Adhikarana atha vAtavyAdhicikitsitannAma trayoviMsho~adhyAyaH adhyAyapratij~jA (1) · Śloka 1
अथातः वातव्याधिचिकित्सितं व्याख़्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः||१||
क्रमप्राप्तानां वातव्याधीनां चिकित्सितं प्रदर्शयितुमध्याय आरभ्यते|| १||
Adhikarana kevalAnile kramavisheShaH (2) · Śloka 2
सर्वेषु केवलानिलविकारेष्वन्तर्बहिः स्नेहस्वेदौ साल्व- लेनोपनाहो निवातं स्थानं प्रावरणानि दशमूलक्वाथ- सिद्धा महास्नेहप्रगाढाः स्निग्धा दध्यम्ला नागरपिप्पली- तीक्ष्णा ग्राम्यानूपौदकशिरः पिशितरसाः पयांसि यूषाः प्रीणनानि चान्नानि|
तैरेव च मांसैर्महास्नेहसंसृष्टैस्तद- क्तानामभीक्ष्णं पिण्डादिस्वेदाः|
अपि च- कोलकुलत्थामरतरुयवमिसिमाषातसीवचाकुष्ठम्|
रास्नातैलफलानि च वातजिदुत्कारिकाम्लोष्णा|
विडालनकुलोष्ट्रसृगालादिचर्मभिर्बन्धः|
स्निग्धा बस्तयो नावनानि च प्रयोज्यानि|
दोषोपक्रमणीयं चेक्षेत||२||
केवलेनान्यदोषासंसृष्टेन वातेन ये विकारा व्याधयः तेषां सर्वेष्वित्यादिना चिकित्सोच्यते| साल्वल इति पद्मकादिस्वेदनाम| तेनापनाहः| निवातं स्थानम्| प्रावरणानि च निवातानीति सम्बध्यते| दशमूलादिकं ग्राम्यानूपौदकशिरःपिशितरसानां विशेषणम्| महा-स्नेह इति स्नेहचतुष्टयस्याख़्या| तेन प्रगाढास्तद्भूयिष्ठाः| स्निग्धा इति प्राणिस्वभावात्| शुण्ठीपिप्पलीभ्यां तीक्ष्णाः| औदकानामानूपत्वेऽपि पृथक्करणेन तेषां प्रचुरसेव्यत्वं द्योतयति| तैरेव मांसैर्ग्रम्यादिर्महास्नेहसंसृष्टैस्तदक्तानां महास्नेहाभ्यक्तगात्राणां वातार्तानां पिण्डादिस्वेदाः| अपि चेति पद्यसमुच्चयाय| कोलादिनोत्कारिका विधेया| उत्कारिका स्विन्नपिण्डी| अमरतरुर्देवदारुः| मिसिः शतपुष्पा| तैलफलानि सर्वाणि येभ्यस्तैलमुत्पद्यते|| २||
Adhikarana tatra hetuH (3) · Śloka 3
स्निग्धस्विन्नस्य हि तोदभेदायामशूलादयो वातविकारः शीघ्रमुपशाम्यन्ति|
स्नेहश्च धातून् पुष्णाति बलं च देहे जनयति|
तस्मात् पुनः पुनः स्नेहस्वेदौ शीलयेत्|
तन्मृदू कृते च कोष्ठे नावतिष्ठन्त्यनिलामयाः||३||
पुनः पुनः स्नेहस्वेदशीलने स्निग्धस्विन्नेत्यादिना हेतुरुच्यते| स्नेहश्चेत्यादिना स्नेहस्य विशेषः| ताभ्यां स्नेहस्वेदाभ्यां मृदूकृते कोष्ठे अनिलामया वातव्याधयो देहे न तिष्ठन्ति कोष्ठमूलत्वाद्दोषगुणानामिति केवला वातव्याधिचिकित्सा|| ३||
Adhikarana sadoShatvAdAvRute visheShaH (4) · Śloka 4
यति तु सदोषत्वान्न निवर्तन्ते ततः सर्वशरीरगेऽपि वायौ विशेषः पक्वाशयाश्रिते मृदुस्नेहविरेचनं तिल्वकसर्पिः सातलाग़ृतमेरण्डतैलं वा क्षीरेण दद्यात्|
एवं हि विशुद्ध- स्रोतसोऽनावृतः पवनो विचरन्नाशु शान्तिमेति|
अपि च- स्निग्धाम्ललवणोष्णाद्यैराहारैर्हि मलश्चितः|
स्रोतो बद्ध्वाऽनिलं रुन्ध्यात्तस्मात्तमनुलोमयेत्||४||
यदि पुनरनन्तरोक्तेन कर्मणा न निवर्तन्ते व्याधयः सदोषत्वाद्दोषान्तरसंसर्गाद्धेतोस्ततः सर्वशरीरगतेऽपि दोषान्तरसंसृष्टे वायौ स्नेहविरेचनं दद्यात्| पक्वाशयाश्रिते विशेषेण स्नेहविरेचनं दद्यात्| तिल्वकसर्पिरादीनां क्षीरेण प्रयोगो विरेचनाय| एवं च स्नेहविरेचनेन विशुद्धस्रोतसः पुंसोऽनावृतो वायुश्चरन् शीग़्रमेवोपशान्तिमेति| वायोश्च सदोषस्य कोप उक्तः| अपि चेत्यादिना यत्र वायोः कोपे निजं कारणं नास्ति केवलं स्निग्धादिभिराहारैश्चितो मलः पित्तश्लेष्माख़्यः स्रोतोबन्धं कृत्वानिलं वातं रुणद्धि| तत्राऽप्यनुलोमनमुच्यते|| ४||
Adhikarana durbale vAtarogArte kramaH (5) · Śloka 5
अथ दुर्बले विरेच्ये निरूहं पाचनीयदीपनीयद्रव्ययुक्त- मेवंविधं च भोज्यम्|
भोज्ययुक्तं वा स्रंसनमवचारयेत्|
विशुद्धस्य च समिद्धेऽग्नावसकृत् स्नेहस्वेदौ स्वाद्वम्ल- लवणं चान्नपानम्|
एवमप्यनिवृत्ताववपीडकस्नेहान् बस्तिकर्म च प्रयोजयेत्||५||
अथेति गद्यारम्भे शैली| यो वातामयी दुर्बलः क्रूरकोष्ठादित्वाच्च विरेचनं नार्हति तस्मै पाचनीयदीपनीयद्रव्ययुक्तं निरूहं भोजनं न दद्यात्| अथवा स्रंसनं विरेचनमाहारेण युक्तमवचारयेत्| विशुद्धस्य दोषापनयनेन पेयादिक्रमेण चाग्नौ समिद्धे असकृत् स्नेहस्वेदाववचारयेत्| स्वाद्वादिकं चान्नपानम्| सुबोधम्| अवपीडकस्नेह इति रोगानुत्पादनीये योजनाद्वयमुक्तम्| सर्ववातविकाराणां सामान्यं विधानमेतत् विशेषश्रुतेःइति जेज्जटः| अयं हि विधिः सर्ववातशमनः|| ५||
Adhikarana AmAshayagate vAte visheShaH (6) · Śloka 6
आमाशयगते कृतवमनस्य षड्धरणं चूर्णं परतश्च यथार्हं स्नेहादीन्|
नाभिदेशमाश्रिते बिल्वशलाटुभिः सिद्धान् मत्स्यान् अशेषकोष्ठाश्रिते पुनरर्शोग्रहणीविहितमाममलपाचनं क्षारो- पयोगानन्तर्गुल्मोपक्रमं च प्रयुञ्जीत||६||
आमाशयत इत्यादि सुबोधम्| षड्धरणं दार्व्यादि कुष्ठोक्तम्| परत इति वमनषड्धरण्योः कृतयोः| बिल्वशलाटुर्बालबिल्वम्| अशेषकोष्ठश्रितः आमाशयपक्वाशययोर्व्याप्य प्रवृत्तः| क्षारोपयोगान् सर्वानन्तर्भागिकगुल्मचिकित्सितं च प्रयुञ्जीत|| ६||
Adhikarana hRudayagate vAte visheShaH (7) · Śloka 7
हृदयस्थे अंशुमत्या शृतं पयः||७||
अंशुमती सालपर्णी|| ७||
Adhikarana shrotrAdigate vAte visheShaH (8) · Śloka 9
श्रोत्रादिगते शिरागते च विशेषेण स्नैहिकं नस्यं धूमं शिरोबस्तिमर्दनालेपानान्यथास्वञ्च स्रोतसां प्रीणनम्|९|
श्रोत्रादिस्रोतोगते तथोर्ध्वशिरोगते च स्नैहिकं सूत्रोक्तं नस्यं धूमं च विशेषेण प्रयुञ्जीत| स्रोतसां कर्णादीनां प्रीणनं स्नेहतर्पणम्| कर्णगते कर्णतर्पणम्| नासागते तु नासायामित्येवमादि यथास्वशब्दार्थः|| ८||
Adhikarana tvagAdisthe vAte visheShaH (9) · Śloka 9
त्वचि स्थितेऽभ्यङ्गस्वेदनिवातानि|
रक्ते शीतप्रदेह विरेकरक्तमोक्षाः|
मांसमेदसो विरेकास्थापनशमनानि|
अस्थिमज्जयोरन्तर्बहिः स्नेहाः|
शुक्रप्राप्ते हर्षः शुक्रलं चान्नपानम्|
विबद्धे तु शुक्रे विरेचनम्|
ततोऽनुबन्धे ऽनन्तरोक्तां क्रियां कुर्यात् पुत्रकामीय़ं चेक्षेत||९||
त्वचि स्थितेऽभ्यङ्गादीनि| निवातमिति सामान्येन गृहप्रावरणादि| रक्तस्थे शीतप्रदेहादि रक्तमोक्षणान्तम्| मांसस्थे विरेकादिकं क्रमेण| मेदस्थे च| अस्थ्नि मज्ज्ञि च स्थिते अन्तर्बहिश्च स्नेहाः| शुक्रप्राप्ते सुबोधम्| विबद्धमसम्यग्वाहि शुक्रम्| तत इति विरेचनात्| अनन्तरोक्तां क्रियां हर्षः शुक्रलं चान्नपानम्| पुत्रकामीयं नामाध्यायमीक्षेत तत्रोक्ता वातशुक्रचिकित्सा योज्येत्यर्थवशाद्वातदुष्टशुक्रचिकित्सितप्रकारेण|| ९||
Adhikarana garbhashoShe visheShaH (10) · Śloka 10
शुष्यति तु गर्भे बालेषु य यष्टीमधुककाश्मर्यफलशारि वाशर्कराशृतं पयो दद्यान्मांसादमांसरसांश्च बृंहणीय स्नेहयुक्तान्||१०||
गर्भबालयोर्वातेन शुष्यतोः शुक्रसमन्वयोऽपि हृदि स्फुरत्याचार्यस्य| सुबोधम्| बृंहणीया स्नेहा ये स्वभावादेवैरण्डतैलवद्विरेचना न भवन्ति|| १०||
Adhikarana sirAsnAvAdiprApte visheShaH (11) · Śloka 11
सिरास्नावसन्धिप्राप्तेऽभ्यङ्गमर्दनस्वेदोपनाहबन्धाग्निकर्मणि|
सङ्कोचे माषसैन्धवसाधितं तैलमभ्यङ्गः|
स्वापे बहुशो रक्तावसेचनम्|
न त्वङ्गलानौ शोषभयात्|
स्रुतरक्तस्य तैललवणागारधूमैः प्रदेहः||११||
सिरादित्रयस्यान्यतमं प्राप्तेऽभ्यङ्गादीनि| अग्निकर्म नानाविधं मधुस्नेहादिना| सङ्कोचेऽङ्गस्य माषादिसाधितं तैलमभ्यङ्गः| स्वापे बहुशो रक्तावसेचनम्| स्वाप इव स्वापः| अङ्गम्लानौ स्वापेऽपि रक्तावसेकं नेष्यते शोषभयात्| म्लानिरीषच्छुष्कत्वमिव| सुबोधम्||११||
Adhikarana apatAnakacikitsA tatrAdAvupakramyatvanidarshanam (12) · Śloka 12
अथापतानकिनमस्रस्ताक्षमस्तब्धलाङ्गूलमवेदनमस्वेदन मप्रलापिनमख़ट्वाग़ातिनमबहिरायामिनं चोपक्रमेत||१२||
अपतानकिनमस्रस्ताक्षत्वादिरहितमेवोपक्रमेत साध्यत्वान्न तु तद्युक्तमसाध्यत्वात्| ख़ट्वाग़ातीयः शय्यात उत्थाय वाऽतिवेगात् पादेन शय्यामाहन्ति|| १२||
Adhikarana tIkShNanasyaM sarpiHpAna~jca (13) · Śloka 13
तत्र प्रागेव स्निग्धस्विन्नाङ्गव्योषविडङ्गश्वेतमरिचैरन्यैश्च तीक्ष्णैः शिरोविरेचनैः स्रोतोविशुद्धये कृतनस्यमनन्तरञ्चैनं विदार्यादिक्वाथमांसरसक्षीरदधिविपक्वं सर्पिरच्छं पाय येत्|
तथा नातिमात्रमनिलः प्रसरति||१३||
तत्र तस्मिन्नपतानके प्रथममेव स्निग्धस्विन्नं पुरुषं व्योषादिभिश्च स्रोतोविशोधनाय कृतनस्यं विदार्यादिक्वाथादिना विधिपक्वं सर्पिरच्छं पाययेत्| अच्छमिति विचारणारहितमन्यतमया| मात्रया| एष हि विधिरनिलस्य नातिप्रसरणाय|| १३||
Adhikarana mahAsnehavidhAnam (14) · Śloka 14
ततो भद्रदार्वादिवर्गं वातघ्नमाहृत्य सयवकोलकुलत्थं सानूपमाघंसञ्च निक्वाथ्य तत्कषायेणाम्लक्षीरवता मधुर वर्गप्रतीवापं महास्नेहं विपचेत्|
तमपतानकिनमभ्यङ्ग परिषेकावगाहपानभोजनानुवासननावनेषु विदध्यात्||१४||
ततोऽनन्तरं भद्रदार्वादिना सूत्रोक्तेन यवादिभिरानूपप्राणिमांसेन च क्वाथं कृत्वा तेन क्वाथेनाम्लकाञ्जिकमद्यादिभिः क्षीरेण च महास्नेहं स्नेहचतुष्टयं साधयेत् गर्भे मधुरवर्गं दत्वा| औषधानां मांसस्य च दोषाद्यपेक्षणं प्रयुक्तस्य पञ्चप्रभृति तु द्रवमिति स्मर्तव्यम्| मधुरस्कन्धः स्नेहाच्चतुर्थांशेन| तन्महास्नेहमपतानकिनामभ्यङ्गादिषु दद्यात्|| १४||
Adhikarana svedanam (15) · Śloka 15
बलीयसि च वाते सुख़ोष्णकरीषपूर्णे कूपे निख़न्या दामुख़ं|
तप्तायां व रथकारचुल्यां शिलायां वा सुपरिषिक्तायां शाययेत् पलालावच्छन्नम्|
स्वेदयेद्वा पिण्डेन||१५||
करीषे शुष्कगोमयेन कूप इव कूपः निख़ातः| रथाकारचुल्ली रथकारो नाम जातिविशेषो वर्णत्रयादूनो लोहकारवृत्तिर्गुर्जरदेशप्रसिद्धः| तस्य चुल्यग्निकर्मस्थानम्| शिलायामिति सूत्रोक्तविधानेन तप्तायां सुरापरिषिक्तायां सबाष्पायं पलालेन शालितृणेनावच्छन्नदेहं शाययेत्|| १५||
Adhikarana abhya~ggaH (16) · Śloka 16
मूलकोरुबूकस्फूर्जातकार्कसप्तलाशङ्ख़िनीस्वरससिद्धं वा तैलमभ्यङ्गादिशु योज्यम्|
अभुक्तवता चैतत् पीत मम्लदधिमरिचवचायुक्तमाक्षेपकमपहन्ति||१६||
मूलकादिस्वरससिद्धं वा तैलमभ्यङ्गसेकादिषु| स्फूर्जातकं काकतिन्दुकम्| एतदेव मूलकादितैलमकृतभोजनेनाम्लदधिमरिचवचायुक्तं पीतमाक्षेपकमपहन्ति|| १६||
Adhikarana aNutailavidhAnam (17) · Śloka 17
तिलपीडनोपकरणद्रव्याण्यनल्पकालतैलपरिपीतान्य वक्षुद्य महति कटाहे पानीयेनाधाव्य क्वाथयेदास्नेहो पगमात्|
ततस्तत् स्नेहमम्भस उपरिष्टात् पाणिशरावयो रन्यतरेणादाय वातग़्नौषधदत्तप्रतीवापं स्नेहपाककल्पेन पचेत्|
एतदणुतैलं सर्ववातविकारहरम्|
अणुतैलद्र व्येभ्यो निष्पद्यत इत्यणुतैलम्||१७||
तिलपीडनोपकरणद्रव्याणि चक्रवंशदारुकर्मसादीनि सैर्बहुकालं तैलं परिपीतं तेभ्यो मुसलादिक्षुण्णेभ्यः पानीयक्वथनेनोत्तरस्नेहं गृहीत्वा वातग़्नौषधैः पचेत्| एतच्च तैलं नाम्ना अणुतैलम्| यतो न केवलं वातग़्नौषधैः साध्यते यावत्सूत्रोक्तैरप्यणुतैलद्रव्यैः||१७||
Adhikarana vegAntareShvavapIDAni pradhamanAni ca (18) · Śloka 18
वेगान्तरेषु च तीक्ष्णान्यवपीडानि प्रधमनानि वा सकृद् दद्यात्|
तथास्य श्लेष्मापगमनेन श्वसनविमोक्षात् संज्ञा पुनः पुनर्नोपरुध्यते|
कुक्कुटकुलीरशिंशुमारवराहवसाः पाययेत्|
यवकोलकुलत्थमूलकदधिग़ृततैलसिद्धां च यवागूम्|
सर्वाकारं च गतवेगः स्नेहविरेचनास्थापना नुवासनानि सेवेत||१८||
प्रयोगान्तरमुच्यते| वेगान्तरेमेकस्य वेगस्य उपशमोऽन्यस्याप्राप्तिः| अवपीडं कल्कादिनस्यम्| प्रधमनं नाड्या नसि चूर्णस्य ध्मापनम्| संज्ञा चैतन्यम्| कुक्कुटादीनां यथालाभं वसाः पाययेत्| यवादिसिद्धां च यवागूम्| सर्वकारं सर्वेण प्रकारेणौषधादिना स्वयं वा विगतवेगः स्नेहविरेचनादिकं सेवेत|| १८||
Adhikarana apatAnake snehavirecanArthaM tilvakaghRutam (19) · Śloka 19
त्रिवृद्धन्तीसुवर्णक्षीरीशङ्किनीविडङ्गत्रिफलानामक्षसमाः कल्काः बिल्वमात्रकं तिल्वकमूलानां त्रिफलारसदधि पात्रे द्वे घृतपात्रमेकं सर्वमैकध्यं प्रतिसंसृज्य विपचेदेत त्तिल्वकसर्पिः स्नेहविरेचनमनिलरोगेषु|
तिल्वकविधि रेव चाशोकरम्यकयोर्द्रष्टव्यः|
शुद्धवातापतानकवि धानमेतत्|
संसृष्टे यथासंसर्गम्||१९||
त्रिवृदादीनां तिल्वक घृतम्| त्रिवृदादीनां पृथक्कल्का अक्षमात्राः कर्षिकाः| तिल्वकमूलानां बिल्वमात्रः कल्कः| कल्को जलपिष्टः| तिल्वकः पट्टिकालोध्रः| तिल्वकवदेभिरेवाशोकयुक्तैः रम्यकयुक्तैश्च विधेयः| एतदनन्तरोक्तं विधानं शुद्धवातज एवापतानके विज्ञेयम्| दोषान्तरसंसृष्टं तु वाते यथासंसर्गं संसृष्टदोषानतिक्रमेण तदविरोधेनैतद्योज्यमित्यर्थः|| १९||
Adhikarana kaphasaMsRuShTe visheShaH (20) · Śloka 20
सकफे तु वाते तुम्बुरुफलाभयाहिङ्गुपुष्करमूललवण त्रयचूर्णं यवक्वाथेन हृत्पार्श्वार्तिहरं पिबेत्|
हिङ्गुनाग रदाडिमाम्लवेतससौवर्चलचूर्णं वा|
मुस्तपिप्पलीनागरा तिविषाबिभीतकभार्ङ्गीचूर्णं वाग् मद्येनोष्णाम्बुना वाप तन्त्रककासहृद्रोगहरम्|
सौवर्चलाभयाव्योषसिद्धं सर्पिः|
रास्नाम्लवेतससैन्धववचाहरीतकीकल्कश्च घृतभृष्टो भक्षितः||२०||
शुण्ठीचित्रकभार्ङ्गीशुकनासानिचुलमहावल्लीबृहतीद्वयकाकमाचीपुनर्नवैरक्षमात्रैर्घृतप्रस्थं साधयेत्| तत् पीतं परमपतन्त्रकश्वासहिध्माहृद्रोगघ्नम्| पथ्याशतार्धकल्केन वा सौवर्चलपलद्वययुक्तं चतुर्गुणक्षीरं घृतप्रस्थं विपाचयेत्| तदपतन्त्रकघ्नम्| न चास्य शोधनार्थं बस्तयस्तीक्ष्णाः प्रयोक्तव्याः| हृद्रोगचिकित्सितं चेक्षेत| सकफ इत्यादि| कफसंसर्गे तुम्बुर्वादिचूर्णं यवक्वाथेन हृत्पार्श्वार्तिहरं पिबेत्| हिङ्ग्वादिचूर्णं वा यवक्वाथेन| मुस्तादि चूर्णं मद्येनोष्णाम्बुना वापन्त्रकादिहरं| सौवर्चलादिसिद्धसर्पिरपतन्त्रकादिहरम्| रास्स्नादीनां कल्को घृतेन भृष्टो भक्षितः अपतन्त्रकादिहरः| शुण्ठ्यादिभिरक्षमात्रैर्ग्घृतप्रस्थं साधयेत्तद् घृतं पीतमपतन्त्रकादिघ्नं भवति| पथ्याशतार्धं पञ्चाशद्धरीतक्यः| सुबोधम्| न चास्येत्यनेन च बस्तिप्रयोगोक्तबस्त्यादीनां तीक्ष्णबस्तिप्रतिषेधम्| हृद्रोगचिकित्सितं चेक्षेत तदुक्तयोग्यचिकित्सितकरणायेत्यर्थः|| २०||
Adhikarana antarbahirAyAmau (21) · Śloka 21
अन्तर्बहिरायामावेकायामवत् साधयेत्|
तैलद्रोण्यां चात्र शयनम्|
अन्तरायामश्चैतयोर्ग़ोरतरः|
अपि च विवर्णदन्तवदनः स्रस्ताङ्गो नष्टचेतनः|
प्रस्विद्यंश्च धनुष्कम्पी दशरात्रं न जीवति|
वेगेष्वतोऽन्यथा जीवेन्मन्देषु विनतो जडः|
ख़ञ्जः कुणिः पक्षहतः पङ्गुलो विकलोऽथवा||२१||
अनन्तरायामो बहिरायाम एकामाय इत्यादि तेषां नाम| अत्रत्वन्तर्बहिरायामयोस्तैलद्रोण्यां शयनं विशेषः| अनयोर्द्वयोरन्तरायामो ग़ोरतरः| तरप्प्रयोगात् द्वितीयो ग़ोरः| तेन यत्नाच्चिकित्सेदित्यर्थः| अपि चेति ग़ोरत्वप्रसङ्गेन| विवर्णेत्यादिनोपेक्षणीयत्वमुचते| धनुष्कम्पो बाह्यायामः| अतो विवर्णवदनत्वादितः अन्यथा वैपरीत्ये मन्देषु च वेगेषु कदाचिज्जीवनं सम्भाव्यते| यदा य जीवेत्तदा विनतत्वादियुक्तो न त्वनुपहतः| विनतः कुब्जः| ख़ञ्जः कुष्ठपादः| कुणिः कुष्ठबाहुः| पक्षहतो निष्क्रियदेहार्धः| पङ्गुलः सक्थिद्वयविकृतः| विकलो हीनवाक्| सुबोधम्|| २१||
Adhikarana hanustambhaH (22) · Śloka 22
हनुस्तम्भमय्यर्दितवच्चिकित्सेत्|
स्वेदयित्वा च हनू स्तब्धौ स्रस्तौ स्वस्थानमानीय पाणिभ्यां पीडयेत्|
विवृता स्ये चिबुकं चोन्नामयेत्|
संवृतास्ये च नामयेत्||२२||
हनुस्तम्भे हि द्वयं भवति| कदाचिद्विवृतास्यता कदाचित् संवृतास्यता च| सुबोधम्|| २२||
Adhikarana jihvAstambhArditayo kriyAkramaH (23) · Śloka 23
जिह्वास्तम्भे सामान्योक्तो विधिरेकायामे च|
तथा महा तृणपञ्चमूलविदार्यादिजीवनीयानि मेद्यमांसान्यौदक कन्दांश्च द्विगुणोदके क्षिरद्रोणे क्षीरशेषं निष्क्वाथ्य परि स्राव्य तैलप्रस्थेनोन्मिश्रं पुनरधिश्रयेत्|
क्षीरानुगमे चाव तार्य शीतं मन्थयेत्|
ततः स्नेहमादाय पूर्ववद्विपचेत्|
एतत् क्षीरतैलं पानाभ्यङ्गादिषु विधेयम्|
तैलविहीनग् मिदमेव क्षीरघृतमक्षितर्पणम्||२३||
जिह्वास्तम्भे सामान्यानिलामयचिकित्सा एकायाम इत्यर्दितस्य नाम| मेद्यमांसानि वराहादिजानि| औदककन्दाः शाकवर्गोक्ताः मृणालकन्दादयः| क्षीरानुगमे तैलक्षीरयोरकेत्वे| तैलहीनमिति तैलेन विना साधितम्|| २३||
Adhikarana AhArakalpanAvisheShAH (24) · Śloka 24
तिल्वकफलसिद्धक्षीरदध्ना च सह मांसरसान् कल्प येत्|
यथोक्ताश्च यवागूस्निग्धाश्च नस्यधूमकवलग्रहाः प्रयोज्याः||२४||
तिल्वकफलसिद्धा क्षीराद्यत् दधि तेन दध्ना सह मांसरसान्योक्ताश्च यवागूः कल्पयेत्| स्निग्धञ्च योजयेन्नस्यादिकम्||२४||
Adhikarana aNutailam (25) · Śloka 25
कृष्णभूमिकेदारं रोहिणीकाष्ठैर्नातिशुष्कैर्दाहयेत्|
उप लिप्य च गोमयेन पुनः ख़दिरकाष्ठैर्दग्ध्वा तद्भस्मा पनीय तत्र शीतीभुते तैलं निषेचयेत्|
उषितं च निशां ख़ानयेत्|
तामनुगततैलां मृत्तिकामादाय पञ्चमूलेन सह क्वाथयेत्|
तमपि क्वाथं परिस्रुतमष्टगुणेन पयसा तैला वशेषं पाचयेत्|
एतदप्यणुतैलं नावनात् सर्ववातव्याधि हरम्||२५||
कृष्णभूम्यादिनाऽणुतैलं सुबोधम्|| २५||
Adhikarana aNutailaM dvitIyam (26) · Śloka 26
तद्वच्च पञ्चमूलकाष्ठैर्दध्वा भस्मापनीय विदार्यादिसिद्धेन तैलेन शतशो निषिच्य पूर्ववन्मृदमादायोष्णोकवति कटाहेऽभ्यासिच्च तैलं पाणिना पिचुना वा गृहीत्व वात हरौषधक्वाथमांसरसक्षीराम्लभागसहस्रेण सहस्रपाकं साधयेद्यावता कालेन शक्नुयात् पक्तुं प्रतिवापश्चात्र हैमवता दक्षिणापथगा चाश्वगन्धावातग़्नानि च द्रव्याणि|
सिध्यति चास्मिन् शङ्कमाध्मपयेत्|
दुन्दुभीन् वादयेत्|
ब्रह्मणानध्यापयेत् भोजयेत्|
छत्रं धारयेत्|
बालव्य जनैश्च बीजयेत्|
तत्सिद्धं नस्यपानाभ्यङ्गबस्तिषु प्रयुञ्जीत|
एतत्सहस्रपाकमनिवार्यवीर्यं तैलमेवं भागशतपक्वं शत पाकम्|
अभीक्ष्णं च स्वदयेत्|
ततः स्निग्धस्विन्नस्य श्लक्ष्णस्य मृदुनश्चर्मणो वाससो वा चतुरङ्गुलविस्तृता भिः पट्टिकाभिर्वक्रीभूतप्रदेशावगृह्ण सर्वतो वेष्टयेत् बध्नी यात्|
निशि बद्ध्वा दिवा मुञ्चेद्दिवा वा निशि|
मोक्षान्ते चोत्कारिकाभिः सुस्निग्धाभिर्वातग़्नप्रक्लृप्ताभिः स्वेद येत्|
अव्यथं च प्रतिलोमं प्रमार्जयन्नृजुकुर्वंश्च पुनर्बध्नी यात्|
एवं सप्तरात्रम्|
सशोफे तु वमनमाचरेत्|
सदा हरागे बलवतः सिराव्यधम्|
ग़ृतक्षीरबस्तिसेकान् वात पित्तग़्नक्रियां च||२६||
तद्वदिति रोहिणीपक्वकाष्ठवत् वातहरक्वाथादीनां तैलमिश्रितानां तैलसमा भागाः सहस्रम्| भागेन पक्वं तैलं साधयेत्| पाके पाके च प्रतिवापम्| हिमवत्प्रभवा दक्षिणापथगा चाश्वगन्धा| वातग़्नानि च द्रव्याणि| अनिवार्यवीर्यमप्रतिहतशक्तिः| स्निग्धस्विन्नत्वाच्छ्लक्ष्णस्तत एव च मृदु| सुबोधम्| मोक्षान्त इति अर्थाद्यदा यदा बन्धमोक्षस्तदा तदा यथोत्कारिकास्वेदः| अव्यथं प्रतिलोमं चेति प्रमार्जनक्रियाविशेषणम्| एवं प्रमार्जयन्नृजुकुर्वंश्च पुनर्बध्नीयात्| सदाहे रागे च सति सिराव्यधः| स च बलवतः| ग़्रुतादिकं च|| २६||
Adhikarana ekA~ggaroge (27) · Śloka 27
एकाङ्गरोगिणमम्लानगात्रं स्नेहस्वेदोपपन्नं मृदुना संशो धनेन संशोध्यानुवास्यास्थाप्य चोक्षेपकविधानेनोपचरेत्|
विशेषतो बलातैलमनुवासनार्थे|
दोषसंसर्गे यथासंसर्गम्|
कुक्कुटीं वा रसायनविधानेनोपयुञ्जीत||२७||
एकाङ्गरोगिणं पक्षाग़ातिनम्| अम्लानगात्रं शोषरहितम्| सुबोधम्| दोषान्तरसंसर्गे संसर्गदोषापेक्षया| रसायवविधाने कुक्कुटी 'सुरा-सुरैः क्षीरसमुद्रमन्थ' इत्यादिना वक्ष्यते|| २७||
Adhikarana apabAhukAdau (28) · Śloka 28
अपबाहुके नावनमूर्ध्वभक्तं च निरामे स्नेहपानम्|
विश्व भीप्रभृतिषु पाददाहान्तेषु यथोक्तां सिरां विद्ध्वा वात व्याधिवदुपाचरेत्||२८||
अपबाहुके स्नेहपानं घृतं तैलं वा दोषावस्थापेक्षं हितम्| सुबोधम्| विश्वभ्यादिषु सिराव्यधोक्तं सिराः विद्ध्वा सामान्यवातव्याधिवदुपाचरेत्| तत्र च विश्वभीघृध्रस्योर्जानुनोऽस्तादूर्ध्वं वा चतुरङ्गुले| पादहर्शपाददाहयोः क्षिप्रमार्मण अपि द्व्यङ्गुले||२८||
Adhikarana Urustambhe kramaH (29) · Śloka 29
ऊरुस्तम्भे तु स्नेहासृक्स्राववमनविरेचनबस्तिकर्माणि परिहरेत्|
आमश्लेष्मणा सह तेषां विरोधात्|
ऊरुलीनानां वायुना स्तब्धानां च वमनदिभिरुर्ध्वं नेतुमम्भसामिव निम्नात् स्थलमशक्यत्वात्|
ततस्तत्र तु बहुशः शमन शोषणानि युक्त्यावेक्ष्य युञ्जीत|
रूक्षोपचारान् यव श्यामाककोद्रवोद्दालकमलवणमल्पतैलसिद्धं शाकं क्षारारिष्टमधूदकानि च शीलयेत्||२९||
ऊरुस्तम्भे स्नेहादीनि परिहरेत्| यतो नासौ शुद्धेन वातेन भवत्यामादेश्च स्नेहादिना विरोधः| यतश्चामादीनामूर्वोर्लीनानामनन्तरोक्तैर्वमनादिभिरुर्ध्वं कोष्ठं नेतुमशक्यत्वम्| यथा निम्नस्थानानामम्भसां स्थलं नेतुमशक्यमिति दृष्टान्तः| अतो हेतो स्तत्रोरुस्तम्भे युक्तिमपेक्ष्य बहुशः शमनादिकं प्रयुञ्जीत| तत्रादौ शमनं योजयेत्| यदि तथा न शाम्यति तत्र च रूक्षोपचारादिकं शीलयेत्|| २९||
Adhikarana Urustambhe auShadham (30) · Śloka 30
ससैन्धवं वचादिं हरिद्रादिं वत्सकादिं वा|
षड्धारणं वा हरीतकीः पिप्पलीर्वा|
शार्ङ्गाष्ठामदनदन्तीवत्सकं वा|
स्वादुकण्टकारग्वधदार्वीमदुबकपाठाकरञ्जकूल कचूर्णं वा सक्षौद्रं मस्तुना पिबेत्|
चित्रकदेवदारुकु ष्ठपाठातिक्तकरोहिणीर्वा मधुना लिह्यात्|
त्रिफला पिप्पलीमुस्तचविकाकटुरोहिणीर्वा|
स्वेदांश्च रूक्षान् कुर्यात्||३०||
वचाद्यादिगणानामन्यतमं ससैन्धवं षड्धरणं दार्व्यादिकं कुष्ठोक्तं हरीतकीपिप्पल्योः सामान्येनोष्णाम्बुनैव| शार्ङ्गाष्ठादिचूर्णं मस्तुना पिबेत्| स्वादुकण्टको गोक्षुरकः| मरुवकं मारीचकम्| कूलकं पटोलम्| चित्रकादि मधुना लिह्यात्|| ३०||
Adhikarana atyapatRupte tarpaNam (31) · Śloka 31
अत्यपतृप्तं तु रूक्षं क्षाममनिद्रं जाङ्गलरसैः शालि भिश्च तर्पयेत्|
सर्षपतैलं वा सरलकुष्ठश्रीवेष्टकसुर दारुनागकेसराजगन्धासिद्धं सक्षौद्रं पिबेत्||३१||
अत्यपतृप्तमपतर्पितं रूक्षं क्षामत्वादियुक्तं तर्पयेत्| सरलादिसिद्धं सर्षपतैलं व पिबेत्| क्षौद्रेण सह वर्तते यत्तैलं तत्तथोक्तम्||३१||
Adhikarana sasaindhavAditalam (32) · Śloka 32
ससैन्धवपलं शुण्ठीचित्रकपिप्पलीमूलानां पृथग्द्विपलं दश भल्लातकास्थीनि कल्कीकृत्यैकध्यमारनालाढकेन सह तैलप्रस्थं पचेत्|
तत्सर्ववातविकारेशु पथ्यं विशेषा दूरुस्तम्भार्शोगृध्रसीग़्नमपथ्यदञ्च||३२||
शुण्ठ्यादीनि द्विपलोन्मितानि| सुबोधम्|| ३२||
Adhikarana bAhyopacArAH (33) · Śloka 33
बहिरपि श्लेष्मक्षपणाय क्षौद्रसर्षपरकरञ्जफलवल्मी कमृद्गोमूत्रैरुष्णैर्लेपयेत्|
सौभाञ्जनतक्कारीद्वयसरला र्जुनकरञ्जाढकीगोक्षुरकैर्लेपोन्मर्दनसेकान् कुर्यात्|
व्या यामैश्च विविधैर्मेदः क्षपयेत्|
स्थालान्युल्लङ्ग़येत्|
प्रति स्रोतः सरितमव्यालां तरेत्|
एवमूरुस्तम्भो हि शुष्के श्लेष्मणि प्रशाम्यतीति||३३||
सुबोधम्| तमेव व्यायाममाह-स्थलानीति| अव्यालां ग्राहादिरहिताम्| प्रतिस्रोतो विमुख़म्|| ३३||
Adhikarana sAmAnyopacAraH sahacarAditailaM rAsnAdighRuta~jca (34) · Śloka 34
भवति चात्र- सहचरं सुरदारु सनागरं क्वथितमम्भसि तैलविमिश्रितम्|
पवननीडितदेहगतिः पिबन् द्रुतविलिम्भितगो भवतीच्छया|
रास्नामहौषधद्वीपि पिप्पलीषठिपौष्करम्|
पिष्ट्वा विपाचयेत्सर्पिर्वातरोगहरं परम्||३४||
अथेदानीं सर्ववातामयानां सामान्येन भेषजमाह| सहचरांदिभिस्तैलमिश्रितं कषायं पिबन् द्रुतगमनो विलम्बितगमनो वा भवति| तन्त्रकृता च मतिवैभवादस्य च वृत्तस्य नासाविशिष्टं कृत्व कथितम्| रास्नादिभिः साधितं ग़ृतं परं वातरोगहरम्| द्वीपिश्चित्रकः||३४||
Adhikarana pa~jcatiktaM ghRutam (35) · Śloka 36
निम्बामृतावृषपटोलनिदग्धिकानां भागान् पृथग्दशपलान् विपचेद् घटेऽपाम्|
अष्टांशशेषितरसेन पुनश्च तेन प्रस्थं घृतस्य विपचेत् पिचुभागकल्कैः|
पाठाविडङ्गसुरदारुगजोपकुल्या द्विक्षारनागरनिशामिसिचव्य्गकुष्ठैः|
तेजोवतीमरिचवत्सकदीप्यकाग्नि रोहिण्यरुष्करवचाकणमूलयुक्तैः|
मञ्जिष्ठयातिविषया विषया यवान्या संशुद्धगुग्गुलुपलैरपि पञ्चसङ्ख्यैः|
तत् सेवितं विधमति प्रबलं समीरं सन्ध्यस्थिमज्जगतमप्यथ कुष्ठमीदृक्|
नाडीव्रणार्बुदभगन्दरगण्डमाला जत्रूर्ध्वसर्वगदगुल्मगुदोत्थमेहान्|
यक्ष्मारुचिश्वसनपीनसकासशोष हृत्पाण्डुरोगमदविद्रधिवातरक्तम्||३५||
ह्|३६|
निम्बादीनां पृथग्दशपलान् भागान् अपां घटे द्रोणे विपचेत्| अष्टांशशिष्टेन तेन क्वाथेन पिचुभागकल्कैः कर्षांशकल्कैः घृतस्य प्रस्थं द्वात्रिंशत् पलानि विपचेत्| गजोपकुल्या श्रेयसी| तेजोवती ज्योतिष्मती| कणामूल इत्यत्र कणाशब्दो लुप्तनिर्दिष्टः| तेनात्र कणा च कणामूलं च ग्राह्यम्| अत एव च मुनिनात्र व्योषशब्दो निर्दिष्टः| युक्ता रास्ना| गुदोत्थान्यर्शांसि| हृत्पाण्डुभ्यां रोगः सम्बध्यते| मदो मदात्ययनिदानोक्तलक्षणः| शेशं सुबोधम्|| ३५||
Adhikarana dashamUlaghRutam (36) · Śloka 36
द्रोणेऽम्भसः पचेद्भागान् दशमूलच्चतुष्पलान्|
यवकोलकुलत्थानां भागैः प्रस्थोन्मितैः सह|
पादशेषे रसे पिष्टैर्जीवनीयैः सशर्करैः|
तद्वत्ख़र्जूरकाश्मर्यद्राक्षाबदरफल्गुभिः|
सक्षीरैः सर्पिषः प्रस्थं सिद्धं केवलवातनुत्|
योज्यो निरत्ययः पाननस्याभ्यञ्जनबस्तिषु||३६||
द्रोणेऽम्भस इत्यारभ्य श्वदंष्ट्रककषायस्येत्यन्तग्रन्थस्य शशिलेख़ाया अदर्शनात् जेज्जटकृता निरन्तरपदी वाख़्या लिख़्यते- द्रोणेऽम्भस इत्यादि| जीवनीयैः जीवन्त्यादिभिर्महाकषायसंग्रहोक्तैर्दशभिः| फल्गुर्गोष्ठोदुम्बरः|| ३६||
Adhikarana nasyam (snehanasyam) (37) · Śloka 37
बलाविल्वशृते क्षीरे घृतमण्डं विपाचयेत्|
तस्य शुक्तिः प्रकुञ्चो वा नस्यं वाते शिरोगते|
तद्वत्सिद्धा वसा नक्रमत्स्यकूर्मबुलूकजा|
प्रत्यग्रा विधिनानेन नस्यपानेशु योजयेत्||३७||
सदुग्धग़ृतस्य स्त्यानस्योर्पर्येच्छस्तस्य शुक्तिरर्धपलं प्रकुञ्चः पलं वा शिरोगते मूर्धगतेऽनिले बाहुशिरोगते वा आदिलोपात्| तद्वद्बलाबिल्वशृते क्षीरे| विधिनानेनेति| शुक्तिः प्रकुञ्चो वा| बुलूकी मत्स्यविशेषो दृत्याकारः|| ३७||
Adhikarana jIrNapiNyAkAditailam (38) · Śloka 38
जीर्णं पिण्याकं पञ्चमूलं पृथक् च क्वाथं क्वाथाभ्यामेकतस्तैलमाभ्याम्|
क्षीरादष्टांशं पायचेत्तेन पाना द्वाता नश्येयुः श्लेष्मयुक्ता विशेषात्||३८||
जीर्णं बहुवर्षोषितम्| क्षीरादष्टांशमिति तैलादष्टगुणं क्षीरम्| पञ्चमूलकषायेण पिण्याकं बहुवार्षिकम्| पक्त्वा तस्य रसं पूत्वा तैलप्रस्थं विपाचयेत्|| पयसाऽष्टगुणेनैतत् सर्ववातविकारनुत्| संसृष्टे श्लेश्मणा चैतद्वाते शस्तं विशेषतः|| इति चरकपाठः|| ३८||
Adhikarana sahacarAditailamaparam (39) · Śloka 39
समूलशाख़स्य सहाचरस्य तुलां समेतां दशमूलतश्च|
अभीरुमूलाच्च तुलार्धमेतद ष्टांशशेषं विपचेद्वहेऽपाम्|
तत्र सेव्यनख़कुष्ठहिमैला स्पृक्प्रयङ्गुनलिकाम्बुशिलाजैः|
लोहितानलदलोहसुराह्वैः कोपनामिसितुरुष्कनतैश्च|
तुल्यक्षीरं पालिकैस्तैलपात्रं सिद्धं कृच्छ्रान् शीलितं हन्ति वातान्|
कम्पाक्षेपस्तम्भशेषादियुक्तान् गुल्मोन्मादौ पीनसान् योनिरोगान्|३९|
Adhikarana ketakimUlAditailam lashunAditailam (39) · Śloka 39
केतकिमूलबलातिबलानां यद्बहलेन रसेन विपक्वम्|
तैलमनल्पतुषोदकयुक्तं मारुतमस्थिगतं तदपोहेत्|
तुलां लशुनकन्दस्य तुलार्धं जाङ्गलात् पलात्|
दशमूलाच्च विपचेद्भागान् पञ्चपलान् पृथक्|
तोयार्मणेन पादस्थे समं तैलं पयो दधि|
तत्र दद्यात्पलांशांश्च रास्नामधुकजीवकान्|
मिसिस्थिरामहामेदाचपलातिविषाबलाः|
काकोलीपौष्करं मूलमश्वगन्धा च साधितम्|
तत्परं वातरोगग़्नं गुल्मानाहार्तिशूलनुत्|
भग्नजर्जरिताङ्गानां पथ्यमग्नेश्च दीपनम्|३९|
Adhikarana prasAriNItailam (39) · Śloka 39
समूलजालां विपचेत् प्रसारिणीं तुलोन्मितां पादधृते घटेऽम्भसः|
पृथक्सतैलं दधि तत्समं क्षिपेत् समं च ताभ्यां विजयां ततः पिबेत्|
प्रसारिणीजीवकसिन्धुजन्म यष्ट्याह्वरास्नाग्निकयावशूकैः|
सग्रन्थिकाख्यैर्द्विपलैः सुपिष्टैः भल्लातकानां दशकैस्त्रिभिश्च|
शुण्ठीपलत्रययुतैर्विनिहन्ति पान नस्यादिभिस्तदखिलान् मरुतो विकारान्|
कुष्ठप्रमेहहतनाममनोविकार श्वासास्थिभङ्गजठरक्रिमिबीजदोषान्||३९||
समूलशाख़स्य सहाचरस्येत्यादि तैलयोगचतुष्टयं सुबोधम्||३९||
Adhikarana bhejasammataM sahacaratailam (40) · Śloka 40
पचेत् सहाचरतुलां जलद्रोणचतुष्टये|
द्रोणशेशे समक्षीरे तत्र तैलाढकं पचेत्|
सहाचरस्य मूलानां कल्कितैर्दशभिः पलैः|
अथव नलषड्ग्रन्थिस्थिराकुष्ठसुराह्वयात्|
सैलानलदशैलेयशतह्वारक्तचन्दनात्|
सिद्धेऽस्मिन् शर्कराचूर्णादष्ठादशपलं क्षिपेत्|
भेलस्य सम्मतं तैलं तत् कृच्छ्राननिलामयान्|
वातकुण्डलिकोन्मादभूतापस्मारवर्ध्म च|
गुल्महृद्रोगगदुर्नामयोनिरोगांश्च नाशयेत्||४०||
पचेत् सहाचरतुलामित्यादि| तुला पलशतम्| समक्षीरे क्वाथसमे| अथवेति पक्षान्तरे| नतादिभिः कल्कितैः तैलाढकं पचेत्| सिद्धेऽस्मिन् पूते शर्कराया अष्टादशपलं क्षिपेत्| भेलाख़्यस्य महर्षेः सम्मतं तत्कृच्छ्रान् कृच्छ्रासाध्याननिलामयान् वातकुण्डलिकादींश्च नाशयेत्| वातकुण्डलिका मूत्राग़ातभेदः|| ४०||
Adhikarana shvadaMShTrakakaShAyaH (41) · Śloka 41
श्वदंष्ट्रककषायस्य प्रस्थौ द्वौ पयसा समौ|
षट्पलं शृङ्गिवेरस्य गुडस्य च पलाष्टकम्|
तैलप्रस्थं विपक्वं तद्दद्यात् सर्वानिलार्तिषु||४१||
श्वदंष्ट्रास्वरसप्रस्थौ द्वौ समौ पयसा सह| षट्पलं शृङ्गिवेरस्य गुडस्याष्टपलं तथा| तैलप्रस्थं विपक्वं तद्दद्यात् सर्वानिलार्तिषु| जीर्णे तैले च दुग्धेन पेयाकल्पः प्रशस्यते|| इति चरकपाठः| श्वदंष्ट्रेत्यादि जीर्णे तैले च दुग्धेन पेयाकल्पः प्रशस्यते क्षैरेयीपानमिति यावदिति जेज्जटः|| ४१||
Adhikarana balAtailam (42) · Śloka 42
बलाशतं छिन्नरुहापादं रास्नाष्टभागिकम्|
जलाढकशते पक्त्वा शतभागस्थिते रसे|
दधिमस्त्विक्षुनिर्यासशुक्तैस्तैलाढकं समैः|
पचेत्सजपयोर्धांशं कल्कैरेभिः पलोन्मितैः|
शठीसरलदार्वेलामञ्जिष्ठागरुचन्दनैः|
पद्मकातिबलामुस्तासूप्यपर्णिहरेणुभिः|
यष्ट्याह्वसुरसव्याग़्रनख़र्षभकजीवकैः|
पलाशरसकस्तूरीनलिकाजातिकोषकैः|
स्पृक्काकुङ्कुमशैलेयजातीकटुफलाम्बुभिः|
त्वक्कुन्दुरुष्ककर्पूरतुरुष्कश्रीनिवासकैः|
लवङ्गनख़तक्कोलकुष्ठमांसीप्रियङ्गुभिः|
स्थौणेयतगरध्यामवचामदनकधवैः|
सनागकेसरैः सिद्धे दर्द्याच्चात्रावतारिते|
पन्नकल्कं ततः पूतं विधिना तत्प्रयोजितम्|
श्वासं कासं ज्वरं मूर्च्छां छर्दिं तृष्णां क्षतं क्षयम्|
प्लीहशोषापस्मारमलक्ष्मीं च प्रणाशयेत्|
बलातैलमिदं श्रेष्ठं वातव्याधिविनाशनम्||४२||
बलाशतं पलशतमित्यर्थः| छिन्नरुहापादं गूडूच्याः पञ्चविंशतिपलनीति यावत्| रास्नाष्टभागिकं रास्नायाः सार्धानि द्वादशपलानि| रसे शतभागस्थिते| तैलाढकं पचेत्समैर्दध्यादिभिः शुक्तान्तैरेकैकमाढकं इक्षोर्निर्यासः स्वरसः| सहाजक्षीरस्यार्धांशेनार्धढकेन वर्तते यत्तैलं तत्साजपयोऽर्धांशमित्युक्तम्| सूप्यपर्णी माशापर्णी मुद्गपर्णी च| व्याग़्रनख़ः समुद्रजः| पलाशं पत्रकम्| तच्च तमालम्| रसो बोलः| नलिका विद्रुमलत| जातिकोशकं जाति पत्री| स्पृक्का ब्राह्मी जाती मालती| कटुफलं कर्कोटफलम्| अम्बु वालकम्| कुन्दुरुकं कुन्दुरुः| तरुष्कः तुवरः| श्रीनिवासकः (नि) 'मृत्तिका यवनो वल्कः पिण्डितः श्रीनिवासकः|' लवङ्ग इति लवङ्गकुसुमम्| स्थौणेयं तैलपीतकम्| तगरं नतम्| ध्यामख़ं सामकं प्लवम्| (नि) 'कुटन्नटं प्लवं धान्यं वितुन्नं परिपेलवम्|' अवतारिते तैले गन्धपत्रं संस्काराधानमात्रम्| कटुफलो लताकस्तूरिका| कटुफलं दक्षिणावर्ते प्रसिद्धं गन्धद्रव्यमन्ये-इति जेज्जटः|| ४२||
Adhikarana amRutAhvaM tailam (43) · Śloka 43
अमृतायास्तुलाः पञ्च पचेत्तोयवहद्वये|
पादशेषे समक्षीरं तैलस्य द्व्याढकं पचेत्|
एलामांसीनतोशीरसारिवाकुष्ठचन्दनैः|
शतपुष्पाबलामेदामहामेदर्धिजीवकैः|
काकोलीक्षीरकाकोलीश्रावण्यतिबलानख़ैः|
महाश्रावणिजीवन्तीविदारीकपिकच्छुभिः|
शतावरीतामलकीकर्कटह्वाहरेणुभिः|
वचागोक्षुरकैरण्डरास्नाकालासहाचरैः|
वीरामहैलर्षभकत्रिदशाह्वैश्च कार्षिकैः|
मञ्जिष्ठायास्त्रिकर्षेण मधुकाष्टपलेन च|
कल्कैस्तत्क्षीणवीर्याग्निबलसम्मूढचेतसः|
उन्मादारत्यपस्मारैरार्तांश्च प्रकृतिं नयेत्|
वातव्याधिहरं श्रेष्ठं तैलाग्र्यममृताहवम्||४३||
अमृताद्ये अमृतयाः गुडूच्याः पञ्च तुलाः पञ्चशतनि पलानि| वहद्वयं चत्वारि सहस्राणि षण्णवत्यधिकानि| क्षीरं तैलसमम्| एकादीनि त्रिदशाहान्तानि कार्षिकाणि| श्रावणी मुण्डिका प्रसिद्धा| विदारी कन्दालिका| तामलकी शिवा| कर्कटाह्वः कर्कटशृङ्गी| हरेणुका कौन्ती| काला नागबला| कालानुसारीत्यन्ये| वीरा काकोली| महैला पत्रैका| त्रिदशाह्वयं सुराह्वं देवदारु| क्षीणशब्दस्य वीर्यादित्रयेण सम्बन्धः| वीर्यं शुक्रमिति केचित्| एतान् प्रकृतिं नयेत् स्वास्थ्यमापादयेत्|| ४३||
Adhikarana rAsnAditailAni (44) · Śloka 44
रास्नासहस्रनिर्यूहे तैलद्रोणं विपाचयेत्|
गन्धैर्हैमवतैः पिष्टैरेलाद्यैरश्चानिलार्तिनुत्|
एष कल्पोऽश्वगन्धाया बलातिबलयोरपि||४४||
रास्नाद्ये तैले हैमवतानि गन्धानि हिमवत्प्रभवानि गन्धद्रव्याणि| एलाद्यैरिति बलातैलोक्तैरेलादिभिर्मधुयष्ट्यन्तैः| एष च रास्नादितैलकल्पः पृथगश्वगन्धादीनामपि योजयेत्| तेनाश्वगन्धाद्यन्यतमस्य सहस्रनिर्यूहे तैलद्रोणं पाचयेत्| गन्धैर्हैमवतैः पिष्टैरेलाद्यैश्चेत्युयुक्तं बोद्धव्यम्| रास्नासहस्रनिर्यूह इत्यादि| पलशब्दलोपोऽत्र द्रष्टव्यः| निर्यूहः क्वाथः| एलाद्यैरिति एलाहरेणुप्रियङ्गुपृथ्वीकाकुस्तुम्बुरुतगरनलदादयः| अमृताह्वतैलोक्तैर्वा एलामांसीनतोशीरेत्यादिभिः| हैमवर्तैर्गन्धैरगुर्वादिभिरिति जेज्जटः|| ४४||
Adhikarana tailAntarANi (45) · Śloka 45
क्वाथकल्कपयोर्भिर्वा बलादीनां पृथक्पचेत्|
यवकोलकुलत्थानां मत्स्यानां शिग्रुबिल्वयोः|
रसेन मूलकानां च तैलं दधिपयोन्वितम्|
साधयेत्तत् परं सर्वपवनव्याधिभेषजम्|
यच्च शीतज्वरे तैलमगुर्वाद्यमुदाहृतम्|
सहस्रशतशः पक्त्वा सिद्धं वातामयापहम्||४५||
अथवा बलादीनां बल्यवर्गपठितानां बलातिबलादीनां पृथक् प्रत्येकमेकस्यैव क्वाथस्तस्यैव कल्कः| यवादीनां मूलकान्तानां रसं दधि पयश्च पृथक्तैलसमम्| शीतज्वरोक्तमगुर्वादिकं पुनः पुनस्तैरेवौषधैः तेनैव विधानेन तदेव पक्वं योज्यम्|| ४५||
Adhikarana phalatrikAdimahAsnehaH (46) · Śloka 46
फलत्रिकस्य प्रस्थं स्यात्कुलत्थं कुडवद्वयम्|
कृष्णगन्धात्वगाढक्योः पृथक्पञ्चपलानि तु|
रास्नाचित्रकयोर्द्वे द्वे दशमूलात् पलं पलम्|
जलद्रोणे पचेत् पादशेषे प्रस्थोन्मितं पृथक्|
सुरारनालदध्यम्लसौवीरकतुषोदकम्|
कोलदाडिमवृक्षाम्लरसं क्षीरं वसां नवाम्|
मज्जानं तैलमाज्यं च जीवनीयपलानि षट्|
कल्कमेकत्र तत्सिद्धं सिद्धं शुद्धानिलामये|
सिरापर्वास्थिगे वाते सर्वाङ्गैकाङ्गरोगिषु|
वेपनाक्षेपशूलेषु तमभ्यङ्गं प्रयोजयेत्||४६||
त्रिफलादीनां यथोक्तमानानां द्रोणपादशेषिते क्वाथे सुरादितैलाज्यान्तं पृथक्प्रस्थोन्मितं क्षिपेत्| जीवनीयानां सूत्रोक्तानां षट्पलानि| कृष्णगन्धा सौभाञ्जनं तस्य त्वचः पञ्च पलानि| आढक्याश्च तुवर्याः पञ्चपलानि| द्वे द्वे इति प्रकरणात् पले| आरनालं काञ्जिकम्| दध्यम्लमम्लं दधि| सौवीरकं वितुषयवकृतम्| तुषोदकं सतुषयवकृतम्| कोलादीनां प्रत्येकस्य रसः| कोलः बदरम्| वृक्षाम्लं तिन्तिणीकम्| सुबोधम्|| ४६||
Adhikarana AnUpajAdyasthisiddhaM tailam (47) · Śloka 47
आनूपजाङ्गलोत्थानामस्थीनि विपचेज्जले|
तत्स्नेहं दशमूलस्य कशायेण पुनः पचेत्|
जीवकर्षभकास्फोतविदारीकपिकच्छुभिः|
वातग़्नैर्दीपनीयैश्च कल्कैर्द्विक्षीरभागिकैः|
सिरापर्वास्थिकोष्ठस्थं पानाद्यैर्हन्ति तच्चलम्|
क्षीणौजोमज्जशुक्राणामेतत् स्यादमृतोपमम्||४७||
आनूपजाङ्गलोत्थानामन्त्यादि वर्गत्रयपठितानां प्राणिनामस्थीन्यवक्षुद्य जले विपाच्यनि| जलक्षये च तत्स्नेहो ग्राह्यः| तं स्नेहं दशमूलकषायेण जीवकादिभिरग्निदीप्तिकरैश्च वातग़्नैः कल्कैः सह पचेत्| किम्भूतैः कल्कैः ? द्विक्षीरभागिकैः द्वौ क्षीरभागौ येशां कल्कानां तेन कल्केन| तावत् स्नेहाच्चतुर्थांशेन भवितव्यम्| ततो द्विगुणं क्षीरं स्नेहादर्धं भवति| आस्फोतोऽर्कः| कपिकच्छुः कण्डूकरी| तदौषधं सिद्धं सिरादिस्थं चलं पानाद्यैर्हन्ति| क्षीणौजःप्रभ्रुतीनां चैतदमृतोपमं स्यात्|| ४७||
Adhikarana snehapAnaprashaMsA (48) · Śloka 48
पाने नस्येऽन्वासनेऽभ्यञ्जने च स्नेहाः काले सम्यगेते प्रयुक्ताः|
दुष्टान् वातानाशु शान्तिं नयेयु र्वन्ध्या नारी पुत्रभाजश्च कुर्युः||४८||
अध्यायमुपसंहरन्नाह-एतेऽनन्तरोक्ताः स्नेहाः काले स्नेहयोग्ये पानादिषु प्रयुक्ताः सम्यक् च स्वविषये विधिना प्रयुक्ता दुष्टान् वातान् प्राणादीननेकसंयोगभिन्नानाशु शीग़्रं शान्तिं नयेयुः| वन्ध्याश्च युवतीः पुत्रभाजः कुर्युः| स्नेहान्तोचितत्वादिदमुच्यते||४८||
Adhikarana bastikAlanirdeshaH (49-50) · Śloka 50
स्नेहस्वेदैर्दुतः श्लेष्मा यदा पक्वाशये स्थितः|
पित्तं वा दर्शयद्रूपं बस्तिभिस्तं विनिर्जयेत्||४९||
इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृताव ष्टाङ्गसंग्रहसंहितायां चिकित्सितस्थाने वात व्याधिचिकित्सितन्नाम त्रयोविंशोऽध्यायः||५०||
वातकोपेऽवश्यं रूक्षादित्वाच्छ्लेष्मा प्रायेण कोपरहितो भवति| सः स्नेहस्वेदैर्वातव्याधिप्रयुक्तैर्द्रुतो द्रवत्वं प्राप्तः पक्वाशये स्थितः केनचित् प्रकारेण श्वेतमूत्रपुरीषदिना स्वं रूपं दर्शयेत्| तथाविधं पित्तं वा स्वं रूपं दर्शयेत्| तदा तं श्लेष्माणं पित्तं वा मिश्रं व बस्तिभिर्योग्यैर्विनिर्जयेदिति|| ४९|| इति श्रीमन्महामहोपाध्यायेन्दुविरचिताया मष्टङ्गसंग्रहव्याख़्यायां शशिलेख़ायां चिकित्सितस्थाने त्रयोविंशोऽध्यायः