Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

8. bhēṣajakalpaḥ

Adhikarana atha BeShajakalpo nAmA~aShTamo~adhyAyaH adhyAyapratij~jA (1) · Śloka 1

अथातो भेषजकल्पं व्याख्यास्यामः| इति ह स्माहुराऽऽत्रेयादयो महर्षयः||१||

🔊 Audio coming soon

कल्पनाप्रसङ्गसामान्येन भेषजानां कल्पनां प्रदर्शयितुमध्याय आरभ्यते||१||

Adhikarana sAmAnyato BUmiparIkShA (2) · Śloka 2

जाङ्गले साधारणे वा देशे यथाकालं शिशिरातपपवन- सलिलसेविते समे शुचौ प्रदक्षिणोदके श्मशानचैत्य- देवयजनाऽऽगारसभाश्वभ्राऽऽरामवल्मीकोषरविरहिते कुशरोहिषास्तीर्णे स्निग्धकृष्णसुवर्णमधुरसुरभिमृत्तिके- मृदावफालकृष्टेऽनुपहतेऽन्यैर्बलवत्तरैर्द्रुमैर्भेषजानि प्रश- स्यन्त इति सामान्यतो भूमिपरीक्षा||२||

🔊 Audio coming soon

प्रथममेव जाङ्गल इत्यादिना भेषजानां सामान्येन आकरनिर्णयः| जाङ्गलादिके जातानि भेषजानि प्रशस्यन्ते| यथाकालं कालानति-क्रमेण शीतातपादिसेविते देशे श्मशानादिविरहिते| चैत्यं प्रसिद्धम्| ग्रामाद्बहिर्वा महान् वृक्षश्चैत्यः| देवागारं यजनागारञ्च| सभा राजनिवेशः| श्वभ्रमवटः| आरामं क्रीडावनिः वल्मीकं पिपीलिकास्थाणूः| ऊषरं दग्धमृतप्रदेशः| रोहिषः कुशविशेषः| स्निग्धादि मृत्तिकाविशेषणम्| फालः शस्त्रमयो लाङ्गलाऽग्रः|| २||

Adhikarana visheSheNa BUmiparIkShA (3) · Śloka 3

विशेषतस्त्वश्मवती स्थिरो गुर्वी श्यामा कृष्णा स्थूल- तृणवृक्षसस्यप्राया स्वगुणभूयिष्ठा| स्निग्धाशीतलाऽऽ- सन्नोदका स्निग्धतृणसस्यकोमलवृक्षप्राया शुक्ला चा- म्बुगुणभूयिष्ठा| नानावर्णलघ्वल्पपुष्पवती प्रविरला पाण्डु- वृक्षप्ररोहाग्निगुणभूयिष्ठा| रूक्षा रासभभस्मवर्णा रूक्ष- तनुकोटरवृक्षप्रायाऽल्परसप्ररोहाऽनिलगुणभूयिष्ठा| मृद्वी- समा श्वभ्रवत्यव्यक्तरसजला महापर्वतवृक्षा श्यामा चा- काशगुणभूयिष्ठा| तत्राऽम्बुपृथिवीगुणभूयिष्ठासु भूमिषु जातानि विरेचनानि बृंहणानि च शस्यन्ते| अनलाऽ- निलाऽऽकाशगुणभूयिष्ठासु वमनानि| सर्वगुणयुक्ता- सूभयतोभागानि| आकाशगुणभूयिष्ठासु शमनानि| एवं बलवत्तमानि भवन्ति||३||

🔊 Audio coming soon

अश्मवतीत्यादिना पार्थिवादिविशेषण भूमिपरीक्षा| साऽश्मत्वादिगुणा भूमिः| स्वगुणभूयिष्ठा पार्थिवगुणाऽधिकेत्यर्थः| तत्र हि यज्जायते तत् पार्थिवगुणाऽधिकं भवति| एवं सर्वत्र| स्निग्धादिगुणाऽबुभूयिष्ठा| नानावर्णादिगुणाऽग्निगुणभूयिष्ठा| रूक्षादिकाऽनिलभूयिष्ठा| रासभो गर्दभः| कोटरो वृक्षान्तर्गर्त्तप्रायम्| अल्परसः प्ररोहे यस्याः| श्वभ्रवत्यादिकाऽऽकाशभूयिष्ठा| तत्राऽम्ब्वित्यादि सुबोधम्| एवमित्युक्तेन प्रकारेण भूमिविशेषैः|| ३||

Adhikarana RutvanusAraM bheShajasvarUpam (4) · Śloka 4

तत्र यानि कालजान्युपगतसम्पूर्णप्रमाणरसवीर्यगन्ध- निकालातपाग्निसलिलपवनशस्त्रजन्तुभिरनुपहतगन्धव- र्णरसस्पर्शप्रभावान्यवगाढमूलान्युदीच्यां दिशि स्थितानि| तेषां शाखापलाशमचिरप्ररूढं वर्षावसन्तयोर्ग्रह्यम्| ग्रीष्मे मूलानि शिशिरे वा शीर्णप्ररूढपर्णानाम्| शरदि त्वक्क- न्दक्षीराणि| हेमन्ते साराणि| यथर्तु पुष्पफलम्| अन्ये पुनराहुः सौम्यान्यौषधानि सौम्येष्वृतुष्वाग्नेयान्य- ग्नेयेषु| एवमव्यापन्नान्यापूर्णतररसवीर्याणि च भवन्ति||४||

🔊 Audio coming soon

तत्रेत्यादिना भेषजस्वरूपम्| यानि स्वे काले जातानि| उपगतानि सम्पूर्णानि प्रमाणादीनि येषाम्| कालादिभिरनुपहतानि गन्धादीनि येषाम्| अवगाढं दूरप्रविष्टं मूलं येषाम्| क्षेत्रम् उदीच्यां दिशि स्थितानि| तेषां कालजादिगुणसम्पन्नानां शाखादिकमुपयोगि नवं वर्षासु वसन्ते वा ग्राह्यम्| ग्रीष्मे शिशिरे वा मूलानि| तानि तु पूर्वेषु पर्णेषु शीर्णेषु नवेषु वा प्ररूढेषु| त्वगादीनि शरदि| साराणि हेमन्ते| पुष्पफलन्तु यथास्वमृतुषु| अन्य इत्यादि सुबोधम्| मधुरतिक्तकषायाणि सौम्यानि| शेषाण्याग्नेयानि| वर्षाशरद्धेमन्ताः सौम्याः| शेषास्रय आग्नेय्याः|

Adhikarana BeShajagrahaNavidhiH (5) · Śloka 5

अथ मङ्गलाचारः कल्याणवृत्तः शुचिः शुक्लवासाः सम्पूज्य च देवतामश्विनौ गोब्राह्मणांश्च कृतोपवासः प्राङ्मुख उदङ्मुखो वा गृह्णीयात्| गृहीत्वा चाऽनुरूप- गुणवद्भाजनसंस्थान्यागारेषु पूर्वोत्तरद्वारेषु निवातप्रवा- तैकदेशेषु नित्यपुष्पोपहारबलिकर्मवत्स्वग्निसलिलोप- स्वेदधूमरजोमूषिकचतुष्पदामनभिगमनीयानि स्ववच्छ- न्नानि शिक्येष्वासज्य स्थापयेत्| तानि सक्षीराण्युपकल्पयेत्| तदसम्पत्तावनतिक्रन्त- वत्सराणि| पुराणानि तु पिप्पलीविडङ्गगुडमधुघृतानि| अपि च क्षीरं बाष्कयणं ग्राह्यं विण्मूत्रं तच्च नीरुजाम्| वयोबलवतां धातुपिच्छशृङ्गखुरादिकम्||५||

🔊 Audio coming soon

अथेत्यादिना भेषजग्रहणे विधिः| गृहीत्वेत्यादिना स्थापनविधिः| अनुरूपं भाजनं रसादिभेदेन शुष्कार्द्रादिविशेषेण च योग्यं सकलम्| निवात एकदेशः| प्रवातो येषु वेश्मसु अग्न्याद्यनभिगमनीयानीति भेषजविशेषणम्| शिक्यं लम्बरज्वाऽऽधारः| तानीत्यादि सुबोधम्| सक्षीराणामप्राप्तावनतिक्रान्तवत्सराणि| पिप्पल्यादीनि पुराणानि| बाष्कयणी चिरप्रसूता| तस्याः सम्बन्धि क्षीरं ग्राह्यम्| विण्मूत्रं तच्चेति क्षीरं नीरुजां प्राणिनां ग्राह्यम्| धात्वादिकं वयस्विनां बलवतां च सम्बन्धिग्राह्यम्| धातवो मांसादयः पिच्छं बर्हसंहतिः| आदिग्रहणेन केशलोमचर्मनखादिग्रहणम्|| ५||

Adhikarana BeShajAnAM pa~jcavidhaH kalpaH (6) · Śloka 6

पञ्चविधस्तु भेषजानां कषाय कल्पः| निर्यासः कल्को निर्यूहः शीतः फाण्टश्च| ते यथापूर्वं बलिनः||६||

🔊 Audio coming soon

सर्वेषाञ्च भेषजानां निर्यासादिभेदेन पञ्चविधः कषायकल्पो भवति| त इति पाण्टाच्छीतो बलवान्| शीताच्छृतः| शृतात् कल्कः| कल्कान्निर्यास इति|| ६||

Adhikarana niryAsalakShaNam (7) · Śloka 7

तत्र सद्यः समुद्धतप्रक्षालितक्षुण्णस्य तान्तवनिष्पीडि- तस्य स्वरसो निर्यासः||७||

🔊 Audio coming soon

तत्रेत्यादिना निर्यासादीनां क्रमेण लक्षणमुच्यते| सद्यःसमुद्धतादिगुणस्य यः स्वरसः स निर्यासः|| ७||

Adhikarana kalkalakShaNaM cUrNAdyaBede yuktishca (8) · Śloka 8

उपलदशनादिपिष्टस्तु कल्कः| शुष्कपिष्टः सूक्ष्मतान्त- वपटच्युतश्चूर्णः| तस्य समस्तद्रव्याऽपरित्यागादाऽऽप्लु- तोपयोगाच्च कल्कादभेदः||८||

🔊 Audio coming soon

उपलादिपिष्टः कल्क इत्युच्यते| दशनग्रहणेनाऽपिष्टस्यापि भक्षितस्य कल्केऽन्तर्भाव उक्तः| शुष्कपिष्टः सूक्ष्मच्छिद्रातान्तवात्पटात् पटाच्च्युतश्चूर्ण इत्युच्यते| स तु कल्क एव| समस्तद्रव्याऽपरित्यादिना कल्कैकरूपता| तत्र शुष्कोपयोगिनां चूर्णानं कल्कान्तर्भावे समस्तद्रव्याऽपरित्यागे हेतुः| आलोडितोपयोगादुभयमपि|| ८||

Adhikarana niryUhalakShaNaM vidhishca (9) · Śloka 9

क्वाथो निर्यूहः| तत्र भेद्यान्यौषधान्यणुशो भेदयित्वा छेद- यित्वा छेद्यानि प्रक्षाल्योदकेन शुचौ रूक्षायामधः प्रलि- प्तायां ताम्राऽयोमृन्मयान्यतमायां स्थाल्यां समावाप्य बह्वल्पपानीयग्राहितानामौषधानामाकलय्य यावता मुक्त रसता स्यात् तावदुदकमासेचयेच्छोषयेच्च| अथाऽग्ना- वधिश्रित्य महत्यासने सुखोपविष्टः सर्वतः सततमव- लोकयन् दर्व्यावघट्टयन् मृदुना परितः समुपगच्छताऽनलेन साधयेत्| अवतार्य च परिस्रुतं यथार्हस्पर्शं प्रयुञ्जीत| क्षीरादिसहितञ्च द्रव्यं न सम्यङ्मुक्तरसं भवतीति वारि- क्वाथपूर्वकं क्षीराद्यैस्तदुपदेशे अनुपदग्धं क्वाथयेत्||९||

🔊 Audio coming soon

क्वाथो निर्यूह इत्येकोऽर्थः| तत्रेत्यादिना निर्यूहस्य पाकविधिः भेद्यानि तुम्बादीनि| यानि च्छिन्नानि पाकं न सहन्ते| छेद्यानि कठिनानि शाखादीनि| अणुरिति सूक्ष्मो भागः| तस्य वीप्सायां शस्| कानिचिदौषधानि वासाकूष्माण्डसुवर्चलाप्रभृतानि स्वभावात्पानीयं गृह्णन्ति| अन्यानि नेति विकल्प्योदकस्याऽवसेचनम्| एतदेव च विकल्प्य क्वाथशेषग्रहणम्| यावतोदकेन द्रव्याणां मुक्तरसता आशङ्क्यते तावदाऽऽसेचनम्| अधिश्रयणं चुल्ल्यामाऽऽरोपणम्| आसनविशेषोऽन्यचित्ततापपरिहाराय| परित इत्येकदेश औषधस्य दाहभयात्| अवतारणं चुल्लीतो भूमौ| यथार्हस्पर्थं दोषाद्यपेक्षयोष्णं वा शीतं वा| क्षीरादीत्यादि सुबोधम्| तदुपदेश इति क्षीरदधिमस्तुमूत्राद्युपदेशे तदौषधं वारिक्वाथपूर्वकमनुपदग्धं क्वाथयेत्| स्तोकेन तु वारिणा प्रथमं क्वाथयेत्| ततस्तेनैवोदकेन सह क्षीरादिभिः क्वाथेयेदित्यर्थः| एतच्च निर्यूहेष्वेव साध्येषु विज्ञेयम्| न तु स्नेहपाकेष्वपि| तथा च षट्पलादिषु यत्र क्षीरादिकं द्रवं पठितं तत्रोक्तस्यैव द्रवस्य प्रयोगमभिमन्यन्ते, न तु जलदानमङ्गीकुर्वन्ति| केचित्तु यत्र स्नेहाच्चतुर्गुणं द्विगुणं वा त्रिगुणं वा, तत्र चतुर्गुणत्वापादनाय द्रवं स्नेहाच्चतुर्गुणमित्यनया परिभाषया पठितशेषं जलमेवेच्छन्तीति|| ९||

Adhikarana shItaphANTayorlakShaNam (10) · Śloka 10

शीतसलिलाप्लुतस्तु निशापर्युषितपूतः शीतः| उष्णा- म्भसि क्षुण्णाभिषुतपूतः फाण्टः||१०||

🔊 Audio coming soon

शीतसलिलेत्यादिना शीतकषायलक्षणम्| उष्णाम्भसीत्यादि फाण्टलक्षणम्|| १०||

Adhikarana kaShAyeShvauShadhAnAM mAtrAvicAraH (11) · Śloka 11

तत्र सम्यग्रसवीर्यादीन्यौषधस्य समीक्ष्य व्याध्याऽऽतु- रादिबलतश्च निर्यासादीनां कल्पनां मात्राञ्च संश्रयेत्||११||

🔊 Audio coming soon

तत्रेत्यादिना पञ्चानां कल्पनानां विषयभेदो भेषजस्य मात्रा चोच्यते| तत्र कल्पनास्वौषधस्य रसादीनि रसवीर्यविपाकप्रभावगुणान्तराणि सम्यगतिशयेन समीक्ष्य निर्यासादीनां पञ्चानां कल्पनानाम् योजनां मात्राञ्च भिषक् संश्रयेत्| व्याध्यातुरदोषदूष्यादीनाञ्च बलवत्त्वे तेषां बलापेक्षया कल्पनां मात्र्ञ्च संश्रयेत्|| ११||

Adhikarana tatra ekIyamatam (12) · Śloka 12

तथा च केचिदाहुः- मात्राया न व्यवस्थाऽस्ति व्याधिं कोष्ठं बलं वयः| आलोच्य देशकालौ च योज्या तद्वच्च कल्पना||१२||

🔊 Audio coming soon

तथा चेत्यादिना पूर्वोक्तस्यैवार्थस्य प्रमाणीकरणम्| मात्राया व्यवस्था नास्तीति प्रतिज्ञा नियमनिरासायोच्यते| व्याध्यादिकं नानाविधैर्विशेषैरालोच्य सा मात्रा योज्या| न केवलं मात्रा यावत् कल्पनापि निर्यूहादिका तद्वदेव विज्ञेया| तेनैवं विज्ञेयम् | कल्पनाया विषये व्यवस्था नास्त्यपि तु व्याध्यादिक-मालोच्य सा योज्या|| १२||

Adhikarana niryAsAdInAM mAtrAnirdeshaH (13) · Śloka 13

इत्यलमेतदुपदिष्टं बुद्धिमतां ज्ञानप्रबोधाय| यथा तु सर्वे भिषजो विज्ञास्यन्ति तथोपदेक्ष्यते| निर्यासस्य मध्यमा मात्रा चतुष्पलम्| कल्कचूर्णयोः कर्षः| पलत्रयं तदा- ऽऽलोडने||१३||

🔊 Audio coming soon

इत्युपसंहारे| एवं मात्रयाः कल्पनायाश्च यदुक्तं तद्बुद्धिमतां पटुधियां ज्ञानप्रबोधायाऽलं पर्याप्तमुपदिष्टम्| सर्वे भिषजो मन्दमध्यमप्रज्ञा अपि यथा विज्ञास्यन्ति तथोपदेक्ष्यते-निर्यासस्येत्यादि| निर्यासस्य निर्यासाधारद्रव्यस्य| सुबोधम्| तदिति सम्भवात् कल्कस्य परामर्शः| पलत्रयमाऽऽलोडनसम्भाविनो द्रवस्य||१३||

Adhikarana niryUhakalpanAparibhAShA (14) · Śloka 14

निर्यूहे भेषजपलमुदकार्धप्रस्थेऽधिश्रित्य पादशेषितमव- तारयेत्||१४||

🔊 Audio coming soon

निर्यूहे क्वाथे भेषजस्य पलमुदकस्यार्धप्रस्थः षोडशपलानि| पादशेशश्चत्वारि पलानि| तच्च निर्यूहे द्रव्यजलक्वथितशेषाणां मानं कृष्णात्रेयमतानुसारिणाचार्येणोक्तम्| तथा च तत्र पठ्यते 'क्वाथं द्रव्य्यपले कुर्यात् प्रस्थर्धं पादशेषितमि'ति| चरकग्रन्थे चैवंविधा परिभाषा न विद्यते, यतः सोऽसमाप्त एव तन्त्रे ब्रह्मभूयं गतः| कृष्णात्रेयपरिभाषा प्रदर्शितश्चार्थश्चरकस्याप्यनुमत एवेत्यनुमिमीमहे| यतः सर्वतन्त्रकृतां चतुष्पला मध्यमा मात्रा पातव्या कषायस्येत्यभिमतम्| तथा च सुश्रुते सूत्रस्थाने संशोधन संशमनीयेऽध्याये पठ्यते -'व्याध्यादिषु तु मध्येषु क्वाथस्याऽञ्जलिरिष्यत' इति| एतच्च चरकमुनिना न प्रतिषिद्धम्| अप्रतिषिद्धं च परमतमनुमतमेवेति तन्त्रन्यायः| या च खरणादसंहिताभट्टारहरिश्चन्द्रकृता श्रूयते, सा च चरकप्रतिबिम्बरूपैव लक्ष्यते| तत्राऽपि पठ्यते-'कषायात् षट्पलं पिबेदि'ति| पुनश्च न्यूनां न्यूनतरां च तामिति पाठाद्यैषा षट्पला मात्रा सोत्तमैवेति मन्यते| ततो न्यूना चतुष्पला मध्यमेति| तस्माच्चरकस्यापि चतुष्पलैव मात्राऽभिमतेति गम्यते| न चैततन्त्रन्यायेनैव व्यवस्थाप्यते यावत्तत्र चरकग्रन्थ एव चतुर्णामेव कषायकल्पनानां प्रयोगः पठ्यते| तथा च पित्तगुल्मे रोहिण्यादीनां कषायश्चतुष्पलो घृतेन समः पेय इत्युक्तः| न चैतदेव वचनमन्येषु कषायेष्वपि तथाभावानुमानाय बोद्धव्यम्| सर्वत्रैव तथाविधायाः प्रयोगः प्रसिद्धेरबाधित्वाल्लक्ष्यवत्तन्त्रत्वाच्च| लक्षणस्य तात्स्थ्यात् सिद्धं सर्वत्र चतुष्पला कषायस्यमात्रा पातव्येति| पादशिष्टं च क्वथितं ग्राह्यमित्येतदपि सर्वतन्त्रकृतामपि विहितविधानम्| तथा च खरणादसंहितायां पादेन पादेन शेषयेदिति| चाक्षुषेणसंहितायां पादवशेषं क्वथितं च विद्यादिति| तथा स्नेहेषु ग्राहयेत् पादशेषितमिति| एतच्च परमतमप्रतिषिद्धं चरकस्यानुमतमेव| केवलमत्रैव विप्रतिपत्तिः| यदेके द्रव्याच्चतुर्गुणं क्वाथ्यं जलमिच्छन्ति| कृष्णात्रेयस्तु षोडशगुणम्| सुश्रुताध्यायिनस्तु केचिच्चतुर्गुणं पठन्ति, केचिदष्टगुणम्| चतुर्गुणत्वमष्टगुणत्वं षोडशगुणत्वं च किं शुष्कद्रव्यमानेनाऽऽहोस्विदाऽऽर्द्रद्रव्यमानेनेत्यस्य विकल्पनस्य प्रसङ्ग एव नास्ति| शुष्कद्रव्येषु विशेषबुद्धेरभिन्नत्वात्| एवं स्थिते चतुर्गुणाऽष्टगुणदर्शने साधुप्रयोगे न भवतीत्युपेक्षां कृत्वा षोदशगुणपक्ष एव कृष्णात्रेयतो वाग्भटेनाऽङ्गीकृतो यतश्चरकस्यैष एव पक्षः| येन चतुष्पलायां पातव्यमात्रायां सिद्धायामतीसारे पलं वत्सकबीजस्येत्याह| कौष्ठिके च पटोलाद्ये पलमिति| अन्यथा द्रव्यपलाच्चतुर्गुणेऽष्टगुणे वा जले क्रियमाणे चतुर्भागावशेषस्य क्वथितस्य पलं पलद्वयं वा प्राप्नोति| तस्मात् षोडशगुणपक्ष एव श्रेयान्| कृष्णात्रेयमतानुसारेणैव द्रव्याणां पलमित्युक्तम्| तदेव चरकस्याऽभिमतमेवेत्यत्र पटोलमूलाद्यं वत्सकबीजं च ज्ञापकम्| तेन यत्र यावन्ति द्रव्याणि पठ्यन्ते तत्र तेषां तावन्तो भागा विधेयाः यावद्भिर्भागैः समुदितानां द्रव्याणां पलं भवति| यथा नागराद्ये त्रिकार्षे त्रिपलादीनां चेति| तर्हि कथमन्यथा प्रयुज्यते| प्रसिद्धेरविच्छेदात्| तस्मात् प्रसिद्ध एव प्रयोगोन्याय्यः| तथा च शास्त्रदृष्टा अपि प्रयोगाः प्रसिद्धेरविच्छेदपारम्पर्येण वृद्धवैद्यैः प्रयुज्यन्त एव| यथा वमनेषूष्णास्य मधुनः प्रयोगेऽनुज्ञाते शास्त्रकृद्भिर्वृवैद्यास्तन्न कुर्वन्ति| एवं च ब्रुवते यद्युष्णस्य मधुनः प्रयोगे अपक्वप्रत्यागमनं हेतुरुद्दिष्टः, यत्र तु दोषादिवशान्न प्रत्यागमनं भवति तत्र दोषायैवेति| तस्मादप्रयोग एव साधुः| इदञ्चाहुः-'तस्मात् सत्यपि निर्देशे कुर्यादूहं स्वयं धिया| विनापि तर्काद्या सिद्धिर्यदृच्छा सिद्धिरेव सा||' इति| तथा श्लैष्मिगुल्मादिविषयेष्वपि हिङ्ग्वादिषु शेषद्रव्यसमैरेव भागैर्हिग्वादीनां प्रयोगमिच्छन्ति| शास्त्रे तु 'यच्चूर्णं गुटिका या वा विहिता वातगुल्मिनाम्| द्विगुणक्षारहिङ्वम्लवेतसास्ताः कफे हिताः|' इति पठ्यन्ते| आनेकं च प्रयोगं कल्पनान्तरेण शस्त्रे पठितम्| वृद्धवैद्याः कल्पनान्तरेण प्रयुञ्जत एव| तस्मा देवंविधे प्रसिद्धिरेव न्याय्या| इति निर्यूहविधिः पाचनादिषु| स्नेहादिसाधनयाऽपि यत्र निर्यूहः साध्यते तत्राप्येष एव विधिरसति वाचनिके विधौ|| १४||

Adhikarana shItaphANTayoH kalpanAparibhAShA (15) · Śloka 15

शीतफाण्टयोरौषधपलं षट्चतुर्भिरम्बुपलैरासुतमिति||१५||

🔊 Audio coming soon

शीतेत्यादि| यथासङ्ख्येन शीते षड्भिर्जलपलैराऽऽसुतमौषधपलम्| फाण्टे चतुर्भिरिति कल्पना|| १५||

Adhikarana snehapAkaparibhAShA (16) · Śloka 16

स्नेहपाके त्वनिर्दिष्टप्रमाणे समुदितस्य द्रवस्य पादेन स्नेहो योज्यस्तत् पादेन कल्कः| अन्ये पुनः पठन्ति- स्नेहपाके त्वमानोक्तौचतुर्गुणविवर्द्धितम्| कल्कस्नेहद्रवं योज्यमधीते शौनकः पुनः| स्नेहे सिध्यति शुद्धाम्बुनिष्क्वाथस्वरसैः क्रमात्| कल्कस्य योजयेदंशं चतुर्थं षष्ठमष्टमम्| पञ्चप्रभृति तु द्रवं पृथक्स्नेहसममेवावपेत्| अनिरुपित- कल्पनं च भैषज्यं कल्कीकुर्यात्| अथैकध्यं प्रतिसं- सृज्या-धिश्रित्य च निर्यूहवत् साधयेत्| तत्र यदा विरमति शब्दः प्रसादमापद्यते स्नेहो यथास्वं वर्णगन्धरसोत्पत्तिर्भैषज्यमङ्गुलीभ्यां मृद्यमानामनतिमृद्व- नतिदारुणमनङ्गुलिग्राहि च स्यात्| स कालस्तस्याऽ- वतरणाय| अपि च- घृतस्य फेनोपशमस्तैलस्य तु तदुद्भवः| लेहस्य तन्तुमत्ताप्सु मज्जनं सरणं न च| अथाऽवतार्य शीतीभूतमहतेन वाससा परिपूय शुचौ दृढे कलशे समासिच्य पिधानेन पिधाय शुक्लेन वस्त्र- पट्टेनाच्छाद्य सूत्रेण सुबद्धं स्वनुगुप्तं शुचौ देशे सुस्थितं स्थापयेत्||१६||

🔊 Audio coming soon

पाकप्रसङ्गेन स्नेहपाकानामनुक्तमानानां नियम उच्यते| यत्र सामान्येनोक्तमेभिर्द्रव्यैरयं स्नेहः पक्तव्यं इति| यत्र कस्यचित् क्वाथादेः परिमाणमुक्तं कस्यचिन्नोक्तं तत्र च स्नेहद्रवौषधानामिदं मानं विज्ञेयम्| किमित्याऽऽह-समुदितस्येत्यादि| समुदितस्येत्यनेनैतद्दर्शयति| यत्र सर्वेषां क्वाथादीनामनिर्दिष्टपरिमाणत्वं तत्र तेषामन्योन्यसमानानां मिश्रीभूतानां चतुर्थांशेन स्नेहो योज्यः| तथा यत्र हि द्रवोद्देशे किञ्चिद्द्रवं स्नेहसमं स्नेहाद् द्विगुणं त्रिगुणं वा पठ्यते किञ्चिच्छाऽनिर्दिष्टपरिमाणं तत्र निर्दिष्टपरिमाणं यथाश्रुतमेव कृत्वा निर्दिष्टप्रमाणेन तथा पूरयितव्यं यथा समुदितं स्नेहचतुर्गुणं भवति| यत्र पुनः किञ्चिच्चतुर्गुणमेव पठितं किञ्चिच्चानिर्दिष्टं प्रमाणं तत्र श्रुतावनुष्ठितायामनिर्दिष्टमानं द्रवं स्नेहसममित्येषैव परिभाषा आपतति| एवं स्नेहाच्चतुर्गुणं समुदितं द्रवमित्यर्थादुक्तम्| स्नेहाचतुर्थांशेन कल्कः| समुदितस्य द्रवस्येति यदुक्तं तन्न सर्वत्र विज्ञेयम्| अपि त्वेकद्रव्यादिके यावच्चत्वारो द्रवास्तावत् समुदितस्येति विज्ञेयम्| अन्ये पुनराचार्याः स्नेहपाक इत्यादिश्लोकं मानप्रदर्शनाय पठन्ति| यः स्नेहः शुद्धाम्बुना साध्यते तत्र कल्कस्य स्नेहाच्चतुर्थमंशं योजयेत्| यत्र तु निष्क्वाथेन साध्यते तत्र स्नेहात् षष्ठमंशं कल्कस्य योजयेत्| यत्र तु स्वरसेन तत्राष्टमांशम्| कल्कस्येत्यनेन कल्कोद्देशेनैव मतान्तरमुक्तम्| स्नेहद्रवयोस्तु परमतमप्रतिषिद्धं तेषामनुमतमेवेति विज्ञेयम्| पञ्चप्रभ्रुति तु द्रवं पृथक् प्रत्येकं स्नेहसममावपेत्| अत्र वृद्धवैद्यानुस्मरणाविच्छेद एवाचार्येणाऽऽगमत्वेनोपनिबद्धः| न चानिबद्धपूर्वमागममाचार्यस्य प्रदर्शयितुं युक्तमित्याशङ्क्याचार्येण यस्माद्दृद्धवैद्यानुस्मर्यमाणमार्चार्यचरकोक्तं लिङ्गमनुमापकं विद्यते| तथा च चरके वातशोणितचिकित्सिते त्रायन्त्याद्ये परुषकाद्ये च घृते कषाये च परुषकद्राक्षाकाश्मर्येक्षिविदारीणां रसाः पृथक्स्नेहसमाः पठिताः| अतोऽनुमीयतेऽन्यत्राऽप्येवमिति पारम्पर्यविच्छेदस्य चागमत्वमप्रतिहतमिति सर्वशास्त्रेषु गृहीतमेव| यस्मिंश्च भैषज्ये विशिष्टा कल्पना निर्यासादिका नोक्ता तद्भैषज्यं कल्कीकुर्यात्| येषु केषुचित् स्नेहापाकेष्वविशेषेणौषधानि पठितानि न तु तेषां कल्पनाविशेषस्तत्र तेषां कल्क एव योज्य इत्यर्थः| एकध्यं मिश्रीभावेन| निर्यूहवदिति सुखोपविष्टः सर्वतः सकलमवलोकयन् दर्व्याऽवघट्टायन् मृदुना परितः समुपगच्छताऽनलेन साधयेदित्युक्तम्| तत्र यदेत्यादिना पच्यमानस्नेहस्याऽवतरणकालः| वटकानां तु लेहपूर्वत्वात् पृथङ्नोक्तम्| सुबोधम्| अपि चेत्यादिना घृतादिविशेषेण| सुबोधम्| तदुद्भवः फेनोद्भवः| सरणमनेकशो गमनम्| तस्याभावः| परिपूय परिस्राव्य| सुबोधम्| एवमाऽऽचार्येण कल्पना उक्ताः| इदन्तु विचार्यम्| यदेतदौषधसंस्कृतं षडङ्गादिजलमुक्तं तत्र तु द्रव्योदकक्वथितशेषाणां किं मानमिति| तृडुपशमनाय जलवत् प्रयुज्यतो तत् क्वाथपाकपरिभाषा न सम्भवति| तथा चात्र केचित् पठन्ति- अनुक्ते परिमाणे तु द्रव्याणामुदकस्य च| तृष्णाशान्त्यै कथन्तोयमौषधञ्च पुनः कथम्|| चतुर्गुणं यदि द्रव्यादथवा षोदशांशकम्| चतुर्भागाऽवशेषे तु बहुद्रव्यं प्रयुज्यते|| क्रियमाणविधिश्चैष न प्रसिद्धिमुपागतः| तस्माद्विना तु शास्त्रेण प्रसिद्धिं समुपाश्रयेत्| यदेव तावच्छास्त्रेण समाख्यातं परिस्फुटम्| प्रसिद्धिमाश्रितैर्वैद्यैस्तदपि क्रियतेऽन्यथा|| निर्दिष्टं मधुशास्त्रेण वमने गुणदर्शनात्| न च तत् क्रियते वैद्यैः प्रत्यागमनशङ्कया|| वारुण्यामाऽऽसुताः प्रोक्ता देवदारुवचादयः| जलेनोत्क्वथिताः प्रायस्ते प्रसिद्धाश्च कर्मणि|| उक्तं च शास्त्रकारेण कुर्यादूहं स्वयं धिया| व्याख्यानमुपदेशश्च तन्त्रयुक्तिश्च कीर्त्तिता|| तत्रोपदेशवचनं यत् प्रोक्तं शास्त्र एव हि| विशेषेण यदाऽऽख्यानं तद्व्याख्यानमिहेष्यते|| विविधं वा यदाख्यानं प्रसिद्धमनिबन्धनम्| वृद्धवैद्यागतं तद्धि व्याख्यानमिति संज्ञितम्|| आगमस्मर्यमाणोऽयं नैव शास्त्रनिबन्धनः| तस्मात् स्मरणमेवाऽत्र यथा वैद्यक्रमागतम्|| तथैव भिषजा कार्यो द्रव्योदकपरिग्रहः|| इति| एवं वृद्धवैद्याऽऽगतं प्रस्थादिमानं नैवास्माभिरुच्यते| सर्वेष्वेवौषधोककेष्वौषधानां सङ्ख्याविशेषनिरपेक्षास्तथाविधा भागा विधेयाः| यथा द्रव्यसमुदायस्य व्याध्याद्यपेक्षमर्धपलं वा कर्षत्रयं वा पलं वा भवति| न च पलमधिकमात्रा क्वाथसमा भवतीत्याऽऽशङ्का कार्या| यतः क्वाथ्ये द्रव्यपले षोडशजलपलानि दत्वा क्वथितशेषस्य चत्वारि पलानि गृह्यन्ते| तृड्शमने तु जले औषधपलेनोदकस्य प्रस्थद्वयमात्रद्रवमानेन ततोऽप्यधिकं वा स्थाल्यामधिश्रीयते| अर्धशृतं चेदमेव कल्प्यते| तस्मात् द्रव्यपलस्यापि प्रयोगे न विरुध्य इति| तथा यवागूयूषपानकमांसौदनाऽऽसवाऽरिष्टादिष्वपि द्रव्यादिमानं नोक्तकं तत्रापि वृद्धवैद्याऽविच्छेदपारम्पर्येण प्रतिपदोक्तं सजातीयाऽनुमानेनैवाऽवाऽवगन्तव्यम्| यस्माद्बहिरेव शास्त्रेणनुबद्धं प्रयोगे प्रतिष्ठितम्| तथा च पठन्ति- अतश्च प्रकृतं बुद्ध्वा देशकालान्तराणि च| तन्त्रकर्त्तुरभिप्रायानुपायांश्चार्थमादिशेत्|| इति| अनेकं चैवं प्रकारं प्रसिद्ध्यैव ज्ञायत इति कृत्व शास्त्रे निबद्धम्| तथा च - कुक्कुटाश्च मयूराश्च तित्तिरिक्रौञ्चवर्तकाः| शालयो मदिराः सर्पिर्वातगुल्मचिकित्सितम्|| इत्यत्र यथार्हं संस्कारो गम्यत एव| अन्यत् सम्मोहभयान्न प्रदर्श्यते| अन्यतन्त्रेषु पुनरेवंविधमपि पठ्यते- अनिर्दिष्टे घृतक्षीरविशेषे गव्यमिष्यते| सैन्धवं लवणेभ्यश्च क्षारेभ्यो यवशूकजः| तैलेभ्यस्तिलतैलञ्च गोमूत्रं मूत्रकीर्त्तने|| इत्युक्ताः कल्पनाः|| १६||

Adhikarana patimANanirdeshaH (17) · Śloka 17

परिमाणं पुनः षड्वंश्यो मरीचिः| ताः षट्सर्षपः| तेऽष्टौ तण्डुलः| तौ धान्यमाषः| तौ यवः| अतः परं चतुर्गुणवृद्ध्याऽण्डिकामाषकशाणकर्षपलकुडवप्रस्था- ऽऽढकद्रोणवहाः कल्प्यन्ते| धरणं तु पलस्य दशमो भागः| माषकस्य पर्यायो हेमो धानकश्च| शाणद्वयस्य पर्यायो द्रङ्क्षणः कोलो वटकश्च| कर्षस्य सुवर्णमक्षं पिचुर्बिडालपदकं पाणितलं तिन्दुकं कवलग्रहः षोड- शिका च| कर्षद्वयस्य शुक्तिरष्टमिका च| पलस्य मुष्टिः प्रकुञ्चश्चतुर्थिकाबिल्वमात्रञ्च| पलद्वयस्य प्रसृतो- ऽष्टमानं च| कुडवस्याऽञ्जलिः| कुडवद्वयस्य मानिका| आढकस्य पात्रं कंसश्च| दोणस्य नल्वणार्मणोन्मानघट- कुम्भकलशाः| द्रोणद्वयस्य शूर्पः| तुला पुनः पल- शतम्| तानि विंशतिर्भार इति| भवति चात्र- शुष्कमेयेष्विदं मानं द्विगुणं तु द्रवाऽऽर्द्रयोः||१७||

🔊 Audio coming soon

परिमाणं पुनरित्यादि| परिमाणं सामान्येन मानम्| वंशी सुसूक्ष्मरजसोऽशु अणुः| ता इति मरीच्यः| त इति सर्षपाः| ताविति तण्डुलौ| पुनस्ताविति धान्यमाषौ| अत इति यवात्परमुत्तरमुत्तरं पूर्वस्य चतुर्गुणवृद्ध्या विज्ञेयम्| एवं सति चत्वारो यवा अण्डिका| चतस्रोऽण्डिका माषकः| चत्वारो माषकाः शाणः| एवं चतुर्गुणवृद्ध्या कर्षाद्यपि वहान्तं वाच्यम्| धरणं पलस्य दशमो भागः| षण्माषका एकाऽण्डिका एको यवस्रयो धान्यमाषा इति| पर्याया माषकादीनां सुबोधाः| शाणद्वयमर्धकर्षः| तानीति| तानि पलशतानि विंशतिर्भारः| यदेतदिह मानमुक्तं तच्छुष्केष्वेव मेयेषु बोद्धव्यम्| यदा तु द्रवं जलक्षीरघृताद्याऽऽर्द्रं वा गुडूचीपञ्चमूलादिमेयं तदैतदेव मानं द्विगुणं ज्ञेयम्| यद्यपि च सामान्येन द्रवार्द्रयोर्द्विगुणमानस्योक्तत्वात् वंश्यादिवहान्तं सर्वं द्विगुणं प्राप्तं तथापि कुडवाद्येव वहान्तं द्विगुणं विज्ञेयं न तु वंश्यादिपलान्तम्| वंश्यादावपि द्विगुणे दूष्यमाणे अनेकमविच्छेदेन प्रसिद्धमसंशयफलं च प्रयोगपूगं परिहीयते| ततश्च्यवनप्राशादिषु प्रसिद्धान्मानात् द्विगुणपलानि तैलादीनि प्राप्नुवन्ति| तथा नीलिनीघृते प्रसिद्धात् सुधाक्षीरादयौगिकमतियोगकर्त्तृद्विगुणं प्राप्नोत्यन्यान्यपि शाणादिषु विपरीतान्यापतन्ति| तानि स्वयं विकल्प्य योज्यानि| अत्र च प्रमाणं चतुर्विंशतिपलमानं बस्तेश्चतुः सुवर्णेन पलेन| नाऽष्टसुवर्णेन| अष्टसुवर्णेन हि बस्त्यौषधस्य पक्त्वाऽऽशयेऽवकाश एव न विद्यते| एवमण्डिकामाषकशाणादिष्वपि प्रमाणीकर्त्तव्यम्| तस्मात् सामान्योक्तावपि कुडवादिष्वेव द्विगुणत्वं विज्ञेयम्, न वंश्यादिषु| अत एव च तुलायाः पलोक्तिनियतत्वद् द्विगुणत्वाऽसम्भवः| तथा च पठन्ति- निर्देशस्याविशेषेऽपि विशेषो रूढिमागतः| अविच्छेदात् प्रवक्तृणां श्रोतृणां च क्रियाविधौ|| कर्मण्यणुविशेषेऽपि विशेषे लक्षणं स्थितम्| आदित्यं पश्यतीत्यत्र नाऽविशेषात् प्रयुज्यते|| इति| अत एव यदपि चाऽऽर्द्रद्रव्याणां द्विगुणं मानमुक्तं तन्नः सर्वेषामेव कूष्माण्डकाऽऽर्द्रकेक्षुगण्डिरकादीनामिति बोद्धव्यम्| यानि पुनः सहचरकण्टकारिकावाशातावरीकुटजत्वक्कूष्माण्डकादीन्याऽऽर्द्रण्येव प्रसिद्धप्रयोगाणि तेषां द्विगुणत्वे यथास्वमुक्तप्रयोगाऽसम्भवः| शुष्कप्रसिद्धानां तु सद्य उद्धृतानां तैक्ष्ण्याद्यभावादुपपन्न एव द्विगुणप्रयोग इति| अपि तु येषां शुष्काणामेव प्रयोगः प्रसिद्धः द्विगुणत्वसिद्धेः सम्भवात्तु सद्य उद्धृतान्येव प्रयुज्यन्ते तेषामेव यत्र तु किञ्चिदादिश्यते नाऽन्यत् सतं द्विगुणं वा त्रिगुणादि वोच्यते तत्र द्रवशुष्ककुडवादिनिरपेक्षमेव| व्यवहारप्रसिद्धयोन्मानमात्रेणैव समत्वादिकं विज्ञेयम्| कुडवादिस्मृतौ तु पूर्वम्| इत्युक्ता कल्पना|| १७||

Adhikarana paribhAShAsaMgrahaH (18-19) · Śloka 19

पेषणाऽऽलोडने वारि स्नेहपाके च निर्द्रवे| कल्पयेत्सदृशान् भागान् प्रमाणं यत्र नोदितम्| अनिर्दिष्टाऽप्रसिद्धेषु मूलं ग्राह्यं त्वगादिषु| स्नेहपाकस्त्रिधा मन्धश्चिक्कणः खरचिक्कणः| मन्दः कल्कसमे किट्टे चिक्कणो मदनोपमे| किञ्चित् सीदति कृष्णे च वर्त्तमाने तु पश्चिमः| दग्धोऽत ऊर्ध्वं निष्कार्यः स्यादामस्त्वग्निसादकृत्| मृदुर्नस्ये खरोऽभ्यङ्गे पाने बस्तौ च चिक्कणः| हिमवद्वन्ध्यशैलाभ्यां प्रायो व्याप्ता वसुन्धरा| सौम्यं पथ्यं च तत्राद्यमाऽऽग्नेयं वैन्ध्यमौषधम्||१८|| इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतावष्टाङ्गसंग्रहसंहितायां कल्पस्थाने भेषजकल्पो नाम अष्टमोऽध्यायः||१९||

🔊 Audio coming soon

यत्र पेषणाऽऽलोडनादिसामान्येनोक्तं तत्र वार्य्यै वेति विज्ञेयमित्याह-पेषणेत्यादि| यत्र तू द्रव्यतिरेकेण पिष्ट्वा पिबेदित्येवमाद्युक्तम् | यत्र च स्नेहमेभिरौषधैः पचेदिति च प्रोक्तम्| तत्र सर्वत्र सलिलमेवेष्यति इति भावः| यत्र तु द्रव्याण्येव पठितानि न तु तेषां पृथक्प्रमाणं तत्र सदृशांस्तुल्यान् भागान् कल्पयेत्| एतत् पृथक्पठितानां मानं विज्ञेयम्| समुदायस्य च मानं शब्देनैव वाच्यम्| यथा दशमूलाऽऽढक इत्यत्र समुदितस्यैवाऽऽढक इति विज्ञेयम्, न तु पृथग्भूतस्येति भावः| यत्र तु त्र्यूषणत्रिफलादीनामेकवचनान्तानां प्रयोगस्तत्र समुदायस्यैव भागो विज्ञेयः| क्वचित्तु कार्यानुमानात् प्रत्येकमिष्यते| प्रमाणं यत्र नोदितमिति मानवाचिनः शब्दस्याप्रयोग उक्तः| तत् प्रयोगे तु यथाप्राप्तमवगन्तव्यम्| तेनाऽगस्त्यादिके घृतादीनां पिप्पलीचूर्णेनाऽसाम्यम्| भेषजस्य कल्पना उक्ता| केवलमिदं न ज्ञायते यद्यत्र क्वचित् द्रव्यमुक्तं तत्र तस्य विंगृह्यतामिति| यस्माद् द्रव्याणां त्वक्सारपिच्छामूलफलकुसुमक्षीरशाखादिभेदेनाऽनेकधा प्रयोगे दृष्टः इत्यत्राऽऽह-अनिर्दिष्टाऽप्रसिद्धेष्वित्यादि| यत्र त्वगादीनामन्यतमं शब्देनोक्तं तत्राऽविवादः| यत्र पुनर्विशेषस्त्वगादिषु न निर्दिष्टोऽप्रसिद्धत्वादौषधसंग्रहकर्त्तृभ्यो न प्राप्यते तत्र मूलमेव ग्राह्यम्| तथा च कश्चितन्त्रकारः पठति - वचनाच्च सदा कार्यं फलमूलादि यत्स्मृतम्| भिषग्व्यञ्जिते द्रव्ये मूलं दद्याद् विशेषतः|| व्यक्तेरनुपलब्धौ तु मूलमेव प्रदापयेत्| मूलवीर्या हि भूयिष्ठमौषधीः परिचक्षते| मूलाऽलाभे तु दातव्यं मूलतुल्यगुणञ्च यत्|| इति| मन्दादिभेदेन त्रिधा स्नेहपाक उक्तः| कल्कसमोऽतिमार्दवात्| मदनं माक्षिकमलम्| सीदति सङ्घातं न गृह्णाति| अतः खरलक्षणादूर्ध्वं यो दग्धो भवति स तु निष्कार्यः स्यात्| मन्दलक्षणात् पूर्वमामः सत्त्वऽग्निसादकृत्| मृद्वित्यादिना मन्दादीनां विषयनिर्देशः| मृदुर्मन्दः इति पर्यायौ| उपसंहरन्नाह-हिमवदित्यादि| वसुन्धरा भुर्हिमवता विन्ध्येन च प्रायो व्याप्ता| दक्षिणो भूभागो विन्ध्य उत्तरो हिमवान्| तत्रैवं स्थित आदौ भवमाऽऽद्यं हैमवतं सौम्यं देहे च पथ्यम्|| वैन्ध्यमाऽऽनेयम्| तस्य पथ्यापथ्यत्वेनाऽनुक्तेर्विषयविशेषेण पथ्यत्वमुक्तमिति| अत्र च केचिच्चरकाचार्यमतनुसारेण प्रमाणोपपन्नप्रसिद्धाऽविच्छिन्नव्यवहारप्रदर्शनपराः श्लोकैः परिभाषाः पठन्ति| ताः विकल्प्य योज्याः| चरकोक्ताः परिभाषाः- परिभाषाःप्रवक्ष्यन्ते चिकित्सायां सुसंश्रिताः| द्रव्याणि षोडशगुणे सलिले क्वाथयेद्भिषक्|| चतुर्थशेषः पूतस्तु कषायो ग्राह्य इष्यते| अथ क्वाथ्येषु तेषूक्तं तोयादन्यद् द्रवं भवेत्|| तच्चाम्बुवत् प्रयोक्तव्यं तत् षोडशगुणं ततः| द्रवं यत्तत्र पठितं क्षीरं वा दधिमस्तु वा|| मूत्रं तक्रं सुरागण्डं यदि वाऽप्यम्लकाञ्जिकम्| जलवत् षोडशगुणं तत्स्यात् पादाऽवशेषितम्|| अनिर्दिष्टे प्रमाणे तु क्वाथ्यानां च द्रवस्य च| कषायपाककल्पोऽयं कृष्णाऽऽत्रेयेण वर्णितः|| कर्त्तव्यं सति निर्देशे यथानिर्देष्टमेव हि| अस्यास्तु परिभाषायाः षडङ्गादावसम्भवात्|| तत्र प्रसिद्धिमाश्रित्य भेषजेषु जलेषु च| तथा विधेया भागाः स्युर्व्याध्यादिसदृशा यथा|| तस्मादर्धपलं वापि द्विप्रस्थमुदकस्य तु| ततोऽधिकं वा कर्त्तव्यमूहापोहविशारदैः|| हीनं वापि ततः कार्यमेवं यूषे च पानके| मांसौदनासवारिष्टपेयासु च वितर्कयेत्|| स्नेहादिसाधनायोक्तो निर्यूहो यत्र यत्र हि| तत्राऽपि षोडशगुणः पक्षोऽयं परिगृह्यते|| द्रव्यं स्नेहसमं क्वाथ्यमत्र पक्षे प्रयुज्यते| कषाय एव चेत्तत्र द्रवार्थं केवलो भवेत्|| तथान्यदपि तत्रोक्तं द्रवं क्षीरादिकं भवेत्| ततोऽनुरूपं सङ्ख्याय द्रव्यं तोयेन साधयेत्|| द्रव्यं स्नेहसमं क्वाथ्यमन्यत्राऽपि द्रवे सति| न तत्र युज्यते तस्मादनुरूपेण कल्पयेत्|| अन्ये तु भिषजः प्राहुः क्वाथ्यान्यष्टगुणोऽम्भसि| क्वाथ्यं तु भवति स्नेहादत्र द्विगुणमौषधम्| कषायेणैव चेत्साध्यः सत्यन्यस्मिन् द्रवे तथा| साधयेदनुरूपेण केचिदेवं प्रचक्षते|| चतुर्गुणेन तोयेन क्वाथयेदौषधानि तु| ॠषीणां सुश्रुतादीनां सर्वेषां मतमीदृशम्|| एतावांस्तु विशेषोऽत्र शेषमात्राऽपि पूर्ववत्| क्वाथ्यं तु भेषजं स्नेहादत्र पक्षे चतुर्गुणम्|| पलव्यपेक्षया द्रव्यादथ तोयं चतुर्गुणम्| प्रस्थव्यपेक्षया द्रव्याद्यदा तोयं चतुर्गुणम्|| क्रियते द्विगुणं क्वाथ्यं ततः स्नेहात्प्रयुज्यते| द्रवाणां द्विगुणं प्रस्थं शुष्कात्प्रस्थाद्यतो मतः|| प्रसिद्धिस्तु चिकित्सायां द्विधा हि भिषजामिह| पलव्यपेक्षयाऽप्यस्ति तथा प्रस्थव्यपेक्षया|| सुध्रुतस्य तु यः पूर्वमुपन्यस्तश्चिरन्तनः| पाठः पलव्य्तपेक्षायां ज्ञापकं तदुदाहृतम्|| इत्येवं त्रिविधः प्रोक्तः कषायग्रहणं प्रति| एवमन्यत्र सर्वेषां कल्कात् स्नेहश्चतुर्गुणः| चतुर्गुणं द्रवं स्नेहाद्यत्र यत् पठ्यते द्रवम्| अनुक्ते तु द्रवे देयं जलमेव चतुर्गुणम्|| कल्ककल्पस्तु चरके कषायाणां न कीर्तितः| स्नेहपाकविधिस्तूक एवं दृढबलेन तु|| चरकोऽर्धकृते शास्त्रे ब्रह्मभूयं गतो यतः| कषायस्य तु पेयस्य यदि वा कल्कचूर्णयोः| मात्रा दृढबलेनापि तत्रेति परिभाषिता| चरकोक्तैर्मया वाक्यैरनुमानात् प्रसाधिता|| अनुक्तापि यथा मात्रा पश्चाद्वक्ष्याम्यहं तथा| एषां कषायकल्पानां प्रविभागो विधीयते|| कषायकल्पे त्रिविधे यश्चतुर्गुणितोदकः| कषायकल्पः स्नेहेषु साध्येष्वेव समाश्रितः|| वैद्यैः प्रायेण न तथा यः षोडशगुणोदकः| चतुर्गुणोदके पक्षे स्नेहाद् द्रव्यं चतुर्गुणम्|| अष्टाविंशं पलशतं क्वाथ्यद्रव्यस्य जायते| स्नेहप्रस्थे विपक्तव्ये शुष्कं तच्च भवेद्यदि|| आर्द्रे चेदुद्धृतं सद्यस्ततः पलशतद्वयम्| स्नेहप्रस्थे भवेत्साध्ये षट्पञ्चाशत्पलाधिकम्|| एवं बहुत्वाद् द्रव्यस्य यश्चतुर्गुणितोदकः| सकल्पोऽभिमतस्तत्र स्नेहः स्याद्वीर्यवत्तरः|| सहस्रपाकाः स्नेहास्तु शतपाकाश्च कीर्त्तिताः| सुभावितं स्वल्पमपि द्रव्यं तद्बहुकर्मकृत्|| तस्माद्बहुतरं द्रव्यं यत्र पक्षे प्रयुज्यते| स्नेहपाकेषु सः श्रेयानित्येष तु मयाश्रितः|| स्नेहपाकविधावेव प्रयोगस्तस्य युज्यते| पाचनाः शमनीयाश्च ये कषाया ज्वरादिषु|| उदीरिताः पुनस्तेषु कषायेशूपकल्प्यते| चतुर्गुणोदके पेयं कषायस्य फलं भवेत्|| तस्माद् द्रव्यपलं वैद्याः पाचनेशु प्रयुञ्जते| मात्रां तु वैद्याः क्वाथस्य पाययन्ति चतुष्पलाम्|| क्रियमाणाः प्रसिद्धोऽयं पारम्पर्यागतो विधिः| बाधितुं शक्यते नैव ज्ञापकं चात्र विद्यते|| पलं वत्सकबीजस्य श्रपयित्वा रसं पिबेत्| आचार्यचरकेणैव मतिसारे तु भाषितम्|| पटोलाद्ये कषाये च क्वाथ्यद्रव्यपलं कृतम्| चतुर्गुणेन तोयेन पचेद् द्रव्यपले सति|| चतुर्भागावशेषं तु पेयं क्वाथपलं भवेत्| शास्त्रे कुष्ठे च मात्रा सा महती सम्प्रकाशिता|| चतुष्पला कषायस्य मात्रा या भिषजां मता| पले चतुर्गुणजले सा मात्रा न प्रसिध्यति|| एवं सति च साध्यं स्याद्भेषजानां चतुष्पलम्| चतुष्पलस्य द्रव्यस्य क्वथितस्य चतुर्गुणे|| तोये चतुर्थशेषस्य पेयः क्वाथश्चतुष्पलः| भट्टारहरचिन्द्रेण खरणादे प्रकीर्त्तिता|| पातव्या षट्पला मात्रा तस्य द्रव्यपलानि षट्| क्वाथ्यानि सम्प्रयुज्यन्ते जलं द्रव्याच्चतुर्गुणम्|| पटोलाद्ये च तेनापि क्वाथ्यद्रव्यपलं कृतम्| खरणादकृता मात्रा पेया तेनैव षट्पला|| परस्परविरुद्धं तत्तस्याप्येतत् प्रयुज्यते| अप्रसिद्धो विधिश्चायं कषायस्य ज्वरादिषु|| न षट्पलानि क्वाथ्यन्ते न च तोयं चतुर्गुणम्| चतुर्गुणोदका तस्मात् परिभाषा न युज्यते|| ज्वरादीनां कषायेषु स्नेहेष्वेव हि सा मता| कृष्णात्रेयमुनिप्रोक्ता या षोडशगुणोदका|| ज्वरादिषु कषायाणां ग्रहणं क्रियते तया| चतुर्गुणोदका याऽपि परिभाषोपदिश्यते|| तत्रापि हि विशेषोऽयमन्यः कैश्चिदुपाश्रितः| स्नेहेषु पलनिर्देशो येषु येषु न विद्यते|| प्रस्थव्यपेक्षया चाऽत्र सङ्ख्येयमदुकौषधम्| पलव्यपेक्षया चाऽपि समाचारो द्विधा अपि|| पूर्वं प्रस्थव्यपेक्षा या प्रोक्त विज्ञापके सति| द्रव्याणां पलनिर्देशो यत्रोक्तो मिश्रके तथा || पलव्यपेक्षयैवात्र तोयमेवं चतुर्गुणम्| प्रदेशान्तरनिर्देशाच्चरकेऽप्यनुमीयते|| कषायमात्रा पातव्या मद्यप्यपरिभाषित| स्वर्णक्षीर्यादिके योगे पाण्दुरोगचिकित्सिते|| पातव्या कथिता मात्र गोमूत्रेण चतुष्पला| रोहिणी कटुकादीनां पित्तगुल्मचिकित्सिते|| घृतं मुक्त्वा कषायस्य प्रोक्ता मात्रा चतुष्पला| अतोऽनुमानाच्चरके सिद्धा मात्रा चतुष्पला|| द्रव्याणां च पलं क्वाथ्यं पटोलाद्ये प्रकीर्त्तितम्| पलं वत्सकबीजस्य निर्दिष्टं चाऽतिसारिके|| तत् षोडशगुणे तोये यदि न क्वाथ्यते ततः| चतुर्गुणोदके तोये पेयं क्वाथपलं भवेत्|| इत्येतत् षोदशगुणं तोयं यत्र प्रयुज्यते| एषैव चरकस्यापि परिभाषाऽनुमीयते|| पातव्येषु कषायेषु मुस्तपर्पटकादिषु| विशेषः कथ्यतेऽन्योऽपि माने शुष्कद्रवाश्रये|| शुष्कद्रव्याश्रयं मानं निर्दिश्य यदुदाहृतम्| द्रवेषु द्विगुणं मानं सद्यश्चैवोद्धृतेषु च|| द्विगुणं मानमित्येतदाऽऽरभ्य कुडवादिति| शुष्काणाञ्च द्रवाणाञ्च समं तु कुडवादधः|| तुलायामपि नैवेष्टा द्विगुणा मानकल्पना| तुलापलशतं चैव तच्छुष्कद्रव्ययोर्मतम्|| पलं चतुर्गुणं चेष्टं प्रसिद्धज्ञापकादिकम्| सहाचरतुलायास्तु रसे तैलढकं पचेत्|| यदुक्तं शतमेवात्र पलानां परिगृह्यते| चतुःसुवर्णमेतच्च पलं नाऽष्टसुवर्णकम्|| द्रव्यस्य द्विगुणत्वे स्यात्पलमष्टसुवर्णकम्| नैवाञ्जलौ न प्रसृते न पले न पलादधः| द्रवाणामौषधानं हि द्विगुणं मानमिष्यते| द्विगुणत्वे द्रवेषु स्यात्पलमष्टसुवर्णकम्|| तेनैषां द्विगुणत्वेन क्रियामार्गो विरुद्ध्यते| कुडवाद्यासु संज्ञासु द्रवाणां द्विगुणो विधिः|| विद्यते ज्ञापकं चाऽत्र चरकाचाऱ्यदर्शितम्| स्पष्टार्थमेव पठितमिदं कुष्ठचिकित्सिते|| सलिलाढकेऽष्टभागे शेषे पूतो रसो ग्राह्याः| ते च कषायाष्टपले चतुष्पलं सर्पिषश्च पक्तव्यम्|| यावत् स्यादष्टपलं शेषं पेयं ततः कोष्णमिति| अष्टभागावशेषे तु पलानामष्टकद्वयम्|| पलस्य द्विगुणे माने क्रियमाणे न युज्यते| द्विगुणे हि पले तत्स्यादेकमेव पलाष्टकम्|| चतुष्पलं च दातव्यं यत् प्रोक्तं सह सर्पिषा| पलस्य द्विगुणे माने तदप्यष्टपलं भवेत्|| चतुःसुवर्ण हि पलं शुष्काणामिष्यते यतः| द्विगुणत्वाद् द्रवाणां हि तत्स्यादष्टसुवर्णकम्|| निरूहमात्रानिर्देश एवं सति च बाध्यते| प्रसृतार्धं समारभ्य द्वादश प्रसृताः परम्|| एषा मात्रा द्विगुणिता द्विगुणे प्रसृते भवेत्| निरूहमात्रा शास्त्रोक्ता द्वादशप्रसृतास्तथा|| चत्वारिंशत् पलानि स्युरष्टाभिरधिकानि च| व्याध्यादिषु तु मध्येषु क्वाथस्याञ्जलिरिष्यते|| अत्र सुश्रुतनिर्देशे क्वाथोऽयं द्विगुणो भवेत्| स्वरसात्क्वाथिताच्छीतात्कषायात्षट्पलं पिबेत्|| यदुक्तं खरणादेन तद् द्वादशपलं भवेत्| पैत्तिके पठ्यते गुल्मे सर्पिषश्च चतुष्पलम्|| पिबेत्सम्मूर्च्छितं तेन गुल्मः शाम्यति पैत्तिकः| चतुष्पलं घृतस्येदं मात्राऽप्यष्टपलं भवेत्|| स्वणक्षीर्यादिके योगे गोमूत्राञ्जलिरिष्यते| अञ्जलेर्द्विगुणत्वाद्धि मात्रा साष्टपला भवेत्|| गौल्मिके त्रायमाणाद्ये घृते च परिपठ्यते| रसस्यामलकेक्षूणां क्षीरस्य च घृतस्य च|| पलानि पृथगष्टाष्टौ कृत्वा सम्यग्विपाचयेत्| अष्टौ प्रत्येकमेतानि स्युः षोडशपलानि तु|| तस्मादेवं प्रकारेषु निर्द्रेशेषु विरुध्यते| द्रवाणां द्विगुणं मानं तत्कार्यं कुडवादिषु|| आर्द्रेष्वपि न सर्वेषु सद्यस्तेषूद्धृतेषु च| द्विगुणं मानमिच्छन्ति विशेषोऽत्र च कल्प्यते|| शुष्काणि विनियुज्यन्ते दशमूलादिकानि हि| तेष्वेव द्विगुणं मानं न सर्वेषूद्धृतेषु हि|| आर्द्राणामेव येषां तु प्रसिद्धिमुपकल्पयेत्| वासाघृते वृषघृते तैले साहचरे तथा|| आर्द्राणां द्विगुणं मानमेवमादिषु नेष्यते| आर्द्राणामेव तेषां हि प्रयोगः शस्यते यतः|| शतावरीमूलतूलाश्चतस्रो याः प्रकीर्त्तिताः| न तत्र द्विगुणं मानं भिषग्भिः कैश्चिदाश्रितम्|| वैद्यबुद्धिविकासार्थमिदमन्यत् प्रकाश्यते| क्वाथ्यानामौषधानां हि तत्र कार्यश्चतुर्गुणः|| उदाहरणमत्रेष्टं महाकल्याणकं घृतम्| एवमेवौषधानां हि प्रमाणं यत्र नोदितम्|| द्विगुणं चापि निर्दिष्टमन्यत्क्षीरादिकं द्रवम्| कषायोऽप्यौषधानां हि तत्र कार्यश्चतुर्गुणः|| उदाहरणमत्रेष्टं महाकल्याणकं घृतम्| एवमेवौषधानां हि प्रमाणं यत्र नोदितम्|| द्विगुणञ्चापि निर्दिष्टमन्यत् क्षीरादिकं द्रवम्| कषायोऽप्यौषधानां हि द्विगुणस्तत्र युज्यते|| वादिकं ज्वरे प्रोक्तमत्रोदाहरणं स्मृतम्| निर्दिष्टं क्षीरमन्यद्वा द्रवं यत्र चतुर्गुणम्|| क्वाथौषधानां मानञ्च प्रोक्तं नोक्तं जलस्य तु| तत्रौषधिवशादेव सङ्ख्या क्वाथस्य गम्यते|| चतुर्गुणोदका तत्र परिभाषा यदीष्यते| ततो द्रव्यसमस्तत्र कषायः परिकल्प्यते|| यदा तु परिभाषेष्टा या षोडशगुणोदका| चतुर्थशेषः क्वाथः स्यात्ततो द्रव्याच्चतुर्गुणः|| अत्र सहचरं तैलमुदाहरणमिष्यते| यत्रौषधं कषायोऽपि द्रवं क्षीरादिकं त्रयम्|| प्रमाणं तु तथा नोक्तं स्नेहस्योक्तं न वा भवेत्| तुल्यं क्वाथेन दातव्यं तत्र क्षीरादिकं द्रवम्|| कर्त्तव्यञ्च तथा तत्स्याद्यथा स्नेहाच्चतुर्गुणम्| गौल्मिको मिश्रकस्नेह उदाहरणमत्र हि|| एवं वै द्विगुणे स्नेहात्त्रिगुणे च प्रकीर्त्तिते| क्षीरादिके द्रवे कार्यं कषायग्रहणं तथा|| यथा कषायसहितं द्रवं स्यात्तच्चतुर्गुणम्| अत्रोदाहरणं तत्स्याद्यथा स्नेहाच्चतुर्गुणः|| कषायः पठ्यते यत्र प्रमाणं चास्य नोदितम्| चतुर्गुणं वाप्यधिकं प्रोक्तं क्षीरादिकं द्रवम्|| तत्रापि च प्रयोक्तव्यं स्नेहात्क्वाथं चतुर्गुणम्| पञ्चमूलकषायेण पिण्याकं बहुवार्षिकम्|| पठ्यते वातरोगे तदुदाहरणमत्र हि| बहूनि यत्र पठ्यन्ते क्वचित्स्नेहे द्रवाणि हि|| बहूनामपि तेषां च परिमाणं न पठ्यते| सर्वेषां समुदायः स्यात्तत्र स्नेहाच्चतुर्गुणः|| स्नेहपाकविधं केचिदेवं समनुचक्षते| बहुष्वेकैकमिच्छन्ति केचित्तत्र समं द्रवम्|| इत्येवं मतभेदात्तु यथा क्वाथविधौ तथा| चतुर्गुणोदकः पक्षो यदा तत्र समाश्रितः|| बहुद्रव्यं किल स्नेहो वीर्यावाञ्छतपाकवत्| अनेनैवोपपत्त्या तु समुदायं चतुर्गुणम्|| नेच्छन्ति केचित्प्रत्येकमाहुः स्नेहसमं द्रवम्| ग्रहणीरौगिके स्नेहे पञ्चमूलाऽभयादिके|| शुक्तेन मातुलुङ्गस्य स्वरसेनैवमादितः| उदाहरणमत्रास्ति यो वाऽप्यन्यो बहुद्रवः|| श्लोकैरेषोऽणुतैलस्य कथ्यते पाकसंविधिः| यस्य साधयितुं तैलं यावन्मात्रमभीप्सितम्|| तत्रौषधानि तावन्ति दत्त्वा तोयं चतुर्गुणम्| कषायार्थं विपच्यन्ते यः कषायश्चतुर्गुणः|| यावन्मात्रस्य तैलस्य दद्यात् पादावशेषितम्| यावन्मात्रमसौ तैलात् कषायो नाऽवतार्यते|| चतुर्गुणोऽत्र किं तर्हि पाक्याद्दशगुणः कृतः| चतुर्गुणेन तोयेन प्राप्तानि परिभाषया|| क्वाथ्यानि यानि तान्यत्र पाक्याः शतगुणे जले| क्वाथ्यन्ते परिभाषा तु शास्त्रवाक्येन बाधिता|| इत्येवमणुतैलस्य कर्त्तव्यं सम्प्रसाधनम्| गद्योक्तो यः पुनः श्लोकैरर्थः समनुगीयते|| तद्व्यक्तिव्यवसायार्थं द्विरुक्तिः सा न गर्ह्यते| प्रागुक्ताऽपि मयार्थो यः श्लोकैस्तस्मात्प्रकाशितः|| १८|| इति श्रीमन्महामहोपाध्यायेन्दुविरचिताया- मष्टाङ्गसंग्रहव्याख्यायां शशिलेखायां कल्पस्थाने अष्टमोऽध्यायः