादिकोपक्रमेण न शाम्यति तस्य वाह्वोः क्रमात् सिरां मुञ्चेत्| न तु द्वयोर्युगपत्||५५||

Adhikarana satatakAdiShvapi pUrvoktavidheranuShTheyatA tatra kramashca (56) · Śloka 56

अयमेव विधिः कार्यो विषमेऽपि यथायथम्| ज्वरे विभज्य वातादीन्यश्चानन्तरमुच्यते||५६||

🔊 Audio coming soon

तथा य एव विधिः पूर्वमुक्तः स एव विषमे सततकादिके वातादिदोषविशेषे कोपवशेन यथात्मीयः कार्यः| यश्च विधिरनन्तरमुच्यते सोऽपि कार्यः||५६||

Adhikarana kvAthAH (2) · Śloka 2

पटोलकटुकामुस्ताप्राणदामधुकैः कृताः| त्रिचतुष्पञ्चशः क्वाथा विषमज्वरनाशनाः||२||

🔊 Audio coming soon

Adhikarana triphalAdiprayogaH (57) · Śloka 57

योजयेत्त्रिफलां पत्थ्यां गुडूचीं पिप्पलीं पृथक्| तैस्तैर्विधानैः सगुडं भल्लातकमथापि वा||५७||

🔊 Audio coming soon

सुबोधम्| तथा त्रिफलादीर्नानाविधैर्विधानैः पृथग्योजयेत्| कदाचिद्दोषाद्यपेक्षया विषमज्वरे त्रिफलाः| कदाचिद्धरीतकी| कदाचिद्गुडूचीति पृथक्श्ब्दार्थः|सुबोधम्||५७||

Adhikarana jvarAgamanadivasopakramaH (58) · Śloka 58

लङ्घनं बृंहणं वापि ज्वरागमनवासरे| प्रातः सतैलं लशुनं प्राग्भक्तं वा तथा घृतम्| जीर्णं तद्वद्दधिपयस्तक्रं सर्पिश्च षट्फलम्| कल्याणकं पञ्चगव्यं तिक्ताख्यं वृषसाधितम्||५८||

🔊 Audio coming soon

विषमे सततकादिचतुष्टये यस्मिन् दिने ज्वरे आगच्छति तस्मिंल्लङ्घनं वोपक्रमं बृंहणं वा कुर्वीत दोषाद्यपेक्षया| सुबोधम्| घृतं जीर्णमिति सम्बध्यते| तथेति सतैलम्| तद्विदिति प्राग्भक्तं दध्यादिकम्| षट्पलादिकं सर्पिश्च| षट्पलं पञ्चकोलयवक्षारैः राजयक्ष्मण्युक्तम्| कल्याणमुन्मादे| पञ्चगव्यमपस्मारे| तिक्तकं कुष्ठे| वृषघृतं रक्तपित्ते||५८||

Adhikarana pa~jcamAhiShAdighRutAni (59) · Śloka 59

पञ्चगव्यस्य महतो विधिना पञ्चमाहिषम्| पञ्चाजं चतुरोष्ट्रञ्च सिद्धं सिद्धं घॄतं ....||५९||

🔊 Audio coming soon

तथा महतः पञ्चगव्यस्य विधानेनापस्मारोक्तेन द्विपञ्चमूलादिक्वाथेन भार्ङ्ग्यादिकल्केन च पञ्चमाहिषमपि सिद्धः| पञ्चमाहिषाणि विड्रसमूत्रादीनि| तद्वदेव पञ्चाजम्| तथा चतुरोष्ट्रं विड्रसहीनम्| सिद्धं पक्वम्| सिद्धं नाम फलसाधनाय||५९||

Adhikarana kaTurohiNyAdighRutam (60) · Śloka 60

........................................तथा| कटुरोहिणिमञ्जिष्ठावृषग्रन्थिकचित्रकैः| पाठास्वगुप्ताद्विनिशैः पञ्चगव्यस्य पञ्चसु| प्रस्थेषु संयुतैः सेव्यं विषमज्वरजित् परम्| वाक्स्वरस्मृतिमेधाग्निबलारोग्यवृषत्वकृत्||६०||

🔊 Audio coming soon

तथा कटुरोहिकादिभिः सुसंक्तैः पञ्चगव्यप्रस्थेषु सिद्धं घॄतं सिद्धम्| गोमयस्वरसक्षीरदधिमूत्रघृतानि च पञ्चगव्यानि| कल्कस्य स्नेहाच्चतुर्थेनांशः| ग्रन्थिकं पिप्पलीमूलम्||६०||

Adhikarana kolAdighRUtam (61) · Śloka 61

कोलाग्निमन्थत्रिफलाक्वाथे दध्ना घॄतं पचेत्| तिल्वकावापमेतच्च विषमज्वरनाशनम्||६१||

🔊 Audio coming soon

कोलादिक्वाथे दध्ना स्नेहसमेन पट्टिकालोध्रचूर्णस्य स्नेहात् चतुर्थांशेन घॄतं पचेत्||६१||

Adhikarana khajAhataM kShIraghRUtAdikam (62) · Śloka 62

शृतक्षीरघॄतक्षौद्रसिताकृष्णाः खजाहताः| विषमज्वरहृद्रोगक्षतकासक्षयापहाः||६२||

🔊 Audio coming soon

शृतं क्षीरं घॄतं क्षौद्रं समं गृहीत्वा शर्करापिप्पलीचूर्णं गाढ्त्वपरिहारेण सम्मिश्र्य ते खजाहताः सन्तो विषमज्वरनाशनाः||६२||

Adhikarana surAdikaM pItvA vAmayet (63) · Śloka 63

सुरो तीक्ष्णं च यन्मद्यं शिखितित्तिरिदक्षजम्| मांसं मेध्योष्णवीर्यं च सहान्नेन प्रकामतः| सेवित्वा तदहः स्वप्यादथवा पुनरुल्लिखेत्| सर्पिषो महतीं मात्रां पीत्वा वा छर्दयेत् पुनः||६३||

🔊 Audio coming soon

तथा सुरादिकं सेवित्वा तदहः स्वप्यादथवा तत्सेवित्वा वमेत्| घृतस्य वा महतीं मात्रामहोरात्रजरणलक्षणां पीत्वा छर्दयेत्||६३||

Adhikarana nIlinyAdipAnam (64) · Śloka 64

नीलिनीमजगन्धाञ्च त्रिवृतां कटुरोहिणीम्| पिबेज्ज्वरस्यागमने स्नेहस्वेदोपपादितः||६४||

🔊 Audio coming soon

ज्वरागमनदिवसे तु विषमज्वरेषु नीलिन्यादीन् जलेन पिबेत्| किम्भूत आह- स्नेहस्वेदाभ्यां संस्कृतः||६४||

Adhikarana yApanAH bastayaH (65) · Śloka 65

आस्थापनं वा तदहर्दद्यात्स्विन्नस्य यापनम्| पयसा पृषदंशस्य शकृद्वा तदहः पिबेत्| मस्तुना वा वृषशकृत् सुरया वाथ सैन्धवम्||६५||

🔊 Audio coming soon

अथवा तदहर्ज्वरागमनदिवसे स्विन्नस्य सतो यापनाख्यमास्थापनं दद्यात्| यापनः कल्पसिद्धिषु वक्ष्यन्ते| सुबोधम्| पृषदंशो मार्जारः| वृषः वृषपुङ्गवः| तस्य विण्मस्त्वंशेन च संयुक्तम्| सैन्धवं सुरयैव||६५||

Adhikarana a~jjanaM nasya~jca (66) · Śloka 66

मनोह्वासैन्धवं कृष्णातैलेन नयनाञ्जनम्| योज्या हिङ्गुसमा व्याघ्रीवस नस्ये ससैन्धवा| पुराणसर्पिः सिंहस्य वसा तद्वत् ससैन्धवा||६६||

🔊 Audio coming soon

व्याघ्रीवसा हिङ्गुसमा सैन्धवेन च स्तोकेन युक्ता नस्यम्| पुराणसर्पिः केवलम्||६६||

Adhikarana aparAjito dhUpaH (67) · Śloka 67

पलङ्कषा निम्बपत्रं वचा कुष्ठं हरीतकी| सर्षपाः सयवाः सर्पिर्धूपो विड्वा बिडालजाः| पूरध्यामवचासर्जनिम्बार्कागरुदारुभिः| धूपो ज्वरेषु सर्वेषु कार्योऽयमपराजितः||६७||

🔊 Audio coming soon

पलङ्कषादिकं घृताभ्यक्तं धूपः| बिडालविट् केवला| पूरादिभिरपराजिताख्यो धूपः सर्वज्वरेषु कार्यः| पूरो गुग्गुलुः||६७||

Adhikarana dhUpodvartanAlepAH (68) · Śloka 68

सहदेवावचाभद्रानाकुलीभिः प्रयोजयेत्| धूपनोद्वर्तनालेपान् सर्वज्वरनिबर्हणान्||६८||

🔊 Audio coming soon

सहदेवादिभिः सर्वज्वरहरान् धूपादीन् योजयेत्| भद्रा कृष्णसारिवा| नाकुली सर्पसुगन्धा||६८||

Adhikarana atideshena cittavaikRutacikitsA (69) · Śloka 69

धूमनस्याञ्जनोत्त्रासा ये चोक्ताश्चित्तवैकृते| दैवाश्रयं च भैषज्यं ज्वरान् सर्वानपोहति| विशेषाद्विषमान् प्रायस्ते ह्यगन्त्वनुबन्धजाः||६९||

🔊 Audio coming soon

चित्तवैकृते च भूतोन्मादपस्मारेषु धूपादय उक्तास्तेऽपि ज्वरेषु योज्याः| दैवाश्रयं भैषज्यं मणिमन्त्रादि| विषमान् ज्वरान्न तथान्यदौषधं व्यपोहति यथा दैवव्यपाश्रयम्| यतस्ते विषमाः प्रायेणागन्तोरभिचारग्रहावेशादेरनुबन्धेन जायन्ते| तत्र च बलवत् दैवव्यपाश्रयं कर्म||६९||

Adhikarana sirAvyadhanam (70) · Śloka 70

यथास्वं च सिरां विध्येदशान्तौ विषमज्वरे||७०||

🔊 Audio coming soon

विषमज्वरे च तीक्ष्णोष्णादिभिः सर्वथा अशान्तौ यथास्वं सिरां विध्येत्| `तृतीयकेंऽसयोर्मध्ये स्कन्धस्याधश्चतुर्थके| बाह्वोश्चे'त्यादि यथास्वशब्दार्थः||७०||

Adhikarana dhAtugatajvaracikitsA (71) · Śloka 71

रससंस्थे तु सर्वस्मिन् कुर्याद्वमनलङ्घने| सेकसंशमनालेपरक्तमोक्षानसृक्स्थिते| तीक्ष्णान् विरेकान्मांसस्थे मेदोघ्नं मेदसि स्थिते| अस्थिस्थे वातशमनमभ्यङ्गस्वेदमर्दनम्| ज्वरे वातार्तिशमनं विशेषाद्बस्तिकर्म च||७१||

🔊 Audio coming soon

रससंस्थे प्राधान्येन वमनम्| अन्यद्यथायोग्यं लङ्घनम्| रक्तस्थे ज्वरहरान् सेकादीन्| सुबोधम्| मेदोघ्नं यत्किञ्चित्| अस्थिस्थे ज्वरे वातशमनमभ्यङ्गादिकं कुर्यात्| ज्वरे चान्यत्र तथा वातार्तिशमनं यथा बस्तिरतस्तमपि कुर्यात्| मज्जशुक्रस्थयोः कष्टत्वाद्विशेषेण नोक्तम्| सामान्येनतु मज्ज्ञश्चतुर्थकोक्त्यैवोक्तम्||७१||

Adhikarana kevalAnilAdike jvare cikitsA (72) · Śloka 72

केवलानिलवीसर्पविस्फोटाभिहतज्वरे| सर्पिष्पानहिमालेपसेकमांसरसाशनम्| कुर्याद्यथास्वमुक्तञ्च रक्तमोक्षादिसाधनम्| ग्रहोत्थे भूतविद्योक्तं मणिमन्त्रादिसाधनम्| ओषधीगन्धजे पित्तशमनं विषजिद्विषे||७२||

🔊 Audio coming soon

केवलानिलादिके ज्वरे सर्पिष्पानादिकं कुर्यात्| यथास्वं चाध्यायेषूक्तं विसर्पादिषु रक्तमोक्षादि| चिकित्सितं तदपि ज्वरे कुर्यात्| सुबोधम्||७२||

Adhikarana krodhAdijeShu jvareShu cikitsA (73) · Śloka 73

इष्टैरर्थैर्मनोज्ञैश्च यथादोषशमेन च| हिताहितविवेकैश्च ज्वरं क्रोधादिजं जयेत्| क्रोधजो याति कामेन शान्तिं क्रोधेन कामजः| भयशोकोद्भवौ ताभ्यां भीशोकाभ्यां तथेतरौ| शापाथर्वणमन्त्रोत्थे विधिर्दैवव्यपाश्रयः||७३||

🔊 Audio coming soon

क्रोधकामभयशोकजात् ज्वरानिष्टैः प्रियैर्मनोज्ञै रमणीयैर्जयेत्| पित्तशमनेन क्रोधजम्| भीशोककामजान् वातशमनेनेत्यर्थः| इदं हितं तदत्वानुबन्धयोरिदमहितमिति ज्ञात्वा तदाचरणपरिहाराभ्याञ्च जयेत्| क्रोधजस्तु ज्वरः क्रोधविषये कामोत्पादेन शमं याति| कामजश्च कामविषये क्रोधोत्पादेन| भयोद्भवो ज्वरः शोकोद्भवश्च ताभ्यां कामक्रोधाभ्यां शमं यातः भयविषये क्रोधविषये च दोषाद्यपेक्षया कदचित् क्रोधः कदचित् कामः| तथेतरौ कामक्रोधोद्भवौ भीशोकाभ्यां शमं यातः| सुबोधम्| दैवव्यपाश्रयो विधिमणिमन्त्रादिः||७३||

Adhikarana krodhAdijeShu doShAnusAramapi cikitsA (74) · Śloka 74

ते ज्वराः केवलाः पूर्वं व्याप्यन्तेऽनन्तरं मलैः| तस्माद्दोषानुसारेण तेष्वाहारादि कल्पयेत्| न हि ज्वरोऽनुबध्नाति मारुताद्यैर्विना कृतः||७४||

🔊 Audio coming soon

एतेषु चागन्तुज्वरेषु आहारादिकं दोषानुसारेण कल्पयेत्| यतः ते आगन्तवो ज्वरा आगन्तुसमवधानवेलायां केवलाः सन्तापमात्ररूपा एव भवन्ति| तथाप्यनन्तरं मलैर्वातादिभिर्व्याप्यन्ते यस्मात् ज्वरो मारुताद्यैर्विनाकृतोऽनुबन्धं न गृह्णाति| अनुबन्धश्चेत् स्थिता एव मारुतादय इति||७४||

Adhikarana kathAshravaNAdikam (75) · Śloka 75

कथास्त्रिवर्गसंयुक्ता रुङ्निद्रादिविनोदिनीः| शस्ता विचित्राः शृणुयान्न प्रेतव्याधिताश्रयाः| ज्वरकालस्मृतिं चास्य हारिभिर्विषयैर्हरेत्||७५||

🔊 Audio coming soon

स च ज्वरी ज्वरहेतुकरुङ्निद्रारत्याथादिविनोदनाय विचित्राः प्रशस्ताश्च धर्मार्थकामसंयुक्ताः कथाः शृणुयात् न तथा प्रेताश्रिताश्च| अस्यातुरस्य ज्वरागमनकालस्मृतिं मनोहरैः शब्दादिभिर्हरेत्||७५||

Adhikarana jvaraH kushalena cikitsyaH tatrAbalalAbhaM varjyAni (76) · Śloka 76

त्यजेदाबललाभाच्च व्यायामस्नानमैथुनम् गुर्वासात्म्यं विदाह्यन्नं यच्चान्यज्ज्वरकारणम्| न विज्वरोऽपि सहसा सर्वान्नीनो भवेत् .......| अवस्थानुसारं योग्यं चिकित्सितम् ................................................तथा| निवृत्तो हि ज्वरः शीघ्रं व्यापादयति दुर्बलम्| सद्यः प्राणहरो यस्मात्तस्मात्तस्य विशेषतः| तस्यां तस्यामवस्थायां कुर्यात्तत्तद्भिषग्जितम्||७६||

🔊 Audio coming soon

तथेति सर्वान्नाहरत्वे| हिशब्दो यस्मादर्थे| यस्माज्ज्वरो निवृत्तो गत्वा पुनः प्रत्यावृत्तः पूर्वक्षपितत्वात् दुर्बलं नरं शीघ्रं व्यापादयतीति| स च निवृत्तो ज्वरो यस्मात् सद्यः प्राणहरस्तस्मात् तस्यवस्थाविशेषं विकल्प्य योग्यमौषधं कुर्यात्||७६||

Adhikarana manaso~anukUlaviShayasevA (77) · Śloka 77

मनोभिरामा विषया वचनं ह्लादि दक्षिणम्| करुणार्द्रं मनं शुद्धं सर्वज्वरनिषूदनम्||७७||

🔊 Audio coming soon

मनसो बलाबलेन तदा तदा ज्वरः स्यादित्युक्तमतो मनः पुष्टये मनोभिराम इत्यादिकमुच्यते| विषयाः शब्दादिकाः| दक्षिणमनुकूलम्| शुद्धं रागादिभिरनुपहतम्||७७||

Adhikarana mAtrAdInAM pUjA (78) · Śloka 78

मातरं पितरं देवान् वैद्यान् हरं हरिम्| पूजयेच्छीलयेद्दानदमसत्यदयार्जवान्| धारयेच्च सदा मन्त्रमणिरत्नमहौषधीः||७८||

🔊 Audio coming soon

मात्रादीन् पूजयेत्| दानादींश्च शीलयेत्| शुचिश्च सन्मूर्ध्ना सिद्धमन्त्रादिकं धारयेत्||७८||

Adhikarana devapraNAmAdikaM (79) · Śloka 79

आर्यावलोकितं पर्णशबरीमपराजिताम्| प्रणमेदार्यतारां च सर्वज्वरनिवृत्तये||७९||

🔊 Audio coming soon

आर्यावलोकिताख्यं बौद्धं देवं प्रणमेत्| तथैव पर्णशबरीं नाम विद्यां तथापराजितामार्यतारां च सर्वज्वरनिवृत्तये प्रणमेदेव||७९||

Adhikarana mantravisheShajapaH (80-2) · Śloka 2

जपंस्तथा गतोष्णीषं सर्वव्याधिचिकित्सितम्| आगन्तुदोषसहजैः सर्वरोगैर्विमुच्यते||८०|| इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतावष्टाङ्गसंग्रहसंहितायां चिकित्सितस्थाने जीर्णज्वरचिकित्सितन्नाम द्वितीयोऽध्यायः||२||

🔊 Audio coming soon

तथा गतोष्णीषं नाम मन्त्रविशेषं जपन्नागन्तुजैर्दोषजैः सहजैश्च रोगैर्विमुच्यत इति| तच्च तथा गतोष्णीषवत् सर्वव्याधिचिकित्सितमस्माभिः पर्णशबर्यायाः पठ्यन्ते||८०|| इति श्रीमन्महामहोपाध्यायेन्दुविरचितायम् अष्टाङ्गसंग्रहव्याख्यायां शशिलेखायां चिकित्सितस्थाने द्वितीयोऽध्यायः