Adhikarana atha sarvaroganidAnaM nAma prathamo~adhyAyaH| pratij~jA (1) · Śloka 1
अथातः सर्वरोगनिदानं व्याख्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः||१||
सूत्रस्थाने स्वस्थवृत्तमुक्तम्| आतुरवृत्तं तु बह्वभिधेयत्वात् सूत्रितम्| तस्य चाऽऽतुरवृत्तस्य स्वस्थवृत्तस्य च शरीरपरायत्तत्वात् द्वितीयस्थाने जन्मनः प्रभृति शरीरं निर्णीतम्| सम्प्रति तु व्याधिनिर्णयस्यावसरः| तेषाञ्च व्याधीनां निर्णयेऽयं क्रमः| प्रथमं तेषां कारणं प्रदर्शयितव्यम्| तदनुलक्षणानि| एतावताचाऽऽधिगतस्वरूपाणां यथास्वं प्रतीकारः| अतो निदानलक्षणपरिज्ञानार्थं तृतीयस्थानस्यारम्भः| चिकित्सितं तु बहुवक्तव्यत्वाच्चतुर्थे वक्ष्यते| निदानप्रधानत्वात् स्थानस्य निदानव्यपदेशः| निदानञ्च द्विविधम्| किञ्चित् सकलरोगानुयातम्| किञ्चिद्विशिष्टरोगाश्रयम्| तत्तु प्रत्यध्यायं निर्देक्ष्यते सकलरोगव्यापकनिदानपरिज्ञानार्थं प्रथमोऽध्याय आरभ्यते| अथेत्यादि पूर्ववद्वयाख्येयम्| रोगा ज्वरादयोऽनुक्ताः निदानं कारणम्| तच्च द्विविधम्| किञ्चित् पुरा कल्पे असताम् रोगाणां स्वरूपप्रतिलम्भहेतुः| किञ्चित् दृष्टादृष्टाशुभकर्मकृतां शरीरे तत्सम्भवनिमित्तम्|| १||
Adhikarana kRutayugavarNanam (2) · Śloka 2
इह कृतयुगे विगतरागद्वेषादिद्वन्द्वा जितलो भक्रोधश्रम क्लमालस्यभया निष्परिग्रहाः पुरुशःआ बभूवुः|
तेषां पुण्यबलेन पृथिव्यादीनां सर्वगुणसमुदायादचिन्त्यरसवीर्य्या दिसमुदितानि सस्यान्योषधयश्चासन्|
ते तानि जितेन्द्रयत्वात् काले मात्रया चोपयुञ्जानाः सत्यार्जवानृशंस्यादिगुणयोगाच्च सुरसदृशतेजसो रुपाकृतिप्रमाणप्रसादोपचयसंहननसत्वसारसम्पन्ना दीर्घायुषो नीरुज्श्च बभूवुः||२||
इहेत्यादि| इह मनुष्यलोके| कृतयुगे विगता रागद्वेषादयो द्वन्द्वाः क्लेशा येषां तथोक्ताः| जितानि लोभश्रमादीनि येनिष्परिग्रहाः स्वच्छन्दचारिणः| तथाविधाः पुरुषा बभूवुः| तेषामिति| प्रथमयुगेए तेषां पुरुषाणां पुण्यबलेन पृथिव्यादीनां सर्वगुण समुदायाद्धेतोरचिन्त्यान्यतर्क्याण्यतिशयितानि रसादीनि येषां सस्यादीनाम्| ते पुरुषास्तानि सस्यादीन्योषधीश्चोपयुञ्जानास्त दासत्यादिगुणयोगाच्च सुरसमानतेजसो रूपादिसम्पन्ना नीरुजो दीर्घायुषश्च बभूवुः| प्रसादो निर्मलत्वम्| उपचयो महत्वम् संहननं काठिन्यम्| साराणि त्वग्रक्तादीन्युक्तानि|| २||
Adhikarana kRutayugApagame rogasambhavakAraNam (3) · Śloka 3
भ्रश्यति तु कृतयुगे युगस्वभावात् क्रमेण परिहीय माणसर्वगुणेषु पृथिव्यादिषु शरीरेषु च धर्मातिक्रमा पुरुषेष्ववश्यम्भाविनो निरपेक्षरूक्षाभिरुपेक्षिता देवता भिर्ज्वरादयः प्रादुरभूवन्निति सर्वरोगाणां सामान्यतः सम्भवः||३||
पुरा कल्पे च द्विविधो रोगाणां सम्भवहेतुः सामान्यविशेषभेदेन तयोः पूर्वं सामान्येनोच्यते - भ्रश्यतीति| ततः कृतयुगे भ्रश्यति पुरुषेषु ज्वरादयः प्रादुरभूवन्| कथमित्याऽऽह-पृथिव्यादिषु युगस्वभावात् भ्रश्यमानसर्वगुणेषु| शरीरेषु च भ्रश्यमानसर्वगुणेषु किम्भूता ज्वरादयः ? आह-धर्मातिक्रमान्निरपेक्षाभी रूक्षाभिश्च निःस्नेहाभिर्देवताभिरुपेक्षिता अविहितप्रतिक्रिया अवश्यम्भाविन इति सामान्येन सर्वरोगाणामुत्पत्तिः|| ३||
Adhikarana kRutayugavarNanam (2) · Śloka 2
इह कृतयुगे विगतरागद्वेषादिद्वन्द्वा जितलो भक्रोधश्रम क्लमालस्यभया निष्परिग्रहाः पुरुशःआ बभूवुः|
तेषां पुण्यबलेन पृथिव्यादीनां सर्वगुणसमुदायादचिन्त्यरसवीर्य्या दिसमुदितानि सस्यान्योषधयश्चासन्|
ते तानि जितेन्द्रयत्वात् काले मात्रया चोपयुञ्जानाः सत्यार्जवानृशंस्यादिगुणयोगाच्च सुरसदृशतेजसो रुपाकृतिप्रमाणप्रसादोपचयसंहननसत्वसारसम्पन्ना दीर्घायुषो नीरुज्श्च बभूवुः||२||
इहेत्यादि| इह मनुष्यलोके| कृतयुगे विगता रागद्वेषादयो द्वन्द्वाः क्लेशा येषां तथोक्ताः| जितानि लोभश्रमादीनि येनिष्परिग्रहाः स्वच्छन्दचारिणः| तथाविधाः पुरुषा बभूवुः| तेषामिति| प्रथमयुगेए तेषां पुरुषाणां पुण्यबलेन पृथिव्यादीनां सर्वगुण समुदायाद्धेतोरचिन्त्यान्यतर्क्याण्यतिशयितानि रसादीनि येषां सस्यादीनाम्| ते पुरुषास्तानि सस्यादीन्योषधीश्चोपयुञ्जानास्त दासत्यादिगुणयोगाच्च सुरसमानतेजसो रूपादिसम्पन्ना नीरुजो दीर्घायुषश्च बभूवुः| प्रसादो निर्मलत्वम्| उपचयो महत्वम् संहननं काठिन्यम्| साराणि त्वग्रक्तादीन्युक्तानि|| २||
Adhikarana jvarotpattI rUpa~jca (4) · Śloka 4
ज्वरस्तु स्थाणुशापात् प्राचेतसत्वमुपागतस्य प्राजापतेः क्रतोउ भागमपरिकल्पयेतस्ताद्विनाशार्थं पर्वजन्मावमानि तया रुद्राण्या प्रेरितस्य पशुपतेर्दिव्यमब्दसहस्त्रं परि- रक्षितवतः क्रोधमितिचिरकालसम्भृतो व्रतान्ते रोषाग्निः किङ्कररूपेण किलपिण्डितमूर्त्तिर्वीरभद्रनामा भस्मप्रहर- णस्त्रिशिरोऽभिबाहुपादः पिङ्गललोचनो दंष्ट्री शङ्कुकर्णः कृष्णतनुरुत्तमाङ्गान्निश्चाचार||४||
ज्वरस्तु स्थाणुशापात् प्राचेतसत्वमुपागतस्य प्राजापतेः क्रतोउ भागमपरिकल्पयेतस्ताद्विनाशार्थं पर्वजन्मावमानि तया रुद्राण्या प्रेरितस्य पशुपतेर्दिव्यमब्दसहस्त्रं परि- रक्षितवतः क्रोधमितिचिरकालसम्भृतो व्रतान्ते रोषाग्निः किङ्कररूपेण किलपिण्डितमूर्त्तिर्वीरभद्रनामा भस्मप्रहर- णस्त्रिशिरोऽभिबाहुपादः पिङ्गललोचनो दंष्ट्री शङ्कुकर्णः कृष्णतनुरुत्तमाङ्गान्निश्चाचार|| ४||
Adhikarana jvarasya shivaM prati gamanam (5) · Śloka 5
स देवीविनिर्मितया सह भद्रकाल्या प्रतिरोमकूपम- भिनिः सृतैर्विविधविकृताकृतिभिरनन्तैर्भयानकवाक्य- क्रियावपुर्भिरनुचरैः परिवृतश्छतुर्युगान्तकरकालाम्भोद- सहस्रनिनदोऽनुनादयन् रोदसी ज्वालागर्भेण परीतः कलकलारावेण महाभूतसम्प्लवकारिणा विधाय दानवबधमश्वमेधाध्वरविध्वंसनं च प्राञ्जलिर्विज्ञापयामास शिवम्||५||
रोदसी द्यावापृथिव्योरन्तरालम्| सम्प्लवः उपप्लवः|| ५||
Adhikarana jvarasya shivaM prati vij~japtiH (3) · Śloka 3
शिवीभूतोऽसि देव-देव|
देवैः पितामहप्रभृतिभिर्जगतः पित्रा च धात्राऽभिष्टूयमानः|
सम्प्रत्यहं किं करवाणीति ?||३||
००
Adhikarana shivasyA~a~aj~jA (6) · Śloka 6
तं शूली क्रोधमादिदेश|
यस्मात् त्रिदशैरप्यजय्य! मत्क्रोध! व्रतविघ्नं चकीषुर्दैत्यसैन्यं दक्षो दक्षहव्यञ्च त्वया जीर्णमतो जगतोऽस्य सस्थावरस्य ज्वरयिता|
ज्वरो भवान् भवतु|
त्वं हि सर्वरोगाणां प्रथमः प्रवरो जन्ममरणेषु तमोमयतया महामोहः प्राग्जन्मनो विस्मारयिताऽपचारान्तरेषु चोष्मा- यमाणत्वात् सन्तापात्मा द्वयेष्वपि ध्रुवो ज्वरो भवेति||६||
शूली भगवान् महेश्वरः| अपचारान्तरेष्वपथ्यविशेषेषु| द्वयेष्वपीत्युक्तेषु जन्ममरणेष्वपचारान्तरेशु| ध्रुवोऽवश्यम्भावी|
Adhikarana jvarasya sarvatovicaraNaM nAmAni ca (2) · Śloka 2
सोऽयमेवमुमापतिनाऽनुगृहीतो नानानामभिः सर्वतो- ऽनुभुवि विचरति|
तद्यथा-पाकलो गजेष्वभितापो वाजिष्वलर्कः कुक्कुरेष्विन्द्रमदो जलजेषु ज्योतिरोष- धीषु चूर्णकोधान्येष्वप्सु नीलिका भूमावुषरो मनुष्येषु ज्वर इति||२||
००
Adhikarana jvareNa saha jAtA rogAH, raktapittagulmAdisambhavaprakArAdi ca (7) · Śloka 7
तत्सहजाश्छारोकाङ्गमर्दशिरोव्यथाभ्रमक्लमग्लानितृष्णा- सन्तापादयः|
तत्सन्तापाच्च रक्तपित्तम्|
तत्रैव च यज्ञे क्रोधभयाभिभूतानां परितो विद्र्वतां लङ्घनप्लवना- द्यैर्देहविक्षोभणैर्गुल्मविद्रधिवृद्धिजठरादयो हैःप्राशा- न्मेहकुष्ठार्शः शोफातीसारादयो भयोत्रासशोकाशुचि- संस्पर्शैरुन्मादापस्मारग्रहादयो रोहिण्यतिप्रसङ्गाच्छेषदुहि- त्रसम्भोगकृताश्छ प्रजापतिक्रोधान्नक्षत्रराजस्य राजयक्ष्मा तत्सहोद्भवाश्छ कासश्वासादयः|
सोऽपि हि न विना ज्वरेणानुबध्नातीति सकलोऽपि रोगग्रामो ज्वरपूर्वको ज्वरशब्दवाच्यो वा||७||
तेन च ज्वरेण सह तदा जाता अरोचकादयः| शेषाऽतिस्पष्टतया न व्याख्यायते| ज्वरेण विना नानुबध्नाति अनुबध्नतोऽवश्यं भावी ज्वर इत्यर्थः|
Adhikarana rogoparyAyAH tannishcyApAyAshca (8) · Śloka 8
ज्वरस्तमो विकार आतङ्कः पाप्मा गदो व्याधिराबाधो दुःखमामयो यक्ष्मा रोग इत्यनर्थान्तरं|
तत्र रुजतीति रोगः|
तस्योपलब्धिनिदानपूर्वरूपरूपोपशयसम्प्राप्ति- भिः||८||
सर्वेषां रोगाणां ज्वरादीनि नामानि| रोगशब्दः प्रसिद्धत्वान्निरुच्यते पर्य्यायाणामर्थावबोधनाय| तस्य रोगस्योपलब्धिर्जिज्ञासितुर्बुद्धावुपारोहो निश्छयश्छ निदानादिभिः पञ्चभिर्हेतुभूतैः|| ८||
Adhikarana rogANAM sAmAnyakAraNam (9) · Śloka 9
तत्र निदानं वाय्वादिप्रकोपः|
तस्य पुनरहिताहारविहार- सेवा||९||
निदानं कारणम्| ज्वरादीनां वातादयो वातादीनां प्रतिषिद्धानुष्ठानम्| तदुभयमपि रोगविशेषावच्छेदे हेतुः| न हि यत्र स्तम्भपारुष्यादि दृष्यते, यत्र वा लघुरूक्षादिगुणयुक्ताहारसेवाति व्यायामादिकं वा, चिरकालातीतं ज्वरादिकं व सञ्जातं, तत्र कदाचिदपि कफकारणतां रोगस्य वक्तुं पार्य्यते| प्रतिरोगमपि च विशिष्टं कारणमाम्नातम्| यथा अर्शसामतिव्यवाययान संक्षोभकठिनोत्कटिकासनादि| प्रमेहे च नवधान्यादि| तेन यथोक्तेन रोगस्येदन्ता परिच्छिद्यते|| ९||
Adhikarana nidAnaparyAyAH (10) · Śloka 10
निदानपर्य्यायास्तु हेतुर्निमित्तमायतनं कारकः कर्त्ता कारणं प्रत्ययः समुत्तानं मूलं योनिरिति||१०||
हेत्वादीन्यस्य पर्य्यायाः|| १०||
Adhikarana pUrvarUpanirUpaNam (11) · Śloka 11
पूर्वरूपं नाम येन भाविव्याधिविशेषो विज्ञायते न तु दोषविशेषः|
तद्ध्युत्पत्स्यमानस्य व्याधेरल्पत्वादव्यक्तं रूपम्||११||
निदानं चैकमप्यनेकस्य रोगस्य कारणं सम्भाव्यते, यतस्तत एव निश्छयेन पूर्वरूपादीन्यपेक्ष्यन्ते| पूर्वरूपं दोषशेषानपेक्षं व्याधिविशेषस्य भविष्यतो गमकम्| वयमेवं बुद्ध्यामहे विशिष्टस्य स्वरूपमात्रेण रोगस्य सकलरोगविशेषेषु यदनुगच्छति तद्दोषविशेषस्याऽऽगमकम्| स्वल्पत्वादव्यक्तञ्च स्वरूपमुच्यते न तु दोषविशेषेण| तस्मिन् काले सर्वथा रोगस्यानधिष्ठानात् केवलं न तत्तस्य तथा गमकम्| तथा हि वातजेऽपि ज्वरे आलस्यादयो भवन्त्येव| भवति च तदेव दोषविशेषानधिष्ठाने| अन्यथा किं तस्यामवस्थायां यो दोषो नाभूत् रोगे भवति स व्यक्तावस्थायां कुत आगमिष्यति ? शास्त्रकृतश्छैतदेवाभिमतम्| येन हृदये पठति-'तदेव व्यक्ततां यातं रूपमित्यभिधीयते' इति| एवञ्च स्थिते 'सपूर्वरूपाः कफपित्तमेहाः' इति यदा हृदयग्रन्थे व्याख्यायते तत्रैव चोदयिष्यामः|| ११||
Adhikarana rUpanirUpaNam (12) · Śloka 12
स्पष्टं पुना रूपम्||१२||
यत् स्पष्टं व्याधेर्दोषविशेषाधिष्ठतस्य गमकं तद्रूपम्| तच्च निदानेन किञ्चिदधिगते रोगे पूर्वरूपेण दोषविशेषं विना विशेषे ज्ञाते दोषविशेषाधिगमायावश्यमुपयुज्यते| रोगविशेषनिश्चयाय|
Adhikarana rUpaparyAyAH (13) · Śloka 13
तस्य शब्दान्तराणि लिङ्गमाकृतिर्लक्षणं चिह्नं संस्थानं व्यञ्जनमिति||१३||
तस्य रूपस्य शब्दान्तराणि पर्यायाणि लिङ्गादीनि|| १३||
Adhikarana upashayAnupashayanirUpaNam (14) · Śloka 14
उपशयो हेतुव्याधिविपरीतैर्विपरीतार्थकारिभिश्छोउषधा- हारविहारैः सुखानुबन्धः|
स हि व्याधिसात्म्यसंज्ञः|
तद्विपरीतोऽनुपशयः|
एतेन देशकालोउ व्याख्यातोउ||१४||
एषाञ्च किञ्चिन्निदानसंयोगसंस्कारवशादाश्रितैर्विरुद्धैर्विरुद्धकार्यकरैश्छ गुणैरनेककार्यहेतुता सम्भावनयाऽनेकत्रतया पाठाच्च विशेषानधिगतिं सम्भावयतोपशयोऽपि विशेषगमकत्वहेतुतायां निक्षिप्तस्तस्मादुपशयप्रदर्शनार्थमाह-उपशय इति| उपशय आहारविहारैः सुखानुबन्धः| किम्भूतैर्हेतुविपरीतैव्याधिविपरीतैर्विपरीतार्थकारिभिश्छ| एषाञ्च लक्षणानि सूत्रस्थाने प्रदर्शितानि| तस्यैव चोपशयस्य व्याधिसात्म्यमिति संज्ञा| उपशयप्रसङ्गादनुपशयोऽपि लक्ष्यते| उपशयलक्षणाद्विपरीतलक्षणोऽनुपशयः| अनुपशयेन च व्याधेः स्वरूपविशेषः परिच्छिद्यते| अनेन चोपशयाख्येन सुखानुबन्धेन देशकालावपि व्याख्यातोउ| तेनैतदुक्तं भवति-यस्य व्याधि विशेषस्य यो देशः कालो वा सुखानुबन्धहेतुः स तस्य सात्म्यमिति ज्ञेयः| तेन चानूपादिभेदभिन्नेन शीतादिविशेषविशिष्टेन च साधारणदोषविशेषनिमित्तया व्याधिविशेषनिमित्ततया च रोगस्य स्वरूपविशेषः परिच्छिद्यते| सर्वश्छायमुपशयो भिषक्परीक्षाकालात् पूर्वमयत्नेनैव सम्पन्नो वैद्यपरीक्षायां विकारविशेषाधिगतेः कारणसामग्रीमनुप्रविशाति| अथवा गूढलिङ्गं आबाधे आशङ्किताऽऽमय परिहारेण, यत्नेनाप्युपशयानुपशयहेत्वाहारादिकं प्रयुक्तं तत्तु कर्मनिष्णातस्य भिषजोऽवधारणेयत्तामावोढुमलम्| एवमेतत्रिदानादिचतुष्टयं रोगविशेषावच्छेदाय पर्याप्तम्|| १४||
Adhikarana samprAptivivaraNam (15) · Śloka 1
सम्प्राप्तिः पुनरेवंदुष्टो दोषस्तेन चैवमारब्धो व्याधिः||१||
अथ कदाचिन्निदानादीनि साधारणत्वाद् व्यामोहादन्यतोऽपि वा निमित्तादातङ्कस्य स्वरूपमसमर्थानि प्रदर्शयितुं ततः सम्प्राप्त्या व्याधिविशेषं भिषगवगच्छेत्| अथ का पुनरियं सम्प्राप्तिर्नाम भवतीति ? या हि जनानां पद्धतिरिव गदानां निदानादिभिरधिगतानामपि सर्वेण प्रकारेण स्वरूपनिःशेषनिराकाङ्क्षतामावहति| इयमुच्यते-एवं दुष्टो दोष इत्यादिना| एवमित्यनेन प्रकारेण| प्रकारश्छाहितवेशेषसेवनाद्बहुरूपः| तथा च तदेवैकं द्रव्यं तमेव चैकं स्वकार्य्यभूतमन्यतमं दोषं, प्रकृत्यादीनां नानाविधविशेषापेक्ष्या कदाचिल्लाघवेन कोपयति, कदाचिद्रोउक्ष्येण| कदाचित्काठिन्येन| कदाचिदजीर्णेन| कदाचिद्दोषान्तरप्रकोप्रेण| कदाचिच्छैत्येन| कदाचिदन्येन वा यथासम्भवं गुणविशेषेणेति | तथा किञ्चिद् द्रव्यमूर्ध्वभागिकं भवति तदन्यथा दोषं कोपयति| किञ्चिदधोभागिकं तदन्यथा| अन्यदुभयभागिकं तद्रूपान्तरेण| एतस्म्माच्च कार्य्यविशेषादेवंदुष्टो दोष इति ज्ञायते| न हि मरिचस्य रोउक्ष्येण यो दुष्टो वायुर्यश्च तस्यैव लाघवेन तावेकरूपोउ भवितुमर्हतः| रौक्ष्येण हि कुपितो रोउक्ष्यमेवात्मगुणमुओपबृंहयंस्तदनुगुणान्येव कार्य्याणि काठिन्योपशोषणादीनि कुरुते| लाघवेन च कुपितः पवनो रूपमनुवर्धयन् लाघवादीन्येव प्रदर्शयति| एवं सर्वमप्यूह्यम्| सम्मोहभयाद्विस्तरेण न प्रतन्यते| तथा च इदमेव तावद् दृश्यताम्| इह हि प्रभञ्जनप्रकोपकारणं तिक्तकटुककषायरूक्षलघुशीतविष्टम्भिविरूढकतृणधान्यादिबहुविधं निर्दिष्टम्| यत्र यस्तिक्तरसेन द्रव्येण कोपः स एव किं कटुकेनान्येन वा विरूढकादिना भवति| द्रव्याणामनेककारणारब्धत्वात्| तथा योऽपि पटोलात् कोपः स एव न त्रायन्तीवालकादिप्रत्ययतामुपयाति| न चैवमेकं द्रव्यमेकस्यैव दोषस्यायतनं भवति| यतस्तद् द्रव्यामनुचितेन मात्रादिविशेषेण प्रयुक्तं सद्यथोक्तेन गुणेन किञ्चित् कोपयति| तथा गुणान्तरेण सदृशेन विलक्षणेन वा| प्रभावादिर्भिर्वा| तमेव दोषान्तरमेवा वा प्रकोपयितुं किं बन्धुवर्गेण कारितशपथम्| तेनैकस्मिन्नपि दोषे कुपिते व्याधिकारिणी चान्योदोषहेत्वाद्यपेक्षं कदाचिन्मात्रया तस्य व्याधेः समुत्तानतामप्राप्तोऽपि विकारविशेषमापन्नो भवत्येव| तथा न तन्त्रेषु दृश्यते| ज्वरचिकित्सिते तावत्- कषायपानपथ्यानैर्दशाह इति लङ्घिते| सर्पिर्दद्यात् कफ़े मन्दे वातापित्तोत्तरे ज्वरे|| पक्वेषु दोषेष्वमृतं तद्विषोपममन्यथा| दशाहे स्यादतीतोऽपि ज्वरोपद्रववृद्धिकृत्|| लङ्घनादिक्रमं तत्र कुर्य्यादाऽऽकफ़संक्षयात्| (अष्टाङ्गसंग्रहः चिकित्सा-१) देहधात्वबलत्वाच्च ज्वरो जीर्णोऽनुवर्तते| रूक्षं हि तेजो ज्वरकृत्तेजसा रूक्षितस्य च|| वमनस्वदेकालाम्बुकषायलघुभोजनैः| यः स्यादतिबलो धातुः सहचारी सदागतिः|| (अष्टाङ्गसंग्रहः चिकित्सा-२) इत्यादि| इदमेव तावद्विचार्य्यतां किं त्रिदोषजमेव ज्वरमधिकृत्यैतदुच्यते आहोस्वित् सामान्येन| यदि त्रिदोषजाधिकारेणेत्युज्यते तन्न| आन्त्रकरणमविशेषपाठाद्यथोक्तासम्भवाच्च अथवा सामान्येन| तत्रैकदोषाभिमतरोगपक्षे कथं यथोक्तसम्भवः| यतो ज्वरकारणे कफ़े वमनादिभिः क्षीणे तत्कार्यमं च ज्वरकारणे कफ़े वमनादिभिः क्षीणे तत्कार्यमं च ज्वरोऽपि कथं न क्षीयते ? अनपचितोऽपि वा किमिति स्वकरणदोषविपरीतदोषान्तरकारण-तामेकदैवासादयति| उक्तञ्चैतत्प्रयोगः शमयेद्वयाधिं योऽन्यमन्यमुदीरयेत्| नाऽसोउ विशुद्धः शुद्धस्तु शमयेद्यो न कोपयेत्|| इति| (चरकः निदान-८.२३, अ. सं: सूत्र०-२९) तस्मान्नापि क्रियापादहानोउ व्यामूढकचिकित्सकविषये चैतदुच्यते| अनवस्थाप्रसङ्गात्| एवमेकदोषजेष्वप रोगेषु दोषान्तरं सम्प्राप्त्यभिमुखं भवत्येव| यत्कालादिकं सहायमासाद्य नानाविधविकारकरणाय विजृम्भत इति| न चाऽनेकमपि द्रव्यमेकेनैव रूपेणैकस्य दोषस्य कारणं भवति| तस्मादनेन प्रकारेण दुष्टो शेष इति ज्ञायते| कथमनेन दुष्टेनापि सता व्याधिरारभ्यते ? इति विकल्प्यते| तस्माद् दुष्टो दोषो दोषकारणविशेषवशादन्यथा चान्यथा च विकारहेतुतामनुगृह्णति| तथा स एव दोषः सकलं शरीरमनुसरन् विशिष्टमेव रोगमभ्Vइनिर्वर्तयति| एकत्रावस्थितोऽपि विशिष्टदोषान्तरेण विहतप्रसरोऽन्यं दोषान्तरमनुगतोऽन्यमित्येवमादिनैकोऽपि दोषो नानाविधविकारकरः सम्पद्यते| येन स एव वायुः कदाचित् ज्वरमभिनिर्वर्तयति कदाचित्कुष्ठादिकमिति| एषा सम्राप्ती रोगविशेषाधिगमे हेतुः| यस्माद्यदैवं ज्ञायते यथाऽनेन निदानविशेषेण यो दोषः कुपितः स च कारणवशादस्मिन् देहे स्वत एवंव्यापारोऽनेनानुगतश्च वर्तते, एवंविधश्चास्य रोगविशेषस्य सम्प्राप्तिविशेषः प्रदर्शितस्तदाऽवश्यमेवाधिगम्यते अयं रोग उत्पन्न इति| एतानि निदानादीनि पञ्च परस्परसमन्वितानि व्याधिविशेषाधिगमने निराकाड्क्षतामनुबध्नन्ति|| १५||
Adhikarana samprApteH paryAyAH (16) · Śloka 16
तत्पर्याया जातिरागतिर्निवृत्तिर्निष्पत्तिरिति||१६||
तत्पर्याया इति| तस्याः सम्प्राप्तेः पर्य्याया जात्यादयः|
Adhikarana samprApterbhedAH (17) · Śloka 17
सा सङ्खयाविकल्पप्राधान्यबलकालविशेषैर्भिद्यते||१७||
सा च सम्प्राप्तिः पञ्चभिः सङ्खयादिविशेषैर्भिद्यते|| १७||
Adhikarana sa~gkhyAvyAkhyA (18) · Śloka 18
तत्र सङ्खया तावदष्टोउ ज्वरास्त्रिविधं रक्तपित्तं पञ्च कासा इति||१८||
तत्र सङ्खया यथेत्याऽऽह--अष्टोउ ज्वरा इत्यत्रेव वक्ष्यते| एषैव सङ्खयासम्प्राप्तिर्यत्तदेकोऽपि रोगोऽनेकधा भवतीति| एवं विकल्पादीनामपि वाच्यम्|| १८||
Adhikarana vikalpavivaraNam (19) · Śloka 19
विकल्पः समवेतानां दोषाणामंशांशिकल्पना||१९||
मिश्रीभूतानां दोषाणामंशांशिका या कल्पना स विकल्पः|
Adhikarana prAdhAnyasya nirUpaNam (20) · Śloka 1
प्राधान्यं व्याधीनामनुबन्ध्यनुबन्धकभेदात्तरतमयोगाद्वा||१||
प्राधान्यं सूत्रस्थानोदित ( अष्टाङ्गसङ्ग्रह, सूत्रस्थान-२२ ) अनुबन्ध्यनुबन्धक-भेदाद्द्विविधं भवति| तत्रानुबन्ध्यः प्रधानमनुबन्धकोऽप्रधानम्| अथवा तरतमयोगात् प्राधान्यं भवति| य एवान्यापेक्षयाऽधिकः स एकस्तस्य प्रधानमित्यर्थः|| २०||
Adhikarana balanirUpaNam (21) · Śloka 21
दोषाणां बलाबलविशेषो हेत्वादिकार्त्स्न्याऽवयविभावनया||२१||
दोषाणां बलाबलविज्ञानं हेत्वादीनां कार्त्स्न्यावयवविशेषेण| यदा कृत्स्ना हेत्वादयो दोषे दृष्टास्तदा बलत्वं तस्याध्यवस्यते| यदा त्ववयवेन तदा अबलत्वमित्यर्थः| आदिग्रहणेन पूर्वरूपादीनां ग्रहणम्|| २१||
Adhikarana kAlavivaraNam (22) · Śloka 22
कालविशेषः पुनर्दोषाणामृत्वरहोरात्र्याहारसमयनियतः प्रकोप इति||२२||
कालविशेषो वातादीनामृत्वादिपारतन्त्र्येण यथोक्तेन प्रकोपः|
Adhikarana upasaMhAraH (23) · Śloka 23
एतावतैव समासतः कथितो निदानार्थः|
विस्तरेण तु यथास्वं प्रतिरोगमुपदेक्ष्यते||२३||
इत्यनन्तरोक्तेन प्रकारेण समासतः संक्षेपेण निदानार्थो व्याधिकारणस्वरूप उक्तः| विस्तरतस्त्वसाधारण्येन प्रतिरोगं पृथगध्यायेषूच्यते|| २३||
Adhikarana vAtasya prakopakAraNAni (24) · Śloka 24
अथ तिक्तकटुककषायरूक्षलघुशीतविष्टम्भिविरूढ- कतृणधन्यकलायचणककरीरतुम्बकालिङ्गचिर्भिटबिस- शालूकजाम्बवतिन्दुकहीनशुष्कप्रमिततृषिताशनक्षुधि- ताम्बुपानाऽसृक्क्षयविरेचनादिकर्मातियोगवेगविधा- रणोदीरणरात्रिजागरणप्रवातव्यवायव्यायामबलबद्युद्ध- निग्रहातिखचापकर्षणाऽत्युच्चविषमलङ्घनाऽध्वाऽध्य- यनधावनसलिलतरणाभिद्यातदभ्यगोवाजिगजनिग्रहाऽश्म- शिलालोहकाष्ठोत्क्षेपविक्षेपभ्रमणचालनगाढोच्छादन- पराघातनादिसाहसभयशोकोत्कण्ठादिभिरतिसेवितैर्ग्रीष्म- वर्षाऽपराह्णपररात्राऽऽहारपरिणामान्तेषु च वायुः प्रकोप- मापद्यते||२४||
अथेत्यादिना सर्वरोगनिदानभूतानां वातादीनां प्रकोपकारणमुच्यते| तिक्तादिर्भिरतिसेवितैर्वायुः प्रकोपमापद्यत इति सम्बन्धः| तथा ग्रीष्मन्तादिषु च वायुः प्रकोपमापद्यते| अशनशब्दस्य हीनादिभिः सम्बन्धः| विरेचनादीनां कर्मणामतियोगेन यथोक्तलक्षणेन| विरेचनं वमनविरेकोउ| आदिग्रहणेन निरूहनस्य गण्डूषादीनां ग्रहणम्| प्रवातः प्रकृष्टः पवनः| बलवता सह युद्धेन निग्रहस्तथोक्तः| कठिनचापकर्षणादियुक्तयो यत्र| आदिग्रहणादन्येषां तथाविधानां साहसानां ग्रहणम्| दम्यानां अदान्तानां गवादीनां निग्रहः| अश्मादीनामुत्क्षेपादिना सम्बन्धः|| २४||
Adhikarana pittasa prakopakAraNAni (25) · Śloka 25
कट्वम्ललवणक्षारोष्णतीक्ष्णविदाहिशुज्तशाण्डाकीमद्य- मूत्रमस्तुदधिधान्याम्लतैलकुलत्थमाषनिष्पावतिलान्न- कट्वरकुठेरकादिवर्गामाम्रातकाम्लीकापीलुभल्लात- कास्थिलाङ्गलिकामरचितपाग्निरजोधूमक्रोधेर्ष्याऽजीर्ण- मैथुनोपगमनादिभिर्वर्षाशरन्मध्यन्दिनार्धरात्राहारविदाह- कालेषु च पित्तम्||२५||
कट्वम्लादिभिः पित्तं शरदादिकालेषु च प्रकोपमापद्यते| आममपक्वमाम्रातकम्| अजीर्णे मैथुनोपगमनं तथोक्तम्| आदि ग्रहणेनान्येषामपि पित्तहेतूनां ग्रहणम्|| २५||
Adhikarana kaphaprakopakAraNAni (26) · Śloka 26
मधुराम्ललवणस्निग्धगुरुशीतपिच्छिलाभिष्यन्दिनवान्न- पिष्टपृथुकस्थूलभक्ष्यष्कुल्यामक्षीरकीलाटमोरटकूची- कातक्रपिण्डकपियूषेक्षुरसफ़ाणितगुडानूपपिशितमोच- खर्जूरभव्यनालिकेलनिशाम्बुपानात्यम्बुपानातिसन्त- र्पणभुक्तमात्रदिवास्वप्नकालातिस्वप्नकायवाड्मनो- व्यापारानारम्भानुपधानशयनावश्यायहर्षच्छर्दिविधात- विरेचनाद्ययोगदिभिः शिशिरवसन्तपूर्वाह्णप्रदोषभुक्त- मात्रेषु च श्लेष्मा||२६||
मधुराम्ललवणस्निग्धगुरुशीतपिच्छिलाभिष्यन्दिनवान्न- पिष्टपृथुकस्थूलभक्ष्यष्कुल्यामक्षीरकीलाटमोरटकूची- कातक्रपिण्डकपियूषेक्षुरसफ़ाणितगुडानूपपिशितमोच- खर्जूरभव्यनालिकेलनिशाम्बुपानात्यम्बुपानातिसन्त- र्पणभुक्तमात्रदिवास्वप्नकालातिस्वप्नकायवाड्मनो- व्यापारानारम्भानुपधानशयनावश्यायहर्षच्छर्दिविधात- विरेचनाद्ययोगदिभिः शिशिरवसन्तपूर्वाह्णप्रदोषभुक्त- मात्रेषु च श्लेष्मा|| २६||
Adhikarana saMsargajagadoShaprakopahetuH (27) · Śloka 27
द्वयसंसर्गात् संसर्गः||२७||
यस्योभयकोपलक्षणस्य च संसर्गान्मिश्रीभावाद्यथास्वं संसर्गः कुप्यति|| २७||
Adhikarana sannipAtaprakopakAraNAni (28) · Śloka 28
सर्वेषां तु मिश्रीभावात्तथाऽध्यशनसमशनविषमाशन- विरुद्धाशनसङ्कीर्णाशनव्यापन्नाम्बुमद्यमन्दकदधियावक- यवसुरापिण्याकाममूलकसर्षशुष्कशाकवल्लूरकृश- पिशितलकुचामफ़लमृत्तिकाभ्यवहारान्नपरिवर्त्तर्त्तुव्या- पदसात्म्योउषधिगन्धघ्राणविषपिटकाविषगराभ्यवहारा- नार्त्तवदुर्दिनग्रहपीडाग्रहावेशपुरोवातपर्वतोपश्लेषरसा- यनस्नेहस्वेदविरेचनादि मिथ्यायोगेभ्यः पापानां च कर्म- णामभ्यासात्पूर्वं कृतानाञ्च परिणामात्स्त्रीणां विषम- प्रसवात्प्रसूतानाञ्च मिथ्योपचारात् सन्निपातः||२८||
एवं सर्वेषांसर्वदोषप्रकोपहेतूनां मिश्रीभावादध्यशनातिभिश्च सन्निपातः प्रकुप्यतीति सम्बन्धः| अध्यशनादीनां लक्षणान्युक्तानि (अष्ताङ्गसंग्रह-८.३३-३४, ७.४५)| सङ्कीर्णाशनं नानाजातीयोजनम्| व्यापन्नशब्देन विकृतपर्याणेयाम्बुमद्ययोः सम्बन्धः| मन्दकमजातं दधि| यवसुरा सुराविशेषः| वल्लूरं शुष्कमांसम्| अन्नपरिवर्तो देशादिहेतुकोऽन्नविनिमयः| ऋतुव्यापत्काले हीनयोगमिथ्यायोगातियोगाः| विषपितका विषहेतुकास्तथोक्ताः| गरो वक्ष्यमाणलक्षणः ( उ० ४० )| अनार्त्तवदुर्दिनमत्र यद्वर्षा हेमन्ते तदार्त्तवम्| अन्यथा दुर्दिनमनार्त्तवम्| ग्रहैः सूर्य्यादिभिर्जन्मराशेः पीडनम्| अथवा ग्रहणां देवदानवादिभेदानामष्टादशानां सम्बन्धः शरीरे| रसायनादीनां मिथ्यायोगेन सम्बन्धः| पूर्वजन्मकृतानां च पापानां कर्मणां परिणामादिति|| २८||
Adhikarana prakaraNopasaMhAraH (29) · Śloka 1
इति सामान्यतः सर्वेषु रोगेषु दोषप्रकोपहेतुरुक्त इति||१||
इति सामान्येन सर्वेषु रोगेषु ये कारणभूता दोषास्तेषां प्रकोपहेतुरुक्तः| एभिर्हि कारणैर्नानाविधविशेषविशिष्टैरनन्तरप्रदर्शितसम्प्राप्तिप्रकारविशेषसहस्त्रैः प्रकुपितास्त्रयोऽपि वातादयो दोषाः सङ्खयातीतान् विकारानभिनिर्वर्त्तयन्ति|| २९||
Adhikarana doShANAM dehe prasaraH (30) · Śloka 2
भवन्ति चात्र प्रतिरोगमिति क्रुद्धा रोगाधिष्ठानगामिनीः|
रसायनीः प्रप्रद्याऽऽशु दोषा देहे विकुर्वते||२||
भवन्ति चात्रेति श्लोकसमुदायैरुपपादतीति| अनेन प्रकारेण प्रति रोगं क्रुद्धा दोषा आशु देहे विकुर्वते| किं कृत्वा ? आहरोगाधिष्ठानगामिनीः रसायनीः प्रपद्य रसायन्यो रसवाहिन्यो धमन्यः सिराः| रोगस्याधिष्ठानं स्थानं यतो रोगः प्रभवति| तत्र या रसायन्यो गच्छन्ति ताः प्रपद्य तमेव रोगं कुर्वते| यथा बस्तिगामिनीः कृच्छ्रमेहोउ| एवं सर्वत्र सर्वरोगसाधारणवस्तुकथनमिति|| ३०||
Adhikarana AdAnAdinakShatreShu jAtasya vyAdheH kleshakArakatvaM mArakatvaM vA (31) · Śloka 31
आदानजन्मनिधनप्रत्यराख्यविपत्करे|
नक्षत्रे व्याधिरुत्पन्नः क्लेशाय मरणाय वा||३१||
प्रसङ्गेनेदमुच्यते| अस्मिन् नक्षत्रे चन्द्रमसा युक्ते यः कश्चिद्व्याधिरुत्पन्नः स एवं भवतीति| आदानमिति| आदानं नक्षत्रं येन व्याधितो गर्भे सम्भूतः| जन्मनक्षत्रं येन प्रजातः| निधनं जन्मतः सप्तमम्| प्रत्यरं पञ्चमम्| विपत्करं तृतीयम्| सुबोधमन्यत्|| ३१||
Adhikarana nakShatrAnurodhena jvarasya prashamaH mArakatvaM vA (32-33) · Śloka 33
ज्वररस्तु जातः षड्रात्रादश्विनीषु निवर्त्तते|
भरणीषु तु पञ्चहात्सप्ताहात्कृत्तिकासु तु|
त्रिः सप्तरात्राद्थवारोहिण्यामष्टरात्रतः|
एकादशाद्वा दिवसान्मृगे षण्णवरात्रयोः|
पञ्चाहान्मृत्युरार्द्रायां त्रिपक्षे संशयोऽथ वा|
पुनर्वसोउ प्रवृत्तस्तु ज्वरोऽपैति त्रयोदशात्|
दिवसात्सप्तविंशाद्वा द्वयहात्सप्ताहतोऽथ वा|
पुष्येश्लेषासु मरणं चिरेणाऽपि मघासु तु|
अवश्यं स्वास्थ्यमाप्नोति द्वादशाहान्मृतो न चेत्|
फ़ाल्गुन्योः पूर्वयोर्म्रुत्युरन्ययोश्च दिनेऽष्टमे|
नवमेऽह्नेकविंशे वा ज्वरः सौम्यत्वमृच्छति|
हस्तेन सप्तमे शान्तिश्चित्रामायमष्टमेऽथ वा|
पुनश्चित्रागमे स्वातोउ दशाहादथवा त्रिभिः|
पक्षैर्मृत्युं विशाखासु द्वाविंशेऽहनि निर्दिशेत्|
नवमेऽह्नि न चेच्छान्तिमेत्रे मृत्युस्ततः परम्|
ज्येष्ठायां पञ्चमे मृत्युरूर्ध्वं वा द्वादशात्सुखम्|
स्वास्थ्यं दशाहान्मुले तु त्रिसप्ताहेऽथवा गते|
पूर्वाषाढासु नवमे ततोऽन्यासु तु मासतः|
अष्टाभिरथवा मासैर्नवभिर्वा भवेच्छिवम्|
आज्येष्ठाहाद्धनिष्ठासु द्वादशाद्वारुणेषु तु|
षडहे द्वादशाहे वा मृत्युर्भाद्रपदासु तु|
उत्तरासु त्रिसप्ताहात् प्रशमो रेवतीषु च|
चतुरात्रेऽष्टरात्रे वा क्षेममित्याऽऽह गौतमः||३२||
इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतोउ अष्टाङ्गसंग्रहसंहितायां निदानस्थाने सर्वरोगनिदानंनाम प्रथमोऽध्यायः||३३||
श्रवणं कथं नोद्दिष्तमिति न विद्मः| दारुवाहिस्तु पठति कृत्तिकाश्रवणो हस्तः पुष्यश्च दशरात्रिका| इति| मृगो यावत्तावन्निवर्त्तते| पुष्ये दिवसात् सप्तविंशादूर्ध्वं द्वयहात् सप्ताहतोऽथवा| श्लेषास्वाश्लेषासु चिरेणापि मरणम्| मघासु तु द्वादशाहान्न मृत्यः ततोऽवश्यं स्वास्थ्यमाप्नोति| पूर्वयोः फ़ाल्गुब्योरन्ययोरुत्तरयोश्चाष्तमे दिने मृत्युः| हस्तेन जातो ज्वरो नवमेऽह्नयेकविंशे वा सौम्यत्वमृच्छति| चित्रायां जातः सप्तमे वाष्टमे वा शान्तिमृच्छति| अथवा दशाहादथवा त्रिभिः पक्षैः| विशाखासु जाते ज्वरे द्वाविंशेऽहनि मृत्युं निर्दिशेत्| मैत्रोऽऽनुराधा| तस्यां यदि नवमेऽप्यशान्तिः ततो विज्ञेयम्| इत्याह गोउतम इत्यनेन एतद् दर्शयतियथा गौतमस्तावदेवं वेत्ति| वयं पुनरवश्यं वस्तुनो निश्चयं निधिगच्छाम इति|| ३२|| इति श्रीमन्महामहोपाध्यायेन्दुविरचितायम् अष्टाङ्गसंग्रहव्याख्यायां शशिलेखायां निदानस्थाने प्रथमोऽध्यायः