Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

19. śvayathucikitsitam

Adhikarana atha shvayathucikitsitannAmaikonaviMsho~adhyAyaH | adhyAyapratij~jA (1) · Śloka 1

अथातः श्वयथुचिकित्सितं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः||१||

🔊 Audio coming soon

क्रमप्राप्तस्य श्वयथोश्चिकित्सितं प्रदर्शयितुमध्याय आरभ्यते||१||

Adhikarana tatrAdau cikitsAsUtram (2) · Śloka 2

श्वयथुषु दोषजेशु सर्वेषु सर्वसरेष्वामानुबद्धेशु लङ्घन पाचनशोधनान्यादौ योजयेत्| स्नेहजेषु विरूक्ष्णान्यौश धानि विरूक्षणोत्थेषु स्नेहनानि||२||

🔊 Audio coming soon

श्वयथुषु दोषजेष्विति निजेशु सर्वसरेष्विति देहव्यापिषु| सुबोधम्|| २||

Adhikarana AmajeShUpacArAH (3) · Śloka 3

तत्रामजेशु लङ्घितवतो लघ्वन्नमशितस्य भद्रदारुनागर मरिचप्रतिविषाविडङ्गेन्द्रयवानुष्णाम्बुना| नागरदेवदारुप थ्यावर्षाभ्वो वा| पञ्च कोलकाजाजीनिदिग्धिकामुस्तपा ठारजनीर्वा| मूत्रवर्ति वा नवायसं वा||३||

🔊 Audio coming soon

भद्रदार्वादिनुष्णाम्बुना| तेनैव नागरादीनि वा पञ्चकोलादीनि वा| मूत्रवर्तिरुदरोक्ता| नवायसचूर्णस्त्रिफलादिः पाण्डुरोगोक्तः|| ३||

Adhikarana gurubhinnapurIShe visheShaH (4) · Śloka 4

गुरुभिन्नपुरीषस्तु तक्रं सव्योषसौवर्चलक्षौद्रम्| गुडहरी तकीं वा शीलयेत्||४||

🔊 Audio coming soon

शीलयेदिति चिरकालमभ्यसेत्|| ४||

Adhikarana laghubaddhapurIShe visheShaH (5) · Śloka 5

इतरस्त्रिवृत्यूषणकटुरोहिण्ययश्चूर्णानि त्रिफलाक्वाथेन| व्योषयवक्षारायोरजांसि वा| बिभीतककल्कं वा तण्डु लाम्बुना| गुग्गुलुं वा गोमूत्रेण| हरीतकीं वा| तुल्यगुडां वा शुण्ठीं पुनर्नवकषायानुपानाम्| आर्द्रकं वा तुल्यगुड मर्धपलाभिवृद्धं पञ्चपलप्रकर्षं प्रयुञ्जीत| मासमयं प्रयोगः शोफशोषार्षः श्वासकासप्रसेकपीनसालसकाग्निसादगु ल्मोदरप्रमेहपाण्डुकामिलामनोविकारानपहरति| आर्द्रक रसं वा शालिक्षीराहारः पिबेत्||५||

🔊 Audio coming soon

इतर इति लघुबद्धपुरीषः त्रिवृदादीनि त्रिफलाक्वाथेन| व्योषादीनि वा| विभीतककल्कं तण्डुलाम्बुना| गुग्गुलुं गोमूत्रेण हरीतकीं वा| पुनर्नवकषायमनुपानं यस्यास्तुल्यगुडायाः शुण्ठ्यास्ताम्| अयमिति मिश्रयोरर्धपलाभिवृद्ध्या पञ्चपलप्रकर्षे मासं प्रयोगः| पञ्चपलानि सगुडस्य सतः| मनोविकारा ये केचन सन्तर्पणोत्था मनोवहस्तोरोदुष्टिप्रभवाः| सुबोधम्|| ५||

Adhikarana nivRuttAmadoShe prayojyam (6) · Śloka 6

निवृत्तामदोषः शृतानि पयांसि सर्पीषि च| त्रिकटुकै रण्डश्यामामूलैः सिद्धं क्षीरम्| महौषधमुरुङ्गीमूलाभ्यां वा| वर्षाभूमयूरकपञ्चकोलैर्वा| कुम्भनिकुम्भव्योषा ग्निकैर्वा| करभीक्षीरवृत्तिर्वा स्यात्| गोमूत्रं महिषीमूत्रं वा सक्षीरं क्षीराशनः पिबेत्||६||

🔊 Audio coming soon

एभिस्तीक्ष्णैर्निवृत्तामदोषः शृतानीत्यौषधैः पयांसि सर्पीषि च पिबेदिति सम्बन्धः| त्रिकटुकमहौषधवर्षाभूकुम्भादीनि चत्वारि क्षीराणि| श्यावमूलं त्रिवृन्मूलम्| महौषधं शुण्ठी| मुरुङ्गीमूलं मूर्वामूलम्| वर्षाभू पुनर्नवा| मयूरमपामार्गः| कुम्भनिकुम्भौ दन्तीद्रवान्त्यौ| अग्निकश्चित्रकः| सुबोधम्|| ६||

Adhikarana ghRutayogAH (7) · Śloka 7

दाडिमयवानीयवानकधनिकापाठाम्लवेतसमरिचपञ्चकोल बिल्वफलयावशूकानक्षमात्रान् सलिलाढके विपाच्य तत्कषायेण घृतप्रस्थं साधयेच्छोफार्शोगुल्ममेहाग्निसाद हरम्| अर्शोविहितविधिना चित्रकदध्नो नवनीतमाददीत| तच्चित्रकमूलगर्भं सचित्रककल्कतक्रसिद्धं समानं पूर्वेण||७||

🔊 Audio coming soon

यथादोषोच्छ्रायं च धान्वन्तरं कल्याणकं पञ्चगव्यं तिक्तं महातिक्तमुदरोक्तानि वा तिल्वकचतुर्थानि घृतानि पाययेत्| दाडिमाद्यमपि घृतं सुबोधम्| चित्रकचूर्णेन सह जाताद्दध्नो मथिताद्यन्नवनीतं तच्चित्रकमूलचूर्णगर्भं चित्रककल्कसहोषितेन तक्रेण सह सिद्धं पूर्वेण दाडिमादिना समानम्| यथादोषोच्छ्रायमित्युच्छ्रितदोषानुगुण्येन धान्वन्तरादीनामन्यतमं घृतं पाययेत्| धान्वन्तरं प्रमेहोक्तम्| कल्याणकमुन्मादोक्तम्| पञ्चगव्यमपस्मारोक्तम्| तिक्तमहातिक्ते कुष्ठे|| ७||

Adhikarana dashamUlaharItakI (8) · Śloka 8

दशमूलक्वाथकंसे पथ्याशतं गुडतुलोन्मिश्रमधिश्रयेत्| लेहीभूते तत्र त्रिकटुकत्रिजातकयवक्षारचूर्णं प्रक्षिपेत्क्षो द्रार्धप्रस्थं च| एता दशमूलहरीतक्योऽतिप्रवृद्धमपि श्वयथुमुदरारोचकाविपाकपाण्डुरोगगुल्ममेहश्वासकास कार्श्यामवाताम्लपित्तमूत्रशुक्रदोषांश्च निघ्नन्ति||८||

🔊 Audio coming soon

दाशमूलिके दशमूलपलानि द्वात्रिंशत्ततः षोडशगुणं जलं सद्वादशानि पञ्चपलशतानि चत्वारि कंसानि भवन्ति| क्वथितशेषः कंसमष्टाविंशदधिकं पलशतम्| दशमूलेन सह हरीतकीनां क्वाथनमनस्थीनां च पुनर्गुडेन सह कषाये प्रक्षेपः| आगस्त्यवदविच्छिन्नपारम्पर्येण लेहीभूते त्रिकटुकादिचूर्णं तथा क्षिपेद्यथा लेहता न नश्यति|| ८||

Adhikarana saMskRutamannam (9) · Śloka 9

शठीपुष्करमूलकारवीचित्रकाजाजीजीवन्तीबिल्वमध्य यवक्षारवृक्षाम्लैर्दशमूलेन च परिगृहीतानि घृततैलभृष्टनि पेयादीन्यन्नान्यल्पस्नेहलवणान्युपकल्पयेत्||९||

🔊 Audio coming soon

शठ्यादिभिः क्वाथादिप्रयुक्तैः परिगृहीतनि संस्कारेणात्मीकृतनि घृतेन तैलेन व भृष्टान्यल्पस्नेहादीनि पेयायूषादीन्यन्नानि कल्पयेत्|| ९||

Adhikarana abhya~ggAdikam (10) · Śloka 10

स्पर्शसुखांश्चाभ्यङ्गप्रदेहसेकान्| शैलेयस्थौणेयकश्रीवेष्ट कागरुदेवदारुहरेणुकाकुष्ठध्यामकपद्मकमांसीमागधिकाVव न्यधान्यतालीसपत्रकचतुर्जातकपलाशाम्बुदाम्बुप्रियङ्गु स्पृक्कानखैः श्लक्ष्णपिष्टैस्तैलमभ्यङ्गं पचेत्| तैश्च प्रदेहं कुर्यात्| सर्षपसौवर्चलसैन्धवशार्ङ्गाष्ठाभिश्च| केव लैर्वाक्षमज्जाभिः| विशेषतश्चैकाङ्गजेषुपुनर्नवहिंस्राकोशातकीकरवीर किंशुकातिविषार्धिवृद्धिमूशिकपर्णीहस्तिकर्णनलिकाना कुलास्थूलकाकादनीसालत्रिफलादेवदारुलोध्रतालपर्णी दशपत्रिकाजयन्तीभिः प्रलेपः| मूलकतोयेन कवोष्णेन वृक्षकार्कनक्तमालनिम्ब वर्षाभूक्वाथेन वा स्नानम्||१०||

🔊 Audio coming soon

स्पर्शसुखांश्चाभ्यङ्गादीन् शैलेयकादिभिस्तैलमभ्यङ्गार्थं पचेत्| तैरेव च जलिपिष्टैः प्रदेहं कुर्यात्| शैलेयं शिलापुष्पम्| (नि) स्थौणेयं शुकबर्हाख्यं कनीयं तैलपीतकम्| श्रीवेष्टको वायसिको दधिश्यावश्च शब्दितः|| ध्यामकं रोमिकम्| अम्बुदं मुस्तम्| अम्बु वालकम्| (नि) 'अरेणुका राजपुत्री चर्माणि कपिला द्विजा| कपिलोला पाण्डुपत्री स्मृत कौन्ती हरेणुका| स्पृहास्पृग्ब्राह्मणी देवीं मालालाकायिकागुरुः||" सर्षपादिभिरपि तैलप्रभेदश्च| विशेषत इत्यनेनैतत् प्रदर्श्यते| यथा-सर्वाङ्गजविहितमप्येकाङ्गजे श्वयथौ यद्यपि हितं तथापि पुनर्नवादिकं विशेषेण| हिंस्रा मांसी| (नि) 'धामार्गवः कोशफला राजकोशातकी तथा| कटुकोशातकी ज्ञेया जालिनी कृतवेधनम्||" किंशुकः पलाशवृक्षः| ऋद्धिः पीतपुष्पा| लोहितपुष्पा प्रसिद्धा| वृद्धिर्लक्ष्मीः| मूषिकपर्णी वृषकर्णी| हस्तिकर्णः रक्तैरण्डः| (नि) 'नलिका विद्रुमलता कपोतचरणा नली|" नाकुली सर्पसुगन्धा| स्थूलकाकादनी स्थूलकाकनासाख्या| गुञ्जाभिहिता| तालपर्णी ताली| दशपत्रिका विशाला| (नि) 'जयन्त्यावर्तिकापत्रा जयनामासुराजिता|' मूलकक्वथितोष्णोदकेन स्नानम्| वृक्षकादिक्वथितेन वा| वृक्षकः कुटजः| नक्तमाल आरग्वधः| इति समान्येन श्वयथौ||१०||

Adhikarana vAtajashvayathau (11) · Śloka 11

अथानिलजे श्वयथौ त्रिवृतमेरण्डतैलं वार्धमासं मासं वा पिबेत्| एरण्डतैलमेव च विड्वातसङ्गे प्राग्भक्तं पयसा रसैर्वा| वातहराभ्यङ्गस्वेदोपनाहांश्च कुर्यात्| विशेषेण चैकाङ्गे मातुलुङ्गे मातुलुङ्गाग्निमन्थशुण्ठी देवरारुहिंस्राप्रलेपः||११||

🔊 Audio coming soon

अथेत्यादिना वातादिषु विशेषेण| त्रिवृत इति स्नेहत्रयस्य नामोक्तम्| मूत्रेणैरण्डतैलम्| एवशब्दोऽन्यस्नेहनिषेधाय| प्राग्भक्तमेव पयसा रसैर्वा सहितमेरण्डतैलम्| वातहरैर्द्रव्यैरभ्यङ्गादि कुर्यात्| अभ्यङ्गः स्नेहलेपः| विशेषेण चैकाङ्गगेऽनिलज इति बोद्धव्यम्| मातुलुङ्गादिभिः प्रदेहः| हिंस्रा मांसी| इति वातज उक्तम्|| ११||

Adhikarana pittajashvayathau (12) · Śloka 12

पित्तजे न्यग्रोधादिसिद्धं सर्पिः पिबेत्| तिक्तकं वा| मूर्च्छारतितृड्दाहेषु क्षीरम्| तदेव तु स्रंसनार्थी मूत्र युक्तम्| अभयामरदारुमधुककटुकादन्तीचन्दननिचुल पटोलमूर्वादार्वींत्रायमाणोपकुल्याविशालाक्वाथः सस र्पिरुपयुक्तः श्वयथुविषवीसर्पज्वरदाहपिपासान्तः सन्ता पसन्निपातानुपशमयति| घृतक्षीरक्षीरिवृक्षवेतसमञ्जिष्ठा मृणालचन्दनादिभिः शीतवीर्यैः कल्पयेदभ्यङ्गादीन्||१२||

🔊 Audio coming soon

पैत्ते सुबोधम्| मूर्च्छादिषु पैत्ते केवलमेव क्षीरं पिबेत्| स्रंसनार्थीति शोध्ये पित्ते तदेव क्षीरं मूत्रयुक्तम्| अभयादीनां क्वाथः ससर्पिरुपयुक्तः श्वयथ्वादीनुपशमयति| मधुकं मधुयष्टी| निचुलं जलवेतसम्| उपकुल्या पिप्पली| विशाला गवाक्षी| पैत्ते घृतादिभिरन्यैश्च शीतवीर्यैरभ्यङ्गादीन् कल्पयेत्| इति पित्तज उक्तम्|| १२||

Adhikarana kaphajashvayathau (13) · Śloka 13

कफोत्थे त्वारग्वधादिसाधितं तैलं पिबेत्| क्षारमूत्र तक्रासवारिष्टांश्च|१३|

🔊 Audio coming soon

००

Adhikarana bhallAtakAriShTaH (13) · Śloka 13

भल्लातकचित्रकव्योषविडङ्गबृहतीफलानि पृथक्प्रस्थां शान्यच्छधान्यम्लद्रोणे गोमयाग्निना त्रिभागशेषमवता रयेत्| तत्पूतशीतं मस्तुकलशेन सितोपलातुलया च युक्त-मग्निकमागधिकाकल्कलिप्ते दृढे भाण्डे समा वाप्य वैहायसे सुगुप्तं स्थापयेत्| ततो दशाहस्थितोऽय मुपयुक्तो भल्लातकारिष्टः शोफोदरार्शोभगन्दरग्रहणी कृमिकुष्ठमेहकार्श्यहिक्कसान् सत्वरमपनयति||१३||

🔊 Audio coming soon

कफोत्थ इत्यादि सुबोधम्| भल्लातकारिष्टः शोफादीनपनयति| अच्छं सुप्रसन्नं काञ्जिकम्| शुष्कद्रव्याणां प्रस्थं षोडशपलानि| काञ्चिकस्य द्रोणः पञ्चपलशतानि द्वादशपलसहितानि| मस्तुनः कलशमिति द्रोणास्यैव नाम| अग्निकश्चित्रकः| समावाप्यनिक्षिप्य| वैहायसमाकाशस्थापितत्वादवलम्ब्य शिक्यम्|| १३||

Adhikarana aShTashatAriShTaH (14) · Śloka 14

त्रिफलामरिचद्राक्षापिप्पलीकाश्मर्यफलानां प्रत्येकं शतं गुडतुलामुदकद्रोणं च मधुलिप्तभाजनस्थं सप्ताहमुष्णे काले द्विसप्ताहं शीते धारयेत्| अयमष्टशतारिष्टः समानः पूर्वेणः|१४|

🔊 Audio coming soon

००

Adhikarana pralepAdikam (14) · Śloka 14

पुराणपिण्याककृष्णाशिग्रुत्वगतसीसिकताह मूत्रपिष्टाः सुखोष्णाः प्रलेपे दद्यात्| एकाङ्गे तु कालासरलाजशृ ङ्गगजगन्धाश्वगन्धैकैषिकाः| शुण्ठीकुलत्थतक्कारी कुष्ठर्जकचित्रकजलमूत्राणि स्नाने| चण्डागरुणी विले पने||१४||

🔊 Audio coming soon

त्रिफलादीनां फलसङ्ख्या प्रत्येकं शतम्| मधुलिप्तभाजनस्थं धारयेदिति सम्बन्धः| नाम्ना अष्टशतारिष्टोऽयं यतो हरीतक्यादिद्रव्याण्यष्टशतानि भवन्ति| पूर्वेण भल्लातकारिष्टेन समानस्तुल्यः| सुबोधम्| अतसी क्षुमा| एकाङ्गे तु शोफे कालादिर्मूत्रपिष्टाः सुखो-ष्णाश्च प्रलेपे दद्यात्| काला मञ्जिष्ठा| अजशृङ्गी विषाणी| एकै-षिका मांसी| शुण्ठ्यादिसिद्धे मूत्रजले स्नानाय हिते| अर्जकः कञ्जकः| विलेपने चण्डागरुणि| चण्डा चोरकः||१४||

Adhikarana saMsargasannipAtayoH (15) · Śloka 15

संसर्गसन्निपातयोर्यथादोषोदयमिदमेव साधनम्| एक देशाश्रये च श्वयथौ यथासन्नं वमनादीनि रक्तावसेचनं च कुर्वीतेति||१५||

🔊 Audio coming soon

इदमेव पृथग्दोषोक्तं साधनं संसर्गे सन्निपाते च दोषोद्रेकानतिक्रमेण मिश्रीकृत्य योज्यम्| यस्तु श्वयथुरेकदेशेऽङ्गस्याश्रितस्तस्मिन्यथासन्नं वमनादीन् कुर्वित| ऊर्ध्वनाभिजे वमनमधोनाभिजे विरेचनं बस्तिश्च| शिरोरोगे नस्यमिति यथासन्नशब्दार्थः| औषधिना कृते शोफे रक्तावसेको दोषापेक्षमनेकधा|| १५||

Adhikarana AgantushophacikitsAsUtram (16) · Śloka 16

भवति चात्र- प्रायोऽभिघातादनिलः सरक्तः शोफं सरागं प्रकरोति तत्र| विसर्पनुन्मारुतरक्तनुच्च कार्यं विषघ्नं विषजे च कर्म||१६||

🔊 Audio coming soon

गतानुगतिका| प्राय इत्यादिनाऽऽगन्तुशोफचिकित्सा| अभिघातान्मारुतः सरक्तः प्रायो दुष्यति| स च दुष्टः सरागं शोफं विकरोति| प्रायोग्रहणमन्यानुबन्धज्ञापनार्थम्| तत्राभिघातजे विसर्पचिकित्सितं कार्यमन्यच्च यत्किञ्चिद्वातशोणितनुच्च| उभयत्रापि दोषानुबन्धघ्नत्वे विशेषः सम्भवत्येव| विषजे शोफे विषघ्नं कर्म कार्यम्|| १६||

Adhikarana shvayathAvapathyam (17-19) · Śloka 19

ग्राम्याद्यब्जानूपं पिशितमबलं शुष्कशाकं तिलान्नं गौडं पिष्टान्नं दधि सलवणं पिच्छिलं मद्यमम्लम्| धानावल्लूरं समशनमथो गुर्वसात्म्यं विदाहि स्वप्नं चारात्रौ श्वयथुगदवान् वर्जयेन्मैथुनं च||१७|| इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृताव ष्टङ्गसंग्रहसिंहितायां चिकित्सितस्थाने श्वयथु चिकित्सितन्नामैकोनविंशोऽध्यायः||१९||

🔊 Audio coming soon

सर्वश्च श्वयथुगदवान् ग्राम्यादिपिशितं शुष्कशाकादिकं च वर्जयेत्| ग्राम्यं जनपदमध्यचारिप्राणिजम्| अब्जस्यानूपजत्वेऽपि वर्जनीयप्राधान्यात् पृथग्ग्रहणम्| अबलं दुर्बलप्राणिजम्| गौडं पानकं| पिष्टान्नं पिष्टकृतं यत्किञ्चित्| सलवणमिति केवलमपि लवणं वर्जयेद्वर्जने सहभावः| पिच्छिलं क्लिन्नरूपम्| मद्यं चाम्लम्| धाना भृष्टवयम्| वल्लूरं शुष्कमांसम्| समशनं मिश्रं पथ्यमपथ्यं च भुक्तं समशर्नं मतम्| गुरु यत्किञ्चित् गुरुत्वादियुक्तम्| दिवास्वप्नं मैथुनं च सर्वदेति|| १७|| इति श्रीमन्महामहोपाध्यायेन्दुविरचितायामष्टा ङ्गसंग्रहव्याख्यायां शशिलेखायां चिकि त्सितस्थाने एकोनविंशोऽध्यायः