Adhikarana ata vAtashoNitacikitsitannAma caturviMsho~adhyAyaH | adhyAyapratij~jA (1) · Śloka 1
अथातो वातशोणितचिकित्सां व्याख्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः|१|
क्रमप्राप्तस्य वातशोणितस्य चिकित्सां प्रदर्शयितुमध्याय आरभ्यते|| १||
Adhikarana raktAvasecanam (2) · Śloka 1
वातशोणितिनः स्निग्धस्य दाहरागरुक्तोदेषु जलौकोभिः कण्डूपतापस्वापचिमिचिमायनेशु शृङ्गतुम्बैर्देशाद्देशान्तरं सञ्चरत् सिरया प्रच्छानेन व दुष्टामसृगसकृदलप्मल्प- मवसेचयेत्||१||
सर्वस्य वातशोणितवतः स्नेहपूर्वं रक्तस्रावणमिष्यते| तत्र विशेषाद्दाहादिषु जलौकोभिः| कण्ड्वादिषु शृङ्गतुम्बैः| अनियतदेशस्थितं रक्तं सिरया प्रच्छानेन वा| सर्वत्र च वातशोणितेषु दुष्टमसृक्स्तोकमवसेचयेत्| जलौकादिभिरसृक्स्रावे क्रियमाणे रक्तस्यावसेचनं सकृदेव न कार्यम्| न बहु|| २||
Adhikarana asRukakShaye vyApadaH (3) · Śloka 3
असृक्क्षये हि गम्भीरशोफस्तम्भकम्पग्लानिसङ्कोचादयः स्युः|
सिराव्यधोक्ताश्च मूर्च्छादयः||३||
असृक्क्षय इत्यादि| यस्मात् सकृदस्रे विस्राविते रक्तक्षये सति गम्भीरश्वयथ्वादयः स्युः| गम्भीरः शोफ अवगाढः| ग्लानिरुपशोषः| आदिग्रहणेन सर्वेषामपतर्पणजानां ग्रहणम्|| ३||
Adhikarana asisrAvyAvasthA tatra karma ca (4) · Śloka 4
नैव च स्रावयेदङ्गग्लानौ रूक्षे वातोत्तरञ्च रक्तम्|
ततश्च पुनः स्नेहयित्व मृदूनि स्नेहयुक्तानि रूक्षाणि वा विरेच- नानि बस्तिकर्म चासकृत् प्रयोजयेत्||४||
सुबोधम्|| ४||
Adhikarana vAtaprabale ghRutapAnam (5) · Śloka 5
अथ वातप्रबले पुराणघृतं पिबेच्छतावरीघृतं Vवा||५||
अथेत्यादिना वातादिविशेषेण चिकित्सामाह पुराणं सर्पिः पञ्चदशादिवर्षोषितम्|| ५||
Adhikarana jIvanIyaM ghRutaM taila~jca (6) · Śloka 6
दशमूलपुनर्नवद्वयैरण्डमुद्गपर्णीमाषपर्णीमहामेदाशताव रीरास्नाव्क्पुष्पीशङ्खपुष्पीबलातिबला द्विपलांशाः पृथ ग्जलद्रोणे विपाचयेत्|
पादशेषे च तत्तुल्यानि पृथक्छा गमांसामलकेक्षुरस घृतक्षीराणि संयोज्यं कल्कञ्च पिप्प लीमरिचकाश्मर्यफलोत्पलद्विमेदाद्विश्रावणीवीरापुन र्नवनागरसमङ्गातुकाक्षीरीक्षीरकाकोलीद्राक्षाक्षोटपद्म बीजशृङ्गाटकानिकोचकभव्योरुमाणखर्जूरवाताममुञ्जा ताभिषुकाणां पुनः पचेत्|
एतज्जीवनीयाख्यं सर्पि र्वातपित्तविकारान् विशेषतश्च पाण्डुरोगज्वरापस्मार भगन्दरश्वासहिध्मास्वरभेदपार्श्वशूलयकृत्प्लीहमूत्र सङ्गाश्मरीवातशोणितसर्Vवाङ्गैकाङ्गरोगानपहरति|
वर्ण्यं बल्यं वृष्यं चक्षुष्यं पुत्रदञ्च|
तैलसात्म्यो वा क्षीरसितो पलं तैलं पिबेत्||६||
दशमूलेत्यादिना जीवनीयाख़्यं सर्पिः| अवाक्पुष्पी वाराही| शङ्ख़पुष्पी काश्मीरेषु वीरटीति प्रसिद्धा| छागमांसरसादीनि पञ्च पृथक्प्रत्येकं क्वथितशेषसमानि| पिप्पल्यादीनां कल्कः स्नेहाच्चतुर्थांशेन| समङ्गा मञ्जिष्ठा| निकोचकं फलविशेषः| जीवनीयाख़्यमेतत् पाण्डुरोगादीन् वातपित्तविकारान् विशेषतोऽपहरति| बल्यत्वादियुक्तं च| तैलसात्म्यः सन् वातशोणिती सः क्षीरशर्करायुक्तमेव तैलं पिबेत्|| ६||
Adhikarana tailAntarANi (7) · Śloka 7
अथव शतावरीमयूरकक्षीरविदारीबलाद्वयतृणपञ्चमूल क्वाथे पद्मकादिगर्भं साधितम्|
बलातैलं वा वात व्याध्युक्तम्|
शतपाकं वा|
वातहरसिद्धेन पयसाम्लैर्वा स्पर्शसुख़ं परिषेकं कुर्वीत||७||
अथवा शतावर्यादिक्वाथे पद्मकादिगणगर्भं साधितं तैलं तैल| सात्म्यः पिबेत्| मयूरकः अपामार्गः| बलातैलं वातव्याध्युकम्| तत्र चोक्तं वा शतपाकम्| वातहरैरित्यादिना परिषेकम्| द्राक्षामधुकतोयाभ्यां सिद्धं व ससितोपलम्| पिबेद् घृतं तथा क्षीरं गुडूचीस्वरसे शृतम्|| इति चरकपाठः| द्राक्षामधुकतोयाभ्यामित्यत्र द्विवचनसामर्थ्यात् प्रत्येकं घृतमिति जेज्जटः|| ७||
Adhikarana upanAhaH (8) · Śloka 8
प्रत्येकशो यवगोधूमतिलमुद्गमाषेषु काकोलीजीवकर्ष भकबलासृगालविन्नामेषशृङ्गीप्रियालसितोपलासुरभिव चाकशेरुकल्कमिश्रेषूपनाहार्थं सर्पिस्तैलवसामज्ज दुग्धसिद्धान् पञ्च पायसानुपकल्पयेत्|
स्नैहिकफल मज्जोत्कारिकां वा|
बिल्वपेशिकातगरदेवदारुसरल रास्नाहरेणुकुष्ठशतपुष्पाभिर्वा दधिमस्तुयुक्ताभिरुप नाहः||८||
यवादिषु पञ्चसु प्रत्येकं सर्पिरादिभिः पञ्चभिः काकोल्यादिकल्केन चोपनाहार्थं पञ्च पायसान् कल्पयेत्| यवादिभिर्माषान्तैः| शृगालविन्ना पृश्निपर्णी| स्नैहिकानां फलानामक्षोडादीनां मज्जा उत्कारिका च| बिल्वपेशिकादिभिरुपनाहः| पिष्टबन्धो दधिमस्तुभ्यां युक्तादिभिः|| ८||
Adhikarana pralepAbhya~ggau (9) · Śloka 9
यवमधुकैरण्डबीजपुनर्नवैर्धान्याम्बुपिष्ठैः प्रलेपः|
मातु लुङ्गाम्लवेतससैन्धवग़ृतमिश्रं वा शिग्रुमूलम्|
सहचर जीवन्तीमूलं वा|
रास्नामधुकगुडूचीबलाद्वयजीवकर्ष भकल्कक्षीरसिद्धं ससिक्थकं सर्पिरभ्यङ्गः||९||
यवादिभिर्धान्याम्बुपिष्टैः प्रलेपः| अथवा शिग्रुमूलं मातुलुङ्गाम्लवेतसादिभिर्युक्तम्| मातुलुङ्गाम्लमम्लमातुलुङ्गम्| तद्युक्तं वा| सहचरीजीवन्त्योर्मूलमालेपः| रास्नादिकल्केन क्षीरेण ससिक्थकं सिद्धं सर्पिरभ्यङ्गः| सिक्थकं मदनम्| इति वाताधिके|| ९||
Adhikarana pittaprabale upacArAH (10) · Śloka 10
पित्तप्रबले द्राक्षारेवतफलपयस्यामधुकचन्दनकाश्म र्यकषायं शक्ररामधुमधुरं पाययेत्|
शतावरीपटोल त्रिफलागुडूचीकटुकाकषायं वा|
स्वादुतिक्तवर्गसिद्धं च सर्पिः क्षीरं च|
रास्नाभीरुदशमूलबलासिद्धं वा|
धारोष्णं वा|
विरेकार्थे त्रिवृच्चूर्णयुक्तं वा|
क्षीराहारो वा क्षीरेणैरण्डतैलं बहुशः पिबेत्|
अमृतारग्वधाटारू षककषायेण वा|
क्षीरबस्तीन् वा सग़ृतान् दद्यात्|
शीतैश्चन्दनपद्मकबिसमृणालादिभिः शृतेन क्षीरेण परि षेकः|
क्षीरेक्षुरसमधुशर्करातण्डुलोदकेन वा|
द्राक्षा मधुककाश्मर्ययुतेन वा|
धान्याम्लेन वा जीवनीयसिद्धेन वा सर्पिषा शतधौतेन वा|
मसूरोशीरप्रपौण्डरीकदार्वीमधुकमञ्जिष्ठाचन्दनोत्पल पद्मकैरकासक्तुभिः सग़ृतक्षीरशर्करैः प्रदेहो दाहरा गरुग्विसर्पशोफहरः|
गोधूमचूर्णो वा छागक्षीरसंयुक्तो लेपः|
तिलाश्च पयसा पिष्टाः भृष्टा कपाले पुनः पयसि प्रक्षिप्य निर्वापिताः||१०||
पित्तप्रबले द्राक्षादिकषायं शर्करामधुभ्यां मधुरम्| मधुरशब्देन तयोर्मधुर्यापादनी मात्रोक्ता| शतावर्यादिकषायो वा शर्करामधुमधुरः| यथा सूत्रोक्ताभ्यां मधुरतिक्तवर्गाभ्यां सिद्धं ग़ृतम्| रास्नादिशृतं क्षीरं वा धारोष्णमेव वा| विरेकार्थे क्षीरं त्रिवृच्चूर्णेन युक्तं वा| अथव क्षीरेण सहैरण्डतैलं क्षीरान्नादो बहुशः पिबेत्| अमृतादिकषायेण वैरण्डतैलं क्षीराहारो बहुशः पिबेत्| सुबोधम्| चन्दनादिभिः शीतैः शीतविर्यैः शृतेन क्षीरेण परिषेकः| क्षीरादिना वा| उदकशर्करातण्डुलाभ्यां सम्बन्धः| अथवा द्राक्षादियुक्तेन धान्याम्लेन परिषेकः| अथवा जीवनयौषधसिद्धेन सर्पिषा परिषेचयेत्| शतधौतेन सर्पिषा वा| शतधौतं यत् सर्पिर्बहुवारं विलाप्याग्नौ क्षीरवृक्षादिशीतोदके प्रक्षिप्य मथ्नाख़जितत्वात्स्त्यानीक्रियते| मसूरादिभिः सक्त्वन्तैः ग़ृतादियुक्तैः प्रदेहो दाहादिहरः| एरकासक्तुः एरकाबीजसक्तुः| पयसि| सुबोधम्| निर्वापिता ऊष्माणं त्याजिता इति पित्ताधिके|| १०||
Adhikarana raktAdhike visheShaH (11) · Śloka 11
रक्तप्रबलेऽप्येवं बहुशश्च शोणितमवसेचयेत्||११||
रक्तप्रबलेऽपि वातशोणिते एवमिति पित्तोक्तम्| अत्र तु बहुशः शोणितमवसेचयेत्| अतिदेशेन लाग़वार्तं व्युत्क्रमः|| ११||
Adhikarana shleShmaprabale visheShaH (12) · Śloka 12
श्लेष्मप्रबले धात्रीनिशामुस्ताकषायं मधुमधुरं पिबेत्|
त्रिफलाकषायं व|
मधुकशृङ्गीवेराभयाकटुरोहिणीनिर्यूहं वा|
यथार्हस्नेहपीतं च मृदु वामयेद्विरूक्षयेच्च|
न चाति सेकलेपान् दद्यात्|
निम्बसर्षपाश्वगन्धाक्षारतिलैः कोष्णैर्लेपः|
वचागार धूमद्विनिशाकुष्ठशतपुष्पाभिर्वा|
पुनर्नवेन वा सग़ृतेन|
तिलसर्षपातसीयवचूर्णे वा|
श्लेष्मातककपित्थमधु शिग्रुमिश्राः क्षारमूत्रपिष्टः कटुकस्कन्धसिद्धैः क्षारोद कतैलमूत्रैः सेकः||१२||
श्लेष्मप्रबले वातशोणिते धात्र्यादिकषायं माक्षिकयुक्तं पिबेत्| त्रिफलाकषायं वा| मधुकादिकषायं वा| तं च यथायोग्यस्नेहपीतं मृदु स्तोकं वामयेत्| मृदु च विरूक्षयेत्| सुबोधम्| निम्बादिभिः कोष्णैर्लेपः| वचादिभिर्वा कोष्णैर्लेपः| सुबोधम्| तिलादिचूर्णो वा| किम्भूतः श्लेष्मातकादिमिश्रः क्षारमूत्रेण क्षारस्रुतेन मूत्रेण पिष्टः| कटुकस्कन्धसिद्धैः क्षारोदकादिभिः सेकःकार्यः|| १२||
Adhikarana saMsargasannipAtayoH (13) · Śloka 13
संसर्गे मिश्रं यथोद्रेकं वा प्रतिकुर्यात्|
सर्वेषु च यथा यथ गुडूचीम् गुडहरीतकीं पिप्पलीवर्धमानं वा शीलयेद्ब स्तिकर्म चाभीक्ष्णमिति||१३||
मिश्रदोषाधिके दोषानुरोधेन यथोक्तमुपक्रमं मिश्रं कार्यम्| अथवा मिश्रदोषोद्भवेऽप्युद्रिक्तमेव दोषं प्रतिकुर्यात्| गुडूच्यादिकं पृथक् सर्वेषु वातशोणितेषु समान्यं शीलयेत्|| १३||
Adhikarana sAmAnyopadeshaH (14) · Śloka 14
भवति चात्र- बाह्यमालेपनाभ्यङ्गपरिषेकावगाहनैः|
विरेकास्थापनस्नेहपानैरान्तरमाचरेत्|
सर्पिस्तैलवसामज्जपानाभ्यञ्जनबस्तिभिः|
लेपोपनाहसेकैश्च कोष्णैर्वातोत्तरं जयेत्|
विरेचनर्ग़ृतक्षीरपानसेचनबस्तिभिः|
पित्तरक्तोत्तरं वातरक्तं लेपैश्च शीतलैः|
वमनं मृदु नात्यर्थं स्नेहसेकादिलङ्ग़नम्|
कोष्णा लेपाश्च शस्यन्ते वातरक्ते कफोत्तरे|
वातश्लेष्मोत्तरे शीतैः प्रलिप्ते वातशोणिते|
विदाहशोफरुक्कण्डूविवृद्धिः स्तम्भनाद्भवेत्|
पित्तरक्तोत्तरे वातरक्ते लेपादयो हिमाः|
उष्णैः प्लोषोषरुग्रागस्वेदावदरणोद्भवः||१४||
गतानुगतिका| बाह्यमुत्तानं वातशोणितमालेपनादिभिर्जयेत्| विरेकादिना गम्भीरम्| सर्पिरादिभिः पानाद्युपयुक्तैः कोष्णैश्च लेपादिभिर्वातोत्तरं जयेत्| विरेकादिभिर्लेपैश्च शीतलैः पित्तोत्तरं रक्तोत्तरं च| कफोत्तरे वातरक्ते मृदु च वमनं स्नेहसेकादि चात्यर्थं न शस्यते| यथाबलं लङ्ग़नं चालेपाश्च कोष्णाः शस्यन्त इति| वातेश्लेष्मोत्तरे वाताधिके कफादिके च| कोष्णद्रव्यलेपादिविधाने शीतलेपादिप्रतिषेधे च हेतुर्वात इत्यादिनोच्यते| शीतैः प्रलेपैर्दोषस्य स्तम्भनाद्विदाहादेर्विवृद्धिर्भवति| पित्तोत्तरे रक्तोत्तरे चौष्णैर्दाहाद्युद्भवः|| १४||
Adhikarana madhuyaShTItailam (15) · Śloka 15
मधुयष्ट्याः पलशतात् कषाये पादशेशिते|
तैलाढकं समीक्षरं पचेत्कल्कैः पलोन्मितैः|
शतपुष्पावरीमूर्वापयस्याभीरुचन्दनैः|
स्थिराहंसपदीमांसीद्विमेदामधुपर्णिभिः|
काकोलीक्षीरकाकोलीतामलक्यर्धिपद्मकैः|
जीवन्तीजीवकर्षभत्वक्पत्रनखवालकैः|
प्रपौण्डतीकमञ्जिष्ठासारिवैन्द्रीवितुन्नकैः|
चतुष्प्रयोगं वातासृक्पित्तदाहज्वरार्तिनुत्||१५||
मधुयष्टितैलं चतुष्प्रयोगं पाननस्याभ्यञ्जनसेकप्रयोगं वातरक्ताद्यर्तिनुत्| दाहशब्दो ज्वरशब्देन सम्बध्यते| वरी शतावरी| पयस्या क्षीरिका| स्थिरा सालपर्णी| हंसपदी घृतमण्डा| मधुपर्णी मेदा| तामलकी ताली| एन्द्री इन्द्रवारुणी| वितुन्नकं धातकीफलम्||१५|
Adhikarana madhuyaShTItailam-shatapAkam (16) · Śloka 16
मधुयष्ट्याः पलं दत्वा तैलप्रस्थं चतुर्गुणे|
क्षीरे पचेच्छतं वारांस्तदेवं मधुकाच्छते|
सिद्धं योज्यं तृडुन्मादश्वासकासविसर्पिषु|
हृत्पाण्डुरोगवातासृक्पित्तादिषु च पूर्ववत्||१६||
मधुयष्ट्या इत्यादि| तैलप्रस्थं चतुर्गुणे क्षीरे मधुयष्टीपलं दत्वा पचेत्| एवं पलेन पलेन मधुकस्य क्षीरेण च शतं वारान् पचेत्| तावता शतं मधुयष्ट्याः प्रविशति| तत्सिद्धं तृडादिषु योज्यम्| पूर्ववदिति चतुर्षु प्रयोगेष्वतिदिशति|| १६||
Adhikarana mArgAvarodhajanye visheShaH (17) · Śloka 17
कुपिते मार्गसंरोधान्मेदसो वा कफस्य वा|
अतिवृद्धानिले शस्तं नादौ स्नेहनबृंहणम्|
कृत्वा तत्राढ्यवातोक्तं वातशोणितिकं ततः|
भेषजं स्नेहनं कुर्याद्यच्च रक्तप्रसादनम्||१७||
मेदसोऽतिवृद्ध्या कफस्य वातिवृद्ध्या यो मार्गरोधः स्रोतः पिधानं ततो हेतोरनिले कुपिते प्रथमं स्नेहनबृंहणं न शस्तम्| तत्राढ्यवातविधानं कृत्वा वातशोणितोक्तं भेषजं स्नेहनं रक्तप्रसादनं च कुर्यात्|| १७||
Adhikarana gambhIre avasthAvisheShasyAsAdhyatA (18) · Śloka 18
गम्भीरे रक्तमाक्रान्तं स्याच्चेद्वातेन वर्जयेत्||१८||
गम्भीरे वातशोणिते वातेन यदि रक्तमाक्रान्तं भवति तद्वातशोणितं केवलवातं वर्जयेत्|| १८||
Adhikarana raktapittayorativRuddhau visheShaH (19) · Śloka 19
रक्तपित्तातिवृद्ध्या तु पाकमाशु निगच्छति|
भिन्नं स्रवति तद्रक्तं विदग्धं पूयमेव वा|
तयोश्चिकित्सां व्रणवद्भेदशोधनरोपणीम्|
कुर्यादुपद्रवाणाञ्च तस्मात्तस्माच्चिकित्सितात्||१९||
यत्र तु रक्तपित्तयोरतिवृद्धस्तया शोणितमाशु पाकं गच्छति| ततो यत्नेनायत्नेन व तद्वातशोणितं भिन्नं विदग्धं पाकाभिमुख़ं रक्तं स्रवति पूयमेव वा स्रवति तयोर्विदग्धरक्तपूययोः भेदादिभिर्व्रणवच्चिकित्सां कुर्यात्| उपद्रवाणां मोहमूर्च्छादीनां तत्तच्चिकित्सिताच्चिकित्सितम् कुर्यात्|| १९||
Adhikarana prANAdikope cikitsAsUtram (20) · Śloka 20
प्राणादिकोपे युगपद्यथोद्दिष्टं यथामयम्|
यथासन्नञ्च भैषज्यं विकल्प्यं स्याद्यथाबलम्||२०||
निदानानुक्रमेण प्राणादीनाम् चिकित्सितमाह-यत्र युगपत्प्राणादीनां कोपस्तत्र यथोद्दिष्टमुद्दिश्य वातव्याधिचिकित्सासन्नमिति प्राणादीनामन्यतममासन्नमनतिक्रम्य| यस्मिन्नेव गदे य एव प्राणादीनामन्यतम आसन्नस्तमेव चिकित्सेदित्यर्थः| यथाबलमित्यन्यतमस्य बलिनः पूर्वं प्रतीकारं कुर्यादिति| एवमत्र भैषज्यं विकल्प्यम्|| २०||
Adhikarana sAmAdibhedAdvisheShaH (21) · Śloka 21
नीते निरामतां सामे स्वेदलङ्ग़नपाचनैः|
रूक्षैश्चालेपसेकाद्यैः कुर्यात्केवलवातनुत्||२१||
सर्वत्र चामयुक्ते वाते स्वेदादिभिर्निरामतां नीते केवलवातनुत्सर्वं कुर्यात्|| २१||
Adhikarana pittAvRute vAyau (22) · Śloka 22
वायौ पित्तावृते शीतामुष्णाञ्च बहुशः क्रियाम्|
व्यत्यासाद्योजयेत्सर्पिर्जीवनीयं च पाययेत्|
धन्वमांसं यवः शालिर्विरेकः क्षीरवान्मृदुः|
सक्षीरा बस्तयः क्षीरं पञ्चमूलबलाशृतम्|
कालेऽनुवासनं तैलैर्मधुरौषधसाधितैः|
यष्टीमधुबलातैलग़ृतक्षीरैश्च सेचनम्|
पञ्चमूलकषायेण वारिणा शीतलेन वा||२२||
अथ वायौ पित्तावृत इत्यादिना आवृतवातचिकित्सा पित्तावृते वायौ व्यत्यासात् पर्यायेण शीतामुष्णाञ्च क्रियां योजयेत्| जीवनीयं च सर्पिः पाययेत्| एतच्चास्मिन्नेवाध्याये दशमूलादिनोक्तम्| धन्वामांसादिकं वात्र योज्यम्| सुबोधम्| काल इत्यनुवासनयोग्ये| मधुरद्रव्यसाधितैस्तैलैरनुवासनम्| यष्टीतैलादिभिः सेचनम्| पञ्च-मूलकषायेण वा शीतोदकेन वेति पित्तावृतचिकित्सा|| २२||
Adhikarana kaphAvRute vAyau kaphapittAvRute visheShaH (23) · Śloka 23
कफावृते यवन्नानि जाङ्गला मृगपक्षिणः|
स्वेदास्तीक्ष्णा निरुहाश्च वमनं सविरेचनम्|
पुराणसर्पिस्तैलं च तिलसर्षपजं हितम्|
संसृष्ठे कफपित्ताभ्यां पित्तमादौ विनिर्जयेत्||२३||
कफावृते वाते यवान्नादिकं हितम्| कफपित्ताभ्यां युगपत् संसृष्टे वाते शीग़्रं पित्तं विनिर्जयेत्| ततः कफम्|| २३||
Adhikarana raktAdyAvRute vAyau (24) · Śloka 24
कारयेद्रक्तसंसृष्टे वातशोणितिकीं क्रियाम्|
स्वेदाभ्यङ्गरसाः क्षीरं स्नेहोमांसावृते हितम्|
प्रमेहमेदावातग़्नमाढ्यवाते भिषग्निजतम्|
महास्नेहोऽस्थिमज्जस्थे पूर्वोक्तं रेतसावृते||२४||
रक्तसंसृष्टे सामान्यां वातशोणितचिकित्सां कारयेत्| मांसावृते स्वेदादयः स्नेहान्ताश्चेति हिताः| आढ्यवाते मेदसावृते वायौ प्रमेहग़्नं मेदोग़्नं वातग़्नं भिषिग्जितमौषधं हितम्| अस्थिस्थे मज्जस्थे च महास्नेहं स्नेहचतुष्टयं युगपत्| रेतसा शुक्रेनावृते पूर्वोक्तं वातव्याधौ शुक्रस्थवातोक्तं पुत्रकामीयोक्तं च|| २४||
Adhikarana annAdyAvRute vAyau (25) · Śloka 25
अन्नावृते पाचनीयं वमनं दीपनं लग़ु|
मूत्रावृते मूत्रलानि स्वेदाश्चोत्तरवस्तयः|
एरण्डतैलं वर्चस्थे वस्तिस्नेहाश्च भेदिनः||२५||
अन्नावृते सुबोधम्| मूत्रावृते मूत्रलान्यन्नादीनि| उत्तरबस्तिर्मेढ्रयोज्यः| वर्चस्थे पुरीषावृते एरण्डतैलादिकम्|| २५||
Adhikarana sarvAvaraNAnAM sAmAnyacikitsitam (26) · Śloka 26
कफपित्ताविरुद्धं यद्यश्च वातानुलोमनम्|
सर्वस्थानावृतेऽप्याशु तत्कार्यं मातरिश्वनि|
अनभिष्यन्दि च स्निग्धं स्रोतसां शुद्धिकारणम्|
यापनाबस्तयः प्रायो मधुराः सानुवासनाः|
प्रसमीक्ष्य बलाधिक्यं मृदु कार्यं विरेचनम्|
रसायनानां सर्वेषामुपयोगः प्रशस्यते|
शिलाह्वस्य विशेषेण पयसा शुद्धगुग्गुलोः|
लेहो वा भार्गवस्तद्वदेकादशसिताशतः|
अपाने त्वावृते सर्वं दीपनं ग्राहि भेषजम्|
वातानुलोमनं कार्यं मूत्राशयविशोधनम्||२६||
कफपित्ताविरुद्धमित्यादिना सर्वावरणानां सामान्येन चिकित्सा| अनभिष्यन्द्यादिगुणं च यत् किञ्चित्| प्रायो बाहुल्येन यापनाबस्तयस्ते च कल्पे वक्ष्यन्ते| सुबोधम्| रसायनानां स्वविषयविभागेन| भार्गवो लेहो रसायनोक्तश्च्यवनप्राशः| अपाने तु येन केनचिदावृते सर्वं भेषजं दीपनत्वादिगुणं कार्यम्|| २६||
Adhikarana prANApAnAnAmanyonyAvaraNe sUtram (27) · Śloka 27
इति संक्षेपतः प्रोक्तमावृतानां चिकित्सितम्|
प्राणापानां भिषक्कुर्य्याद्वितर्क्य स्वयमेव तत्|
उदानं योजयेदूर्ध्वमपानं चानुलोमयेत्|
समानं शमयेद्विद्वांस्त्रिधा व्यानञ्च योजयेत्|
प्राणो रक्ष्यश्चतुर्भ्योऽपि तत्स्थितौ देहसंस्थितिः|
स्वं स्वं स्थानं नयेदेवं वृतान् वातान् विमार्गगान्||२७||
इत्यनन्तरोक्तप्रकारेणावृतानां संक्षेपेण चिकित्सितमुक्तम्| प्राणाद्यानं स्वविशेषेणावृतानां तदिति चिकित्सितं विकल्प्य स्वयमूह्य कुर्यात्| उदानमित्यावृतं विज्ञेयम्| व्यानं त्रिधा योजयेदूर्ध्वमधस्तिर्यक्च| चतुर्भ्योऽप्युदानादिभ्यः सर्वथा प्राणो यत्नेन रक्ष्यः| यत्तस्य प्राणस्य स्थितौ देहस्य सम्यक् स्थितिर्भवति| एवंस्थिते वृतान् आवृतान् वातानुन्मार्गगान् नानाविधेनापायेन स्वं स्वं स्थानं नयेत्|| २७||
Adhikarana sarvopayoga cikitsanirdeshaH (28) · Śloka 28
सर्वं चावरणं पित्तरक्तसंसर्गवर्जितम्|
रसायनविधानेन लशुनो हन्ति शीलितः|
पित्ताव्रुते पित्तहरं मरुतश्चानुलोमनम्|
रक्तावृतेऽपि तद्वच्च ख़ुडोक्तं यच्च भेषजम्|
पित्तरक्तानिलहितं विविधं च रसायनम्||२८||
लशुनश्च सर्वावरणं हन्ति पित्तरक्तसंसर्गं वर्जयित्वा| पित्तावृत इत्यादि सुबोधम्| ख़ुड इति वातशोणितस्य नाम| नानाप्रकारं पित्तादिहितं च रसायनं पित्तरक्तावृते हितम्|| २८||
Adhikarana cikitsAsthAnopAsaMhAraH (29-30) · Śloka 30
यथानिदानां निर्दिष्टमिति सम्यक्चिकित्सितम्|
आयुर्वेदफलं स्थानमेतत्सद्योऽर्तिनाशनाम्|
चिकित्सितं हितं पथ्यं प्रायश्चित्तं भिषग्जितम्|
भेषजं शमनं शस्तं पर्यायैः स्मृतमौषधम्||२९||
इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृताव ष्टाङ्गसंग्रहसंहितायां चिकित्सितस्थाने वात शोणितचिकित्सितन्नाम चतुर्विंशोऽध्यायः||३०||
यथेत्यादिना चिकित्सितमुपसंह्रियते| इत्यनन्तरोक्तैरध्यायैर्यथानिदानं निदानोक्तार्थानतिक्रमेण चिकित्सितं सम्यङ् निर्दिष्टम्| एतच्च चिकित्सितमायुर्वेदफलं सद्य एवार्तिनाशनाद्धेतोः| स्थाने चिकित्सितशब्द उपचारात् प्राधान्येन| चिकित्सितमित्यादिभिः पर्यायैरौषधं स्मृतमाचार्यैरिति|| २९|| इति श्रीमन्महामहोपाध्यायेन्दुविरचिताया मष्टाङ्गसंग्रहव्याख़्यायां शशिलेख़ायां चिकित्सितस्थाने चतुर्विंशोऽध्यायः