Adhikarana atha shvitrakRumicikitsitannAma dvAviMsho~adhyAyaH | adhyAyapratij~jA (1) · Śloka 1
अथातः श्वित्रकृमिचिकित्सितं व्याख्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः||१||
क्रमप्राप्तस्य श्वित्रस्य कृमीणाञ्च क्रमेण चिकित्सितं प्रदर्शयितुमध्याय आरभ्यते|| १||
Adhikarana shvitre shIghrakriyAkartavyatA (2) · Śloka 2
कुष्ठादपि बीभत्सं यच्छीघ्रतरञ्च यात्यसाध्यत्वम्|
श्वित्रमतस्तच्छान्त्यै यतेत दीप्ते यथा भवने||२||
श्वित्रे शीघ्रमेव शान्त्यर्थं यतेत दीप्तगृहवत्| यतः श्वित्रं कुष्ठादपि बीभत्सं जुगुप्सितम्|| २||
Adhikarana mahAnIlaM ghRutam (3) · Śloka 3
मदयन्त्याः सवायस्याः सुरभ्यारग्वधस्य च|
शतं पलानां प्रत्येकं वरायास्त्वाढकत्रयम्|
व्याघ्रीवह्निकपोतावत्सकखदिरार्कमूलदन्त्यैन्द्र्य|
सनिशाद्वया दशपला क्वाथेऽमीषां क्षिपेत्पिष्ट्वा|
बीजं करञ्जेङ्गुदशिग्रुनिम्बा- न्नीलीं सनीलोत्पलचन्द्रलेखाम्|
श्यामां किरातं कटुकत्रयं च पञ्चाढकं तत्र च पञ्चगव्यात्|
शमयत्यचिरेण घृतं मृदुहुतवहसाधितं महानीलम्|
न किलासमेव केवलमपचीकृमिकासकुष्ठमभ्यस्तम्|
उन्मादापस्मारावर्शोविद्रधिशिरोरोगान्|
सविसर्पशोषपवनव्याधीन्विषमज्वरान्हन्यात्||३||
मदयन्त्यादिना स्नेहनार्थं घृतमुच्यते| मदयन्ती धातकी| वायसी काकनासा| सुरभिर्गन्धसुरा| आरग्वधः शम्याकः| व्याघ्री निदिग्धिका| वह्निश्चित्रकः| कपोता काकमाची| ऐन्द्री इन्द्रवारुणी| करञ्जादिनां चतुर्णां बीजम्| श्यामा त्रिवृत्| पञ्चगव्यानि गोमयस्वरसः मूत्रं क्षीरं दधि घृतमित्येतानि| एतन्महानीलं नाम घृतं मृदुना हुतविहेनाऽग्निना साधितमचिरेण किलासं श्वित्रमेव न शमयति; अपि त्वपच्यादिकमपि शीघ्रं शमयति|| ३||
Adhikarana saMshodhanam (4) · Śloka 4
संशोधनं विशेषात् पीतस्नेहस्य योजयदेनु च|
श्वित्रं स्रंसनमग्र्यं मलयूरस इष्यते सगुडः|
तं पीत्वाऽभ्यक्ततनुर्यथाबलं सूर्यपादसन्तापम्|
सेवेत विरिक्तश्च त्र्यहं त्र्यहं पिपासुः पिबेत्पेयाम्||४||
अनु चानन्तरं पीतस्नेहस्य संशोधनमेव विशिष्यते विशिष्टं भावति नान्यत् किञ्चित्| तत्रापि श्वित्रेऽग्र्यं प्रधानं स्रंसनं विरेचनमिष्यते| किमाह-सगुडो मलयूरसः| मलयूः सोमराजिः| अभ्यक्तो रविकरसन्तापं च यथाबलं निषेवमाणोऽनेन विरिक्तस्त्र्यहं पिपासुस्तृष्णावान् यदा भवति तदा पेयां पिबेत्| एवं त्र्यहं विरेचनम्| तृषिते पेया नान्यत् किञ्चित्|| ४||
Adhikarana shvitrasphoTAnAM cikitsA (5) · Śloka 5
श्वित्रेऽङ्गे ये स्फोटा जायन्ते कण्टकेन तान् भिन्द्यात्|
स्फोटेषु निस्सृतेषु प्रातः प्रातः पिबेत् पक्षम्|
मलयूमशनं प्रियङ्गुं शतपुष्पां चाम्भसा समुत्क्वाथ्य|
पालाशं वा क्षारं यथाबलं फाणितोपेतम्||५||
श्वित्रेऽङ्गे ये स्फोटा जायन्ते उक्तेन स्रंसनविधिना सुबोधम्| पालाशं क्षारं फाणितेन क्षुद्रगुडेन युक्तं यथाबलमिति बलापेक्षत्वादनियतमात्रमपि|| ५||
Adhikarana sphoTodbhavAya vidhiH (6) · Śloka 6
वितुषावल्गुजबीजाच्चूर्णं गोवारिभाविताद्बहुशः|
मूलक्वाथेन पिबेत्कलितरुकृतमालमदनफल्गूनाम्|
पीते किलासी तिलतैलदिग्धो दिने दिने स्याद्रविपादसेवी|
जीर्णे च तक्राप्लुतकोद्रवाशी स्फोटोद्भवायैष विधिस्त्रिरात्रम्||६||
वितुषेत्यादिना स्फोटोद्भवाय विधिः| अवल्गुज सोमराजिः| तद्बीजं बहुकृत्वाऽनेकवारं गोमूत्रेण भावितं कलितर्वादीनां मूलक्वाथेन विधिः| तस्मिंश्च पीते सति किलासी श्वित्री रविपादसेवी तिलतैलेन दिग्ध उपलिप्तः स्यात्| कलितरुर्बिभीतकः| कृतमालो नक्तमालः| मदनफलं प्रसिद्धम्| फल्गुः काकोदुम्बरिका||६||
Adhikarana sphoTAnAM bhedanAdi (7) · Śloka 7
विद्ध्वाऽन्येद्युः स्फोटकान् कण्टकैस्तान् बस्ताम्भोभिर्घृष्टया शुक्तवर्त्त्या|
लिम्पेत् कामं लेपनाद्वेदनायां लेपो योज्यः शङ्खनाभिर्जलेन||७||
अनेन स्फोटकानन्येद्युः कण्टकैर्भित्वा बस्ताम्भोभिः छगलमूत्रैर्घृष्टया शुक्तवर्त्या कामं भृशं लिम्पेत्| शुक्तवर्तिर्व्योषादिभिर्वक्ष्यमाणा सुबोधम्|| ७||
Adhikarana vyoShAdivaralepaH (8) · Śloka 8
व्योषसर्षपनिशागृहधूमैः यवशूकपटुचित्रयुक्तैः|
कोलतुल्यगुलिकार्धविषांशा श्वित्रकुष्ठशमनो वरलेपः||८||
व्योषादीनां भागो विषस्य चार्धभागयुक्तोऽनेन बदरतुल्या गुलिका क्रियते| एषा गुलिका वरलेपः श्वित्राणां कुष्ठानां च शमने|| ८||
Adhikarana gomUtrapAnavidhAnam (9) · Śloka 9
गव्यं मूत्रं चित्रकव्योषयुक्तं सर्पिः कुम्भे संस्थितं क्षौद्रमिश्रम्|
पक्षादूर्ध्वं श्वित्रिणा|
पेयमेतत् कार्यं चास्मै कुष्ठदृष्टं विधानम्||९||
गव्यमित्यादि सुबोधम्| अस्मै श्वित्रिणे कुष्ठोक्तं विधानं कार्यम्| कुष्ठश्वित्राणामेकरूपत्वात्|| ९||
Adhikarana mArkavabhakShaNavidhiH (10) · Śloka 10
मार्कवमथवा खादेद्भृष्टं तैलेन लोहपात्रस्थम्|
बीजकशृतं च दुग्धं तदनु पिबेच्छिवत्रनाशाय||१०||
अथवा मार्कवं भृङ्गरजो लोहपात्रस्थं तैलेन भृष्टं खादेत्| पश्चाच्च बीजकशृतं दुग्धं श्वित्रनाशनं पिबेत्| बीजकः असनः||१०||
Adhikarana pUtIkAdipallavalepaH (11) · Śloka 11
पूतीकार्कव्याधिघातस्नुहीनां मूत्रैः पिष्टाः पल्लवा जातिजाश्च|
घ्नन्त्यालेपाच्छिवत्रदुर्नामदद्रून् पामाकोठान् दुष्टनाडीव्रणांश्च||११||
पूतीकादीनां जात्यन्तानां पल्लवा गवादिमूत्रैः पिष्टा आलेपात् श्वित्रादीन् घ्नन्ति| पूतीकः करञ्जः| व्याधिघात आरग्वधः| स्नुही सुधा|| ११||
Adhikarana jA~ggamalepAH (12) · Śloka 12
द्वैप्यं दग्धं चर्म मातङ्गजं वा|
श्वित्रे लेपस्तैलयुक्तो वरिष्ठः|
पूतीकीटो राजवृक्षोद्भवेन क्षारेणाक्तः श्वित्रमेकोऽपि हन्ति||१२||
द्वीपिनः हस्तिनः वा चर्म दग्धं तैलेन युक्तम्| श्वित्रे लेपो वरिष्ठः श्रेष्ठः| पूतीकीटः कर्कटीकारवल्लीवद्दुर्गन्धी कृमिविशेषः प्रसिद्धः| राजवृक्ष आरग्वधः|| १२||
Adhikarana bhallAtakAdInAM lepaH (13) · Śloka 13
रात्रौ गोमूत्रे वासितान् जर्जराङ्गा नह्निच्छायां शोषयेत् स्फोटहेतून्|
एवं वारांस्त्रीन् भावयेच्छ्लक्ष्णपिष्टैः स्नुह्याः क्षीरेण श्वित्रनाशाय लेपः|
अक्षतैलद्रुतालेपः कृष्णसर्पोद्भवा मषी|
शिखिपित्तं तथा दग्धं ह्रीबेरं वा तदाप्लुतम्||१३||
रात्रावित्यादि सुबोधम्| स्फोटहेतुर्भल्लातकः| तथेत्यक्षतैलद्रुतम्| अक्षं विभीतकम्| तदाप्लुतं शिखिपित्ताप्लुतम्| ह्रीबेरं वालकम्| शिखी मयूरः|| १३||
Adhikarana shvetakukkuTapurIShalepaH (14) · Śloka 14
उपोषितायान्नकालांस्त्रीन् श्वेतकृकवाकवे|
यष्ट्याह्वकुष्ठैडगजबीजचूर्णं घृतान्वितम्|
दद्यात्तस्य पुरीषेण श्वित्रमुद्दाल्य लेपयेत्|
मासं हन्त्याशु तच्छ्रित्रं विशेषाद्गुह्यसंश्रयम्||१४||
उपोषितत्यादि| श्वेतकृकवकवे शुक्लकुक्कुटाय त्रीनन्नकालानुपोषिताय सार्धदिनं यथौचित्येन वा त्रीनन्नकालाननाहारभयेन यष्ट्याह्वादिचूर्णं भोजनाय दद्यात्| अस्य श्वेतकृकवाकोः पुरीषेण शस्त्रादिनोद्दाल्य श्वित्री लेपयेत्| तदाशु श्वित्रं हन्ति| गुह्यसंश्रयं मेढ्रगतं विशेषाद्धन्ति|| १४||
Adhikarana paTvAdilepaH (15) · Śloka 15
लेपः पटुवेल्लशिला कासीसं रोचना कनकपुष्पी|
गोपित्तयुक्तमथवा चपलाञ्जनयुग्मलोहरजः||१५||
पट्वादिभिर्लेपः श्वित्रं हन्ति| अथवा चपलादिकं गोपित्तयुक्तं लेपः| चपला पिप्पली| अञ्जनयुग्मं स्रोतोजं सौवीरं च| लोहरजः शस्त्रचूर्णम्|| १५||
Adhikarana kAkodumbarikAlepaH (16) · Śloka 16
काकोदुम्बरिका वा सावल्गुजचित्रका सगोमूत्रा|
कदलीक्षारयुतं वा खरास्थि दग्धं सगोरुधिरम्||१६||
अथवा काकोदुम्बरिकालेपः| किम्भूता सावल्गुजचित्रका सगोमूत्रा च| काकोदुम्बरिका फल्गुः| अवल्गुजः सोमराजिः| अथवा दग्धं खरास्थिलेपः| किम्भूतं कदलीक्षाऱ्रेण युक्तं सगोरुधिरञ्च||१६||
Adhikarana nIlotpalAdilepAH (17) · Śloka 17
नीलोत्पलं सकुष्ठं ससैन्धवं हस्तिमूत्रपिष्टं वा|
हस्तिमदाध्युषितो वा मालत्याः क्षारकक्षारः||१७||
अथवा नीलोत्पलादित्रयं हस्तिमूत्रेण पिष्टं लेपः| अथवा मालत्याः| क्षारकक्षारः क्षारकाणां मुकुलानां क्षारो हस्तिमद आसंस्कारमध्युषितो लेपः|| १७||
Adhikarana mUtrikA rasakriyA (18) · Śloka 18
सिद्धार्थकबृहत्यौ करञ्जकोशातकीफलं गुञ्जा|
शौकनासा सगवाक्षी स्वर्णक्षीरी निकुम्भश्च|
लाङ्गलिकी हयमारस्तिल्वकभल्लातकाश्वमूत्री च|
मुस्तास्नुही सहिंस्रा सुवर्णशकला फलोपेता|
मूलकबीजं व्योषं पीलुविडङ्गानि कर्णिकारश्च|
पिचुमन्दजातीकिसलयबाकुचिकातुत्थकुष्ठानि|
कटुरोहिणीमनोह्वात्रिफला च सुकल्किता गवां मूत्रे|
गजहयखरमूत्राणां पात्रत्रितयं स्नुगर्कदुग्धाभ्याम्|
द्वौ कुडवाविह दद्यात् सर्षपतैलाच्च चातुर्थ्याम्|
दर्वीलेपं सिद्धा रसक्रिया मूत्रिका नाम|
श्वित्रं घृष्टं लिप्तं त्रीनालेपांस्तया न लङ्ह्घयति|
मशतिलकचर्मकीलग्रन्थार्बुदसर्वकुष्ठघ्नी||१८||
सिद्धार्थकेत्यादिना मूत्रिका नाम रसक्रिया| बृहत्यौ स्थूला सूक्ष्मा च| करञ्जस्य कोशातक्याश्च फलम्| कोशातकी कृतवेधनी| गुञ्जारक्तिका काकनन्दिका च| शुकनासा तुहिनका सरला स्नेहदारुका| निकुम्भो दन्तीफलान्येव| लाङ्गलिकी विशल्या गर्भपातनी च| हयमारः करवीरः| तिल्वकः पट्टिकालोध्रः| अश्वमूत्री सल्लकी| स्नुही सुधा| हिंस्रा मांसी| हरेणुका रेणुपुष्पं सुवर्णशकला च| सा फलोपेता फलयुक्ता| कर्णिकार आरग्वधः| बाकुचिका सोमराजिः| सिद्धार्थकादीनां त्रिफलान्तानां सर्वेषां गोमूत्रेण कल्कीकरणम्| द्वौ कुडवौ स्नुगर्कदुग्धाभ्याम्| सर्षपतैलाच्च चातुर्थी पलम्| दर्वीलेपमिति क्रियाविशेषणम्| श्वित्रं घृष्टं सत् तया रसक्रियया लिप्तं त्रीनालेपान् न लङ्घयति त्रयाणामवचारतः शमं यातीत्यर्थः| तिलकाः कृष्णतिलतुल्यानि मण्डलानि| तान्येवोन्नतानि मशकाः| चर्मकीलमर्शोनिदान उक्तम्|| १८||
Adhikarana savarNakaraNo lepaH (19) · Śloka 19
कुडवोऽवल्गुजबीजाद्धरितालचतुर्थभागसम्मिश्रः|
मूत्रेण गवां पिष्टः सवर्णकरणः परं श्वित्रे||१९||
कुडवेति सुबोधम्| हरितालचतुर्थभागो बाकुचीबीजापेक्षया पलामित्यर्थः| जिते दोषे सवर्णकरणार्थमयं लेपः|| १९||
Adhikarana avalgujalepaH (20) · Śloka 20
क्षारे सुदग्धे गजलण्डजे वा गजस्य मूत्रेण परिस्रुते च|
द्रोणप्रमाणे दशभागयुक्तं दत्वा पचेद्बीजमवल्गुजानाम्|
श्वित्रं जयेच्चिक्कणतां गतेन तेन प्रलिप्तं बहुशः प्रघृष्टम्|
कुष्ठं किलाशं तिलकालकं वा यद्वा व्रणे स्यादधिमांसजातम्||२०||
सुष्ठु दग्धे गजलण्डात् हस्तिशकृतो जाते क्षारे हस्तिमूत्रेण परिस्रुते गालिते द्रोणप्रमाणे अवल्गुजानां बीजं दशभागयुक्तं दत्वा पचेत्| चिक्कणपाकत्वं गतेन तेन शुष्कगोमयादिना घृष्टं श्वित्रं बहुशः प्रलिप्तं एतदेव श्वित्रं जयेत् कफादींश्च|| २०||
Adhikarana bhallAtakAdilepaH (21) · Śloka 21
भल्लातकद्वीपिसुधार्कमूल गुञ्जाफलत्र्यूषणशङ्खचूर्णम्|
तुत्थं सकुष्ठं लवणानि पञ्च क्षारद्वयं लाङ्गलिकां च पक्त्वा|
स्नुगर्कदुग्धे घनमायसस्थं शलाकया तद्विदधीत लेपम्|
कुष्ठे किलासे तिलकालकेषु मशेषु दुर्नामसु चर्मकीले||२१||
भल्लातकादि सुबोधम्| स्नुगर्कदुग्धे मिश्रीभूते भल्लातकादिकं पक्त्वा पश्चात्तु लोहपात्रस्थं शलाकया लेपं कुष्ठादिषु विदधीत| द्वीपिश्चित्रकः| लाङ्गलिका विशल्या गर्भपातनी च|| २१||
Adhikarana shvitrasya kAdAcitkI siddhiH (22) · Śloka 22
शुद्ध्या शोणितमोक्षैर्विरूक्षणैर्भक्षणैश्च सक्तूनाम्|
श्वित्रं कस्यचिदेव प्रशाम्यति क्षीणपापस्य||२२||
शुद्ध्यादिभिरवश्यं श्वित्रं प्रशाम्यति| किं सर्वस्य, न; अपि तु कस्यचिदेव क्षीणपापस्य| अक्षीणपापस्य न कथञ्चिदपि शमं याति| इति श्वित्रचिकित्सा|| २२||
Adhikarana atha kRumicikitsitam - niruhaH (23) · Śloka 23
स्निग्धस्विन्ने गुडक्षीरमत्स्याद्यैः कृमिणोदरे|
उत्क्लेशितक्रिमिकफे शर्वरीं तां सुखोषिते|
सुरसादिगणं मूत्रे क्वाथयित्वाऽर्धवारिणि|
तं कषायं कणागालाकृमिजित्कल्कयोजितम्|
सतैलस्वर्जिकाक्षारं युञ्ज्याद्बस्तिं ततोऽहनि||२३||
स्निग्ध इत्यादिना कृमिचिकित्सा| प्रथममेव स्नेहस्वेदौ| तैः स्निग्धस्विन्न आतुरे| क्रिमयो विद्यन्ते यस्मिन्निति पामादिपाठान्न| तस्मिन् गुडादिभिरुत्क्लेशतौ क्रिमिकफौ यस्य| तां च शर्वरीं गुडाद्युपयोगरात्रिं सुखोषिते सुखेन सुप्ते| द्वितीयेऽहन्यर्धोदके गोमूत्रे सुरसादिगणं क्वाथयित्वा तं कषायं कणादिकल्कसंयोजितं तैलादियुक्तं च बस्तिं युञ्ज्यात्|| २३||
Adhikarana virecanam (24) · Śloka 24
तस्मिन्नेव निरूढं तं पाययेत विरेचनम्|
त्रिवृत्कल्कं फणकणाकषायालुडितं ततः|
ऊर्ध्वाधः शोधिते कुर्यात्पञ्चकोलयुतं क्रमम्||२४||
ततस्स्तस्मिन्नेवाहनि यस्मिन् बस्तिः प्रयुक्तस्तस्मिन् निरूढमातुरं विरेचनं पाययेत्| किमित्याह-त्रिवृत्कल्कं फलादिकषायालुडितम्| अत्र हि विरेचनशब्देन दोषरेचनाद्वमनमप्युच्यते| फलं मदनफलम्| कणा पिप्पली| तत इति त्रिवृत्प्रयोगाद्वमनविरेचनाभ्यां ऊर्ध्वाधः शोधिते क्रमं पेयादिकं पञ्चकोलयुक्तं कुर्यात्|| २४||
Adhikarana anuvAsanam (25) · Śloka 25
कटुतिक्तकषायाणां कषायैः परिषेचनम्|
काले विडङ्गतैलेन ततस्तमनुवासयेत्||२५||
कट्वादिरसानां च द्रव्याणां कषायैः क्वाथैः परिषेचनञ्च कुर्यात्| ततस्तं क्रिमिणोदरं काले योग्ये विडङ्गतैलेनानुवासयेत्|| २५||
Adhikarana mUrdhajeShu krimiShu (26) · Śloka 26
शिरोरोगनिषेधोक्तमाचरेन्मूर्धकेष्वनु|
उद्रिक्ततिक्तकटुकमल्पस्नेहञ्च भोजनम्||२६||
मूर्धगेषु शिरोगतेषु क्रिमिषु शिरोरोगप्रतिषेधाध्यायोक्तं हितम्| पश्चाच्चोद्रिक्ततिक्तकट्वादिभिर्भोजनमाचरेत् स्वल्पस्नेहम्|| २६||
Adhikarana pathyabhojanam (27) · Śloka 27
विडङ्गकृष्णामरिचपिप्पलीमूलशिग्रुभिः|
पिबेत्सस्वर्जिकाक्षारैर्यवागूं तक्रसाधिताम्|
रसं शिरीषकिणिहीपारिभद्रककेबुकात्|
पलाशबीजपत्तूरपूतीकाद्वा पृथक् पिबेत्|
सक्षौद्रं सुरसादीन् वा लिह्यात्क्षौद्रयुतान् पृथक्||२७||
तथा तक्रेण साधितां यवागूं विडङ्गादिचूर्णेन सह पिबेत्| अथवा शिरीषादेः पृथक् प्रत्येकस्य रसं पिबेत्| किणिही अपामार्गः| पारिभद्रको मन्दारः| पत्तूरो मत्स्याक्षकः| पूतीकः करञ्जः| किम्भूतं शिरीषादिरसमाह-सक्षौद्रम्| अथवा सुरसादिन् सुरसादिगण एव पठितान् पृथक् प्रत्येकं क्षौद्रयुतान् लिह्यात्||२७||
Adhikarana ashvaviTcUrNam (28) · Śloka 28
शतकृत्वोऽश्वविट्चूर्णं विडङ्गक्वाथभावितम्|
कृमिमान्मधुना लिह्यात् भावितं वा वरारसैः|
शिरोगतेषु क्रिमिषु चूर्णं प्रधमनं च तत्||२८||
तथाश्वपुरीषचूर्णं शतकृत्वः बहून् वारान् विडङ्गक्वाथेन भावितं क्रिमिमान् पुरुषो मधुना लिह्यात्| अथवा अश्वविट्चूर्णं वरारसैस्त्रिफलाक्वथैर्भावितं क्रिमिमान्मधुना लिह्यात्| तच्च चूर्णं भाविताश्वविशः शिरोगतेषु क्रिमिषु नासया प्रधमनं योज्यम्| सुबोधम्||२८||
Adhikarana pUpalikAyogAH (29) · Śloka 29
आखुकर्णीकिसलयैः सुपिष्टैः पिष्टमाश्रितैः|
पक्त्वा पूपलिकां खादेद्धान्याम्लं च पिबेदनु|
सपञ्चकोललवणमसान्द्रं तक्रमेव वा|
नीपमार्कवनिर्गुण्डीपल्लवेष्वप्ययं विधिः||२९||
पिष्टेन शालिपिष्टेन मिश्रितैराखुकर्ण्याः किसलयैः सुपिष्टैः पूपलिकां पक्त्वा खादेत्| अनु धान्याम्लञ्च पिबेत्| किसलयमभिनवोद्भिन्नं पल्लवम्| किम्भूतं धान्याम्लमाह-सपञ्चकोलादिकम्| अथवा असान्द्रं तनु स्वच्छं तक्रमेव केवलमनु पिबेत्| अयं च विधिराखुकर्णीकिसलयवत् नीपादिपल्लवेष्वपि पृथग्विधेयः| नीपो धूलीकदम्बः| मार्कवो भृङ्गराजः| निर्गुण्डी सिन्दुवारकः||२९||
Adhikarana bhakShyapAneShvauShadhopayogaH (30) · Śloka 30
विडङ्गचूर्णमिश्रैर्वा पिष्टैर्भक्ष्यान् प्रकल्पयेत्|
विडङ्गतण्डुलैर्युक्तमर्धांशैरातपि स्थितम्|
दिनमारुष्करं तैलं पाने बस्तौ च योजयेत्|
सुराह्वसरलस्नेहं पृथगेवं च कल्पयेत्||३०||
अथवा पिष्टैः शालिपिष्टैर्विडङ्गचूर्णमिश्रैर्नानाविधं भक्ष्यं कल्पयेत्| अथवारुष्करं भल्लातकजं तैलं पाने बस्तौ च कल्पयेत्| किम्भूतमाह-तैलस्यार्द्धांर्शैर्विडङ्गबीजैर्युक्तं सकलं च दिनमातपे स्थितम्| सुराह्वस्य देवदारुणः सरलस्य पीडाख्यायाः देवदारुसमायाः सम्बन्धी स्नेहः पृथगेवमारुष्करतैलविधानेनार्धांशविडङ्गचूर्णयुतं सकलं दिनं चातपस्थितं पाने बस्तौ च कल्पयेत्|| ३०||
Adhikarana tilvakAdishodhanatailam (31) · Śloka 31
तिल्वकोद्दालकपले त्रिवृच्छ्यामे तदर्धतः|
दन्तीद्रवन्त्यावर्धेन तदर्धे चव्यचित्रकौ|
पिष्ट्वा विडङ्गयूषेण तेन भावितपीडितान्|
तैलप्रस्थं तिलात्साध्यं क्रिमिघ्नद्विगुणे रसे|
तच्छोधनं पिबेत्काले विदध्याच्चानुवासनम्||३१||
तिल्वकोद्दालकयोर्पले| एकस्य पलं परस्य च पलमित्यर्थः| त्रिव्रुच्छ्यामयोस्तदर्धतः| तिल्वकोद्दालकादर्धेन पलमित्यर्थः| दन्तीद्रवन्त्यावर्धेन तयोरर्धपलमित्यर्थः| तदर्धे चव्यचित्रकौ तयोः प्रत्येकमर्धकर्षम्| एतत्सर्वं विडङ्गयूषेण विडङ्गक्वाथेन पिष्ट्वा तेन विडङ्गयूषपिष्टेन भावितांस्तिलान्| पश्चाच्च विधिना तैलस्य प्रस्थं साध्यम्| कथमित्याह-क्रिमिघ्नाज्जाते रसे क्वाथे तैलाद्द्विगुणे| तत्तैलं सिद्धं काले योग्ये पिबेत् शोधनार्थम्| तच्च तैलमनुवासनं दद्यात्| तिल्वकः पट्टिकालोध्रः| उद्दालकः कोविदारः| कुण्डलस्ताम्रपुष्पकः| अरुणमूला त्रिवृत्| श्यामारुणमूला श्यामा||३१||
Adhikarana koshAtakyAdIni tailAni (32) · Śloka 32
कोशातकीकरञ्जोमासर्षपस्नेहकल्पनम्|
कृत्व तेनैव विधिना पाययेदुदरक्रिमिम्||३२||
अनेनैव तैलविधिना तिल्वकादिप्रयोगेण कोशातकीकरञ्जादिस्नेहकल्पनां कृत्वोदरक्रिमिणं पाययेत्|| ३२||
Adhikarana samAsena krimicikitsAkramabhedaH (33) · Śloka 33
पुरीषजेषु सुतरां दद्याद्बस्तिविरेचने|
शिरोविरेकं वमनं शमनं कफजन्मसु|
रक्तजानां प्रतीकारं कुर्यात्कुष्ठचिकित्सितम्|
इन्द्रलुप्तविधिश्चात्र विधेयो रोमभोजिषु||३३||
पुरीषजेषु बस्तिविरेचने सुतरां दद्यात्| अन्यदपि क्रिमिघ्नं योज्यमिति सुतरां ग्रहणम्| कफजन्मसु क्रिमिषु शिरोविरेकादिकं दद्यात्| रक्तजानां क्रिमीणां कुष्ठचिकित्सितोक्तं कृमिनाशनप्रकरणे प्रतीकारं कुर्यात्| रोमभोजिषु कृमिषु यत्प्रखादाद्ध्येकदेशे रोमाणि न भवन्ति तेषामिन्द्रलुप्तविधिर्विधेयः| स च शिरोरोगे वक्ष्यते|| ३३||
Adhikarana apathyanirdeshaH (34-22) · Śloka 22
क्षीराणि मांसानि घृतं गुडं च दधीनि शाकानि च पर्णवन्ति|
समासतोऽम्लान् मधुरान् रसांश्च क्रिमीन् जिघांसुः परिवर्जयेच्च||३४||
इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतावष्टाङ्गसंग्रहसंहितायां चिकित्सितस्थाने श्वित्रकृमिचिकित्सितन्नाम द्वाविंशोऽध्यायः||२२||
समासतः संक्षेपेत इदमुच्यते| यः पुरुषः क्रिमीन् जिघांसुस्त्यक्तुमिच्छुः स क्षीरादिकं परिवर्जयेदिति|| ३४|| इति श्रीमन्महामहोपाध्याख्यायामष्टाङ्गसंग्रहव्याख्यायां शशिलेखायां चिकित्सितस्थाने द्वाविंशोऽध्यायः