Adhikarana atha kuShThacikitsitannAmaikaviMsho~adhyAyaH |adhyAyapratij~jA (1) · Śloka 1
अथातः कुष्ठचिकित्सितं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः||१||
🔊 Audio coming soon
क्रमप्राप्तस्य कुष्ठस्य चिकित्सां प्रदर्शयितुमध्याय आरभ्यते||१||
Adhikarana atha kuShThacikitsitannAmaikaviMsho~adhyAyaH |adhyAyapratij~jA (1) · Śloka 1
अथातः कुष्ठचिकित्सितं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः||१||
🔊 Audio coming soon
क्रमप्राप्तस्य कुष्ठस्य चिकित्सां प्रदर्शयितुमध्याय आरभ्यते||१||
Adhikarana tatrAdau snehapAnam (2) · Śloka 2
पुर्वरूपेष्वेव कुष्ठिनं स्नेहपानेनोपक्रमेत||२||
🔊 Audio coming soon
कुष्ठिनमिति सामान्येन|| २||
Adhikarana vAtottare meShashRu~ggyAdighRutam (3) · Śloka 3
तत्र वामोत्तरे मेषशृङ्गीशार्ङ्गेष्ठैरण्डगुडूचीद्विपञ्चमूलसिद्धं तैलं घृतं वा पानाभ्यङ्गयोर्विदध्यात्||३||
🔊 Audio coming soon
तत्रेति विशेषः| वातोत्तरे कुष्ठे मेषशृङ्ग्यादिभिः सिद्धं तैलं वा घृतं वा पानेऽभ्यङ्गे च योजयेत्| मेषशृङ्गी अजशृङ्गी| द्वे पञ्चमूले पूर्वे| सर्वत्र जलस्य स्मर्तव्यम्|| ३||
Adhikarana pittottare dhavAdighRutam (4) · Śloka 4
पित्तोत्तरे धवाश्वकर्णककुभवचापुनर्नवपलाशपिचुमन्द मधुकलोध्रसमङ्गासिद्धं सर्पिः||४||
🔊 Audio coming soon
पित्तोत्तरे तु धवादिभिः सिद्धं सर्पिरेव| न तैलम्|| ४||
Adhikarana tiktakaM ghRutam (5) · Śloka 5
अथवा पटोलपिचुमन्ददार्वीदुरालभातिक्तरोहिणीपा ठापर्पटकत्रायमाणानां पालिकान् भागान् जलाढकद्वये ऽष्टभागशेषं क्वाथयेत्| तेन कार्षिकैश्चन्दनोपकुल्यामु स्तात्रायन्तीन्द्रयवबूनिम्बैः कल्कितैः सर्पिषो द्वादशपलं साधयेत्| एततिक्तकं सर्पिः कुष्ठविसर्पविस्फोटगण्ड मालाश्वयथुपिटिकारक्तपित्तदुर्नामवातशोणितकामिला पाण्ड्वामयोन्माददाहतृड्भ्रमकण्डूकुष्ठनाडीगुल्ममदति मिरश्वित्रापस्मारभगन्दरोदरप्रदरज्वगरविद्रधिग्रहणीहृद्रोगा नपहरति||५||
🔊 Audio coming soon
अथवा पित्ताधिके पटोलादिभिस्तिक्तकं नाम घृतं भवति| तच्च कुष्ठादीन् पित्ताधिकानपहरति| पिटकाः शराविकाद्याः| असृक्पित्तं रक्तपित्तम्| तिक्तरोहिणी कटुका| उपकुल्या हस्तिपिप्पली| भूनिम्बं किराततिक्तकम्|| ५||
Adhikarana mahAtiktakaM ghRutam (6) · Śloka 6
सप्तच्छदकटुकातिविषाशम्याकपाठामुस्तत्रिफलोशीरप टोलपर्पटकपिप्पलीद्वयद्विरजनीद्विसारिवाचन्दनदुरालभापद्म कवचाशतावरीविशालाकुटजबीजवृषमूर्वागुडूचीभूनि म्बत्रायमाणामधुकगर्भं द्विगुणामलकरसमष्स्टगुणाम्बु सर्पिर्विपक्वं महातिक्तकाख्यं घृतमधिकगुणं पूर्वस्मात्| गुग्गुलुपञ्चतिक्तं वा पिबेत्||६||
🔊 Audio coming soon
सप्तच्छदादीनामौषधानामेकत्रिंशतं गर्भं स्नेहाच्चतुर्थांशेन| स्नेहादेव द्विगुणमामलकरसम्| घृतं महातिक्तकं नाम्ना तिक्तादधिकगुणम्| सप्तच्छदो गुच्छपुष्पः प्रसिद्धः| पिप्पलीद्वयं पिप्पली हस्तिपिप्पली च| रजीनद्वयं पिण्डहरिद्रा दार्वी च| द्वे सारिवे वल्लीसारिवा काष्ठसारिवा च| विशाला गवाक्षी| कुटजबीजमिन्द्रयवम्| भूनिम्बं किराततिक्तकम्| गुग्गुलुना निम्बादिभिश्च यत्संसाध्यते तत् गुग्गुलुपञ्चतिक्तकं वातव्याधौ वक्ष्यते||६||
Adhikarana kaphottare ghRutayogau (7) · Śloka 2
कफोत्तरे सालप्रियालशम्याकारिष्टसप्तपर्णचित्रक मरिचवचाकुष्ठैः साधितम्| अथवा बृहतीद्वयकाक माचीशुकनासाक्वाथे मरिचविडङ्गशिग्रुजातीदेवदारु क्षवकहरिद्राभयाकल्केन वाजिमूत्रेण च सिद्धं सर्पिः||२||
🔊 Audio coming soon
कफोत्तरे च सालादिभिः साधितं घृतं स्नेहनाय शस्यते| अथवा बृहत्यादिक्वाथे न स्नेहसमेनाश्वमूत्रेण च स्नेहसमेन साध्यते मरिचादिगर्भम्| बृहतीद्वयं स्थूला सूक्ष्मा च| शुकनासा तु हरिता सरलस्नेहदारुजम्| जातिपुष्पमुद्वेगजननम्| मरिचं तीक्ष्णम्| क्षवकः क्षुद्विबोधनम्|| ७||
Adhikarana sarveShu snehayogAH (8) · Śloka 8
सर्वेषु च भल्लातकतुवरकसिद्धार्थकान्यतमतैलम्| भल्लातकपथ्याकृमिघ्नसिद्धं वा हविः||८||
🔊 Audio coming soon
भल्लातकादिफलानामन्यतमनिष्पीडितं तैलं सर्वेषु कुष्ठेषु सामान्येन| भल्लातकादित्रयसिद्धं वा हविर्घृतं सर्वेषु|| ८||
Adhikarana snehapAnottaraH shodhanakramaH (9) · Śloka 9
ततः स्निग्धस्य यथादोषं यथासन्नं च संशोधनानि प्रयु ञ्जीत| सिरां च बलापेक्षी विध्येदेकां द्वे तिस्रश्चतस्रः पञ्च वा| अन्तरान्तरा च पुनः पुनः स्नेहं पिबेत्| दुर्बलं हि शून्यकोष्ठं कुष्ठिनं वायुरभिभवति| वमने त्वस्य मधुककुटजबीजनिम्बपटोलपल्लवानि विदध्यात्| कुम्भनिकुम्भन्निफलाविरेचने मणिभद्रवटकाश्च||९||
🔊 Audio coming soon
ततः स्नेहप्रयोजनानन्तरमुत्कृष्टदोष उत्कृष्टानि संशोधनानि मध्ये मध्यान्यल्पेऽल्पानीति यथादोषार्थः| कफस्थानस्थे पित्तवाते वमनं वातस्थानस्थे पित्ते कफे वा विरेचनं पित्तस्थानस्थयोर्वातकफयोरुभयमिति यथासन्नार्थः| अथवा पूर्वं कायस्थे दोषे वमनमधःकायस्थे विरेचनं शिरोगते नस्यमपि| पक्वाशयस्थे बस्तिरपि| निषिद्धमपि निर्दिष्टं बस्तिरर्शसकुषिनोरिति सूत्रोक्तम्| सिराणां व्यधे दोषबलव्याध्यपेक्ष्यसंख्या विकल्पः| दुर्बलमित्यादि कमन्तरान्तरा स्नेहपाने हेतुः अस्य कुष्ठिनो मधुकादीन्येव वमनाय यथायोगं विदध्यात्| कुम्भादीन्येव विरेचने| मणिभद्रवटकाश्चात्रैव वक्ष्यन्ते|| ९||
Adhikarana paTolAdishodhanayogAH (10) · Śloka 10
पटोलविशालयोर्मूलं त्रिफला च पृथक् त्रिभागोन त्रिशाणाः कटुकात्रायमाणे शाणांशे शुण्ठ्यास्त्रिभागोनः शाणः तदेततत् पलमैकध्यं सलिले विपाच्य पाययेत्| ऊर्ध्वाधो विरिक्तश्च जीर्णे जाङ्गलरसेनाश्नीयात्| एवमे तत् षड्रात्रप्रयोगात्परं पित्तकफशोफकुष्ठदुष्टनाडीव्रणा र्शोभगन्दरग्रहणीपाण्डुहलीमककामिलाविषमज्वरहृद्ब स्तिवेदनाघ्नम्||१०||
🔊 Audio coming soon
पटोलाद्ये पटोलमूलं विशालामूलं हरीतक्यामलकविभीतकानां च दलानि भवन्ति| एषां पञ्चानामशीतिर्धानकाः| कटुकात्रायमाणे शाणांशे इति द्वौ शाणौ द्वादशधानकाः| एवमेकीकृत्य द्विनवतिधानका भवन्ति| शुण्ठ्यास्त्रिभागोनः शाण इति चत्वारो धानकाः पूर्वैः सह षष्णवतिर्भवतीति लौकिकमपि पलं भवति| एतत् षड्रात्रोपयोगेन परं पित्तकफोत्थानां शोफादीनां नाशनम्| मानस्य चा नियमं भेषजकल्प एव वक्ष्यामः| नाड्या उपलक्षितो व्रणो नाडीव्रणः| विषमज्वराः सततकादयः| हृद्वेदना बस्तिवेदना च||१०||
Adhikarana UrdhvAdhaHshodhanam (11) · Śloka 11
उभयतोनुलोमनं वा ब्राह्मीस्वरससाधितं सर्पिः पिबेत्| आवर्तकीतुलां सलिलार्मणेऽष्टांशशिष्टां विपाच्य तेन निर्यूहेण तन्मूलैश्च घृतप्रस्थं साधयेत्| ततो मात्रामेकाहा न्तरं पिबेत्| ऊर्ध्वाधो विरिच्यमानस्तृषितः| शीतलव्रणमारनालं जीर्णस्नेहश्च तेनैव कोद्रवौदनमश्नीयात्| अनेन कुष्ठश्वित्रापचीभगन्दरनाडीव्रणाखुविषाणि सिध्यन्ति| मेध्यं चैतत् पुंसवनं च||११||
🔊 Audio coming soon
अथवोभयानुलोमनं वमनं विरेचनं च सर्पिः पिबेत्| किमित्याह-ब्राह्मीस्वरससाधितम्| आवर्तकीघृतं सुबोधम्| आवर्तकी रक्तपुष्पा| महाजालिनी नाम च वमनद्रव्यम्| अर्मणो द्रोणः| पलशतानि पञ्चद्वादशाधिकानि| आवर्तक्या एव मूलानि कल्कपरिभाषया| मात्रामित्यनियमो दोषादिवशात्| सुबोधम्| पुंसवनं स्त्रीणाम्|| ११||
Adhikarana AsthApanAdishodhanAni (12) · Śloka 12
दाऱ्वीपटोलबृहतीसेव्यमदननिम्बकृतमालघनेन्द्रयवैःसस्ने हैरास्थापनम्| एभिरेव च विपक्वः स्नेहोऽनुवासनार्ह स्यानुवासनम्| दन्तीमरिचफणिर्जकार्दककरञ्जबीज पिप्पलीविडङ्गसैन्धवैरूर्ध्वजत्रुगते कुष्ठे कृमिषु च शिरो विरेकः| सूत्रस्थानोक्तो वैरेचनिकधूमश्च||१२||
🔊 Audio coming soon
दार्व्यादिभिः क्वथितैश्च कल्कीकृतैश्च स्नेहयुक्तैरास्थापनम्| एभिरेव च दार्व्यादिभिर्विपक्वः स्नेहः सूत्रोक्तप्रकारेणानुवासनार्हस्य सतोऽनुवासनम्| जत्रोरूर्ध्वगते कुष्ठे| क्रिमिषु च जत्रोरूर्ध्वं शिरस्थिते दन्त्यादिभिः कल्कादियुक्तैः शिरोविरेकः| तथा सूत्रस्थाने धूमविधौ यो वैरेचनिको धूमोक्तः सोऽपि योज्यः| तस्य च द्रव्याणि शोधनादिगणसंग्रहणे शिरोविरेचनद्रव्याणि गन्धद्रव्याणि चेत्यादि पठितानि|| १२||
Adhikarana shamanauShadhopayogAvasthAH (13) · Śloka 13
ततः सर्वतो विशुद्धस्यान्तर्बहिःशमनानि प्रयुञ्जीत||१३||
🔊 Audio coming soon
ततः सर्वत ऊर्ध्वमधः शिरसि च विशुद्धस्य शमनान्यन्तर्बहिश्च प्रयुञ्जीत| बहिरित्यालेपादिभिः|| १३||
Adhikarana rasAyanAgryo yogarAjaH (14) · Śloka 14
खदिरकदरतिनिशासनशिरीषशिंशपाशाकसर्जार्जुनजम्बू करवीरधवामलकीमुष्ककाक्षिकबदरीवञ्जुलनिम्बपटो लाङ्कोलबलाबिल्वकुटजकटभीपारिभद्रसहचरगृध्रनखी वरणवर्धमानार्कशोभञ्जनाटरूषकशतावरीश्वदंष्ट्राहिमा राश्वकर्णश्रीपर्णीस्वयङ्गुप्ताग्निमन्थेन्द्रवारुणीकाकोदुम्ब रिकामेषशृङ्गीटुण्टुकगुडूचीवर्षाभूवायसीबृहतीद्वयरोहि णिमूर्वाशार्ङ्गीष्ठामुलानि च शकलयित्वा पृथक् त्रिंशत्प लिकानि संक्षुद्य महति कटाहेऽष्टगुणेनाम्भसा क्वाथयेत्| अष्टभागशेषं निर्यूहमवतार्य परिस्राव्य च तस्मिन् सर्पिषः पलशतत्रयं विपचेदीषदवशेषकषाये च विदलीकृता रुष्करसहस्रत्रयमत्रावाप्य पुनः पाचयेद्विगतस्वरसान्य रुष्कराण्यपास्य तस्मिन् स्नेहे सुचूर्णितानि प्रक्षिपेत्| व्याधिघातव्योषनाकुलीमार्कवार्ककाकादनीतगरकटु काकुष्ठबिल्वहिङ्गचित्रकातिविषामुस्तेन्द्रयवेन्द्र वारुणीरुप्यमललोहरजोलोहकान्तरसाञ्जनाभ्रशुकना सादेवदालीत्रिफलालाङ्गलिकीविशालाकुम्भनिकुम्भव चावाराहीमहाद्रुमकोशातकीप्रपुन्नाटसोमपर्णीनलिका द्वयपटोलीजातीपल्लवताप्यकारवेल्लकूलिकाकन्दक सप्तच्छदशार्ङ्गाष्टोत्पलसारिवागुग्गुलुशिलाजतुमूर्वाकुस्तु म्बरीजीवकद्वयपाठेन्दुरेखावज्रकन्दहरिद्राद्वयलवणपञ्च कानि प्रत्येकं त्रिपलिकानि शृङ्गीविषपलं चैकं ततो दर्व्या समान्तादाघट्य सुगुप्तं भूमौ धान्ये वा मासं निखनेत्| अथ कृतसंशुद्धिस्वस्त्ययनः कुष्ठी प्रातस्ततो मात्रा मुपयुञ्जीत| जीर्णे च यथेष्टमाहारं तेनास्य पूर्वमङ्गानि तुद्यन्ते भिद्यन्ते शूयन्ते स्फुरन्ति स्फुटन्ति च| ततः सप्त रात्रात्पुनः स्वस्थीभवति| अपि च- योगरामजवलिह्य समस्तं संज्ञयैव कथितोत्तमशक्तिम्| हन्ति कुष्ठमतिपातितगात्रं स्नायुजालपरिशेषमशेषम्| श्वासाग्निसादारुचिकासयक्ष्मगुल्माढ्यवातग्रहणीप्रमेहान्| शोफं कृमीन् पाण्डुगदं ज्वरांश्च निवर्तयत्येष रसायनाग्र्यः||१४||
🔊 Audio coming soon
खदिरेत्यादिना शमनप्रयोगः| खदिरादिभिर्योगराजो रसायनाग्र्यः| तत्र खदिरादीनां मधुकान्तानां साद्रोऽशुष्कः सारः| कृतमालादीनां शार्ङ्गाष्ठान्तानां मूलानि प्रत्येकं त्रिंशत्पलानि| सर्वेभ्योऽष्टगुणं जलम्| तस्याष्स्टभागशेषस्यावतरणम्| तत्र च सर्पिषः पलशतत्रयं प्रक्षिप्य पचेत्| तत्र च विपच्यमाने सर्पिषि सर्वं कषायं यावन्न परिक्षीयते तावदरुष्कराणां सहस्रत्रयं विदलीकृतमवपाटितमावप्यैतत् सर्पिः पुनः पक्तव्यम्| तेन च साधनेन नीरसान्यरुष्कराणि भृष्ट्वा ततः स्नेहादुद्धृत्य तानि विगतास्थीनि च सञ्चूर्ण्य स्नेह एव प्रक्षिपेत्| व्याधिघातादीनि प्रत्येकं त्रिपलानि प्रक्षिपेत्| शृङ्गिविषस्य पलम्| खदिरं खादिरम्| कदरः श्वेतसारः| तिनिशः स्पन्दनम्| असनं बीजकम्| शिरीषः प्रसिद्धः| शाकं खरदारु खरच्छदम्| सर्जाह्वः श्रीभरः| सालरसो निर्यास एव| अर्जुनः ककुभः| मुष्को मोक्षकः| काश्मीरेषु पुरुन्तुकः| असिकः रजनकः| वञ्जुलः वेतसः| दीर्घपत्रः प्रसिद्धः| कृतमालो नक्तमालः| निचुलो वेतसभेदः| (नि) 'अङ्कोटोङ्कोलको रेची निर्दिष्टो दीर्घकीलकः|' कुटजो वत्सकः| कटभिर्ज्योतिष्मती| पारिभद्रको निम्बः| कण्टककिंशुकश्च| गृध्रनखी तिन्दुकी| वरणस्तमालः श्वेतपुष्पः| वर्धमान एरण्डः| श्वदंष्ट्रा गोक्षुरकः| अहिमारः अरिमेदः| श्रीपर्णी काश्मरी| स्वयङ्गुप्ता कण्डूकरी| अग्निमन्थः तक्कारी| इन्द्रवारुणी एन्द्री प्रसिद्धा| काकोदुम्बरिका फल्गुः| मेषशृङ्गी अजशृङ्गी| टुण्टुको मयूरजङ्घः| वायसी काकमाची| रोहिणी कटुका| मूर्वा किराततिक्ता| शार्ङ्गाष्ठा अङ्गारवल्लिका| अरुष्कराणि भल्लातकानि| व्याधिघातः आरग्वधः| नाकुली सर्पसुगन्धा| मार्कवः भृङ्गराजः| काकादनी काकपीलुका| करण्डिश्चिरण्डिका च| तगरं नतम्| रूप्यस्य मलं तथोक्तम् लोहरजः शस्त्रचूर्णम्| लोहकान्तः अयस्कान्तः| रसाञ्जनं तार्क्ष्यशैलम्| अभ्रं अभ्रकम्| शुकनासा स्योनाकः| देवदाली जीमूतकः| गरागरी वमनद्रव्यम्| लाङ्गली विशल्या गर्भपातनी| विशाला गवाक्षी| कुम्भो द्रवन्ती निकुम्भो दन्ती| वाराही (नि) 'गृष्टिर्विष्वक्सेनकान्ता वाराही वरमालिनी| माधवी सौकरी कार्ष्णि कालन्दी गृष्टिकापरा||' महाद्रुमः राजजम्बुकः| कोशातकी धामर्गवः| प्रपुन्नाटकश्चक्रमर्दः| सोमपर्णी (नि) 'उच्चटा सोमपर्णी च प्रचलातलता तथा|' नलिकाद्वयं मांसीद्वयम्| जातिपल्लवं जातिपत्रम्| ताप्यं वट्टमाक्षिकम्| कारवेल्ली प्रसिद्धा| कूलिकाकन्दकं कर्कोटकम्| कुस्तुम्बरी आद्रिका| जीवकद्वयं जीवन्ती जीवनीकं च| इन्दुलेखा सोमराजी| वज्रकन्दं सुधा| अथेत्यानन्तर्ये| संशुद्धिर्वमनादिना स्वस्त्ययनं देवपूजादीरितम्| समस्तं योगराजमाह-संज्ञया नाम्ना कथिता उत्तमाशक्तिर्यस्य तथाविधम्| आश्चर्यसंज्ञमित्यर्थः| कुष्ठं किम्भूतमित्याह-अतिपातितगात्रम्| तथा स्नायुजालमेव परिशेषम्||१४||
Adhikarana triphalAdisaktucUrNam (15) · Śloka 15
त्रिफलादशमूलमूर्वामुस्तसप्तच्छददारुनिम्बत्वग्गवाक्षीचित्र कमञ्जिष्ठाव्योषचूर्णं नवगुणैः सक्तुभिर्युक्तं सक्षौद्रं शीलयेत्||१५||
🔊 Audio coming soon
त्रिफलादीनां चूर्णं सर्वतो नवगुणैः सक्तुभिर्युक्तं सक्षौद्रं शीलयेत्|| १५||
Adhikarana yavasaktuvisheShaH (16) · Śloka 16
अथवा क्षुण्णान् यवन् निस्तुषान् रात्रौ गोमूत्रपर्युषिता नह्नि किलिञ्जे शोषयेदेवं सप्ताहं भावयेच्छोषयेच्च| ततस्तान् सक्तून् कृत्वा भल्लातकप्रपुपन्नाटावल्गुज चित्रकविडङ्गमुस्तचूर्णं चतुर्भागयुक्तानसनादिकषायेण पाययेत्||१६||
🔊 Audio coming soon
अथवा मुसलेन क्षुण्णान् यवान् रात्रिमेकां गोमूत्रेण वासयेत्| ततोऽह्नि किलिञ्जे तु शोषयेत्| पुना रात्रौ गोमूत्रे वासयेत्| पुनरहनि शोषयेदेवं सप्तरात्रं भावयेच्छोषयेच्च| ततस्तैर्यवैः सक्तून् कृत्वा तान् सक्तून् भल्लातकादिचूर्णेन चतुर्भागेन युक्तासनादिगणकषायेण पाययेत्|| १६||
Adhikarana manthayAvakAdikalpanA (17) · Śloka 17
एवमसनादिक्वाथपीतानामारग्वधादिकषायपीतानां वा गोजीर्णकानां वा यवानां सक्तूनरुष्कराग्निमन्थचूर्णमि श्रान् खदिरासनसाररोहितकगुडूचीनामन्यतमस्य कषा येण दाडिमाम्लवेतसाम्लेन सैन्धवलवणेन सितामधु मधुरेणालोड्य पाययेत्| एष सर्वमन्थकल्पः| यावकांश्च भक्ष्यानपूपपूर्णकोशशष्कुलीप्रभृतीन् कुर्यात्| यववच्च गोधूमैः||१७||
🔊 Audio coming soon
एवमित्यनेन सप्ताहवासनशोषणादसनादिक्वाथपीतानां वा आरग्वधादिपीतानां वा यवानां सक्तूनरुष्कराग्निमन्थयोश्चूर्णेन मिश्रान् खदिरसारादीनामन्यतमस्य दाडिमाम्लवेतसाम्लेन सैन्धवेन लवणेन सितामधुभ्यां मधुरेव कषायेणालोड्य पाययेत्| असनादीनां क्वाथः पीतो यैर्यवैस्ते यथोक्ताः| गोमुत्रवदसनादिना वारग्वधादिना वा भाविता इत्यर्थः| गोजीर्णका ये यवा भुक्ता गोमयेन सह निर्गताः| (नि) 'पारिजातस्तु रोहितः प्लीहघ्नो रक्तपुष्पकः|' सर्वेषां च मन्थानामयमेव दाडिमादिनाम्लादियोजना कल्पः| सुबोधम्| अनन्तरोक्तयवविधानवत् गोधूमैरपि|| १७||
Adhikarana surAvisheShaH (18) · Śloka 18
सुरां कल्पयेत् पलाशक्षारभावितशालितण्डुलपिष्टेन क्षारोदकेनैव स्वेदितेन प्रियङ्गुजपिप्पलीचित्रककेषुकै लवालुकपरिपेलवलोध्रमरिचविडङ्गचूर्णमिश्रेण नवे चैनां भाजने जतुसृते क्षौद्रपिप्पलीलिप्ते स्थापयेत्| ततो गन्ध रसोपपन्नां कुष्ठिने पातुं दद्यात्||१८||
🔊 Audio coming soon
सुरां कल्पयेत् कथमित्याह-पलाशेत्यादि| पलाशवृक्षक्षारेण भावितानां शालितण्डुलानां पिष्टेन क्षारोदकस्वेदितेन प्रियङ्वादिचूर्णमिश्रेणेति| सुबोधम्| एनामिति सुराम्|| १८||
Adhikarana khadirAdisurAkalpaH (19) · Śloka 19
खदिरशिंशपासारमुत्तमकारणीं ब्राह्मीं कोशवतीं च कषायकल्पेन विपचेत्| तेन क्वाथेन तण्डुलान् भाव येत्| अभिषुणुयाच्च पूर्ववत्||१९||
🔊 Audio coming soon
खदिरादीन् कषायकल्पेनेति| षोडशगुणेनाम्भसा चतुर्भागशेषेण पचेत्| सुबोधम्| उत्तमकारणी करम्भा| कोशवती घण्टोली||१९||
Adhikarana trivRutAdyayaskRutiH (20) · Śloka 20
त्रिवृच्छ्यामाग्निमन्थसप्तलाकेबुकशङ्खिनीतिल्वकत्रि फलापलाशशिंशपानां रसमादाय पलाशद्रोण्यामभ्य सिच्य खदिराङ्गारतप्तमयःपिण्डमेकविंशतिवारान्निर्वाप्य ततस्तं रसमासिच्य स्थाल्यां गोमयाग्निना साधयेत्| सिध्यति चावपेत्| पिप्पलीचूर्णस्य भागं द्वौ मधुनस्ता वदुद्धृतस्य ततश्चतुर्भागावशिष्टेऽवतीर्णे भूयोऽग्नितप्त मयःपिण्डं तस्मिन् प्रक्षिपेत्| प्रशान्तं च लोहपात्रे सुगुप्तं निदध्यात्| स्थूलं कर्शयति| शोफमुपहन्ति| सन्नमग्नि मुद्धरति| विशेषेण राजयक्ष्मिणामुपदिश्यते| वर्षशता युश्चैनामुपयुज्य पुरुषो भवति||२०||
🔊 Audio coming soon
त्रिवृदादीनां रसं क्वाथं गृहीत्वा पलाशमय्यां द्रोण्यामासिञ्चेत्| आसिच्य चायःपिण्डं तप्तमेकविंशतिवारान् निर्वाप्य तदवगाहे नाग्निरहितं कृत्वा तं पलाशद्रोणीरस्म् स्थाल्यां साधयेत् गोमयाग्निना| सिध्यति च रसे पिप्पल्यादिकमावपेत्| यावता घनत्वं भवति तावदिति| मधुसमो घृतस्य भागः| सुबोधम्| प्रशान्तं निर्वृतं तप्तलोहपिण्डक्षोदम्| सुबोधम्| एष योगो नाम्नाऽयस्कृतिः| अरुणं मूलं त्रिवृत्| शमारुणं श्यामा| सप्तला सातला| केबुकं प्रसिद्धं मध्यदेशे| (नि) 'वितिक्ता स्याच्छङ्खिनी तु दृढपादा विसर्पिणी| तिक्तला चाक्षिपीडाख्या विश्वा वेत्रा यमेश्वरा|| २०||
Adhikarana asanAdyayaskRutiH (21) · Śloka 21
असनादिक्वाथमासिच्य पलाशद्राण्यामयोघनैस्तप्तैः संयोज्य निर्वाप्य च कृतसंस्कारे कलशे प्रक्षिप्य वत्सकादिं प्रतिवाप्य क्षौद्रं च सुगुप्तं मासं निधायोपयुञ्जीत||२१||
🔊 Audio coming soon
असनादीत्यादिना अपरा त्रिव्रुदादिवदयस्कृतिः| क्लशे दोषानुरूपैरौषधैर्लेपरूपादिना कृतसंस्कारे तं क्वाथं प्रक्षिप्य तत्र च वत्सकादिचूर्णं माक्षिकं च प्रतिवाप्य मासं निधापयेत्| मासादूर्ध्वमुपयुञ्जीत|| २१||
Adhikarana aparAH ayaskRutayaH (22) · Śloka 22
एवं न्यग्रोधादिष्वारग्वधादिषु चायस्कृतिं विदध्यात्| खदिरसुरदारुसारक्वाथप्रस्थं क्षौद्रप्रस्थं मत्स्यण्डिकाप्रस्थं लोहचूर्णार्द्धप्रस्थं त्रिफलाचतुर्जातकमरिचानि च कार्षिकाणि प्रक्षिप्यायसे भाण्डे मासस्थितं तदुपयोजयेत्||२२||
🔊 Audio coming soon
एवमित्यसनादिवत् न्यग्रोधादिनारग्वधादिना चायस्कृतिं कुर्यात्| सर्वत्र च वत्सकादिक्षौद्रं च प्रतिवापः| खदिरसारदारुणोः क्वाथस्य मात्रा शेषद्रव्यव्याप्तियोग्या| त्रिफलाचतुर्जातयोः पृथग्द्रव्यम्|| २२||
Adhikarana rasAyanaprayogAH (23) · Śloka 23
रसायनप्रयोगेण च लोहतुलां तुवरकास्थीनि भल्ला तकान्यलम्बुसामवल्गुजं गुग्गुलुमर्शोविहितविधानेन वा चित्रकमिति||२३||
🔊 Audio coming soon
रसायनप्रयोगविहितविधानेन पृथग्लोहचूर्णादीनि योजयेत्| अर्शश्चिकित्सितविधानेन वा चित्रकम्| तुवराणां पश्चिमोदधितश्च प्रसिद्धानां फलविशेषाणामस्थीनि मज्जानः| अलम्बुसा मदयन्तिका| अवल्गुजा सोमराजी|| २३||
Adhikarana manthAdyupayogopadeshaH (24) · Śloka 24
भवति चात्र- किलासकुष्ठग्रहणीप्रमेहस्थूलत्वदुर्नामभगन्दरेषु| पाण्डुत्वशूनत्वकफामयेषु मन्थादियोगान् विदधीत धीमान्||२४||
🔊 Audio coming soon
गतानुगतिका| धीमान् सुबुद्धिः किलासादिष्वनन्तरोक्तांस्तर्पणादीन्युञ्जीत| किलासं श्वित्रम्| कफामयाः सर्वे श्लेष्मव्याधयः||२४||
Adhikarana pathyApathyam (25) · Śloka 25
शालयो यवगोधूमकोरदूषाः प्रियङ्गवः| मुद्गा मसूरास्तुवरी तिक्तशाकानि जाङ्गलम्| त्रिफलारुष्करारिष्करारिष्टक्षौद्रयोजितभावितम्| धात्रीखदिरनिम्बाम्बुरसं मुद्गपटोलजम्| मद्यान्यौषधगर्भाणि मथितं चेन्दुराजिमत्| अन्नपानं हितं कुष्ठे न त्वम्ललवणोषणम्| दधिदुग्धगुडानूपतिलमाषांस्यजेत्तराम्||२५||
🔊 Audio coming soon
शालय इत्यादिना सर्वकुष्ठहितमन्नपानमुच्यते| जाङ्गलं मांसम्| सर्वं च त्रिफलादिभावितं तैरेव संयोजितम्| अरिष्टो निम्बः| पानं धान्याद्यम्बु| धात्री आमलकम्| मुद्गैः सपटोलै रसो यूषः| तानि मद्यानि येषां कुष्ठहितान्यौषधानि गर्भे| मथितं तक्रं इन्दुराजिमत् सोमराजियुक्तम्| एवंविधमन्नपानं कुष्ठे हितम्| न त्वम्लादिगुणमन्नपानं हितम्| दध्यादिकञ्च कुष्ठी नितरां त्यजेत्सुतरा जह्यात्|| २५||
Adhikarana nimbAriShTaH (26) · Śloka 26
तुलार्धं निम्बपञ्चाङ्ग्यास्तथा खदिरसारतः| हरीतकीदलतुलां भल्लातकतुलां दश| कृष्णाविडङ्गकुडवावैकध्यं विपचेज्जले| कषायं तं परिस्राव्य निदध्यात्ताम्रभाजने| षण्मासतः पिबेत्कुष्ठकृमिमेहैर्विमुच्यते| निम्बारिष्ट इति ख्यातो वरुणेनैष निर्मितः||२६||
🔊 Audio coming soon
तुलार्धमित्यादिना निम्बारिष्टः| निम्बस्य पञ्चाङ्गी पञ्चानामङ्गानां समाहारः मूलं सारं त्वक् पत्रं फलं चेति दशपलांशानि| तथेति तुलार्धम्| एवं विडङ्गुकुडवान्तं क्वाथपरिभाषया जले विपचेत्| सुबोधम्|| २६||
Adhikarana mANibhadraguDaH (27) · Śloka 27
विडङ्गसारामलकाभयानां पलं पलं त्रीणि पलानि कुम्भात्| गुडस्य च द्वादशमासमेष जितात्मना हन्त्युपयुज्यमानः| कुष्ठश्वित्रश्वासकासोदरार्शो मेहप्लीहग्रन्थिरुग्जन्तुगुल्मान्| सिद्धं योगं प्राह यक्षो मुमुक्षो र्भिक्षोः प्राणान् माणिभद्रः किलेमम्||२७||
🔊 Audio coming soon
विडङ्गसारादीनां प्रत्येकं पलम्| विडङ्गसारो विडङ्गमज्जा| कुम्भात् त्रिवृतायाः त्रीणि पलानि| गुडस्य द्वादश पलानि| मासशब्दोपादानात् प्रत्यहमस्योद्योगाद्वराटि कात्रयोपहितनवधानकान्वितमर्धपलमभ्यवहरणीयमिति प्राप्तम्| वराटिका गुञ्जा| जन्तवः क्रिमयः| माणिभद्राख्यो यक्षः भिक्षोः प्राणान् मुमुक्षोः इमं सिद्धं योगं प्राणकरं प्राह जगादेत्यर्थः| अत्र भूतकाले प्राहेति| किलेत्यागमिकत्वं सूचयति| अन्ये त्वेवं वर्णयन्तिगुडस्य षड्द्वादशपलानीति तथा गृहीते चूर्णात् त्रिगुणं गुडं स्यात्| एवमेव तालीसवटकादावपि प्रसिद्धम्| तस्माद्यत्र गुडस्य प्रमाणमनुक्तं तत्र चूर्णात् त्रिगुणं गुडं ग्राह्यम्| एवं कृतेऽप्यग्निमान्द्यं न स्यात्| तदुक्तं सूत्रे-'गुडः कर्त्ताग्निसादस्य सह न त्वभयादिरि'ति|| २७||
Adhikarana kaTukAdinavakaShAyaH (28) · Śloka 18
कटुकापटोलमूलोत्तमा वचानिम्बरात्रिमञ्जिष्ठानाम्| संशीलितः कषाय स्त्वगामयान् श्लेष्मपित्तबहुलान् हन्ति||१८||
🔊 Audio coming soon
कटुकादिनवकषायः संशीलितः श्लेष्मपित्तभूयिष्ठांस्त्वगामयान् हन्ति|| २८||
Adhikarana snehayogAH (29) · Śloka 29
वातोत्तरांस्तु सर्पिर्विपाचितं क्वथितकल्कितैश्च कटुकाद्यैः| खदिरारिष्टगुडूचीसुरतरु दार्वीश्च कल्पयेत् पृथगेवम्||२९||
🔊 Audio coming soon
एवं कटुकादिभिः क्वाथितकल्कितैश्च स्नेहपाकपरिभाषया विपाचितं सर्पिर्वातोत्तरांस्त्वगामयान् हन्ति| खादिरादिभिः पृथक् प्रत्येकं सर्पिर्विकल्पयेत्| एवमिति क्वाथकल्कविधानेन| विषयश्चात्र गुणैर्विकल्प्यः|| २९||
Adhikarana khadirasya shItakaShAyaH (30) · Śloka 30
शीतः कषायः खदिरस्य पीतः सक्षौद्रतार्क्ष्यो हरति प्रसह्य| त्वक्कण्ठरोगापचिगुल्ममेहान् बलाहकान् वायुरिव प्रचण्डः||३०||
🔊 Audio coming soon
खदिरस्य शीतः कषायं सक्षौद्रतार्क्ष्यः पीतस्त्वग्रोगादीन् प्रसह्यापाक्रम्य हरति| यथा प्रचण्डो वेगवान् वायुर्वलाहकानभ्राणी प्रसह्य हरति| ताऱ्क्ष्यं रसाञ्जनम्|| ३०||
Adhikarana khadirakaShAyaH (31) · Śloka 31
सर्पिर्मधुभ्यां त्रिफलारसेन विडङ्गकल्केन च सम्प्रयुक्तः| कुष्ठं कषायः खदिरस्य हन्ति तिष्ठन् कषायं मनसीव धर्मः||३१||
🔊 Audio coming soon
सर्पिर्मध्वाद्यन्यतमेन युक्तः खदिरस्य कषायः कुष्ठं हन्ति| यथाधर्मः सम्यक् प्रयुक्तो मनसि तिष्ठन् कषायं रागादिरूपं मलं हन्ति|| ३१||
Adhikarana khadiravRukSharasaH (32) · Śloka 32
खदिरस्य लूनशिरसो मूलखातस्य मध्यमं मूलम्| छित्वाधोऽयः कुम्भं रससंग्रहणाय निदधीत| लिप्तात्कृष्णमृदेन्धनैश्च निचितादादीपिताद्वह्निना| तस्माद्यच्यवते रसः स सहितः क्षौद्राज्यधात्रीरसैः| पीतः कुष्ठभगन्दरारुरपचीमेहास्रपाण्डून् जयेत्| प्रस्थस्तस्य जराञ्च भोज्यमिह तु त्याज्यञ्च भल्लातवत्||३२||
🔊 Audio coming soon
खदिरस्य लूनशिरसः छिन्नशाखस्य मूले निखातस्य मध्यमं प्रधानं मूलं स्तोकं छित्वा तस्यैवाधोऽयः लौहं घट' स्कन्धादवतीर्णस्य रसस्य ग्रहणाऱ्थं निदधीत| अनन्तरमूर्ध्वस्थितखदिरस्कन्धं कृष्णमृदा आलिप्यते| ततोऽन्यैः काष्ठैर्निचितं स्कन्धमग्निना दीपयेत्| ततोऽग्निना दीपितात् स्कन्धाद्यो रसो लोहघटे च्यवते| स रसः क्षौद्रादिसहितः पीतः कुष्ठादीन् जयति| तस्य च रसस्य प्रस्थः पीतो जराश्च जयेत्| इह ररसप्रयोग इदं भोज्यमिदं त्याज्यमिति रसायनविध्युक्तभल्लातकविद्विज्ञेयम्|| ३२||
Adhikarana khadiravadanyavRukShANAM prayogaH, rohItakAdiprayogAH, dArvyAdiShaDdharaNaprayogaH (33) · Śloka 33
योज्यं खदिरविन्निम्बशिंशपारग्वधासनम्| रोहीतकं सुराह्वं च खदिरोदकपायिनः| दार्वीरसाञ्जनं वा गोमूत्रेण प्रबाधते कुष्ठम्| अभया प्रयोजिता वा मासं सव्योषगुडतैला| दार्वीकलिङ्गकटुकातिविषाग्निपाठा मूत्रेण सूक्ष्मरजसो धरणप्रमाणाः| पीता जयन्ति गुदजोदरगुल्मकुष्ठ कोष्ठानिलाढ्यपवनग्रहणीप्रमेहान्||३३||
🔊 Audio coming soon
अनेन च खदिररसप्रकारेण निम्बाद्यन्यतमं योज्यम्| अन्यदपि योज्यम्| रोहीतकमुपयुज्यमानं खदिरोदकपायिनः पुंसः प्रबाधते कुष्ठम्| तद्वत् सुराह्वम्| तद्वद्दार्वीरसाञ्जनम्| (नि) 'पारिजातश्च रोहीतः प्लीहघ्नो रक्तपुष्पकः|' सुराह्वं देवदारु| अभया वा व्योषादियुक्ता मासं गव्यमूत्रेण पीत्वा हितभुक् पुरुषः कुष्ठं जयति| दार्व्यादयः सूक्ष्मरजसः श्लक्ष्णचूर्णानि मुत्रेण पीताः प्रतिदिनं गुद-जादिकं जयन्ति| धरणं पलस्य दशमभागः|| ३३||
Adhikarana lAkShAdicUrNam (34) · Śloka 34
लाक्षादन्तीमधुरसवराद्वीपिपाठाविडङ्ग प्रत्यक्पुष्पीत्रिकटुरजनीसप्तपर्णाटरूषम्| रक्ता निम्बं सुरतरुकृतं पञ्चमूल्यां च चूर्णं पीत्वा मासं जयति हितभुग्गव्यमूत्रेण कुष्ठम्||३४||
🔊 Audio coming soon
लाक्षादिचूर्णं मासं गव्यमूत्रेण पीत्वा कुष्ठं जयति| मधुरसा मूर्वा| वरा त्रिफला| द्वीपिश्चित्रकः| प्रत्यक्पुष्पी अपामार्गः| सप्तपर्णं प्रसिद्धम्| आटरूषकं वासा| रक्ता मञ्जिष्ठा| पञ्चमूल्यावादी अकारान्तोत्तरपदो द्विगुः स्त्रियां भाष्यते|| ३४||
Adhikarana ariShTapallavAdicUrNam (pa~jcanimbacUrNam) (35) · Śloka 35
दशपलमरिष्टपल्लवकुसुमजटात्वक्फलम् यथाकालम्| प्रत्याहरेत् समस्तं कृतमालतरोश्च तत्तद्वत्| सञ्चूर्ण्यासनखदिरक्वाथेनाप्लाव्य शोषयेदनिलेल्| चित्रकघनभल्लातकगोक्षुरकमहौषधत्रिफलाः| लोहविडङ्गावल्गुजसितोपलाः पलसमा रजीकृत्य| सप्ताहमेकतस्तद्रसेन भृङ्गयास्ततो भाव्यम्| अथ पीतमक्षमात्रं घृतेन दुग्धेन कोष्णसलिलैर्वा| अचिरात्करोति वह्निं मतिं स्मृतिं पाटवं मेधाम्| कृमिकुष्ठगण्डपाण्डुप्रमेहवक्त्रामयारुचिच्छर्दीः| अपचीभगन्दरस्थौल्यदुष्टनाडीव्रणव्यङ्गान्| कफपित्तजान्विकारान्विशेषतः सुविषमान्निवर्तयति| वर्षाद्विषगरकृत्या नित्याभ्यासेन खलतिपलितानि||३५||
🔊 Audio coming soon
अरिष्टस्य पल्लवादिकं दशपलम्| यथाकालं कालानतिक्रमेण प्रत्याहरेत् प्रतिगृह्णीयात्| पल्लवयोग्ये काले पल्लवानि कुसुमकाले कुसुमानि| एवं शेषेऽपि योज्यम्| कृतमालवृक्षस्य तद्वदेव दशपलं पल्लवादिकं यथाकालमाहरेत्| तदुभयं सञ्चूर्ण्य प्लावनयोग्येनासनखदिरक्वाथेनाप्लाव्य अनिले वायौ शोषयेत्| ततश्चित्रकादीनां पलसमानां पालिकानां चूर्णम्| तच्चैकतः सप्ताहं भृङ्गरसेन भाव्यम्| अथ तं चूर्णं घृताद्यन्यतमेनाक्षमात्रं पीतमचिरादग्न्यादीन् करोति| कृम्यादींश्च निवर्तयति विशेषेण सुविषमान् कफपित्तजान् विकारान् निवर्तयति| सेव्यमानं च वर्षाद्विषादीन् हन्ति| नित्यमभ्यासेन खलत्यादीन्| हीनशक्तीनि विषाणि बहुकालं देहे तिष्ठन्ति| कृत्या अभिचारदेवता|| ३५||
Adhikarana saptasamA gulikA (36) · Śloka 36
त्रिकटूत्तमातिलारुष्कराज्यमाक्षिकासितोपला विहिता| गुलिका रसायनं स्यात्कुष्ठजिच्च वृष्या च सप्तसमा||३६||
🔊 Audio coming soon
त्रिकट्वादिभिः सप्तभिः सप्तसमा नाम गुलिका|| ३६||
Adhikarana candrashakalAdivaTakaH (37) · Śloka 37
चन्द्रशकलाग्निरजनी विडङ्गतुवरास्थ्यरुष्करत्रिफलाभिः| वटका गुडांशक्लृप्ताः समस्त कुष्ठानि नाशयन्त्यभ्यस्ताः||३७||
🔊 Audio coming soon
चन्द्रशकलादिभिर्वटका गुडस्य भागेन क्लृप्ता अभ्यस्ताः सन्तः समस्तकुष्ठानि नाशयन्ति| चन्द्रशकलः सोमराजिः| तुवरकफलस्यास्थि मज्जाधारम्|| ३७||
Adhikarana viDa~ggAdipiNDI (38) · Śloka 38
विडङ्गभल्लातकबाकुचीनां सद्वीपिवाराहिहरीतकीनाम्| सलाङ्गलीकृष्णतिलोपकुल्या गुडेन पिण्डी विनिहन्ति कुष्ठम्||३८||
🔊 Audio coming soon
विडङ्गादीनां सलाङ्गल्यादिका गुडेन कृता पिण्डी कुष्ठं विनिहन्ति| बाकुचिः सोमराजिः| द्वीपिश्चिचत्रकः| (नि) 'गुष्टिर्विष्वक्सेनकान्ता वाराही गृष्टिकावरा| माधवी सौकरी चैव प्रोक्ता सा वरमालिनी|' लाङ्गली विशल्या गर्भपातनी| उपकुल्या पिप्पली||३८||
Adhikarana pathyAdivaTakAH (39) · Śloka 39
पथ्याकलिङ्गकपलाशफलेन्दुराजी भल्लातकास्थिरचतुरङ्गुलचित्रकार्कैः| सावर्तकीकृमिहरैः क्रमवर्धितांशैः मूत्रेण तुल्यतुवरैर्वटका गदघ्नाः||३९||
🔊 Audio coming soon
पथ्यादिभिः क्रमविवर्धैतांशैर्यथोत्तरं भागवृद्धैः सर्वैश्च तुल्यतुवरैर्मूत्रेण कृत वटका गदघ्नाः| तेन हरीतकीनामको भागो द्वाविन्द्रयवानां त्रयः पलाशफलानामेवमेव यावद्विडङ्गस्य दशेति क्रमार्थः| चतुरङ्गुलत आरग्वधः| आवर्तकी महाजालिनी वमनद्रव्यम्| गरशब्देन प्रकरणात् कुष्ठ उच्यते|| ३९||
Adhikarana shashA~gkalekhAdiyogaH (40) · Śloka 40
शशाङ्कलेखा सविडङ्गसारा सपिप्पलीका सहुताशमूला| सायोमला सामलका सतैला कुष्ठानि कृच्छ्राणि निहन्ति लीढा||४०||
🔊 Audio coming soon
शशाङ्कलेखा सोमराजिः विडङ्गसारादिभिर्युगपद्युक्ता लीढा कुष्ठानि कृच्छ्राणि निहन्ति| हुताशमूलं चित्रकमूलम्| अयोमलम् लोहमलम्|| ४०||
Adhikarana bhUnimbAdicUrNam (41) · Śloka 41
भूनिम्बनिम्बत्रिफलापद्मकातिविषाकणाः| मूर्वापटोलीद्विनिशापाठातिक्तेन्द्रवारुणीः| सकलिङ्गवचास्तुल्या द्विगुणाश्च यथोत्तरम्| लिह्याद्दन्तीत्रिवृद् ब्राह्मीश्चूर्णिता मधुसर्पिषा| कुष्ठमेहप्रसुप्तीनां परमं स्यात्तदौषधम्| वराकणाविडङ्गान् वा लिह्यात्तैलाज्यमाक्षिकैः||४१||
🔊 Audio coming soon
भूनिम्बादयो वचान्तास्तुल्यभागाश्चूर्णितास्तथा दन्तीत्रिवृद् ब्राह्मेश्च यथोत्तरद्विगुणाः सम्मिश्र्य चूर्णिता मधुसर्पिषा लिह्यात्| एतम्द्भूनिम्भदिकं ब्राह्मयन्तं कुष्ठादीनां परममौषधं स्यात्| भूनिम्बः किराततिक्तकम्| कणा पिप्पली| द्वे निशे द्विहरिद्रे| तिक्ता कटुका| इन्द्रवारुणी एन्द्री प्रसिद्धा| अङ्गानां प्रसुप्तिरिव प्रसुप्तिरचैतन्यम्| कुष्ठी वरादीन् वा तैलादिभिर्लिह्यात्|| ४१||
Adhikarana khadirashakalAdi cUrNam (42) · Śloka 42
खदिरकलचुर्णं क्षौद्रसर्पिर्विमिश्रं सगिरिजतुविडं मात्रया सेवमानः| लघुमितहितभोजी ब्रह्मचारी जितात्मा श्वयथुकिटिभकोष्ठश्वित्रकुष्ठानि हन्यात्||४२||
🔊 Audio coming soon
खदिरशकलानां चूर्णं क्षौद्रादियुक्तं मात्रया सेवमानः पुरुषो लघुभोजित्वादियुक्तः सन् श्वयथ्वादीन् हन्ति| जितात्मा जितेन्द्रियः| जितानि क्रोधोत्सेकरागादिमण्डलानि येन|| ४२||
Adhikarana khadirAdivaTI (43) · Śloka 43
खदिरासनसारस्य तुलां द्रोणेऽम्भसः क्षिपेत्| अष्टमेऽहनि तत्तोयं पचेदादर्विलेपनात्| त्रिफलार्धतुलाचूर्णं तत्पादेन तु बाकुचीम्| तदर्धं द्वीपिनो मूलं तद्वद् ब्राह्मीं समार्कवम्| लोहक्रिमिघ्नद्विप्रस्थं क्षिप्त्वा तद्वटकीकृतम्| कुष्ठमेहग्रहण्यर्शोभगन्दरिषु पूजितम्| लाङ्गलीत्रिफलालोहचूर्णं दशपलं पृथक्| गुलिकात्रिशतं षष्टिं कुर्याद्भृङ्गरसाप्लुतम्| छायाशुष्काञ्च तत्रार्धगुलिकां भक्षयेत्पुरः| जीर्णे रसेन रूक्षेण पेयापूर्वं च भोजयेत्| यन्त्रितो ब्रह्मचर्याद्यैः क्रमेण गुलिकामपि| खादेत्परस्तान्मासस्य भवेत्कामचरः क्रमात्| एवं सर्वाणि कुष्ठानि जयत्यतिबलान्यपि| धीमेधास्मृतियुक्तश्च नीरुग्जीवेत्समाः शतम्||४३||
🔊 Audio coming soon
द्रोणे सद्वादशपञ्चपलशतमाने जलस्य खदिरासनसारयोस्तुलां क्षिपेत्| खदिरस्य पञ्चाशतमसनस्य पञ्चाशतम्| तस्मिंश्चूर्णिकृत्य क्षिप्ते सति तज्जलं सप्ताहमधिवास्य अष्टमेऽहनि पचेत्| दर्वीलेपानि च तस्मिंस्त्रिफलादिकं यथोक्तप्रिमाणं क्षिपेत्| तस्यास्त्रिफलायाश्चूर्णस्य पादेन चतुर्भागेन सोमराजिम्| तदर्धं बाकुचीतोऽर्धंद्वीपिमूलं चित्रकमूलम्| तद्वदिति बाकुच्या द्वीपिमूलवद् ब्राह्मीं मार्कवं च| मार्कवो भृङ्गराजः| लोहक्रिमिघ्नयोरुभयोर्द्विप्रस्थम्| लोहं शस्त्रम्| इति वटकीकृतं कुष्ठादिषु पूजितम्| लाङ्गल्यादित्रिंशत्पलेन भृङ्गरसालोडितेन षष्ट्यधिकं शतत्रयं गुलिकानां कुर्यात्| ततः पुनः प्रथममासं यावदर्धगुलिकां भक्षयेत्| ततः सर्वां गुलिकामपि खादेदागुलिकाक्षयान्मासमेवं ब्रह्मचर्यपथ्यभोज्यैर्याति| ततः क्रमेण कामचारी निर्यन्त्रणः| एवमित्यादि सुबोधम्|| ४३||
Adhikarana vajrakaM ghRutam (44) · Śloka 44
वासामृतानिम्बवरापटोलव्याघ्रीकरञ्जोदककल्कपक्वम्| सर्पिर्विसर्पज्वरकामिलास्रकुष्ठापहं वज्रकमामनन्ति||४४||
🔊 Audio coming soon
वासादीनामुदकेन क्वाथेन कल्केन चैषामेव पक्वं सर्पिर्विसर्पादिघ्नं नाम्ना वज्रकमित्याचार्या जानन्ति शब्दयन्ति|| ४४||
Adhikarana mahAvajrakaM ghRutam (45) · Śloka 45
त्रिफलात्रिकटुद्विकण्टकारी कटुकाकुम्भनिकुम्भराजवृक्षैः| सवचातिविषाग्निकैः सपाठैः पिचुभगैर्नववज्रदुग्धमुष्ट्या| पिष्टैः सिद्धं सर्पिषः प्रस्थमेभिः क्रूरे कोष्ठे स्नेहनं रेचनं च| कुष्ठश्वित्रप्लीहवर्ध्माश्मगुल्मान् हन्यात् कृच्छ्रांस्तन्महावज्रवख्यम्||४५||
🔊 Audio coming soon
त्रिफलादीनां महावज्रकं सर्पिः पिचुभागैः प्रत्येकं कर्षांशैः नवस्य वज्रदुग्धस्य सुधाक्षीरस्य मुष्ट्या पलेन| सुबोधम्|| ४५||
Adhikarana lelItakavasAprayogaH (46) · Śloka 46
यतेर्लेलीतकवसा क्षौद्रजातीरसान्विता| कुष्ठघ्नी समसर्पिर्वा सगायत्र्यसनोदका||४६||
🔊 Audio coming soon
यतेर्ब्रह्मचर्यादियुक्तस्य अरण्यवासिनः पुंसो लेलीतकवसा क्षौद्रजातीरसाभ्यामन्विता कुष्ठघ्नी भवति| संयुक्ता सत्युपयुक्ता कुष्ठघ्नी भवति| लेलीतकवसोत्तरापथे रसरूपा प्रसिद्धा| जातीरसो जात्याः स्वरसः| गायत्री खदिरः|| ४६||
Adhikarana haridrA (47) · Śloka 47
मूत्रे विनीता त्रिफलारसे वा सिद्धा घृते वाम्भऽसि केवले वा| रसायनं पथ्यभुजो हरिद्रा निहन्ति पाण्ड्वामयकुष्ठमेहान्||४७||
🔊 Audio coming soon
मूत्र इत्यादिना हरिद्राया दार्व्या प्रयोगः| एभिः प्रकारैरुपयुक्ता हरिद्रा पथ्याभुजा पुंसो रसायना भवति पाण्ड्वामयादींश्च निहन्ति| विनीता निक्षिप्ता|| ४७||
Adhikarana guDUcIsvarasaH (48) · Śloka 48
पिबेदमृतवल्या वा स्वरसं यन्त्रपीडितम्| मेध्यं तत्कुष्ठमेहार्शश्छर्दिवातस्रनाशनम्||४८||
🔊 Audio coming soon
पिबेत्यादि सुबोधम्| अमृतवल्ली गुडूची| यन्त्रपीडिततग्रहणं स्वरशब्देन क्वाथपरिहारार्थम्|| ४८||
Adhikarana bAhyopacArAH, sthirakaThineShu visheShaH (49) · Śloka 49
स्थिरकठिनमण्डलानां कुष्ठानां पोट्टलैर्हितः स्वेदः| स्विन्नोत्सन्नं विलिखेत् कुष्ठं तीक्ष्णेन शस्त्रेण| रुधिरागमार्थमथवा शृङ्गालाबूभिरपहरेद्रक्तम्| प्रच्छेदल्पं कुष्ठं विरेचयेद्वा जलौकोभिः||४९||
🔊 Audio coming soon
स्थिरत्वादियुक्तानं कुष्ठानां पोट्टलैः रूक्षैषधमूटकैः स्वेदो हितः| स्विन्नं चोत्सन्नमुत्सन्नं च कुष्ठं तीक्ष्णेन शस्त्रेण रुधिरागमार्थं विलिखेत्| रुधिरेणाशक्तिर्विलेखनाय यदि विरमेत्| अथवा स्विन्ने कुष्ठे शृङ्गादिभी रक्तमपहरेत्| अल्पं तु कुष्ठं प्रच्छेदवगाढे पाटनविलेखनम्| त्वङ्मात्रे हरेत्| त्वङ्मात्रे पाटनप्रच्छानम्| अथवा स्वल्पं कुष्ठं जलौकाभिर्विरेचयेत् शोधयेत्|| ४९||
Adhikarana raktadoShaharaNayormahattvam (50) · Śloka 50
ये लेपाः कुष्ठानां युज्यन्ते निर्हृतास्रदोषाणाम्| संशोधिताशयानां सद्यः सिद्धर्भवति तेषाम्||५०||
🔊 Audio coming soon
ये लेपा इत्यादिना वक्ष्यमाणानां लेपानां विषयप्रत्यवक्षेपः| उक्तस्य रक्तविस्राविणादिकस्य च प्रयोजनकथनम्| निर्हृतास्राणां संशोधिताशयानां च कुष्ठानां ये लेपा युज्यन्ते तेषां लेपानां सिद्धिर्भवति| निर्हृतदोषा वमनादिना| संशोधितो निष्कृमिक्लेदादिकृत आशयः स्थानं त्वगादि|| ५०||
Adhikarana kShAraviShayaH (51) · Śloka 51
येषु न शस्त्रं क्रमते स्पर्शेन्द्रियनाशनेषु कुष्ठेषु| तेषु निपात्यः क्षारो रक्तं दोषं च विस्राव्य||५१||
🔊 Audio coming soon
येष्वित्यादिना कुष्ठस्य बाह्यस्य क्षारस्य विषयः| स्पर्शेन्द्रियनाशनेषु सुप्त्यादियुक्तेषु येषु निष्फलत्वात् शस्त्रं न क्रमते न प्रभवति तेशु बहिरन्तश्च विस्राव्य क्षारो निपात्यः|| ५१||
Adhikarana mantrAgadaviShayaH (52) · Śloka 52
लेपोऽतिकठिनपरुषे सुप्ते कुष्ठे स्थिरे पुराणे च| पीतागदस्य कार्यो विषैः समन्त्रागदैश्चानु||५२||
🔊 Audio coming soon
अतिकठिनत्वादियुक्ते तत्कालपीतागदस्य पुंसो विषैर्लेपः कार्यः| अनु च विषलेपस्य मन्त्रयुक्तैरगदैर्लेपः कार्यः|| ५२||
Adhikarana stabdhAdiShu visheShaH (53) · Śloka 53
स्तब्धानि सुप्तसुप्तान्यस्वेदनकण्डुलानि कुष्ठानि| कूर्चैर्दन्तीत्रिवृताकरवीरकरञ्जकुटजानाम्| जात्यर्कनिम्बजैर्वा पत्रैः शस्त्रैः समुद्रफेनेन| घृष्टानि गोमयैर्वा ततः प्रदेहैः प्रदेह्यानि||५३||
🔊 Audio coming soon
स्तब्धत्वादियुक्तानि कुष्ठानि कूर्चादिभिर्घृष्टानि प्रदेहैर्वक्ष्यमाणैः प्रदेह्यानि| जात्यादिभिः पत्रैः|| ५३||
Adhikarana AragvadhAdiShaTpradehAH (54) · Śloka 54
आरग्वधः सैडगजः करञ्जो वासा गुडूची मदनं हरिद्रे| श्र्याह्वः सुराह्वः खदिरो धवश्च निम्बो विडङ्गः करवीरकश्च| ग्रन्थिश्च भूर्जो लशुनः शिरीषः सलोमशो गुग्गुलुकृष्णगन्धे| फणिर्जको वत्सकसप्तपर्णपीलूनि कुष्ठं सुमनः प्रवालाः| वचाहरेणुस्त्रिवृता निकुम्भो भल्लातकं गैरिकमञ्जनं च| मनःशिलाले गृहधूम एला कासीस्रलोध्रार्जुनमुस्तसर्जाः| इत्यर्धरूपैर्विहिताः षडेते गोपित्त पीताः पुनरेव पिष्टाः| सिद्धाः परं सर्षपतैलयुक्ताश्चूर्णाः प्रदेहा बहुशः प्रयोज्याः| कुष्ठानि कृच्छ्राणि नवं किलासं सुरेन्द्रलुप्तं किटिभं सदद्रुम्| भगन्दरार्शांस्यपचीं सपामां हन्युः प्रयुक्तनचिरान्नराणाम्||५४||
🔊 Audio coming soon
आरग्वधेत्यादिना षड्भिरर्धरूपैरर्धवृत्तैः षट्प्रदेहा बहुशः प्रयोज्याः| किम्भूताः गोपित्तं पीतं यैस्ते तथोक्ताः| गोपित्तेन भाविता इत्यर्थः| पुनरेव पिष्टाः आदौ भविताः पुनः पिष्टाः| सर्षपतैलेन युक्ताः एते योगाः परं सिद्धाः कार्यसम्पादने| एते च नराणामचिरात् कुष्ठादीन् हन्युः| किलासं श्वित्रम्| सुरेन्द्रलुप्तमिन्द्रलुप्तम्| तच्च शिरोरोगेषु वक्ष्यते| किटिभानां पुनः सदद्रुग्रहणमतिशयख्यापनम्| सपामामित्यपच्यागण्डमालाया विशेषणम्| श्र्याह्वः श्रीवासः सुराह्वं देवदारु| सलोमशो धातुकासीसम्| कृष्णगन्धा सौभाञ्जनः| फर्णिर्जको मारीचकः| सुमनःप्रवालाः मालतीपल्लवानि| अञ्जनं सौवीरकम्| अलं हरितालम्| गृहधूमो धूममलम्| सर्जाह्वः सर्जरसो शालः सर्वरसोऽपि च|| ५४||
Adhikarana nimbAdyudvartanam (55) · Śloka 55
निम्बं हरिद्रे सुरसं पटोलं कुष्ठाश्वगन्धे सुरदारुशिग्रु| ससर्षपं तुम्बुरुधान्यवन्यं चण्डाञ्च चूर्णानि समानि कुर्यात्| तैस्तक्रपिष्टैः प्रथमं शरीरं तैलाक्तमुद्वर्तयितुं यतेत| तथास्य कण्डूः पिटकाः सकोठाः कुष्ठानि शोफाश्च शमं व्रजन्ति||५५||
🔊 Audio coming soon
तैलाभ्यक्तं शरीरं निम्बादिभिः समभागैः तक्रपिष्टैरुद्वर्तयितुं यतेत| तथाकुर्वतः कुष्ठिनः कण्ड्वादीनि शमं व्रजन्ति| वन्यं परिपेलवम्| चण्डा चोरकम्| कोठाः सिध्मादिमण्डलानि||५५||
Adhikarana mustAdyavacUrNAni (56) · Śloka 56
मुस्तामृतासङ्गकटङ्कटेरी कासीसकम्पिल्लककुष्ठलोध्राः| गन्धोपलः सर्जरसं विडङ्गं मनःशिलाले करवीरकत्वक्| तैलाक्तगात्रस्य कृतानि चूर्णा न्येतानि दद्यादवचूर्णनार्थम्| दद्रुः सकण्डूः किटिभानि पामा विचिर्चिका चेति तथा न सन्ति||५६||
🔊 Audio coming soon
मुस्तादिचूर्णानि तैलाभ्यक्तदेहस्यावचूर्णनार्थं दद्यात्| एवं कृते दद्रूवादिनी न भवन्ति| अमृता गुडूची| आसङ्गं रसाञ्जनम्| कटङ्कटेरी दारुहरिद्रा| 'कम्पिल्लको रजनको रेवतो रक्तचूर्णकः|' गन्धोपलो गन्धापाषाणः|| ५६||
Adhikarana sarShapakalkalepaH (57) · Śloka 57
काण्डे महावृक्षभवे निलीनः स्विन्नः कुकूले पुटपाकयुक्त्या| विचर्चिकां सर्षपकल्कपिंण्डो निहन्ति लज्जामिव रागवेगः||५७||
🔊 Audio coming soon
सर्षपकल्कस्य पिण्डो सुधागण्डन्तर्लीनः पुटपाकयुक्त्या स्विन्नो विचर्चिकां निहन्ति| यथा रागवेगः प्रवृद्धो लज्जां निहन्ति||५७||
Adhikarana manaHshilAkara~jjAdipradehau (58) · Śloka 58
मनश्शिलाजे मरिचानि तैलमार्कं पयः कुष्ठहरः प्रदेहः| तथा करञ्जप्रपुन्नाटबीजं कुष्ठान्वितं गोसलिलेन पिष्टम्||५८||
🔊 Audio coming soon
मनश्शिलादिकः प्रदेहः कुष्ठहरो भवति| तथेत्यादि सुबोधम्| प्रपुन्नाटश्चक्रबीजम्| गोसलिलं गोमूत्रम्|| ५८||
Adhikarana guggululvAdisatailodgharShaNam (59) · Śloka 59
गुग्गुलुमरिचिविडङ्गैः सर्षपकासीससर्जरसमुस्तैः| श्रीवेष्टकालगन्धैर्मनश्शिलाकुष्ठकम्पिल्लैः| उभयहरिद्रासहितैश्चाक्रिकतैलेन मिश्रितैरेभिः| दिनकरकराभितप्तैः कुष्ठं घृष्टं च नष्टं च||५९||
🔊 Audio coming soon
गुग्गुल्वादिभिश्चाक्रिकतैलेन मिश्रितैर्दिनकररश्मितप्तैः कुष्ठं घृष्टं च नष्टं चेत्यनेन घर्षणनाशनयोरेककालता प्रदर्शिता| श्रीवेष्टकः वायसको दधिश्चावश्च शब्दितः| कालगन्धः सौभाञ्जनकम्| चाक्रिकं तैलं चक्रस्थं सद्यःपीडितम्|| ५९||
Adhikarana maricAdilepaH (60) · Śloka 60
मरिचं तमालपत्रं कुष्ठं समनश्शिलं सकासीसम्| तैलेन युक्तमुषितं सप्ताहं भाजने ताम्रे| तेनालिप्तं सिध्म सप्ताहात् घर्मसेविनोऽपैति| मासान्नवं किलासं स्नानेन विना विशुद्धस्य||६०||
🔊 Audio coming soon
मरिचादिकं तैलेन युक्तं ताम्रे भाजने सप्ताहमुषितं तेनालिप्तं सिध्म घर्मसेविनः सूर्यरश्मिसेविनः सप्ताहादपैत्यपगच्छति| नवं किलासं श्वित्रमालिप्तं मासादपैति| किम्भूतस्याह स्नानवर्ज्ज्य कृतसंशुद्धेः|| ६०||
Adhikarana mayUrakakShAratailam (61) · Śloka 61
मयूरकं जर्जरितं समूलं दग्ध्वा परिस्राव्य च सप्तकृत्वः| तेनाम्भसा कङ्गुणिकोत्थतैलं सिद्धं परं सिध्मनिबर्हणाय||६१||
🔊 Audio coming soon
मयूरकक्षाराम्भसा प्रियङ्गुतैलं सिद्धं कुष्ठनिबर्हणाय परमं श्रेष्ठम्| मयूरकोऽपमार्गः|| ६१||
Adhikarana jIvantyAdighRutatailam (62) · Śloka 62
जीवन्ती मञ्जिष्ठा दार्वी काम्पिल्लकं पयस्तुत्थम्| एष घृततैलपाकः सिद्धः सिद्धे च सर्जरसः| देयः समधूच्छिष्टो विपादिका तेन नश्यति ह्यक्ता| चर्मैककुष्ठकिटिभं कुष्ठं शाम्यत्यलसकं च||६२||
🔊 Audio coming soon
जीवन्त्यादिभिर्घृततैलम्| मधूच्छिष्टं मदनम्|| ६२||
Adhikarana vajrakaM tailam (63) · Śloka 63
सप्तपर्णकरञ्जार्कमालतीकरवीरजम्| मूलं स्नुहीशिरीषाभ्यां चित्रकास्फोतयोरपि| करञ्जबीजद्विनिशाव्योषैलकजसर्षपाः| वरावेल्लं च तैस्तैलं सगोमूत्रैर्विपाचितम्| कुष्ठदुष्टव्रणग्रन्थिगण्डमालाभगन्दरान्| विशेषाद्वातकफजान् हन्त्यभ्यङ्गेन वज्रकम्||६३||
🔊 Audio coming soon
सप्तपर्णादिभिर्गोमूत्रेण च तैलं स्नेहपरिभाषया पाचितमभ्यङ्गेन कुष्ठादीन् सर्वान् निहन्ति| विशेषाद्वातकफजान् निहन्ति| नाम्ना वज्रकम्| आस्फोतान्तानां मूलम्| आस्फोतः अर्कः|| ६३||
Adhikarana mahAvajraM tailam (64) · Śloka 64
एरण्डतार्क्ष्यघननीपकदम्बभार्ङ्गी कम्पिल्लवेल्लफलिनीसुरवारुणीभिः| निर्गुण्ड्यरुष्करसुराह्वसुवर्णदुग्धा श्रीवेष्टगुग्गुलुशिलाहरितालविश्वैः| तुल्यस्नुगर्कदुग्धं सिद्धं तैलं स्मृतं महावज्रम्| अतिशयितवज्रकगुणं श्वित्रार्शोग्रन्थिमालाघ्नम्||६४||
🔊 Audio coming soon
एरण्डादिभिः स्नेहाच्चतुर्थांशैः| स्नुगर्कयोर्मिश्रीभूतेन क्षीरेण तैलेन समेन| तार्क्ष्यं वट्टमाक्षिकम्| नीपो धूलिकदम्बः| सुरवारुणी इन्द्रवारुणी| निर्गुण्डी सिन्दुवारकः| सुराह्वं देवदारु| सुवर्णदुग्धा काञ्जनी| शिला मनश्शिला| विश्वं शुण्ठी|| ६४||
Adhikarana kanakakShIryAditailam (65) · Śloka 65
कनकक्षीरीशैलाभाङ्गीदन्त्याः फलानि मूलं च| जातिप्रवालसर्षपलशुनविडङ्गं करञ्जत्वक्| सप्तच्छदार्कपल्लवमूलत्वङ्निम्बचित्रकास्फोतम्| गुञ्जैरण्डकबृहतीमूलत्वक्सुरसार्जकफलानि| कुष्ठं पाठा मुस्ता षड्ग्रन्थातुम्बुरुत्वचो मूर्वा| एडगजकुटजशिग्रुत्र्यूषणभल्लातकक्षवकाः| हरितालमवाक्पुष्पी तुत्थं कम्पिल्लकोऽमृतासङ्गम्| सौराष्ट्री कासीसं दार्वीत्वक् स्वर्जिकालवणम्| एतैस्तैलं तैलं कटुतैलं वा चतुर्गुणे मूत्रे| करवीरमूलपल्लवतोये च विपाचितं जयति| कटुकालाबुन्यस्तं नित्याभ्यङ्गेन वातकफकुष्ठम्| मण्डलदद्रुकोठकृमिपामाविचर्चिकाः सुतराम्||६५||
🔊 Audio coming soon
कनकक्षीर्यादिभिस्तैलं तिलोद्भवं तैलं चतुर्गुणे मूत्रे विपाचितम्| अथवा कटुतैलं विपाचितं वातकफकुष्ठं नाशयति| अथवा केवलस्यैव करवीरस्य मूलपल्लवयोः क्वाथेन विपाचितम्| कनकक्षीर्य्यादि च| इदं कटुकालाम्बुन्यस्तं नित्याभ्यङ्गेन वातकफकुष्ठादिकं जयति| मूलं फलानि च दन्त्याः| सप्तच्छदार्कयोः पल्लवादिकम्| आस्फोता गिरिकर्णी| गुञ्जादीनां फलम्| गुञ्जा रक्तिका काकनन्दिका च| षड्ग्रन्था वचा| आर्जकं कुठेरकभेदः| अवाक्पुष्पी ब्रह्मदण्डी वाराही वरमालिका| अमृता गुडूची| आसङ्गं रसाञ्जनम्|| ६५||
Adhikarana sikthakAditailam (66) · Śloka 66
सिक्थकतुत्थकगुग्गुलुसिन्दूररसाञ्जनैः कटुकतैलम्| पामाकिटिभविचर्चिषु साधितमभ्यञ्जने श्रेष्ठम्||६६||
🔊 Audio coming soon
सिक्थकादिभिः साधितं कटुतैलं पामादिष्वभ्यञ्जनं श्रेष्ठम्| सिक्थकं मदनम्|| ६६||
Adhikarana shaileyakAdicUrNalepaH (67) · Śloka 67
शैलेयकम्पिल्लकपट्टिकाह्वसुराष्ट्रजासर्जरसोपलानि| शिला च चूर्णो नवनीतयुक्तः कुष्ठे स्रवत्यभ्यधिकं प्रशस्तः||६७||
🔊 Audio coming soon
शैलेयकादीनां चूर्णो नवनीतयुक्तः सर्वस्मिन् कुष्ठे प्रशस्तः | स्रवति तु कुष्ठेऽधिकं प्रशस्तः| पट्टिकाह्वं लोध्रम्| सुराष्ट्रजा सौराष्ट्री| उपलो गन्धपाषाणः| शिला मनःशिला|| ६७||
Adhikarana eDagajAdilepaH (68) · Śloka 68
एडगजकुष्ठसैन्धवसिद्धार्थविडङ्गकाञ्जिकैर्लिप्तम्| कृमिपामासिध्मदद्रुमण्डलकुष्ठं शमं याति||६८||
🔊 Audio coming soon
एडगजादिभिर्लिप्तं कृम्यादिकं शमं याति|| ६८||
Adhikarana lAkShAdilepaH (69) · Śloka 69
लाक्षाव्योषं प्रपुन्नाटञ्च बीजं श्रीवेष्टाः कुष्ठसिद्धार्थकाश्च| तक्रोन्मिश्रः स्याद्धरिद्रा च लेपोदद्रुषूक्तो मूलकोत्थञ्च बीजम्||६९||
🔊 Audio coming soon
लाक्षादिभिर्हरिद्रान्तैर्दद्रुषु तक्रोन्मिश्रो लेपः स्यात्| मूलकोत्थं च बीजं केवलं दद्रुषु लेपे उक्तम्| प्रपुन्नाटबीजं चक्रमर्दः| श्रीवेष्टको वायसको दधिश्यावश्च शब्दितः|| ६९||
Adhikarana dUrvAdilepaH (70) · Śloka 70
दूर्वाभयासैन्धवचक्रमर्दकुठेरकाः काञ्जिकतक्रपिष्टाः| त्रिभिः प्रलेपैरपि बद्धमूलां दद्रुञ्च कण्डूञ्च विनाशयन्ति||७०||
🔊 Audio coming soon
दूर्वादयः काञ्जिकतक्रपिष्टास्त्रिभिर्लेपैः बद्धमूलामपि दद्रुं कण्डूं च नाशयति|| ७०||
Adhikarana manaHshilAdilepaH (71) · Śloka 71
मनश्शिलात्वक्कुटजं सकुष्ठं सलोमशः सैडगजः करञ्जः| ग्रन्थिश्च भौर्जः करवीरमूलं चूर्णानि साध्यानि तुषोदकेन| पलाशनिर्दाहरसेन वाऽपि कर्षोन्मितान्याढकसम्मितेन| दर्वीप्रलेपं प्रवदन्ति लेपमेतत् परं कुष्ठनिषूदनाय||७१||
🔊 Audio coming soon
मनःशिलादीनां चूर्णानि कर्षोन्मितान्याढकसम्मितेन तुषोदकेन पलाशक्षारोदकेन वा साध्यान्येतदपि प्रलेपं कुष्ठनिषूदनाय परं श्रेष्ठमाचार्या वदन्ति| कुटजत्वक् वत्सकत्वक्| सलोमशा धातुकासीसम्| भौर्जो ग्रन्थिः सुज्ञेयः|| ७१||
Adhikarana elAdiko lepaH, mAMsyAdiko lepaH (72) · Śloka 72
एलाचित्रकनिम्बवृषकं कुरुविन्दनागरार्कञ्च| चूर्णीकृतमष्टाहं भावयितव्यं पलाशस्य| क्षारेण गवां मूत्रस्रुतेन तेनास्य मण्डलान्याशु| भिद्यन्ते दीर्यन्ति च लिप्तान्यर्काभितप्तानि| मांसी मरिचं लवणं रजनी तगरं सुधा गृहाद्धूमः| मूत्रं पित्तं क्षारः पालाशः कुष्ठनुल्लेपः||७२||
🔊 Audio coming soon
एलादिकं चूर्णीकृतमष्टाहं परिशोष्य गोमूत्रस्रुतेन पलाशक्षारेण भावियितव्यम्| अस्य कुष्ठिनस्तेन लिप्तान्यर्केन चाभितप्तानि कुष्ठमण्डलानि भिद्यन्ते जीर्यन्ति च| मांस्यादिको लेपः कुष्ठनुत्| पित्तं मूत्रं प्राणिनामेवाष्टानाम्|| ७२||
Adhikarana siddhArthakaM snAnam (73) · Śloka 73
मुस्तं त्रिफला मदनं करञ्ज आरग्वधः कलिङ्गयवाः| ससप्ताह्वकुष्ठफलिनीदार्व्यः सिद्धार्थकं स्नानम्| एष कषायो वमनं विरेचनं वर्णदस्तथोद्धर्षः| त्वग्दोषकुष्ठशोफप्रबाधनः पाण्डुरोगघ्नः||७३||
🔊 Audio coming soon
मुस्तादीनि सिद्धार्थकं नाम स्नानम्| एष च योगः वमनाय कषायो भवति विरेचनं च वर्णकराङ्गोद्धर्षश्च| उद्धृष्यन्तेऽनेनाङ्गानीत्युद्धर्षः| एष च प्रयोगः त्वग्दोषादीनां प्रबाधनः पाण्डुरोगघ्नश्च|| ७३||
Adhikarana vividhAH lepAH (74) · Śloka 74
करवीरनिम्बकुटजाच्छम्याकाच्चित्रकाच्च मूलानाम्| मूत्रे दर्वीलेपः क्वाथो लेपेन कुष्ठघ्नः| श्वेतकरवीरमूलं कुटजकरञात्फलं त्वचो दार्व्याः| सुमनःप्रवालयुक्तो लेपः कुष्ठापहः सिद्धः| शैरीषी त्वक्पुष्पं कार्पास्या राजवृक्षपत्राणि| पिष्टा च काकमाची चतुर्विधः कुष्ठहा लेपः||७४||
🔊 Audio coming soon
करवीरेत्यादि सुबोधम्| श्वेतकरवीरादिभिर्लेपः कुष्ठापहः सिद्धः| शिरीषत्वगादिभिः पृथक् चत्वारो लेपाः कुष्ठघ्नाः| राजवृक्षः आरग्वधः|| ७४||
Adhikarana snAnAdyarthe aShTau kaShAyAH (76) · Śloka 75
दार्वीरसाञ्जनस्य निम्बपटोलस्य खदिरसारस्य| आरग्वधवृक्षकयोस्त्रिफलायाः सप्तपर्णस्य| इति षट्कषाययोगाः कुष्ठघ्नाः सप्तमश्च तिनिशस्य| स्नाने पाने च हितास्तथाष्टमश्चाश्वमारस्य| आलेपनं प्रघर्षणमवचूर्णनमेत एव च कषायाः| तैलघृतपाकयोगैश्चेष्यन्ते कुष्ठशान्त्यर्थम्||७५||
🔊 Audio coming soon
दार्वीरसाञ्जनाभ्यामेकः कषायः| निम्बपटोलाभ्यां द्वितीयः| खदिरसारेण तृतीयः| आरग्वधवृक्षकाभ्यां चतुर्थः| त्रिफलया पञ्चमः| सप्तपर्णेन षष्ठः| तिनिशेन सप्तमः| अश्वमारेणाष्टमः| एते कषाययोगाः कुष्ठिनां स्नाने पाने च हिताः| एत एव च कुष्ठिनामालेपनादिकं भवति| एत एव च कषायः पृथक् तैलस्य पाकयोगे घृतस्य च पाकयोगे कुष्ठशान्त्यर्थं शस्यन्ते|| ७६||
Adhikarana sarShapAditailAni (77) · Śloka 77
सर्षपकरञ्जकोशातकानि तैलन्यथेङ्गुदीनां च| कुष्ठेषु हितान्याहुस्तैलं श्रेष्ठं च खदिरसारस्य||७७||
🔊 Audio coming soon
सर्षपादीनि च तैलानि कुष्ठेषु हितान्याचार्या आहुः| प्रकरणाद्बहिःप्रयोगे| कोशातकस्य फलम्| इङ्गुदी वृक्षविशेषः|| ७७||
Adhikarana a~ggavisharaNAdau kramaH, pathyavisheShashca (78) · Śloka 78
शीताः प्रदेहसेकास्तिक्तं सर्पिः सिराविरेकश्च| विशरणदाहक्लेदे विस्फोटे चर्मदलने च| शीर्णनखरोममांसः कृमिमानन्नाम्भसी त्यजेत्कुष्ठी| सद्यो दुग्धं दुग्धं षण्मासान् कारभं भजेत्समधु||७८||
🔊 Audio coming soon
कुष्ठेषु अङ्गविशरणादौ शीतप्रदेहादिकं हितम्| विशरणं त्वङ्मांसावदरणम्| चर्मदलनं त्वगुच्चटनम्| शीर्णनखत्वादियुक्तः कुष्ठी अन्नमम्भश्च त्यजेत्| किमन्यत् प्राणान् जह्याट् न| अपि तु कारभं दुग्धमौष्ट्रं क्षीरं सद्यो दुग्धं तत्कालविस्रावितं समाक्षिकं षण्मासान् भजेत्|| ७८||
Adhikarana eDagajAdi vividhAH yogAH (79) · Śloka 79
एडगजः सविडङ्गो मूलान्यारग्वधस्य कुष्ठानाम्| उद्दालनश्च दन्ता गोऽश्वराहोष्ट्रदन्ताश्च| रजनीद्वयं कृमिघ्नं प्रपुन्नाटं राजवृक्षमूलं च| कुष्ठोत्पाटनमग्र्यं सपिप्पलीपाकलं योज्यम्| श्वित्राणां सविशेषं योक्तव्यं सर्वतो विशुद्धानाम्| उत्सन्नेषु च लेपाः सवर्णकरणास्तथाभ्यङ्गाः||७९||
🔊 Audio coming soon
एडगजादिकं बहिःप्रयुक्तं कुष्ठानामुद्दालनं निबिडत्वत्याजनम्| रजन्यादिकं सपिप्पलीपाकलमग्र्यं श्रेष्ठं कुष्ठोत्पाटनं योज्यम्| उत्पाटनं मोक्षणम्| पाकलं कुष्ठम्| एतच्च रजन्यादिकं सर्वत ऊर्ध्वमधः शिरसि च विशुद्धानां श्वित्राणां सविशेषं योक्तव्यम्||७९||
Adhikarana kuShThe shodhanacikitsAprAdhAnyam (80) · Śloka 80
पक्षात् पक्षात् छर्दनान्यभ्युपेयान् मासान्मासाच्छोधनं चाप्यधस्तात्| शुद्धिर्मूर्ध्नः स्यात्त्रिरात्रात् त्रिरात्रात् षष्ठे षष्ठे मास्यसृङ्मोक्षणं च| यो दुर्वान्तो दुर्विरिक्तोऽथवा स्यात् कुष्ठी दोषैरुद्धतैर्व्याप्यतेऽसौ| निस्सन्देहं यात्यसाध्यत्वमेवं तस्मात् कृत्स्नात्रिर्हरेदस्य दोषान्||८०||
🔊 Audio coming soon
पक्षात् पक्षादिति ग्रहणं वमनादिक्रियान्तरपरिहारदिवसज्ञापनार्थम्| शोधनं विरेचनम्| मूर्ध्नः शिरसः शुद्धिर्नस्येन| सर्वस्य च कृत्स्नानिरवशेषान् दोषान् निर्हरेत् | अस्येति कुष्ठिनः| किं प्रयोजनमित्याह-यो दुर्वान्त इत्यादि| अस्मयक्शुद्ध्या दोषैरुद्धतैर्व्याप्तैः कुष्ठं निस्सन्देहमसाध्यत्वं याति|| ८०||
Adhikarana kuShThe vratAdisevA (81-19) · Śloka 19
व्रतदमयमसेवात्यागशीलाभियोगो द्विजगुरुसुरपूजा सर्वसत्त्वेषु मैत्री| जिनजिनसुतताराभास्कराराधनानि प्रकटितमलपापं कुष्ठमुन्मूलयन्ति||८१|| इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतावष्टाङ्गसंग्रहसंहितायां चिकित्सितस्थाने कुष्ठचिकित्सितन्नामैकविंशोऽध्यायः||१९||
🔊 Audio coming soon
व्रतादीनि कुष्ठमुन्मूलयन्ति| तच्च कुष्ठं प्रकटितमलपापं दुष्टं दुष्टं चादृष्टं कर्म प्रकाश्यते| व्रतः नियमश्चान्द्रायणादिः| दमः अक्रोधादित्वम्| यम इन्द्रियजयः| जिनो बुद्धः| जिनसुता अवलोकितेशादयः|| ८१|| इति श्रीमन्महामहोपाध्यायेन्दु-विरचितायामष्टाङ्गसंग्रहव्याख्यायां शशिलेखायां चिकित्सितस्थान एकविंशोऽध्यायः