Adhikarana atha snehAdivyApatsiddhirnAma saptamo~adhyAyaH pratij~jA (1) · Śloka 1
अथातः स्नेहादिव्यापत्सिद्धं व्याख्यास्यामः|
इति ह स्माहुराऽऽत्रेयादयो महर्षयः||१||
आस्थापनानां व्यापदस्तत्साधनं चोक्त्वा क्रमप्राप्तानां स्नेहादि बस्तीनामसम्यग्योगे व्यापदः साधनञ्च प्रदर्शयितुमध्याय आरभ्यते||१||
Adhikarana snehabastivyApatsa~gkhyAnam (2) · Śloka 2
स्नेहबस्तौ मरुतपित्तकफाऽत्याऽऽशविडावृते|
आभुक्ते श्णुनपाय्वाऽऽमदत्तेऽष्टौ व्यापदः स्मृताः||२||
स्नेहबस्तौ मरुदादिपञ्चकावृते अभुक्तादित्रयदत्ते चेत्यष्टधा स्नेहबस्तेर्व्यापदः| अत्याऽऽशोऽतिभोजनम्||२||
Adhikarana vAtAdipa~jcA~a~avaraNAni (3) · Śloka 3
शीतेऽल्पो वाऽधिके वाते पित्तेऽत्युष्णः कफे मृदुः|
अतिभुक्ते गुरुर्वर्चः सञ्चयेऽल्पबलस्तथा|
दत्तस्तैरावृतः स्नेहो नाऽऽयात्यभिभवादपि||३||
शीत इत्यादिना क्रमेणाऽऽवरणा उच्यन्ते| वातेऽधिके शीतोऽल्पो वा दत्तो वातेनाऽऽवृतत्वान्नायाति| पित्तेऽधिकेऽत्युष्णो दत्तः पित्तावृतत्वान्नायाति| कफेऽधिके मृदुः स्नेहबस्तिः कफावृतत्वान्नायाति| अतिभुक्ते गुरुः स्नेहबस्तिरन्नाऽऽवृतत्वान्नायाति| वर्चः सञ्चयेऽल्बलः स्नेहबस्तिर्विडावृतत्वान्नायाति| सम्यक्प्रयुक्तोऽपि च स्नेहबस्तिर्मरुतादिष्वधिकेषु प्रयुक्तस्तैरभिभूतत्वान्नायाति||३||
Adhikarana vAtAvRute lakShaNANi cikitsA ca (4) · Śloka 4
स्तम्भोरुसदनाध्मानज्वरशूलाङ्गमर्दनैः|
पाऱ्श्वरुग्वेष्टनैर्विद्याद्वायुना स्नेहमावृतम्|
स्निघ्दाम्ललवणोष्णैस्तं रास्नापीतद्रुतैलिकैः|
सौवीरकसुराकोलकुलत्थयवसाधितैः|
निरूहैर्निर्हरेत् सम्यक्समूत्रैः पाञ्चमूलिकैः|
ताभ्यामेव च तैलाभ्यां सायं भुक्तेऽनुवासयेत्||४||
स्तम्भादिकं वातावृतस्नेहलक्षणम्| तं स्नेहं स्निग्धादिगुणैः पाञ्चमूलिकैर्निर्हरेत्| रास्नातैलादियुक्तैश्च| पीतद्रुः सरलः| कोलं बदरम्| ताभ्यामेव तैलाभ्यां रास्नापीतद्रुतैलाभ्यां भुक्ते भोजने कृतेऽनुवासयेत्|| ४||
Adhikarana pittAvRute lakShaNAni cikitsA ca (5) · Śloka 5
तृड्दाहरागसम्मोहवैवर्ण्यतमकज्वरैः|
विद्यात्पित्तावृतं स्वादु तिक्तैस्तं बस्तिभिर्हरेत्||५||
तृडादिपित्तावृतलक्षणम्| तं स्नेहं स्वाद्वादिगुणैर्बस्तिभिर्हरेत्||५||
Adhikarana kaphAvRute lakShaNAni cikitsA ca (6) · Śloka 6
तन्द्राशीतज्वरालस्यप्रसेकारुचिगौरवैः|
समूर्च्छाग्लानिभिर्विद्याच्छ्लेष्मणा स्नेहमाव्मृतम्|
कषायतिक्तकटुकैः सुरामूत्रोपसाधितैः|
फलतैलयुतैः साम्लैर्बस्तिभिस्तं विनिर्हरेत्||६||
तन्द्रादिकं श्लेष्मावृतलक्षणम्| तं स्नेहं कषायादिगुणैर्बस्तिभिर्हरेत्|| ६||
Adhikarana atyashanAvRute lakShaNAni cikitsA ca (7) · Śloka 7
छर्दिमूर्छारुचिग्लानिशूलनिद्राङ्गमर्दनैः|
आमलिङ्गैः सदाहैस्तं विद्यादत्यशनावृतम्|
कटूनां लवणानाञ्च क्वाथैश्चूर्णैश्च पाचनम्|
मृदुर्विरेकः सर्वं च तत्राऽऽमविहितं हितम्||७||
छर्द्यादिकमत्यशनावृतलक्षणम्| आमलिङ्गानि स्रोतोरोधादीनि सूत्रोक्तानि| तत्र कट्वादिगुणानां द्रव्याणां क्वाथैर्श्चूर्णैश्च पाचनम्| मृदुविरेकश्च शस्यते| सर्वमाऽऽमविहितमामातिसारद्युक्तम्|| ७||
Adhikarana viDAvRute lakShaNAni cikitsA ca (8) · Śloka 8
विण्मूत्राऽनिलसङ्गार्त्तिगुरुत्वाध्मानहृद्ग्रहैः|
स्नेहं विडावृतं ज्ञात्वा स्नेहस्वेदैः सबस्तिभिः|
श्यामाबिल्वादिसिद्धैश्च निरूहैः साऽनुवासनैः|
निर्हरेद् विधिना सम्यगुदावर्त्तहरेण च||८||
विट्सङ्गादिना विडावृतलक्षणम्| तं स्नेहं स्नेहस्वेदादिभिर्निर्हरेदावर्तोक्तेन च विधिना सम्यग्योजनया निर्हरेत्| इत्याऽऽवरणा उक्ताः|| ८||
Adhikarana abhukte shUnapAyorvA dattasnehe lakShaNAni cikitsA ca (9) · Śloka 9
अभुक्ते शूनपायोर्वा पेयमात्राऽशितस्य वा|
गुदे प्रणिहितः स्नेहो वेगाद्धावत्यनावृतः|
ऊर्ध्वकायं ततः कण्ठादूर्ध्वेभ्यः खेभ्य एत्यपि|
मूत्रश्यामात्रिवृत्सिद्धो यवकोलकुलत्थवान्|
तत्सिद्धतैलो देयः स्यान्निरूहः साऽनुवासनः|
कण्ठादाऽऽगच्छतः स्तम्भकण्ठग्रहविरेचनैः|
छर्दिघ्नीभिः क्रियाभिश्च तस्य कुर्यान्निवर्त्तनम्||९||
अभुक्ते दत्तः स्नेहः पेयमात्रेणैव भुक्तस्य वा दत्तः शूनपायोर्वा प्रणिहितो वेगादूर्ध्वकायं धावत्यन्नाद्याऽऽवरकाऽभावात्| ततः कण्ठादूर्ध्वेभ्यः खेभ्यो नासादिभ्य एत्याऽऽगच्छति| तत्र मूत्रादिसिद्धो निरूहो यवादिमांश्च तत्सिद्धेन मॄत्रादिसिद्धेन तैलेन युक्तो देयः स्यात्| तस्य चोर्ध्वप्रवृत्तस्य स्नेहस्य कण्ठादाऽऽगच्छतो निवर्त्तनमधोनयनं स्तम्भादिभिः किर्यात्|| ९||
Adhikarana Amadatte lakShaNAni cikitsA ca (10) · Śloka 10
नाऽपक्वं प्रणयेत् स्नेहं गुदं स ह्युपलिम्पति|
ततः कुर्यात्सरुङ्मोहकण्डूशोफान् क्रियाऽत्र च|
तीक्ष्णो बस्तिस्तथा तैलमर्कपत्ररसे शृतम्||१०||
आमदत्त उच्यते| अपक्वं स्नेहं पायौ न प्रणयेत्| स ह्यपक्वः प्रणिहित आत्मना गुदमुपलिम्पति| स चामदत्तो रुगादीन् कुर्यात्| अत्र च किर्या चिकित्सा भवति| किमित्याह-तीक्ष्ण इत्यादि| सुबोधम्| इत्युक्ता अष्टौ व्यापदः|| १०||
Adhikarana aShTau netradoShAstajjanyalakShaNAni ca (11) · Śloka 11
हृस्वं दीर्घं तनु स्थूलं जीर्ण शिथिलबन्धनम्|
पाऱ्श्वच्छिद्रं तथा वक्रमष्टौ नेत्राणि वर्जयेत्|
अप्राप्त्यतिगतिक्षोभकर्षणक्षणनस्रवाः|
गुदपीडा गतिर्जिह्या तेषां दोषा यथाक्रमम्||११||
प्रसङ्गेनोच्यते-हृस्व इत्यादि| सर्वत्र च बस्तौ हृस्वादिगुणं नेत्रं वर्जयेदप्राप्त्यादिदोषोभयात्| ह्ऱस्वे नेत्रे बस्तेः स्थानाऽप्राप्तिः| दीर्घेऽन्तरतिगमनमौषधस्य| तेनौ नेत्रेऽन्तःक्षोभः| स्थूले मार्गकर्षणम्| जीर्णे जर्जरे कर्कशत्वात् गुदादिक्षणनम्| शिथिलबन्धने बहिरौषधस्य स्रावः| पार्श्वच्छिद्रे नेत्रे गुदपीडा| वक्रे जिह्वा अस्पष्टा गतिरौषधस्य| इति यथाक्रमम्|| ११||
Adhikarana aShTau bastidoShAstajjanyalakShaNAni ca (12) · Śloka 12
मांसलस्निग्धविषमजालवत्स्थूलवातलाः|
छिन्नः क्लिन्नश्च तानष्टौ बस्तीन् कर्मसु वर्जयेत्|
गतिवैषम्यदौर्गन्ध्यजिह्वत्वस्रुतिदुर्ग्रहाः|
फेनालिच्युत्यधार्यत्वं बस्तेः स्युर्बस्तिदोषतः||१२||
मांसलादीन् बस्तीन्नेत्रमूलयोज्यानौषधाधारानष्टौ बस्तिकर्मणि वर्जयेत्| यतोऽस्मान्मांसलत्वादित्वाद्बस्तिदोषतो बस्तेरौषाधस्य गतिवैषम्यादयः स्युः| मांसलत्वेन बस्तेरौषधस्य विषमा गतिः| स्निग्धत्वेन बस्तिचर्मण औषधस्य दौर्गन्ध्यम्| विषमत्वेन बतेर्घनत्वम्| तनुत्वेनौषधस्य जिह्यत्वं यन्त्रादनिर्गमनम्| जालवत्वेन सिराजालत्वेन स्रुतिः| स्थूलत्वेन बस्तेश्चर्मण औषधस्य दुःखेन ग्रहणम्| वातलत्वेन चर्मण औषधस्य फेनिलत्वम्| छिन्नत्वेनौषधस्य च्युतिः| क्लिन्नत्वेन बस्तेरौषधं धारयितुम शक्यत्वमिति|| १२||
Adhikarana sapta shayyAdoShAstajjanyalakShaNAni ca (13) · Śloka 13
उच्चकैरत्यवाक्शीर्षं न्युब्जं सङ्कुचितं स्थितम्|
उत्तानं दक्षिणं पार्श्वं सप्त शय्याः परित्यजेत्|
मूत्राघातोऽतिसम्प्राप्तिप्राप्तिः साधूनागतिः|
आश्वागतिर्मरुत्कोपस्तृप्तिः पक्वाशयस्य च|
तद्दोषाः स्युर्विधातव्यं यथौपयिकमत्र च||१३||
उच्चकैरित्यादिना सप्तशय्या बस्तिकर्मणि परित्यजेत्| क्रमेण मूत्राघातादिसप्तदोषभयात्| उच्चकैरित्युच्छ्रिता शय्या पूर्वभागे| एवं हि मूत्राघातः| अवाक्शरस्त्वेनौषधस्याऽतिसम्प्राप्तिः| न्युब्जत्वेना-वाङ्मुखत्वेनौषधस्य स्थानाऽप्राप्तिः| सङ्कुचिताङ्गत्वेन साधुना मार्गेणौषधस्यानागतिः| अथवा साधु कृत्वा गमनं न भवति| स्थिते निषण्ण उपविष्ट आशु शीघ्रं बस्तेः प्रतिनिवर्त्तनम्| उत्ताने मरुत् कोपः| दक्षिणपार्श्वेन पक्वाशयस्य तृप्तिः| अत्र शय्यादोषेषु सर्वेषु हि नेत्रादिदोषेषु च यथौपयिकं यथोपयोगि चिकित्सितं विधातव्यम्||१३||
Adhikarana dasha praNettRudoShAH (14) · Śloka 14
सवाताऽतितिस्रुतोत्क्षिप्ततिर्यगुल्लुप्तकम्पिताः|
अतिमन्दकबाह्यातिवेगदोषाः प्रणेत्तृतः||१४||
सवातादयो दश दोषाः प्रणेत्तृतो बस्तियोजकादुत्पद्यन्ते| उल्लुप्तः उन्मुक्तः|| १४||
Adhikarana savAtodoShe lakShaNAni cikitsA ca (15) · Śloka 15
अनुच्छ्वास्य तु बद्धे वा दत्ते निःशेष एव वा|
प्रविश्य क्षुभितो वायुः शूलतोदकरो भवेत्|
तत्राऽभ्यङ्गो गुदे स्वेदो वातघ्नन्यशनानि च||१५||
अनुच्छ्वास्य बन्धादिना बस्तावन्तर्वायुः क्षुभितस्तत्कालं शूलतोदकरो भवेत्| तत्र वातेन सशूलादिके अभ्यङ्गादिकं योज्यम्||१५||
Adhikarana atidrutadoShe utkShipte ca lakShaNAni cikitsA ca (16) · Śloka 16
द्रुतं प्रणीते निष्कृष्टे सहसोत्क्षिप्त एव वा|
स्यात् कटीगुदजङ्घोरुबस्तिस्तम्भार्त्तिभेदनम्|
भोजनं तत्र वात्घ्नं स्वेदाभ्यङ्गाः सबस्तयः||१६||
अतिद्रुतं नेत्रे प्रणीते वा निष्कृष्टे वा कटिस्तम्भादिकं स्यात्| तथा सहसा झटित्युत्क्षिप्ते नेत्रे कटिस्तम्भादिकं स्यात्| उभयत्रापि वातघ्नभोजनादिकमौषधम्|| १६||
Adhikarana tiryagvalyAvRutadoShe lakShaNAni cikitsA ca (17) · Śloka 17
तिर्यग्वल्यावृते द्वारे बद्धे वाऽपि न गच्छति|
नेत्रे तदृजु निष्कृष्य संशोध्य च पुनर्नयेत्||१७||
तिर्यक्प्रणिहिते नेत्रे नेत्रद्वारे यदा वल्यावृतत्वाधौषधमन्तर्न गच्छति तिर्य्यग् बद्धे बस्तावेवं भवति| बद्धं बद्धमार्ग नेत्रम्| उभयत्रापि तं नेत्रं ऋजु कृत्वा यथैव प्रविष्टं तथैव निष्कृष्य संशोध्य पुनर्गुदं नयेन्नेत्रम्|| १७||
Adhikarana ulluptadoShe lakShaNAni cikitsA ca (18) · Śloka 18
पीड्यमानेऽन्तरामुक्ते गुदे प्रतिहतोऽनिलः|
उरः शिरोरुजं सादमूर्वाश्च जनयेद्बली|
बस्तिः स्यात्तत्र बिल्वादिः फलश्यामादिमूत्रवान्||१८||
पीड्यामानो बस्तिर्यदाऽन्तरा शिथिलहस्तत्वादुन्मुक्तो भवति तदा तेनौषधेन प्रतिहतोऽनिलो बलवानुरोरुजादिकं जनयेत्| तत्र बिल्वादिपञ्चमूलमदनफलश्यामादिगणवान् बस्तिः स्यात्|| १८||
Adhikarana kampadoShe lakShaNAni cikitsA ca (19) · Śloka 19
स्याद्दाहो श्वयथुः शोफः कम्पेनाऽभिहते गुदे|
कषायमधुराः शीताः सेकास्तत्र सबस्तयः||१९||
नेत्रस्य कम्पेन गुदेऽभिहते दाहादिकं स्यात्| तत्र कषायादिगुणाः सेकाश्च बस्तयश्च हिताः|| १९||
Adhikarana netrasyA~atimAtrapraNayanadoShe lakShaNAni cikitsA ca (20) · Śloka 20
अतिमात्रप्रणीतेन नेत्रेण क्षणनाद्वलेः|
स्यात् सार्त्तिदाहनिस्तोदगुरुवर्चः प्रवर्त्तनम्|
तत्र सर्पिः पिचुः क्षीरं पिच्छाबस्तिश्च शस्यते||२०||
नेत्रस्याऽतिमात्रप्रणयनेन वलेः क्षणनात् सार्त्यादिवर्चःप्रवर्त्तनं स्यात्| तत्र च सर्पिरादिकं शस्यते|| २०||
Adhikarana mandapIDitadoShe bAhyadoShe ca lakShaNAni cikitsA ca (21) · Śloka 21
न भावयति मन्दस्तु बाह्यश्चाऽऽशु निवर्त्तते|
स्नेहस्तत्र पुनः सम्यक्प्रणेयः सिद्धिमिच्छता||२१||
मन्दपीडितस्तु स्नेहो च भावयति देहम्| बाह्यस्नेह आशु निवर्त्तते| स्तोकप्रविष्टे नेत्रे बाह्यः| तत्र मन्दे बाह्यो च सिद्धि मिच्छिता भिषजा पुनः स्नेहः प्रणेयः|| २१||
Adhikarana atiprapIDitadoShe lakShaNAni cikitsA ca (22) · Śloka 22
अतिप्रपीडितः कोष्ठे तिष्ठ्त्यायाति वा गलम्|
तत्र बस्तिर्विरेकश्च गलपीडादिकर्म च||२२||
अतिपीडितस्त्वतिप्रवृत्तः| कोष्ठे तिष्ठत्यथवा गलमायाति| तत्र बस्त्यादिकं कर्म|| २२||
Adhikarana shodhanottaramAturaM rakShet (23) · Śloka 23
वमनाद्यैर्विशुद्धं च क्षामदेहबलानलम्|
यथाण्डं तरुणं पूर्णं तैलपात्रं यथा तथा|
भिषक्प्रयत्नतो रक्षेत् सर्वस्मादपचारतः||२३||
शोधनप्रसङ्गेनोच्यते| वमनाद्यैः कर्मभिः सर्वैरपि विशुद्धं देहं क्षामबलादिकञ्च सर्वापचारेभ्यो भिषक्प्रयत्नतो रक्षेत्| यथा तरुणमसञ्जातविहगशावमण्डं यत्नतो रक्षेत्| तैलेन पूर्णं वा पात्रमिति|| २३||
Adhikarana AhAre rasAnusAramupayogakramaH (24) · Śloka 24
दद्यान्मधुरहृद्यानि ततोऽम्ललवणौ रसौ|
स्वादुतिक्तौ ततो भूयः कषायकटुकौ ततः|
अन्योन्यप्रत्यनीकानां रसानां स्निग्धरूक्षयोः|
व्यात्यासादुपयोगेन क्रमात्तं प्रकृतिं नयेत्|
सर्वसहः स्थिरबलो विज्ञेयः प्रकृतिं गतः||२४||
तथाविधाय च मधुराणि हृद्यानि चाऽऽहारादीनि दद्यात्| ततः क्रमेणाऽम्ललवणौ| ततः क्रमेण स्वादुतिक्तौ| ततः कषाय कटुकौ| तं च शुद्धं क्षममेवं प्रकृति स्वास्थ्यं नयेत्| कथमित्याह-अन्योऽन्यप्रत्यनीकानां परस्परप्रतिपक्षाणं मधुरकटुकादीनां रसानां व्यत्यसाद् विपर्य्यासादुपयोगेन| सर्वसहेत्यादि प्रकृतिगतलक्षणम्|| २४||
Adhikarana atrAntare apathyAni (25) · Śloka 25
अत्रान्तरे त्यजेदष्टौ भाश्यादीनि विशेषतः||२५||
अत्र च बस्तिप्रयोगे भाष्यादीन्यष्टौ विशेषतो वर्जयेत्| उच्चैर्भाष्यम्| अत्यास्या| यानयानम्| अतिचङ्क्रमणम्| अजिर्णभोजनम्| अहिताऽन्नम्| दिवास्वप्नः| व्यवायः| इत्यष्टौ|| २५||
Adhikarana tatroccairBAShyAdupadravAH tatra vidhishca (26) · Śloka 26
उच्चैर्भाष्याच्छिरोरोगतिमिरोरः स्वरव्यथाः|
रक्तनिष्ठीवतमकज्वराद्यास्तत्र साधनम्|
अभ्यङ्गस्वेदनस्याऽधो भक्तस्नेहोपसेवनम्|
मौनं विधिर्वातहरो यथास्वं च विकारजित्||२६||
उच्चैर्भाष्याच्छिरोगादयो वातकोपजाः| तत्र चिकित्साऽभ्यङ्गादिकम्| अधोभक्तं भोजनान्ते स्नेहोपसेवनम्| मौनं वाग्यमः| यथास्वं रोगेषु विकारजिद्विधिश्च|| २६||
Adhikarana atyAsyAdiBirupadravAstatra vidhishca (27) · Śloka 27
अत्यास्यायानयानाभ्यां सन्धिमूर्धत्रिकादिरुक्|
अतिचिङ्क्रमणात् पादजङ्घोरुसदनादयः|
तेषां वातहरं सर्वं स्नेहस्वेदादि शस्यते|
अजीर्णभोजनादामविषच्छर्दिज्वरादयः|
तत्र मात्राशितीयोक्तो विधेयो विधिरामहा|
अहितान्नाद्यथादोषं रोगाः स्युर्भेषजानि च||२७||
अत्यास्यातो यानयानाच्च सन्ध्यादिरुक्| अतिचङ्क्रमणात् पादरुगादयः| तेषां सन्धिरुगादीनां सेन्हस्वेदादि वातहरं शस्यते| अजीर्णभोजनादामादयः| तत्रेत्यादि सुबोधम्| अपथ्यभोजनादपथ्यानुगुण्येन दोषकोपाद्रोगोद्भवः| तेषु च भोजनानि यथा दोषमेव||२७||
Adhikarana divAsvApAdupadravAstatra vidhishca (28) · Śloka 28
हलीमकादयः प्रोक्ता दिवास्वप्नात्पुरा गदाः|
विदध्यात् कफजित्तेषु धूमरूक्षान्नलङ्घनम्||२८||
दिवास्वप्नाद्धलीमकादयोगदाः पुरा विरुद्धान्नविज्ञानीये अहितनिद्रया ये प्रोक्ताः| तेषु हलीमकादिषु धूमादिकादिकं कफजिद् विदध्यात्|| २८||
Adhikarana vyavAyAdupadravAstatra vidhishca (29) · Śloka 29
व्यवायाज्जीवितभ्रंशस्तैस्तैरस्यानिलामयैः|
गुदोऽवलुप्यत इव भ्रमतीव च चेतना|
मेढ्रं धूमायति मनस्तमसीव प्रवेश्यते|
जीवनीयशृतक्षीरसर्पिषोरुपसेवनम्|
आहारो बृंहणसत्र वृष्यास्ते ते च बस्तयः||२९||
व्यावायादस्य बस्त्युपयोगिनस्तैस्तैरनिलामयैर्वातव्याधिभिर्नानाविधैर्जीवितभ्रंशः स्यात्| अवलुम्पनं छेदनम्| चेतना संवित्| मनः चित्तम्| तत्र जीवनीयगणसिद्धस्य क्षीरस्य सर्पिषश्चोपसेवनम्| आहार इत्यादि सुबोधम्|| २९||
Adhikarana sadA~a~atureShu PalavartiprayogaH (30) · Śloka 30
वेगरोधोर्ध्ववातत्वात्प्रागुक्ता ये सदातुराः|
तेषां विबद्धे पवने सर्वदेहोपतापिनि|
फलवर्ति पुरा दद्यादथ बस्तिं चलापहम्||३०||
प्राक् सूत्रस्थाने वमनविरेचनविधौ| स्त्रियो राजसमीपस्था वणिजश्च जयेत् सदा| इत्युक्तास्तेषां वेगरोधेनोर्ध्ववातत्वात् सकलदेहोपतापिनि पवने विबद्ध इदमिदं कुर्यात्| आदौ फलवर्तिस्ततः प्रवृते मले चलाऽपहं बस्तिं दद्यात्| किमित्याह||३०||
Adhikarana sadA~a~atureShu bastikramaH (31) · Śloka 31
निकुम्भकुम्भाग्न्युरुबूकधावनी- पुनर्नवं दारु महच्च पञ्चकम्|
फलं च मूत्रे क्वथितं समस्तु तद् घृतं सतैलं लवणानि पञ्च च|
निरूहितं धन्वरसेन भोजये- न्निकुम्भतैलेन ततोऽनुवासयेत्|
बलां सरास्नां फलबिल्वचित्रकान् द्विञ्चमूलं कृतमालकात् फलम्|
यवान् कुलत्थांश्च पचेज्जले रसः समुस्तपाठेन्द्रयवैश्च कल्कवान्|
सतैलसर्पिर्गुडसैन्धवो हितः सदातुराणां बलपुष्टिवर्णदः|
तथाऽनुवास्यं मधुकेन साधितं फलेन बिल्वेन शताह्वयाऽथवा|
सजीवनीयस्तु रसोऽनुवासने निरूहणे चाऽलवणः शिशोर्हितः||३१||
निकुम्भादिक्वाथो मस्तुना समो घृतादिकञ्च| अनेन निरूहितं धन्वमांसरसेन च भोजयेत्| भुक्ते च दन्तीतैलेनाऽनुवासयेत्| बलादिकं जले पचेत्| रसो मुस्तादिकल्कवांस्तैलादियुक्तश्च सदाऽऽतुराणां स्त्रीराजसमीपस्थवणिजां बलादिप्रदो बस्तिः स्यात्| मधुकाद्यन्यतमसाधितं तैलं तेषामनुवास्यमनुवासने साधु| शिशोर्निरुहेऽनुवासने च सजीवनीयद्रव्यो मांसरसो हितः| उभयत्राऽप्यलवणः|| ३१||
Adhikarana bAlasthavirayornirUhe pathyavisheShaH (32-33) · Śloka 33
निरूहबस्तेर्नैवान्यत् पथ्यं स्थविरबालयोः|
बलाङ्गवर्द्धनं शीघ्रमादृतो योजयेदतः||३२||
इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतावष्टाङ्गसंग्रहसंहितायां कल्पस्थाने स्नेहव्यापत्सिद्धिर्नाम सप्तमोऽध्यायः||३३||
प्रसङ्गेनाऽऽह-बालस्य स्थविरस्य च निरूहबस्तेरन्यत्किञ्चिन्नैव पथ्यम्| अतस्तमेव बलवर्धनमङ्गवर्धनं चादृतः सन् शीघ्रं योजयेत्|| ३२|| इति श्रीमन्महामहोपाध्यायेन्दुविरचिताया- मष्टाङ्गसंग्रहव्याख्यायां शशिलेखायां कल्पस्थाने सप्तमोऽध्यायः