Adhikarana atha pANDurogacikitsitannAmAShTAdasho~adhyAyaH adhyAyapratij~jA (1) · Śloka 1
अथातः पाण्डुरोगचिकित्सितं व्याख़्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः||१||
क्रमप्राप्तस्य पाण्डुरोगस्य चिकित्सां प्रदर्शयितुमध्याय आरभ्यते|| १||
Adhikarana tatrAdau sarpiHpAnam (2) · Śloka 2
पाण्ड्वामयिनमादौ कल्याणपञ्चगव्यतिक्तकानामन्यतमं सर्पिः पाययेत्||२||
पाण्ड्वामयी प्रथममेव कल्याणकादीनां ग़ृतानामन्यतमं पिबेत्||२||
Adhikarana dADimAdiGRutam (3) · Śloka 3
दाडिमसारतः कुडवं धान्यकार्द्धकुडवं पिप्पल्यष्टमिकां शुण्ठीचित्रकयोश्च पलं पलमेकतः कल्कीकृत्य तोयाढके विंशतिपलं ग़ृतस्य सिद्धं हृत्पाण्डुरोगगुल्मप्लीहार्शः श्वा सकासमूढवातवातकफार्तिहरमग्निदीपनं वन्ध्यानां सम्मतं दुःख़प्रसविनीनां च||३||
दाडिमाद्यं सुबोधम्| दाडिमसारो दाडिमबीजानि| अष्टमिकार्धपलम्| वन्ध्यानामप्रवृत्तप्रजानां प्रसवकाले या दुःख़ेन प्रसूयन्ते तास्तथोक्ताः|| ३||
Adhikarana durAlaBAdiGRutam (4) · Śloka 4
दुरालभचन्दनपटोलत्रायमाणागुडूचिकिराततिक्तरोहिणी ग़ननिशाद्वयेन्द्रयवदेवदारुपर्पटकाजमोदैः कार्षिकैः क्षीराढके ग़ृतप्रस्थं साधयेत्|
पाण्डुरोगकामिलारक्त पित्तज्वरदाहासृग्दरविस्फोटश्वयथुभगन्दरार्शोग़्नम्||४||
दुरालभादिग़ृतं पाण्डुरोगाविग़्नम्| कटुरोहिणी कटुका| निशाद्वयं दार्वीरजन्यौ|| ४|
Adhikarana vamanaM taduttaraM kramashca (5) · Śloka 5
स्निग्धं चैनं तीक्ष्णैर्वामयेत्|
पुनश्च स्निग्धं मूत्रयुक्तं गव्यं माहिषं वार्धमासं पयः पाययेत्|
मागधिकाशृतं वा|
मूत्रसिद्धां वा त्रिफलाम्|
स्पताहं मूत्रेण वा हरीतकीः कल्किताः|
स्वर्णक्षीरीभद्रदारुनागरश्यामात्रिवृन्मूलानि तेनैव वा क्वथितानि|
एभिर्वा शृतं पयः||५||
एवं पाण्डुरोगिणमेतैग़ृतैः स्निग्धं तीक्ष्णैरोषधैर्वामयेत्| पुनश्च वमने कृते स्निग्धं पाययेन्मासमर्धमासं वा गव्यं पयो माहिषं वा| अथवा मागधिकया पिप्पल्या शृतं पयः पाययेत्| त्रिफलां मूत्रेण सिद्धामापाकमामूत्रक्षयं क्वथिताम्| हरीतकीर्वा मूत्रेण कल्किताः| तेन मूत्रेणैव क्वथितानि व| एभिरिति प्रयोगौषधैः शृतं पयो वा|| ५||
Adhikarana vatsakabIjAdicUrNam (6) · Śloka 6
वत्सकबीजविशालाकुष्ठकटुकादारुमुस्तानां समा भागाः मूर्वाभागद्वयमतिविषाभागार्धं च चूर्णितम् सुख़ाम्बुना पीत्वा क्षौद्रमनुलिह्यात्|
एतत् पाण्डुकामिलाज्वरारुचिगुल्मा नाहामवातरक्तपित्तकासश्वासानपोहति||६||
वत्सकादीनां समा भागाः| मूर्वा एकस्मादौषधभागाद् द्विगुणा| अतिविषा वत्सकाद्यन्यतमस्य भागस्यौर्धेन| एतच्चूर्णमुष्णाम्बुना पीत्वा पश्चान्माक्षिकं केवलं लिह्यात्| एतच्च पाण्ड्वादीनपोहति विनाशयति|| ६||
Adhikarana trikaTukAdi vaTakAH (7) · Śloka 7
त्रिकटुककालतिललोहैर्वा माक्षिकधातुतुल्यैर्माक्षिकेण वटकान् कृत्वा तक्रानुपानान् पाण्डुरोगी भक्षयेत्|७|
Adhikarana navAyasacUrNam (7) · Śloka 7
त्रिफलाव्योषग़नाग्निविडङ्गभागा नव नव चायसचूर्ण भागा मधुग़ृताभ्यां तक्रेणोष्णोदकेन वोपयुक्ता हृत्पाण्डु रोगकामिलाकुष्ठार्शःशोफोदरप्लीहमेहहराः||७||
त्रिकटूकादीनां मिश्रितानां समम्| माक्षिकधातुवट्टमाक्षिकम्| माक्षिकं वटकीकरणाय| त्रिफलाद्ये हरीतक्यादीनां नव भागास्तावन्त एवायश्चूर्णस्य मध्वादिभिरुपयोगः| एतस्य नवायसस्य हृद्रोगादिहरत्वम्| अग्निश्चित्रकः| वेल्लं विडङ्गम्|| ७||
Adhikarana maNDUravaTakAH (8) · Śloka 8
माक्षिकधातुचविकादारुदार्वीत्वग्ग्रन्थिकान् त्रिफलादीनि च नव विचूर्णय चूर्णाद् द्विगुणं च सुश्लक्ष्णं पृथङ् मण्डूरं ततो गोमूत्रं सर्वतोऽष्टगुणं पक्त्वा तस्मिंस्तत्क्षिपेत्|
अनन्तरं च वटकान् कुर्यात्|
ते तक्रानुपानमभ्यस्ताः परमौषधं पाण्ड्वामयिनां शोफार्शः कुष्ठकामिलामेह प्लीहाढ्यवातकफर्तानां च||८||
माक्षिकधात्वादिके माक्षिकधातुर्वट्टमाक्षिकम्| ग्रन्थिकं पिप्पलीमूलम्| त्रिफलादीनि नवायसोक्तानि| तस्माद् द्विगुणं मण्डूरं लोहमलम्| सर्वत इति मण्डुरसहिताच्चूर्णादष्टगुणं गोमूत्रं पक्तव्यम्| अस्मिंश्च वटकसम्पादनयोग्ये चूर्णं मण्डूरं च प्रक्षेप्तव्यम्| मेदसा आवृतो वायुराढ्यवातः|| ८||
Adhikarana yogarAjaguTikA (9) · Śloka 9
शिलाजतुताप्यरुप्यायोमलाः पृथक् पञ्चपलिकास्त्रि फलादयश्च विगतग़नाः पलांशाः श्लक्ष्णरजसः सितो पलापलाष्टकयुक्ता क्षौद्रद्रुता योगराजः|
कुलत्थादि थूषाशिना यथाग्न्यभ्यवहृतः समानः पूर्वेण|
यक्ष्मविष विषमज्वरकासश्वासापस्मारहरश्च||९||
शिलाजत्वादिना योगराजनाम्ना गुलिका| त्रिफलादीनि नवायसोक्तानि ग़नेन मुस्तेन विनाष्टौ पलांशानि प्रत्येकं पालिकानि| ताप्यं वट्टमाक्षिकम्| अयोमलं मण्डूरम्| कुलत्थादय इत्यादि ग्रहणेन सर्वाणि विदाहीनि संगृहीतानि|| ९||
Adhikarana vajraBidhA gulikA (10) · Śloka 10
त्रिफलाकुटजफलग़नपटोलपिचुमन्दमहौषधकषायैर्मास मर्धमासं वा भावितान्यष्टौ शिलाह्वयपलानि समसिता न्युपकुल्यातुगाक्षीरीधात्रीफलकर्कटशृङ्गयः पृथप लांशाः निदिग्धिकाफलमूलयोः पलं त्रिजातकत्रिकर्षञ्च क्षौद्रत्रिपलयुक्तान् वटकान् वर्तयेत्|
ते दाडिमाम्बुक्षीर रससलिलसुरासवान्यतमानुपाना वज्राभिधाना वज्रमि वानन्तरोक्तान् रोगान् दारयन्ति|
हृद्रोगगलरोगगरोदरा सृग्दरभगन्दरगुल्मवर्ध्मशुक्रमूत्रदोषांश्च||१०||
त्रिफलेत्यादिना वज्राभिधाननाम्ना गुलिका| त्रिफलादीनां पृथक् पृथक् क्वाथैः शिलाजतुनो भावना| मासेनार्धमासेन वा भावनानिष्पत्तिः| भावितशिलाजतुसमा शर्करा| सुबोधम्| कुटजफलमिन्द्रयवः| ग़नो मुस्तम्| पिचुमन्दो निम्बः| महौषधं शृङ्गिवेरम्| अनन्तरोक्तान् रोगान् मण्डूरवटकोक्तान् रोगान् हृद्रोगादींश्च दारयन्ति| दारणाद्वज्राभिधानम्| असृग्दरं नारीषु रजोदोषस्तच्चोत्तरे वक्ष्यते| मूत्रदोषाः शुक्रदोषाश्च सर्वे मूत्रशुक्राश्रया व्याधयः||१०||
Adhikarana drAkShAlehaH (11) · Śloka 11
द्राक्षापिप्पलीप्रस्थद्वयं शर्करार्धतुलां तवक्षीरीनागरमधु कानि च द्विपलिकानि चूर्णयित्वाऽऽमलकरसद्रोणे प्रक्षिप्य मृद्वग्निना पचेत्|
लेहीभूते शीते च तस्मिन् मधु प्रस्थं भावयेत्|
त्रिसुगन्धिकस्य कर्षयत्रं च चूर्णीकृत्य दर्व्या परिग़ट्य जातीपुष्पादिवासिते मृद्भाण्डे निदध्यात्|
अयं द्राक्षालेह उपयुज्यमानः पाण्ड्वामयहृद्रोगकामिला हलीमकज्वरगुल्मोदरशोफोदावर्त्तादीनवरानपि विरेक साध्यान् व्याधीन् प्रसह्य वायुरिवाभ्राण्यपहरति||११||
द्राक्षादिलेहं पाण्ड्वामयादिषु लिह्यात्|| ११||
Adhikarana BojanaM pAna~jca (12) · Śloka 12
भोजनं तु सात्म्यतः शालियवगोधूममुद्गजाङ्गलमांसानि पयो ग़ृतं वृषपटोलवेत्रपर्पटकशाकं द्राक्षाद्राडिमख़र्जूरा मलकरसानि|
पानमनुपानञ्च मूलकसिद्धं वारि वाता धिके|
ग़नह्नीबेरशुण्ठीसाधितं पित्तोत्तरे|
श्लेश्मण्य रिष्टसीधुमार्द्वीकासवाः|
सर्वत्र वा तक्रम्||१२||
सर्वस्य पाण्डुरोगिणः सात्म्यवशाच्छाल्यादिकं भोजनम्| पानं चेत्यादि सुबोधम्| अथवा सर्वत्र वाते पित्ते श्लेष्मणि च तक्रम्||१२||
Adhikarana sArAriShTaH (13) · Śloka 13
बीजकसारप्रस्थम्|
वरायाः पलानि पञ्चविंशतिः|
पञ्च द्राक्षायः बलायाः सप्त|
जलद्रोणे पक्त्वा पादशेषं तेभ्यो रसमादाय पूतशीतेऽस्मिन् शर्करातुलां मधुप्रस्थं कर्षांशानि च चूर्णितानि व्योषव्याग़्रनख़ोशीरक्रमकैल वालुककुष्ठमधुकानि निक्षिप्य ग़ृतभाजने सर्वमैकध्यं यवपल्ले ग्रीष्मे दशरात्रं विंशतिरात्रं शीते स्थापयेत्|
अयं बीजकसारारिष्टः पाण्डुकामिलामेहाहृद्रोगवात शोणितविषमज्वरारोचककासश्वासान् निबर्हति||१३||
बीजकेत्यादिना सारारिष्टः पाण्ड्वादीन् निबर्हति| बीजकमसनः| वरा त्रिफला| क्रमुकः पट्टिकालोध्रः| एलवालुकमैलेयं सुगन्धि हरिवालुकम्| मधुकं मधुयष्टी|| १३||
Adhikarana gaNDIrAriShTaH (14) · Śloka 14
गण्डीरतरोः समूलपुष्पशाख़स्य तुलामाहरेत्|
अर्धतुलां दशमूलस्य त्रिफलायाः पृथगर्धप्रस्थं कुटजत्वचश्च|
कुडवांशान् मुस्तारुष्करकृमिग़्नेन्द्रयवान्|
पालिकान् पाठादन्तीमधुरसारास्नाशठीचित्रकान्|
मृद्वीकार्धप्रस्थेन श्लक्ष्णपिष्टेन ग्रन्थिकपलेनार्धपलिकैश्च मरिचविड ङ्गैलवालुकैः प्रलिप्ते ग़ृतकुम्भे निधापयेत्|
मासमात्रं स्थितोऽयं गण्डीरारिष्टोऽधिकगुणः पूर्वस्मात्|
ग्रन्थ्य र्बुदकृमिहरश्च||१४||
गण्डीरारिष्टः सुबोधः| गण्डीरो महान् द्रुमपायः कार्तिकेयपुरादौ गिरिराजभूमिप्रसिद्धः सुधेत्यन्ये| त्रिफलाया द्रव्यत्रयस्य पृथगर्धप्रस्थम्| कुटजत्वचश्चार्धप्रस्थम्| मुस्तादिकं प्रत्येकं कुडवभागम्| पाठादिकं तथैव पालिकम्| सर्वतः षोडशगुणमम्भः| मागधिका पिप्पली| ग्रन्थिकं पिप्पलीमूलम्| मागधिकादीन्युक्तमानानि श्लक्ष्णपेषितानि| ग़टप्रलेपाय|| १४||
Adhikarana mastvariShTaH (15) · Śloka 15
अथवा चव्यकुष्ठचित्रकप्रलिप्ते भाजने मस्तुद्रोणं गुड तुलां पिप्पलीप्रस्थत्रयं त्रिफलाप्रस्थत्रयं विडङ्गप्रस्थत्रयं कुडवांशांश्च मरिचपरूषकद्राक्षाकाश्मर्यफलेन्द्रयवान् द्विपलिकानि च दन्तीचित्रकभल्लातकानि चूर्णितानि प्रक्षिपेत्|
ततो यवपलस्थं पक्षमुपेक्ष्य यथाबलं पिबेत्|
एष मस्त्वरिष्टः पाण्डुरोगमेहस्थौल्यमेदार्शोग्रहणीप्लीह शोफोदरभगन्दरहरः|
परमं चाग्निदीपन इति||१५||
अथवा चविकाकुष्ठाभ्यां प्रलिप्ते भाजने मस्त्वादीनि प्रक्षिप्य यवराशौ पक्षं निक्षिप्य यथाबलं मस्त्वरिष्टं पिबेत्| एष च पाण्डुरोगादिहरोऽग्निदीपनश्च|| १५||
Adhikarana doShAnusAraM cikitsAvikalpaH (16) · Śloka 16
भवति चात्र पाण्डुरोगप्रशान्यर्थं विहितं यच्चिकित्सितम्|
विकल्प्यमेतद्विदुषा पृथग्दोषबलं प्रति|
स्नेहप्रायं पवनजे तिक्तशीतं तु पैत्तिके|
श्लैष्मिके कटुऱ्रूक्षोष्णं विमिश्रं सान्निपातिके||१६||
गतानुगतिका| अस्मिन्नध्याये पाण्डुरोगस्य प्रशान्त्यर्थं सामान्येन यच्चिकित्सितमुक्तं तद्विदुषा पण्डितेन पृथग्दोषबलं प्रति विकल्प्य वातादिकेषु विभागेन| यद्यत्र पथ्यं तत्तत्र योज्यमित्यर्थः| एतदेव स्नेहप्रायमित्यादिना स्फुटीक्रियते|| १६||
Adhikarana mRujje pANDau kramaH (17) · Śloka 17
मृदं निर्ग़ातयेत् कायात्तीक्ष्णैः संशोधनैः पुरः|
बलाधानानि सर्पींषि शुद्धे कोष्ठे तु योजयेत्||१७||
मृदमित्यादिना मृद्भक्षणपाण्डुरोगचिकित्सा| तत्रापि मृद्यावदपक्त्वा कोष्ठे व्यवतिष्ठते तावत्कुतस्तद्विकारणामुपशमः| तस्मात् प्रथममेव मृदुः कायान्निर्ग़ातनम्| पश्चात् पाण्डुरोगचिकित्सा| तां च मृदं तीक्ष्णैः संशोधनैः कायान्निर्ग़ातयेत्| पश्चात् कोष्ठे शुद्धे सर्पींषि योजयेत्| तानि बलाधानानि बलस्योत्पादकानि भवन्ति||१७||
Adhikarana vyoShAdiGRutam (18) · Śloka 18
व्योषबिल्वद्विरजनीत्रिफलाद्विपुनर्नवम्|
मुस्तान्ययोरजः पाठा विडङ्गं देवदारु च|
वृश्चिकाली च भार्ङ्गी च सक्षीरैस्तैः शृतं ग़ृतम्|
सर्वान् प्रशमयत्याशु विकारान् मृत्तिकाकृतान्||१८||
व्योषादिभिः कल्कीकृतैः क्षीरेण च स्नेहसमेन सर्पिर्विपक्वं मृत्तिकाकृतान् सर्वान् विकारान् प्रशमयति|| १८||
Adhikarana kesarAdiGRutam (19) · Śloka 19
तद्वत् केसरयष्ट्याह्वपिप्पलीक्षीरशाड्वलैः||१९||
केसरादिभिः शृतं ग़ृतं तद्वद्गुणैर्वेषादिवदित्यर्थः|| १९||
Adhikarana mRuddveShaNAya BAvitamRudvitaraNam mRudBede doShAnuguNacikitsA (20) · Śloka 20
मृद्द्वेषणाय तल्लौल्ये वितरेद्भावितां मृदम्|
विडङ्गे नातिविषया पाठया निम्बपल्लवैः|
वार्त्ताकैः कटुरोहिण्या कौटजैर्मूर्वयाथवा|
मृद्भेदभिन्नदोषानुगमाद्योज्यं च भेषजम्||२०||
यदा तु मृद्विषयं लौल्यं श्रद्धा भवति तदा तस्या मृदो द्वेषणार्थं विडङ्गादिभिर्भावितां मृदमस्मै दद्यात्| न केवलमेतत्कुर्याद्यावन्मृद्भेदेन यो दोषभेदस्तदनुगमात् भेषजञ्च योज्यम्| तेनैतदुक्तं भवति-कषायरसमृद्भक्षणजेशु विकारेषु वातहरं भेषजं योज्यम्| ऊषरायां मृदि भुक्तायां पित्तहरम्| मधुरायां कफहरमिति|| २०||
Adhikarana kAmalAyAM kramaH (21) · Śloka 21
कामिलायन्तु पित्तग़्नं पाण्डुरोगाविरोधि यत्|२१|
Adhikarana tadarthaM GRutaprayogAH (21) · Śloka 21
पथ्याशतरसे पथ्यावृन्तार्धशतकल्कितः|
प्रस्थः सिद्धो ग़ृताद्गुल्मकामिलापाण्डुरोगजित्|
दन्तीचतुष्पलरसे पिष्टैर्दन्तीशलाटुभिः|
ग़ृतप्रस्थः शृतस्तद्वत् प्लीहाश्वयथुजिच्च सः|
पुराणसर्पिषः प्रस्थो द्राक्षार्धप्रस्थसाधितः|
कामिलागुल्मपाण्ड्वर्तिज्वरमेहोदरापहः|
हरिद्रात्रिफलानिम्बबलामधुकसाधितम्|
सक्षीरं माहिषं सर्पिः कामिलाहरमुत्तमम्||२१||
कामिलायां तु पित्तग़्न उपक्रमो योज्यो यः पाण्डुरोगे न विरुध्यते| एतत् पाण्डुरोगकामिलामधिकृत्योच्यते| यथा-पथ्यानां शतस्य क्वाथे पथ्यावृन्तानामेव शतं कल्कीकृतं दत्वा ग़ृतं पचेत्| पथ्याया हरीतक्या वृन्तानि पत्राणि| दन्तीग़ृतं तद्वत् पथ्यादिवत् गुल्मादिजिदित्यर्थः| अस्य तु प्लीहश्वयतु जित्त्वम्| स इति ग़ृतप्रस्थः| सुबोधम्| सर्वत्र जलस्य स्मर्तव्यम्| हरिद्रादिकं सुबोधम्|| २१||
Adhikarana mAhiShaGRutayogau (22) · Śloka 22
गोमूत्रे द्विगुणे दार्वीकल्कार्धपलसाधितः|
दार्वीपञ्चपलक्वाथे कल्के कालीयके परः|
माहिषात्सर्पिषः प्रस्थं पूर्वः पुर्वे परः परे|
सिद्धं कालीयकक्वाथे सनिशं चोत्तरे हितम्||२२||
माहिषात्सर्पिषः प्रस्थो द्विगुणेन गोमूत्रेण दार्वीमाहिषात्सर्पिषः प्रस्थो दार्व्याः पञ्चपलस्य क्वाथे कालीयके च कल्के स्नेहाच्चतुर्थांशे भवति| कोऽनयोः सर्पिःप्रस्थयोर्विषय इति पृष्ट आह| पूर्वो गोमूत्रपक्वः पूर्वे पाण्डुरोग इत्यर्थः| परो दार्वीक्वाथसिद्धः परे रोगे कामिलायामित्यर्थः| कालीयकं पीतचन्दनम्| उत्तरे च कामिलाख़्ये कालीयकादि सिद्धमपि हितम्|| २२||
Adhikarana kAmalAnAshanAH anye yogAH (23) · Śloka 23
आरग्वधं रसेनेक्षोर्विदार्यामलकस्य वा|
सत्र्यूषणं बिल्वमात्रं पाययेत्कामिलापहम्|
पिबेन्निकुम्भकल्कं वा द्विगुडं शीतवारिणा|
कुम्भस्य चूर्णं सक्षौद्रं त्रैफलेन रसेन वा|
सशर्करां त्रिभाण्डीं वा गवाक्षीं वा प्रयोजयेत्||२३||
इक्ष्वादीनामन्यतमस्य रसेनारग्वधं समेन त्र्यूषणेन युक्तं कामिलापहं भिषगातुरं पाययेत्| बिल्वमात्रं मरिचादियुक्तं सन्मात्रशब्देनाचार्यः पलस्य दोषाद्यपेक्षया ऊनस्याधिकस्य वा प्रयोगमुपदिशति| निकुम्भस्य दन्त्या द्विगुणगुडम्| कुम्भो द्रवन्ती| तस्याश्चूर्णं त्रिफलायाः कषायेण पिबेद्वा| सुबोधम्|| २३||
Adhikarana triPalAdisvarasAH (24) · Śloka 24
त्रिफलाया गुडूच्या वा दार्व्या निम्बस्य वा रसम्|
प्रातः प्रातर्मधुयुतं कामिलर्ताय योजयेत्||२४||
त्रिफलादीनामन्यतमस्य रसं क्वथितगृहीतं कषायं माक्षिकेण युक्तं कामिलार्ताय प्रातः प्रातर्योजयेदिति सामान्येन कामिलायाश्चिकित्सा|| २४||
Adhikarana ruddhapathakAmalA tatra kramashca (25) · Śloka 25
तिलपिष्टनिभं यस्तु कामिलावान्सृजेन्मलम्|
कफरुद्धपथं तस्य पित्तं कफहरैर्जयेत्||२५||
तिलपिष्ठेत्यादिना विशेषेण|| २५||
Adhikarana shAKAshritA kAmalA (26) · Śloka 26
रूक्षशीतगुरुस्वादुव्यायामचलनिग्रहैः|
कफसम्मूर्च्छितो वायुर्यदा पित्तं बहिःक्षिपेत्|
हारिद्रनेत्रमूत्रत्वक्श्वेतवर्चस्तदा नरः|
भवेत्साटोपविष्टम्भो गुरुणा हृदयेन च|
दौर्बल्याल्पाग्निपाऱ्श्वार्तिहिध्माश्वासारुचिज्वरैः|
क्रमेणाल्पेऽनुषज्येत पित्ते शाख़ासमाश्रिते||२६||
रूक्षशीतेतियादिना कामिलायाः शाख़ाश्रयकारणं लिङ्गं चिकित्सां च क्रमेणोच्यते| रूक्षादिभिः सर्वैः श्लेष्मणा सम्मूर्च्छित एकत्वमापन्नो वायुः कुपितो यदा पित्तं कोष्ठाद्बहिः क्षिपेत्तदा हारिद्रनेत्रत्वादिमानातुरः साटोपविष्टम्भो भवेत्| गुरुणा च हृदयेनोपलक्षितो भवेत्| शाख़ासमाश्रिते च पित्ते अन्तरल्पे सति दौबल्यादिभिरातुरः क्रमेणानुषज्येत्|| २६||
Adhikarana shAKAshritakAmalAyAM cikitsA (27) · Śloka 27
रसैस्तं रूक्षकट्वम्लैः शिख़ितित्तिरिदक्षजैः|
शुष्कमूलकजैर्यूषैः कूलत्थोत्थैश्च भोजयेत्|
भृशाम्लतीक्ष्णकटुकलवणोष्णं च शस्यते|
सबीजपूरकरसं लिह्याद्व्योषं तथाशयम्|
स्वं पित्तमेति तेनास्य शकृदप्यनुरज्यते|
वायुश्च याति प्रशमं सहाटोपाद्युपद्रवैः|
निवृत्तोपद्रवस्यास्य कार्यः कामिलिको विधिः||२७||
तं तथाविधं शाख़ाकामिलिनं रूक्षत्वादियुक्तैः शिख़्यादीनां मांसरसैः शुष्कमूलकादिजैश्च यूषैरन्नं भोजयेत्| तस्य चाहारौषधादिकं सर्वं भृशमतिशयेनाम्लत्वादियुक्तम् शस्यते| व्योषं च बीजपूरकस्य रसेन लिह्यात्| तथेत्युक्तेनोपक्रमेणान्तर्वातश्लेष्मणि जिते पित्तं शाख़ाभ्यः स्थानमेति| तेनेति पित्तेन| अस्येति रोगिणः| कामिलिक इति सामान्यकामिलामधिकृत्योक्तः कार्यो विधिः|| २७||
Adhikarana kumBakAmalA cikitsitam (28) · Śloka 28
गोमूत्रेण पिबेत् कुम्भकामिलायां शिलाजतु|
मासं माक्षिकधातुं व किट्टं वाथ हिरण्यजम्||२८||
गोमूत्रेणेत्यादिना कुम्भकामिलायाम्| सुबोधम्| माक्षिकधातुर्वट्टमाक्षिकम्| हिरण्यजं किट्टं सुवर्णमलम्|| २८||
Adhikarana halImakacikitsA (29-18) · Śloka 18
गुडूचीस्वरसक्षीरसाधितेन हलीमकी|
महिषाहविषा स्निग्धः पिबेद्धात्रीरसेन तु|
त्रिवृतां तद्विरिक्तोऽद्यात्स्वादुपित्तानिलापहम्|
द्राक्षालेहं च पूर्वोक्तं सर्पीषि मधुराणि च|
यापनान् क्षीरबस्तींश्च शीलयेत्सानुवासनान्|
मार्द्वीकारिष्टयोगांश्च पिबेद्युक्त्याऽग्निवृद्धये|
कासिकं चाभयालेहं पिप्पलीं मधुकं बलाम्|
पयसा च प्रयुञ्जीत यथादोषं यथाबलम्|
पाण्डुरोगेषु कुशलः शोफोक्तञ्च क्रियाक्रमम्||२९||
इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृताव ष्टाङ्गसंग्रहसंहितायां चिकित्सितस्थाने पाण्डु रोगचिकित्सितन्नामाष्टादशोऽध्यायः||१८||
यस्तु हलीमकी स गुडूचीस्वरसक्षीराभ्यां साधितेन सिद्धेन महिषीहविषा स्निग्धदेहः सन्नामलकरसेन त्रिवृतां पिबेत्| तया च विरिक्तो यत्किञ्चित्पित्तानिलहरं मधुरञ्च तदद्यान्नान्यत् किञ्चित्| द्राक्षालेहः पूर्वमस्मिन्नेवाध्याय उक्तः| यापनादीनि कल्पे वक्ष्यन्ते| पिप्पल्याद्यन्यतमं पयसा प्रयुञ्जीत सर्वं दोषबलानतिक्रमेण च| यश्च कुशलो भिषक् स शोफोक्तमपि क्रियाक्रमं सम्यग्विकल्प्य पाण्डुरोगेषु प्रयुञ्जीतेति|| २९|| इति श्रीमन्महामहोपाध्यायेन्दुविरचिताया मष्टाङ्गसंग्रहव्याख़्यायां शशिलेख़ायां चिकित्सितस्थानेऽष्टादशोऽध्यायः