Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

2. jvaranidānam

Adhikarana atha jvaranidAnaM nAma dvitIyo~adhyAyaH | pratij~jA (1) · Śloka 1

अथातो ज्वरनिदानं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः||१||

🔊 Audio coming soon

सर्वरोगाणां सामान्येन निदानमुक्त्वा ज्वरादिविशेषेणोच्यते| तत्रापि ज्वरस्य प्राधान्यात् पूर्वमध्याय आरभ्यते| यद्यपि प्राग्रूपसम्प्राप्त्यादिकमुच्यते, तथापि निदानेन प्राधान्याद्वयपदेशः|| १||

Adhikarana jvarasyAShTau kAraNAni (2) · Śloka 2

अष्टाभिः कारणैर्ज्वरः सञ्जायते| मनुष्याणां पृथग्दोषैः संसृष्टैः सन्निपातितैरागन्तुना च||२||

🔊 Audio coming soon

एवं ज्वरस्याष्टौ कारणानि| आगन्तुकारणस्य यद्यपि बहुविधत्वं तथाप्यान्यतन्त्रप्रसिद्धसङ्खयाबुरोधेनोक्तमविशेषेण| तत्र प्रथममेव तावद्दोषजा निश्चीयन्ते| पश्चादाऽऽगन्तुकारणम्|| २||

Adhikarana jvarasamprAptiH (3) · Śloka 3

तत्र यथोक्तैः प्रकोपनविशेषैः प्रकुपिता दोषाः प्रविश्यामाशयमूष्मणा मिश्रीभूया ऽऽ ममनुगम्य रसस्वेदवाहीनि स्त्रोतांसि विधाय पित्तं तु द्रवत्वात्तप्तमिव जलमनलमुपहत्य सर्वेऽपि च दोषाः पक्तारं स्वस्थानाद् बहिर्निरस्य सह तेन सकलमपि शरीरमभिसर्पन्तस्तत्सम्पर्काल्लब्धबलेन स्वेनोष्मणा नितरां देहोष्माणमेधयन्तो ऽन्तस्स्त्रोतोमुखपिधानात् स्तम्भमादधाना बहिरपि स्वेदमपहरन्तः सर्वेन्द्रियाणि चोपतापयन्तो ज्वरमभिनिर्वर्त्तयन्ति||३||

🔊 Audio coming soon

तत्र यथोक्तैरित्यादेर्दोषा ज्वरमभिनिर्वर्तयन्तीति सम्बन्धः| यथोक्तैः प्रकोपननिदानैस्तिक्तकट्वादिभिः ऊष्माणा आमाशयस्थेनाऽग्न्यभिधानेन| पित्तस्यायं विशेषः| यदुष्णमपि द्रवत्चादनलस्य जाठरस्योपहननं जलमिवोष्णम्| शेषं सर्वदोषसाधारणम्| दोषाणां स ऊष्मा येन पच्यते| तथा च दोषधातुषु स्वल्पा अनलभागाः प्रदर्शिताः| अत्र च प्रतिरोगमध्यायेषु यत् पृथङ्निदानकीर्त्तनं तद्वयाधेः स्वरूपाधिगमनाय चिकित्साकाले हेतुविपरीतोउषधपरिज्ञानार्थं च| सम्प्राप्तेरपि कीर्त्तनं व्याधिपरिज्ञानाय| चिकित्साकालेऽपि तथा तथाविधसम्प्राप्त्यन्यथाकरणेन तत्सम्प्राप्तिकस्य रोगस्य विनाशो भवतीति प्रतिबोधनाय च| तथा च विपुलमतिवैद्योउऽपचारस्वरूपविशेषात् तत्कार्यविशेषाद्दोषकार्य्यविशेषेभ्यश्च दोषाणां सम्प्राप्तोउ ज्ञातायां गूढलिङ्गस्यापि व्याधेः स्वरूपमधिगच्छत्येव| तथा प्रतिरोगप्रदर्शितायाः सम्प्राप्तेः स्वाध्यायोक्तच्चिकित्सितात् प्रकारान्तरेणापि यतो विनाशः कर्त्तुं पार्य्यते ततोऽवश्यमेव रोगोपशमः| सर्वस्यामपि चिकित्सायां सम्प्राप्तिविनाशनमेव प्रधानं प्रयोजनम्| तथा ज्वरचिकित्सते आमाशयस्थो हत्वग्निं सामो मार्गान् पिधाय यत्| विदधाति ज्वरं दोषस्तस्मात्कुर्वीत लङ्घनम्| इति|| ३||

Adhikarana jvarapUrvarUpANi (4) · Śloka 4

तस्येमानि पूर्वरूपाणि मुखवैरस्यमन्नानभिलाषो गुरु- गात्रत्वमालस्यमल्पप्राणता गतिस्खलनं निद्राधिक्यमर- तिरसूया हितोपदेशेषु प्रद्वेषो बालेषु मधुरेषु च भक्ष्ण्ये- ष्वम्ललवणकटुकाभिनन्दनमविपाकोऽङ्गमर्दश्चक्षुषो- राकुलत्वं साश्रुता जृम्भा विनामः क्लमो रोमहर्षः शब्दा- नलाम्बुशीतवातऴच्छायातपेष्वकस्मादिच्छाद्वेषोउ च| तद- नन्तरं व्यक्तिभावो ज्वरस्येति||४||

🔊 Audio coming soon

मुखवैरस्यादीनि ज्वरस्य पूर्वरूपाण्युक्तानि| अविशिष्टदोषैर्यद्यापि ज्वरयति, तथापि भविष्यत्प्रतीतिर्दोषानुरोधेनैवाऽस्फ़ुटत्वमल्पत्वञ्च विज्ञेयम्| तथाहि गुरुगात्रत्वं भविष्यति कफ़ज्वरे| एवं सर्वत्र कल्प्यम्| एतान्यपि व्याधिविशेषपरिज्ञानायोपयुज्यन्ते चिकित्सायै च| तथा द्रुष्टमात्र एव पूर्वरुपे तेन निदानविशेषेण च रोगस्य स्वरूपं परिच्छिन्नं भवति| तदा तस्मिन्काल उपक्रान्तो रोगः क्षिप्रतरमेव प्रशममापद्यते| कदाचिद् दृष्टे पूर्वरूपे विशिष्टदोषता रोगस्यानिधिगता भवति| तत्र सकलरोगसाधारणरोगविशेषमात्राश्रयणेनैव चिकित्सा प्रयुक्ता किंसुखाय न सम्पद्यते ? एतदेन हृदि कृत्वा भट्टारहरिचन्द्रेण वा शब्दस्यानीर्दिष्टस्याप्राधान्यं प्रदर्शयितुं लघ्वशनमपतर्पणं वेत्यत्र ज्वरपूर्वरूपेक्षुलघ्वशनस्य प्राधान्यं लङ्घनस्याप्रधान्यं व्याख्यातम्| तच्च भिषक्शास्त्रनिष्णाता नाङ्गीकुर्वन्ति| यतो न पूर्वपदर्शनमात्रेणैव भिषक् चिकित्सायां प्रवर्त्तते| अपितु निदानादि किञ्चिज्जानात्येव| ततश्च येन स्निग्धगुर्वादिकं कफ़कारणमुपयुक्तं तस्यापतर्पणं त्यक्त्वा लघ्वशनं प्रधानं न भवतीति| भट्टारकेण तु पूर्वरूपेषु सकलदोषसाधारणत्वात् लघ्वशनस्य प्राधान्यमुक्तम्| अल्पप्राणता चेष्टास्वशक्तत्वम्| अरतिर्न क्वचिदवस्थिति| असूया परस्य दोषाविष्करणम्| हितोपदेषादिषु प्रद्वेषः| अन्नाद्यनभिनन्दमविपाकोऽन्नादीनाम्| आकुलत्वं साश्रुता च चक्षुषोरेव| जृम्भा सन्मुखविकासो गात्रविनामः| शब्दादिष्वकारणेनैवेच्छातथैव पुनर्द्वेषः| तदनन्तरं प्राग्रूपाणामनन्तरं क्रमेण ज्वरस्य व्यक्तीभावो भवति|| ४||

Adhikarana vAtajvaralakShaNAni (5) · Śloka 5

भवति चात्र आगमापगमक्षोभमृदुता वेदनोष्मणाम्| वैषम्यं तत्र गात्राङ्गे तास्ताः स्युर्देदनाश्चलाः| पादयोः सुप्तता स्तम्भः पिण्डिकोद्वेष्टेनं क्लमः| विश्लेष इव सन्धीनां साद ऊर्वोः कटीग्रहः| पृष्ठं क्षोदमिवाप्नोति निष्पीड्यत इवोदरम्| भिद्यन्त इव चास्थीनि पार्श्वगानि विशेषतः| हृदयस्य ग्रहस्तोदः प्राजनेनेव वक्षसः| स्कन्धयोर्मथनं बाह्वोर्भेदः पीडनमंसयोः| अशक्तिर्भक्षणे हन्वोर्जृम्भणं कर्णयोः स्वनः| निस्तोदः शङ्खयोर्मूर्ध्नि वेदना विरसास्यता| कषायास्यत्वमथवा मलानामप्रवर्त्तनम्| रूक्षारुणत्वगास्याक्षिनखमूत्रपुरीषता| प्रसेकारोचकाश्रद्धाऽविपिकास्वेदजागराः| कण्ठौष्ठशोषस्तृट्शुष्कोउ छर्दिकासौ विषादिता| हर्षो रोमाङ्गदन्तेषु वेपथुः क्षवथोर्ग्रहः| भ्रमः प्रलापो घर्मेक्षा विनामश्चानिलज्वरे||५||

🔊 Audio coming soon

भवति चात्रेति तन्त्रारीतिः| आगमापगमेत्याद्यनिलज्वरस्य रूपं भवतीति सम्बन्धः| वेदनानामूष्मणां च वातवशात् कदाचिदागमो भवति कदाचिदपगमः| अनित्यसद्भावो वा| कदाचित्क्षोभोभवति| कदाचिन्म्रुदुत्वम्| अथवा वेदनादीनां देहदेशविशेषतः कालविशेषतश्च वैषम्यमनेकरूपत्वं भवति| तत्र-तत्र च वाय्वाश्रयेऽङ्गे तास्ता वायुकारणा वेदनाश्चलाः स्युः| सुबोधम्| प्राजनं प्रतोदः शिरसि अधिकं वेदना| आस्य विरसत्वं विशेषानाख्येयदुष्टरसत्वम्| मलाः मूत्रशकृत्स्वेदादयः| त्वगादीनां रूक्षारुणता| कासच्छर्दिषोः शुष्कत्वं कफादीनामप्रवृत्तिः| वातज्वरेऽवश्यं क्षवथोर्ग्रहः| सर्वस्य च रूपकीर्त्तनं व्याधिस्वरूपविशेष परिज्ञानाय पृथक् चिकित्सितप्रतिविधानाय च|| ५||

Adhikarana pittajvaralakShaNAni (6) · Śloka 6

युगपद्वयाप्तिरङ्गानाम्प्रलापः कटुवक्त्रता| नासास्यपाकः शीतेच्छा भ्रमो मूर्च्छा मदोऽरतिः| विट्स्त्रसं पित्तवमनं रक्तष्ठीवनमम्लकः| रक्तकोठोद्गमः पीतहरितत्वं त्वगादिषु| स्वेदो निःश्वासवैगन्ध्यमतितृष्णा च पित्तजे||६||

🔊 Audio coming soon

युगपज्ज्वरव्याप्त्यादि पित्तजं भवतीति सम्बन्धः| रक्तानां कोठोनां सोत्सेधानां मण्डलानामुद्गमः|| ६||

Adhikarana kaphajvaralakShaNAni (7) · Śloka 7

विशेषादरुचिर्जाड्यं स्त्रोतोरोधोऽल्पवेगता| प्रसेको मुखमाधुर्यं हृल्लेपश्वासपीनसाः| हृल्लासश्छदनं कासः स्तम्भः श्वैत्यं त्वगादिषु| अङ्गेषु शीतपिटकास्तन्द्रोदर्दः कफ़ोद्भवे||७||

🔊 Audio coming soon

सातिशया अरुचिर्जाड्यादयो रोगाः कफज्वरे भवन्तीति| अल्पवेगता ज्वरस्य| हृदयोत्क्लेशयुक्तः प्रसेकः| छर्दनं यथासम्भवं कफादीनाम्|| ७||

Adhikarana sva-svakAle pravRutyAdi ca vAtAdijvarANAM li~ggam (8) · Śloka 8

काले यथास्वं सर्वेषां प्रवृत्तिर्वृद्धिरेव वा| निदानोक्तानुपशयो विपरीतोपशायिता||८||

🔊 Audio coming soon

सर्वेषां वातापित्तकफज्वराणां यथास्वं काले ग्रीष्मापराह्नवर्षाशरन्मध्यन्दिनशिशिरवसन्तादिके प्रवृत्तिरथवा वृद्धिर्भवति| इदमपि रूपं यथा निदानत्वेनोक्तानां वातज्वरे तिक्तादीनां पित्तज्वरे कट्वादीनां कफज्वरे मधुरादीनां चानुपशयोऽसुखावहत्वं यथास्वं विपरीतानां चोपशयत्वं सुखानुबन्धित्वमिति|| ८||

Adhikarana saMsargajvarasAmAnyalakShaNam (9) · Śloka 9

यथास्वं लिङ्गसंसर्गे ज्वरः संसर्गजोऽपि च||९||

🔊 Audio coming soon

पृथग्दोषाणां ज्वरणां लिङ्गमुक्त्वा मिश्रदोषजानामुच्यतेयथास्वमिति| यथास्वं लिङ्गमुक्त्वा सति तावत् ज्वरस्तत्संसर्गजो विशेषः| तेन वातपित्तज्वरलिङ्गमिश्रीभावे वातपित्तज्वरे विज्ञेयः| वातकफज्वरलिङ्गसंसर्गे वातकफज्वरश्च| एवं पित्तकफेऽपीति यथास्वंशब्दार्थः| अपि चेति समुच्चये|| ९||

Adhikarana vAtapittajvaralakShaNAni (10) · Śloka 10

शिरोऽर्तिमूर्च्छाभिददाहमेहा- कण्ठास्यशोषाऽरतिपर्वभेदाः| उन्निद्रता तृड्भ्रमरोमहर्षाः जृम्भाऽतिवाक्त्वं च चलात्सपित्तात्||१०||

🔊 Audio coming soon

शिरोर्त्यादीनि वातपितज्वरलक्षणानि|| १०||

Adhikarana vAtashleShmajvaralakShaNAni (11) · Śloka 11

तापहान्यरुचिपर्वशिरोरुक् पीनसश्वसनसकासविबन्धाः| शीतजाड्यातिमिरभ्रमतन्द्राः श्लेष्मवातजनितं ज्वरलिङ्गम्||११||

🔊 Audio coming soon

तापहान्यादीनि वातश्लेष्मज्वरलक्षणानि|| ११||

Adhikarana pittashleShmajvaralakShaNAni (12) · Śloka 12

शीतस्तम्भस्वेददाहाव्यवस्था तृष्णा कासः श्लेष्मपित्तप्रवृत्तिः| मोहस्तन्द्रा लिप्तातिक्तास्यता च ज्ञेयं रूपं श्लेष्मपित्तज्वरस्य||१२||

🔊 Audio coming soon

शीताद्यव्यवस्थादीनि पित्तश्लेष्मज्वरलक्षणानि पित्तश्लेष्मप्रवृत्तिश्छर्द्याः|| १२||

Adhikarana sannipAtajvaralakShaNAnyasAdhyatvAdi ca (13) · Śloka 13

सर्वजो लक्षणैः सर्वैर्दाहोऽत्र च मुहुर्मुहः| तद्वच्छीतं महानिद्रा दिवाजागरणं निशि| सदा वा नैव वा निद्रा मुहुः स्वेदोऽति नैव वा| गीतनर्त्तनहास्यादिविकृतेहा प्रवर्त्तनम्| सस्त्रुती कलुषे रक्ते भुग्ने लुलितपक्ष्मणी| अक्ष्णी पिण्डिका पार्श्वमूर्धपर्वास्थिरुग्भ्रमः| सस्वनोउ सरुजोउ कर्णोउ कण्ठः शूकैरिवावृतः| परिदग्धाखराजिह्वागुरुस्त्रस्ताङ्गसन्धिता| रक्तपित्तकफ़ष्ठीवो लोडनं शिरसोऽतितृट्| कोठानां श्यावरक्तानां मण्डलानां च दर्शनम्| हृद्वच्यथा मलसंसर्गः प्रवृत्तिर्वाऽल्पशोऽति वा| स्निग्धास्यता बलभ्रंशः स्वरसादः प्रलापिता| दोषापाकश्चिरात्तन्द्रा प्रततं कण्ठकूजनम्| सन्निपातमभिन्यासं तं ब्रूयाच्च हृतोउजसम्| वायुना कफ़रुद्धेन पित्तमन्तः प्रपीडितम्| व्यवायित्वाच्च सोउक्ष्म्याच्च बहिर्मार्गं प्रवर्त्तते| तेन हारिद्रनेत्रत्वं सन्निपातोद्भवे ज्वरे| दोषे विबद्धे नष्टेऽग्नोउ सर्वसम्पूर्णलक्षणः| असाध्यः सोऽन्यथाकृच्छ्रो भवेद्वैकल्यदोऽपि वा||१३||

🔊 Audio coming soon

सर्वज इत्यादिना सन्निपातज्वरो निर्णीयते-सर्वज इति| सर्वैर्लक्षणैः पृथक्संसर्गोक्तैः| अत्र च सन्निपातेऽयं विशेषःमुहुर्दाहो मुहुः शीतम्| सुबोधम्| विकृतगीतादीहाप्रवर्तनम्| अक्षीणि सस्त्रुतीत्यादि लक्षणे| भुग्ने कनीनिकापाङ्गयोरतीक्ष्णे| पिण्डीकादीनां रुक्| परिदग्धेव परिदग्धाजिह्वाखरस्पर्शा च| गुर्वङ्गतास्त्रसंधिता च भवति| शिरसो लोडनं चलनम्| कोठा निर्मुखाः पिटकाप्रायाः| मालानां सङ्गोऽप्रवृत्तिः| अथवा सम्प्राप्त्यादिविशेषवशेन स्तोकस्तोकं प्रवृत्तिः अथवाऽपि प्रवृत्ति| तस्य सन्निपातस्याभिन्यासहतोउजसोउ पर्य्यायोउ| स च सन्निपातज्वरो दोषे विबद्धेऽस्थिरेऽग्नोउ च नष्टे सति सर्वैर्लक्षणैः सम्पूर्णो भवति तदाऽसाध्यः| अन्यथा दोषे चले बलवति चाऽग्नावसम्पूर्ण लक्षणश्च भवति तदा कृच्छ्रसाध्यः| वैकल्यदो वा भवति|| १३||

Adhikarana dAhapUrvashItapUrvasannipAtajvaro, dAhapUrvasya dustaratvaM ca (14) · Śloka 14

अन्यच्च सन्निपातोत्थो यत्र पित्तं पृथक्स्थितम्| त्वचि कोष्ठेऽथवा दाहं विदधाति पुरोऽनु वा| तद्वद्वातकफ़ौ शीतं दाहादिर्दुस्तरस्तयोः||१४||

🔊 Audio coming soon

अन्यच्च सन्निपातविशेषोत्थो ज्वरो यदा दोषैरेवं सन्निविष्टैर्भवतीति| तदैवंस्वरूपो भवति| कीदृगित्युच्यते-अन्यच्चेति| दोषत्रयेऽपि कुपिते यत्र पित्तं पृथग्वर्त्तते पृथग्वातकफौ तदा ज्वरवेगकाले पूर्वं दाहं विदधाति पश्चाच्छीतम्| तदा पुनस्त्वचि वातकफ़ोउ वर्त्तेते कोष्ठे पित्तं तदा पूर्वं शीतं विधत्तः पश्चाद्दाहम्| तयोः शीतपूर्वदाहपूर्वंयोर्दाहादिर्दुस्तरः|| १४||

Adhikarana shItapUrvajvare shIte shAnte upadravAH (15) · Śloka 15

शीतादौ तत्र पित्तेन कफ़े स्यन्दितशोषिते| शीते शान्तेऽम्लको मूर्च्छा मदस्तृष्णा च जायते||१५||

🔊 Audio coming soon

शीतादौ पुनः कोष्ठस्थेनोदीर्णेन पित्तेन कफ़े स्त्राविते शोषिते च सति शान्ते पित्ताधिक्यादम्लकादिकं जायते| मूर्च्छा मोहः|| १५||

Adhikarana dAhapUrvajvare dAhe shAnte upadravAH (16) · Śloka 16

दाहदौ पुनरन्ते स्युस्तन्द्राष्ठीववमिक्लमाः||१६||

🔊 Audio coming soon

दाहादौ पुनः कोष्ठे वातकफोदीर्णतया वेगं कृत्वा दाहे शान्ते कफकार्य्याणि तन्द्रादीनि भवन्ति| इति दोषैः सप्तविधो ज्वर उक्तः|| १६||

Adhikarana AgantujvarAH (17) · Śloka 17

आगन्तुरभिघाताभिषङ्गशापाभिचारतः| चतुर्धा............................||१७||

🔊 Audio coming soon

आगन्तुस्त्वष्टमश्चतुर्धा अभिघातादितः|| १७||

Adhikarana abhighAtajajvaranidAnaM samprAptishca (1) · Śloka 1

........ ऽत्र क्षतच्छेददाहाद्यैरभिघातजः||१||

🔊 Audio coming soon

००

Adhikarana tasya samprAptiH (18) · Śloka 18

श्रमाच्च तस्मिन् पवनः प्रायो रक्तं प्रदूषयन्| सव्यथाशोफवैवर्ण्यं सरुजं कुरुते ज्वरम्||१८||

🔊 Audio coming soon

तत्र क्षतादिभिर्यः सोऽभिघातजः| तस्मिन् हि क्षान्ते पवनः स्वभावात् प्रायो रक्तं प्रदूषयन् सव्यथादिकं ज्वरं कुरुते| प्रायो ग्रहणं क्वचिद् व्यभिचारप्रदर्शनार्थम्|| १८||

Adhikarana abhiSha~ggajAH jvarAH (19) · Śloka 19

ग्रहावेशोउषधविषक्रोधभीशोककामजः| अभिषङ्गाद् ................................||१९||

🔊 Audio coming soon

यो हि ग्रहावेशादिजो ज्वरः सोऽभिषङ्गाद्विज्ञेयः| ग्रहा देवादयो वक्ष्यमाणाः|| १९||

Adhikarana grahajajvaralakShaNam (20) · Śloka 20

..............ग्रहेणास्मिन्नकस्माद्धासरोदने|२०|

🔊 Audio coming soon

००

Adhikarana oShadhigandhApariNAmaH (20) · Śloka 20

ओषधीगन्धजे मूर्च्छा शिरोरुक्श्वयथु क्षवः|२०|

🔊 Audio coming soon

००

Adhikarana viShapariNAmaH (20) · Śloka 20

विषान्मूर्च्छाऽतिसारास्यश्यावतादाहहृद्गदाः|२०|

🔊 Audio coming soon

००

Adhikarana krodhapariNAmaH (20) · Śloka 20

क्रोधात् कम्पः शिरोरुक् च|२०|

🔊 Audio coming soon

००

Adhikarana bhayashokAbhyAM pralApaH (20) · Śloka 20

प्रलापो भयशोकजे|२०|

🔊 Audio coming soon

००

Adhikarana kAmaje vipattiH (20) · Śloka 20

कामान्मोहोऽरुचिर्दाहो ह्नीनिद्राधीधृतिक्षयः|२०|

🔊 Audio coming soon

००

Adhikarana grahAdijajvareShu doShasa~ggatiH (20) · Śloka 20

ग्रहादोउ सन्निपातस्य भयादोउ मरुतस्त्रये| कोपः क्रोधे तु पित्तस्य योउ तु शापाभिचारजोउ| सन्निपातज्वरोउ घोरोउ तावह्यतमोउ मतोउ||२०||

🔊 Audio coming soon

सुबोधम् ग्रहादौ त्रये ग्रहौषधिविषलक्षणे सन्निपातस्य कोपो भवति| भयादौ त्रये भीशोककामाख्ये मरुतो वायोः कोपो भवति| क्रोधे कोपे पित्तस्य कोपः| शापेनाभिचारेण च यौ ज्वरौ तौ सन्निपातेन घोरौ भवतः| तौ चातिशयेनाऽसाह्यौ मतावागकर्त्तृणाम्| शापमपराधाद्गुर्वादयो विदधति|| २०||

Adhikarana abhicArajajvaralakShaNam (21) · Śloka 21

तत्राभिचारिकैर्मन्त्रैर्हूयमानस्य तप्यते| पर्वं चेतस्ततो देहस्ततो विस्फ़ोटतृड्भ्रमैः| सदाहमूर्च्छैर्ग्रस्तस्य प्रत्यहं वर्धते ज्वरः| इति ज्वरोऽष्टधा दृष्टः..............||२१||

🔊 Audio coming soon

अभिचारे त्वाऽऽभिचारिकैर्मन्त्रैरमुं दहेति हूयमानस्य प्रथममेव चेतस्तप्यते| ततो देहः| ततो विस्फ़ोटादिग्रस्तस्य प्रत्यहं ज्वरो वर्धते| इति दोषागन्तुभेदादष्टधा ज्वरो दृष्ट आयुर्वेदविद्भिः|

Adhikarana jvarasya dvaividhyam (22) · Śloka 22

.............समासाद् द्विविधस्तु सः| शारीरो मानसः सौम्यस्तीक्ष्णोऽन्तर्बहिराश्रयः| प्राकृतो वैकृतः साध्योऽसाध्यः सामो निरामकः||२२||

🔊 Audio coming soon

एवमपि भवन् संक्षेपे द्विविधः| शारीरि मानस इति द्विविधः| सौम्यस्तीक्ष्ण इत्येवमपि द्विविधः| अन्तराश्रयो बहिराश्रय इत्येवमपि| तथा प्राकृतो वैकृतः साध्योऽसाध्यः सामो निरामक इति|

Adhikarana shArIramAnasayossaumyatIkShNayeshca lakShaNam (23) · Śloka 23

पूर्वं शरीरे शारीरे तापो मनसि मानसे| पवने योगवाहित्वाच्छीतं श्लेष्मयुते भवेत्| दाहः पित्तयुते मिश्रं मिश्रे...............||२३||

🔊 Audio coming soon

एषां शारीरादीनां पूर्वं शरीर इत्यादिना लक्षणमुच्यते पुर्वमिति| श्लेष्मसंयुक्ते पवने पवनस्य योगवाहित्वात् ज्वरे शीतं भवत्यर्थात् स एवः सौम्यः| एवं पित्तयुये पवने दाहः| स ज्वरस्तीक्ष्णः| मिश्रे श्लेष्मसंयुते पित्तसंयुते च पवने मिश्रं शीतं दाहं च| मिश्रे तूत्कर्षेण व्यपदेशात् सौम्यतीक्ष्णद्वयाद्वयतिरेकः|| २३||

Adhikarana antarAshrayabahirAshrayayorlakShaNam (24) · Śloka 24

..............अन्तः संश्रये पुनः| ज्वरेऽधिकं विकाराः स्युरन्तः क्षोभो मलग्रहः| बहिरेव बहिर्वेगे तापोऽपि च सुसाधता||२४||

🔊 Audio coming soon

अन्तस्संश्रये ज्वरे अन्तः कोष्ठेऽधिकं विकाराः स्युः| सत्यापि सर्वाङ्गोपतापे| बर्हिर्वेगे तु बहिरेव तापो नाऽन्तर्विकराः| तत्र च सुसाधता अर्थाल्लभ्यतेऽन्तर्वेगे दुस्साधतेति|| २४||

Adhikarana prAkRutavaikRutajvarau sAdhyAsAdhyatva~jca (25) · Śloka 25

अपि च-- वर्षाशरद्वसन्तेषु वाताद्यैः प्राकृतः क्रमात्| वैकृतोऽन्यः सदुस्साध्यः प्रायश्च प्राकृतोऽनिलात्||२५||

🔊 Audio coming soon

अपि चेति समुच्चते| यथाक्रमेण वर्षासु यो वातजो ज्वरः स प्राकृत उच्यते| तथा शरदि पित्तजो ज्वरः| वसन्ते कफ़जश्च| अतः उक्तादन्यो वैकृतः|| २५||

Adhikarana vAtajvarasya duHsAdhatA (26) · Śloka 26

सः दुःसाधो भवति प्रायश्च प्रकृतोऽनिलात्| एकमार्गक्रियारम्भव्यतिवृत्तेर्महात्ययात्||२६||

🔊 Audio coming soon

प्रयोग्रहणमसाकल्यार्थम्| कथं वायुना यः प्राकृतः स एव दुःसाध्यः इत्याहएकमार्ग इत्यादि| एकमार्ग इत्यादि| एकमार्गो| एकमार्गो यः क्रियाया आरम्भः| तस्य व्यतिवृत्तेर्विपर्य्यासात्तथा महात्ययादपि| वैकृतानां यदेव दुःसाध्यकारणत्वं तदेवास्य प्राकृतस्यापि सतः| ज्वरे तावत् पुर्वलङ्घनमुच्यते| तन्नैकविधम्| तद्वायावपथ्यमत एव रोगस्यान्यः क्रियामार्गोऽन्यश्च दोषस्य| तथा वायुना प्रकुपितेन यदा निष्पद्यते ततो महात्ययाद्धेतोर्वायुना प्राकृतोऽपि ज्वरः दुःसाध्यः|| २६||

Adhikarana varShAsu duShTamarutajvarotpattiH (27) · Śloka 27

वर्षासु मारुतो दुष्टः पित्तश्लेष्मान्वितो ज्वरम्| कुर्यात्...........................................||२७||

🔊 Audio coming soon

यश्च प्राकृतो वातादिभिरुक्तः सः प्राधान्यापेक्षया| यस्माद् दोषान्तरमपि तत्रानुबलं भवत्यस्य प्रदर्शनार्थमुच्यते| वर्षास्वित्यादि | वर्षासु यदा मारुति दुष्टो ज्वरं कुर्य्यात्| तदा पित्तश्लेष्मभ्यामन्वितो ज्वरं कुर्य्यात्| नाऽनन्वितः तदा ज्वरो वातिकोऽप्यवश्यं पित्तश्लेष्माणौ सम्प्राप्त्यभिमुखौ भवतः| सहायबललाभात्तु ज्वरमनुबध्नतः|| २७||

Adhikarana sharadi duShTapittajvarotpattiH (28) · Śloka 28

पित्तं च शरदि तस्य चाऽनुबलः कफः| तत्प्रकृत्या विसर्गाच्च तत्र नाऽनशनाद्धयम्||२८||

🔊 Audio coming soon

शरदि च पित्तं दुष्टं ज्वरं कुर्य्यात्| तस्य च पित्तस्य ज्वरं कर्त्तुमभ्युद्यतस्य शरद्यनुबलः कफो भवति| अस्य चोभयस्य हेतुद्वयम्| तत्प्रकृत्या विसर्गाच्च| वर्षासु मारुतो दुष्टः पित्तश्लेष्मान्वितो ज्वरं कुर्य्यादित्यत्र हेतुः कालस्य तथाविधस्वभावत्वम्| पितञ्च शरादि तस्य चाऽनुबलः कफ इत्यत्र हेतुर्विसर्गादिति| तत्र वातिके वर्षासु पित्तश्लेष्मानुगतत्वादनशनात् भयं नास्ति| तथा पैत्तिके पित्तकफानुबन्धात्वादनशनाद्भयं नासित| तत्र लङ्घनं विधेयमेवेत्यर्थः|| २८||

Adhikarana vasante duShTakaphajvarotpattiH (29) · Śloka 29

कफो वसन्ते तमपि वातपित्तं भवदनु||२९||

🔊 Audio coming soon

वसन्ते कफो दुष्टो ज्वरं कुर्य्यात्| तमपि कफमनु वातपित्तं भवेत्| प्रकृत्या आदानाच्चेत्यादिशब्दाल्लभ्यते| तथा कफजेऽप्यतिलङ्घनाद्यत्नतो रक्षेदित्यर्थाल्लभ्यते|| २९||

Adhikarana sAdhyAsAdhyajvaralakShaNam (30) · Śloka 30

बलवत्स्वल्पदोषेषु ज्वरः साध्योऽनुपद्रवः| सर्वथा विकृतिज्ञाने प्रागसाध्य उदाहृतः||३०||

🔊 Audio coming soon

साध्योऽसाध्य इति द्वैविध्यमुच्यते| बलवत्स्वल्पदेषेषु यो ज्वरोऽनुपद्रवश्च स साध्यः| उपद्रवाः प्रलापभ्रमादयः| यस्त्वसाध्यः स प्रक्शारीरे विकृतव्याधिविज्ञानीये सर्वेण प्रकारेणोदाहृति 'ज्वरो निहन्ति बलवान्' ( शा०-६.९६ ) इत्यादिना|

Adhikarana sAmapacyamAnanirAmajvaralakShaNAni (31) · Śloka 31

ज्वरोपद्रवतीक्ष्णत्वमग्लानिर्बहुमूत्रता| न प्रवृत्तिर्न विड्जीर्णा न क्षुत्सामज्वराकृतिः| ज्वरवेगोऽधिकं तृष्णा प्रलापः श्वसनं भ्रमः| मलप्रवृत्तिरुत्क्लेशः पच्यमानस्य लक्षणम्| जीर्णताऽमविपर्य्यासात्सप्तरात्रं च लङ्घनात्||३१||

🔊 Audio coming soon

सामो निरामक इति द्वैविध्यमुयते-ज्वरोपद्रवतीक्ष्णत्वमित्यादि| सुबोधम्| पच्यमानता सामत्वादन्या| जीर्णता निरामत्वम्| सा च जीर्णता आमलक्षणाज्ज्वरोपदर्वतीक्ष्णत्वादेर्विपरीताद् विज्ञेया| न केवलमत एव जीर्णता विज्ञेया| यावत् सप्तरात्रं लङ्घनाच्च जीर्णता ज्वरस्य विज्ञेया| तेनैतदुक्तं भवति सप्तमापदह्नः पूर्वमामलिङ्गाभावेऽपि यथासम्भवेन लङ्घनेन लङ्घितस्य जीर्णज्वरोक्तं न किञ्चिद्विधेयम् | तथा सप्ताहा दूर्ध्वमप्यामलक्षणसद्भावे जीर्णज्वररोक्तं प्रतिषिध्यते| इत्युभयमप्याऽऽमविपर्य्यासः सप्तरात्रं लङ्घनं च जीर्णतालक्षणमिति|

Adhikarana jvarasya prakArAntareNa pa~jcavidhatvam (32) · Śloka 32

ज्वरः पञ्चविधः प्रोक्तो मलकालबलाबलात्| प्रायः स सन्निपातेन भूयसा त्वपदिश्यते| सन्ततः सततोऽन्येद्युस्तृतीयकचर्थकोउ||३२||

🔊 Audio coming soon

बहुभिर्भेदैर्ज्वरस्य द्वैविध्यमुक्त्वा प्रकारान्तरेण पञ्चविधत्वमुच्यते-ज्वर इत्यादि| एकोऽपि ज्वरो मलानां दुष्टानां वातादीनां बलवत्वादबओअवत्वाच्च पञ्चधा भवति| मलशब्दो दोषवाची| तथा ज्वरकारणदोषकोपेयः कालो निमित्ततां याति तस्य बलवत्वादबलवत्वाच्च पञ्चधा भवतीति| तथा च प्रदर्शयिष्यते मलानां बलाबलम्| तुल्यदुष्यादिवर्धिताः सन्ततं कुर्य्युरित्यादि| तथा स प्रत्यनीको विषमं कुर्य्याद्वृद्धिक्षयान्वित इति| कालोऽपि यथोत्तरमित्याद्यनन्तरमेव वक्ष्यते| स पञ्चविधः प्रायः सन्निपातेन भवति| अपदिश्यते तु भूयसा दोषेण| वातिकादिविशेषेण योऽयं वक्ष्यमाणलक्षणः सन्ततादिः सः प्रायेण सान्निपातिको भवतीति प्रायोग्रहणं क्वचिद्व्यभिचारसूचनार्थम्| यथोक्तरूपेभ्यः सन्ततादिभ्योऽन्यस्मात् परिदृश्यमानादव्यतिरेकः| सन्तत इत्यादिना पञ्चानां नामान्युच्यन्ते|| ३२||

Adhikarana teShAM sAmAnyA samprAptiH (33) · Śloka 33

धातुमूत्रशकृद्वाहिस्त्रोतसां व्यापिनो मलाः| तापयन्तुस्तनुं सर्वाः तुल्यदुष्यादिवर्धिताः| बलिनो गुरवः स्तब्धा विशेषेण रसाश्रिताः| सन्ततं निष्प्रतिद्वन्द्वाः ज्वरकुर्य्युः सुदुः सहम्||३३||

🔊 Audio coming soon

धातुमूत्रेत्यादिना सन्ततस्योत्पत्तिरुच्यते| एवम्भूता मला दुष्टावातादयः सन्ततं ज्वरं दुसःहं कुर्य्युरिति सम्बन्धः| धात्वा दिवाहिस्त्रोतांसि व्यापिनस्तथा तुल्यैर्दुष्यादिभिर्वर्धिताः| अतएव निष्प्रतिद्वन्द्वाः| यथा वातधिका दोषाः दुष्येऽस्थिन| देशे जाङ्गलेऽबलस्य पुरुषस्य| काले वर्षासु| अग्नविषमे| वातप्रकृतेर्वृद्धस्य हीनसत्वस्य रुक्षादिसात्म्यस्य| इत्येवमादि| प्रतिपक्षैरखण्डितशक्तित्वाद्वलिनः| सामत्वादगुरवः| स्तब्धा ऊर्ध्वमधश्चाऽनिः सरणात्| विशेषेण रसाश्रिता अतिशयने रसाख्यं धातुमाश्रिताः| रसवद्रक्तादीन् दूषयन्तीति विशेषग्रहणाम् सुदुः सहं सुतराम सह्यमिति|| ३३||

Adhikarana tatrAgniveshamatam (34) · Śloka 34

मलाञ्ज्वरोष्माधातून् वा शीघ्रं क्षपयंस्ततः| सर्वाकारं रसादीनां शुद्ध्याऽशुद्ध्याऽपि वाक्रमात्| वातपित्तकफ़ैः सप्त दश द्वादशवासरान्| प्रायोऽनुयाति मर्य्यादां मोक्षाय च वधाय च| इत्याग्निवेशस्य मतं........................||३४||

🔊 Audio coming soon

तस्मिश्च सन्तते ज्वरोष्मा दृष्टादृष्टकारणविशेषवैचित्र्यात् सर्वप्रकारेण रसादीनिं शुद्धया कदाचिन्मलं क्षपयेत्| अशुद्धया वा रसादीनां कदाचिद्धातून् क्षयपेत्| ऊष्मणः क्षपणधर्मत्वात्| ततो हेतोर्वातादिभिः क्रमाद्रसादीनां शुद्धयामलान् क्षपयन् सप्तादिवासरान् मोक्षाय मर्य्यादामनुयाति| रसादीनां तु सर्वा काराऽशुद्धाया धातून् क्षपयन् वधाय मर्य्यादामनुयाति| ज्वरोष्मा वाताधिकः सप्तवासरान्| पित्ताधिको दश| श्लेष्मकाधिको द्वादश| इति क्रमार्थः| इत्यिग्निवेशस्य मतम्|| ३४||

Adhikarana hArItamatam (35) · Śloka 35

.....................्‌आरीतस्य पुनः स्मृतिः| द्विगुणा सप्तमी यावन्नवम्येकादशी तथा| एषात्रिदोषमर्य्यादा मोक्षाय च वधाय च| शुद्ध्यशुद्धोउ ज्वरः कालं दीर्घमप्यनुवर्त्तते||३५||

🔊 Audio coming soon

हारीतः पुनरेवमनुजानाति| चतुर्दशवासरान् वाताधिको मोक्षाय वधाय वा मर्य्यादामनुयाति ज्वरोष्मा| अष्टादश पित्ताधिकझ्| द्वाविंशतिः श्लेष्माधिक इति| यदा तु रसादीनां मध्ये केषाञ्चिच्छुद्धिरशुद्धिश्च केषाञ्चित्तदा सन्ततो ज्वरो न मुञ्चति| नापि शुद्धिं सूत्रोक्तेन प्रकारेण ( अ० सं०-२६ ) ज्ञातव्या| इति इति सम्बन्धः| इति सन्तत उक्तः|| ३५||

Adhikarana viShamajvarotpattiH (36) · Śloka 36

कृशानां व्याधिमुक्तानां मिथ्याहारादिसेविनाम्| अल्पोऽपि दोषो दूष्यादेर्लब्ध्वाऽन्यरमतो बलम्| सप्रत्यनीको विषमं कुर्य्याद्वृद्धिक्षयान्वितः||३६||

🔊 Audio coming soon

कृशानामित्यादिना सन्ततादिर्विषमज्वर उच्यते| ये कृशा व्याधिमुक्ताश्च मिथ्याहारविहारसेविनश्चि तेषामल्पोऽपि दोषो दूष्यादीनामन्यतमतो बलं लब्ध्वा सप्रत्यनीकः सप्रतिपक्षः क्षयवृद्धिभाक् विषमं सन्ततादिचतुष्टयुरूयं ज्वरं कुरुते| अथवा कृशाना मित्यादिना 'भवन्त्याह्नि न पञ्चमे' इत्येवमन्तेन ग्रन्थेन सन्ततादीनां चतुर्णां ज्वराणां साधारणां रूपं सन्तताच विशिष्टता प्रदर्शते| कृशानामिति स्वाभाविकदोउर्बल्यम्| व्याधिमुक्तानामित्यवस्थाविशेषकृतम्| मिथ्याहारादिसेविनामित्याऽऽहारकृतं गृहीतम्| वृद्धिक्षयान्वितत्वे सप्रत्यनीकत्वं हेतुः| सदृशदूष्यादिप्रसादात कदाचिद्गृद्धायान्वितः| प्रत्यनीकप्रसादाच्च कदाचित्| क्षयान्वित इति| अनेने चैतदुक्तं भवति--बलवान् दोषो दूष्यादीनां सर्वेष सदृशानां बलं लब्ध्वा निष्प्रतिपक्षः सन्नविच्छिन्नोष्माणं सन्तताख ज्वरमेकरूपं कुरुते| तद्वैपरीत्ये विषमं ज्वरं सन्ततादिकम् तत्र यदा दूष्यादीनि प्रभूतानि सदृशानि प्राप्नोति न सर्वाणि तद सन्ततज्वरं करोति| यानि त्वसदृशानि तानि प्रतिपक्षाणि| यदा तु तत ऊनानि सदृशानि प्राप्नोति तदा क्रमेणाऽन्येद्युष्कादीन्|| ३६||

Adhikarana viShamajvarANAM vicchinnasantApatve kAraNam (37) · Śloka 37

सूक्ष्मसूक्ष्मतरास्येषु दूरदूरतरेषु च| दोषो रक्तादिमार्गेषु शनैरल्पश्चिरेण यत्| याति देहं च नाशेषं भूयिष्ठं भेषजेऽपि च| क्रमोऽयं तेन विच्छिन्नः सन्तापे लक्ष्यते ज्वरः| विषमो विषमारम्भः क्रियाकालोऽनुषङ्गवान्||३७||

🔊 Audio coming soon

सूक्ष्मसूक्ष्मतरास्येत्यादिना सन्ततादीनां चतुर्णां विषमज्वराणां विच्छिन्नसन्तापत्वे कारणमुच्यते| इह हि धातुवाहीनि स्त्रोतांस्युक्तानि| तानि च प्रतानसदृशानि| क्रमेश मूले-मूले स्थूलान्यऽग्रे सूक्ष्माणि| तत्र सूक्ष्मास्येषु सूक्ष्मतरास्येषु च तथा दूरेषु दूरतरेषु च रक्तादिस्त्रोतस्सु यद्यस्मादल्पो दोषः शनैर्याति चिरेण स्थानां प्राप्नोति| निःशेषञ्च देहं न व्याप्नोति| तेन कारणेन कायविषमो विच्छिन्नसन्तापो लक्ष्यते| अनेनैतदुक्तम्| प्रभूतो दोषोऽतिस्थूलमुखेषु स्त्रोतः सु यद्यस्माच्छीघ्रं महानिम्ननिकटदेशेषु च गच्छन् सन्तज्वरमभिनिर्वर्तयति| अल्पस्तु दोषः सूक्ष्ममुखेषु महानिम्नाद्दूरेषु च रक्तादिमार्गेषु गच्छन् शनैश्च गच्छन् सन्ततं कुरुते| ततोऽप्यल्पः सूक्ष्मतरास्येषु दूरतरेषु च गच्छन् अन्येद्युमभिनिर्वर्तयति| ततोऽप्यल्पस्सूक्ष्मतमास्येषु दूरतमेषु च गच्छन् अतिमन्दगतिरतिचिरेण गच्छंस्तृतीयकमभिनिर्वर्तयति| ततोऽप्यतिशयेन चतुर्थको वाच्यः| अत एव च व्याप्तेश्चिरेण दोषस्य वेगात् सन्तापस्य विच्छेदः| सन्ततादोउ च प्रयुज्यमाने भेषजे भूयिष्ठमयमेव क्रमः| तेन सन्तते शीघ्रं भेषजेन दोषस्य प्राप्ते शीघ्रं ज्वर उपशाम्यति| सन्तातादोउ तु क्रमेण दोषस्य दूरदूरतरस्त्रोतोऽनुगतत्वात्| तथैव भेषजेन चिरेण चिरतरेण चोपशमः| भूयिष्ठग्रहणं बाहुल्योपलक्षणार्थम्| तेन किञ्चिद्भेषजं प्रथममेव रसस्त्रोतांसि प्राप्य सकलं शरीरं प्राप्नेति| किञ्चिद्भेषजं प्रथममेव रसस्त्रोतांसि प्राप्यः सकलं शरीरं प्राप्नोति| किञ्चितु धातुक्रमेण दूरतराणि स्त्रोतांसि गत्वेति| तेन यतो हेतोर्विच्छिन्नसन्तापस्तत एव विषमो नैकरूपः| अतश्च विषमो यतो विषमारम्भक्रिया कालोऽनुषङ्गवान्| अनेनैतद्दर्शयति-यथा सन्ततः स्वेन रूपेण दुःसाध्यः तथा सन्तताद्विपरीतरूपोऽपि विषमोऽनेन रूपेण दुःसाध्य तथा सन्ततद्विपरीतरुपोऽपि विषमोऽनेन रुपेण दुःसाध्य एव| तेन विषम इत्यास्याः संज्ञायाः प्रवृत्तिनिमित्तमनेकरुपता कृछ्रसाध्यता च| विषमः असमः आरम्भः प्रथमा प्रवृत्तिर्यस्य स विषमारम्भः| यथा चतुर्थके| कफेन हेतुना पूर्वं जङ्घाभ्यां प्रभावं दर्शयेत्| शिरसश्चानिलात्पूर्वं प्रभावं दर्शयेत्| इति विषमारम्भः| विषमा क्रिया यत्र दोषस्य|औषधस्य वा| दोषस्य यथा ग्राही पित्तानिलान्मूर्ध्न इत्यादि औषधस्य प्रभावं दर्शयेत्| इति इत्यादोऔषधस्य यथा चिकित्सित ( अ सं चि- २ )| मासं मेध्यममन्नेन सह सेवित्वोल्लिद् इत्यत्र विषमत्वं सन्तर्पणमपतर्पणञ्च| विZषमकालोऽनियतपूर्वाह्णाद्यागमकालः| तथा व यः सन्तर्पणञ्च| विषमकालोऽनियतपूर्वाह्णाद्यागमकालः| तथा च यः सन्ततादिरेकस्मिन्नहनि पूर्वाह्णे मतः सोऽन्यस्मिन्नपराऽह्णेऽपि भवन् दृष्ट इत्येतत् त्रयं विषमसंज्ञाया हेतुः| अनुषङ्गावान् यः स्वल्पेनैव हेतुना निवृत्तः पुनरनुषज्यते| एतदपि संज्ञाहेतुः|| ३७||

Adhikarana doSheNa cirAjjvarotpAdane hetuH (38) · Śloka 38

यथोत्तरं मन्दगतिर्मन्दशक्तितर्यथा यथा| कालेनाप्नोति सदृशान् स रसादींस्तथा तथा| दोषो ज्वरयति क्रुद्धश्चिराच्चिरतरेण च||३८||

🔊 Audio coming soon

दोषस्य मन्दगतित्वे च मन्दशक्तितायां च कारणमुक्त्वा सिद्धरूपेणोच्यते-यथोत्तरमित्यादि| यथोत्तरं धातुः स्त्रोतस्सु मन्दगतिः सन् दोषो मन्दशक्तिश्च यथा-यथा चिरतरादिकेन कालेन सदृशान् रसादीन् प्राप्नोति तथा-तथा क्रुद्धः सन् चिराच्चिरतराच्च ज्वरयति| तेनैतदुक्तं भवति-प्रथममेव रसवाहीनि स्त्रोतांसि स्थूलमुखानि प्राप्य वपुर्व्याप्तिमभिनिर्वर्त्य सकलदूष्यादिसादृश्यात् सन्ततमभिनिर्वर्तयति| यदा तु दूरसूक्ष्मस्त्रोतो गमनापेक्षा दोषस्याऽसदृशदूष्यलब्धिरप्राप्तिश्च तदाविच्छिन्नसन्तापं सन्ततम्| तथा च वाताश्रयो दोष इत्यादि वक्ष्यते|| ३८||

Adhikarana doShabIjaprasare dRuShTAntaH (39) · Śloka 39

भूमोउ स्थितं जलैः सिक्तं कालमेव प्रतीक्षते| अङ्कुराय यथा बीजं दोषबीजं रुजे तथा||३९||

🔊 Audio coming soon

अस्यैवार्थस्य स्फुटीकरणाय भूमोउ स्थितमित्यादिना दृष्टान्त उच्यते| स्वकारणसामग्रीसम्पन्नं शालिबीजाङ्कुराय यथाऽवश्यं कालमपेक्षते| तेन तथैव दोषबीजं रुजे कालमपेक्षते| भूम्या दोषाश्रयस्य सादृश्यम्| जलसेकेन सादृश्यं दूष्यस्य तेनैतदक्तं भवति-यावद्यावता कालेन सदृशदूष्यादिकं दोषो लभते तावत्तावता ज्वराख्यां रुजां जनयतीति|| ३९||

Adhikarana viShamajvarANAM pravarttanapraNAlIH (40) · Śloka 40

वेगं कृत्वा विषं यद्वद्वाऽऽशये लीयतेऽबलम्| कुप्यत्वाप्तबलं भूयः काले दोषविषं तथा||४०||

🔊 Audio coming soon

वेगं कृत्वेत्यादिना रुक्प्रशमे पुनर्भावे च दृष्टान्त उच्यते| यथा विषं वेगं कृत्वा अबलं सद् आशये स्वे स्थाने लीयते| पुनश्च सदॄशकारणवशादाऽऽप्तबलं सद्वेगाय स्वे काले कुप्यति, तद्वद्दोषविषमपि|| ४०||

Adhikarana viShamajvarasamprAptiH (41) · Śloka 41

एवं ज्वराः प्रवर्तन्ते विषमाः सन्ततादयः| दोषः प्रवर्त्तते तेषां स्वे काले ज्वरयन् बली| निवर्त्तते पुनश्चैष प्रत्यनीकबलाबलः||४१||

🔊 Audio coming soon

एवमित्यादिना सूक्ष्मेत्याद्युक्तं विषमज्वरस्म्प्राप्तिं निगमयति|

Adhikarana lInadoShajvarasya kArshyAdikRutatvam (42) · Śloka 42

क्षीणे दोषे ज्वरः सूक्ष्मो रसादिष्वेव लीयते| लीनत्वात् कार्श्यवैवर्ण्यजाड्यादीनाधाति सः||४२||

🔊 Audio coming soon

क्षीणोदोषोइत्यादिना उक्तविशिष्टामन्तरानिवृत्तिं निगमयति| वेगं कृत्वा दोषे क्षीणे ज्वरः सूक्ष्मः सन् रसादिणुलीयते| लीनत्वाच्च कार्श्यदीनाऽऽदधाति| नैव स्थास्थ्यम्|| ४२||

Adhikarana pa~jcamadine jvarAsambhave hetuH (43) · Śloka 43

अतिलीनोऽतिमन्दत्वाद्भवत्याह्नि न पञ्चमे||४३||

🔊 Audio coming soon

लीन प्रसङ्गेनागतमपेक्ष्योच्यते-अतिलीन इत्यादि| एवं कस्यचिदाऽऽशङ्का भवति| यथा मज्जाश्रिते दोषे चतुर्थे दिवसे ज्वरो भवति| एवं शुक्रस्थिते दोषे पञ्चमे कश्चित् पञ्चमे प्राप्तेन कश्चित् पञ्चमे विषमज्वरो दृष्ट इति तां प्रत्युच्यते| अतिलीनः सन्नतिमन्दगतिश्च संस्कारभ्रंशादपचयाच्च दोषो ज्वरं नाऽऽभिनिर्वर्त्तयति| अनेनैव षष्ठादिषु शङ्का निरस्ता| मज्जानं यावत्प्राप्तश्चतुर्थो यावद्दोषस्य शक्तितर्भवत्यत्र स्वभावो हेतुः| यत्तु शुक्रस्थे ज्वरे तमसो दर्शनादिलक्षणमुक्तं तच्छुक्रमेवाधिष्ठाय दोषस्य ज्वरकारणत्वम्| न तु धातुव्याप्तिक्रमेणेति|| ४३||

Adhikarana santatajvaraH (44) · Śloka 44

दोषो रक्ताश्रयाः प्रायः करोति सन्ततं ज्वरम्| अहोरात्रस्य स द्वि स्यात्........................||४४||

🔊 Audio coming soon

अनन्तरं स्न्न्ततादीनां विशेष उच्यते| प्रायो बाहुल्येन| रक्ताश्रयो दोषः सन्ततज्वरं करोति| प्रायोग्रहणं रसाश्रितत्वप्रतिषेधनिवारणाय| रसाश्रितत्वस्य सकलज्वरसाधारणत्वात्| एवं सर्वेषु ज्वरेषु वाच्यम्| सः च सन्ततः अहोरात्रस्य मध्ये द्वौ वारौ स्यात्|| ४४||

Adhikarana anyedyuShkajvaraH (45) · Śloka 45

............................सकृदन्येद्युराश्रितः| तस्मिन् मांसवहा नाडी.............................||४५||

🔊 Audio coming soon

अन्येद्युः पुनरहोरात्रस्य सकृदेकवारं वेगं करोति| तस्मिन् दोषा मांसवहा नाडीराश्रिताः|| ४५||

Adhikarana tRutIyakajvaraH (46) · Śloka 46

............................ मेदोनाडीस्तृतीयके| ग्राही पित्तानिलान्मूर्ध्नस्त्रिकस्य कफ़पित्ततः| स पृष्ठस्यानिलकफ़ात्स चैकाहान्तरः स्मृतः||४६||

🔊 Audio coming soon

तृतीयके मेदोवहा नाडीराश्रिता| पित्तानिलादधिकान्मूर्ध्नः ग्राही भवति| तत्र चाऽऽगन्तुत्वातु दोषस्य वैषम्यम्| कफ़पित्तात् त्वधिकात् त्रिकस्य ग्रीवासन्धेर्ग्राही भवति| अनिलाकफ़ातु स ज्वरः पृष्ठस्य ग्राही| स च तृतीयक एकाहान्तरः स्मृतः| सर्वस्य दोषस्यागन्तुत्वादल्पबलत्वम्|| ४६||

Adhikarana caturthakajvaraH (47) · Śloka 47

चतुर्थको मले मेदो मज्जास्थ्यन्यतमस्थिते| मज्जस्थ एवेत्यपरे प्रभावं स तु दर्शयेत्| द्विधा कफ़ेन जङ्घाभ्यां प्रथमं शिरसोऽनिलात्| गम्भीरधातुचारित्वात् सन्निपातेन सम्भवात्| तुल्योच्छ्रायाच्च दोषाणां दुश्चिकित्स्यश्चतुर्थकः||४७||

🔊 Audio coming soon

चतुर्थको ज्वरो दोषमेद आद्यन्यतमस्थे भवति| कदाचिन्मेदस्थे अथवा मज्जस्थे अथवा अस्थिस्थ इति| अपरे पुनराचार्य्या मज्जस्थ एव दोषे| चतुर्थको द्विधा प्रभावं दर्शयेत्| कफेनाऽधिकेन पूर्वं जङ्घाभ्यां प्रभावं दर्शयेत्| अनिलात्तु पूर्वं शिरसः| रोगस्वभावात् पित्तस्यानुद्रेकः| गम्भीरधातुचारित्वादित्यादि सुबोधम्|| ४७||

Adhikarana caturthakaviparyayajvaraH (48) · Śloka 48

अस्थिनज्जोभयगते चौर्थकविपर्य्ययः| त्रिधा द्वयहं ज्वरयति दिनमेकं तु मुञ्चति||४८||

🔊 Audio coming soon

चर्थुकविपर्य्ययो नाम्ना ज्वरोऽस्थिमज्जाख्योभयगदोषे भवति| अस्य च दोषाश्रयानतिवृत्तेर्दिनसङ्खयानतिक्रमाच्चोहेशचतुर्थकान्तर्भावः| केवलमुभयाश्रयत्वं द्वयहं ज्वरणं च विशेषः| स चतुर्थकविपर्य्यस्त्रिधा भवति| वोताऽधिकेन पित्तेनश्लेष्मणा वा| तु चतुर्थकवत् द्विधा| तच्च त्रिविधं प्राथम्यवैषम्याभावतपूर्ववत् प्रभावमुखेन नोक्तम्| केवलं दोषलक्षणदर्शनेन बोद्धव्यम्| इत्युक्ताः सन्ततादयो ज्वराः|| ४८||

Adhikarana doShAdibalAbalavatvena jvarasambhavaH (49) · Śloka 49

बलाबलेन दोषाणामन्नचेष्टादिजन्मना| ज्वरः स्यान्मनसस्तद्वत्कर्मणश्च तदा तदा||४९||

🔊 Audio coming soon

एषाञ्च सन्ततादीनामेवंरूपता दृष्टा यत्सन्तताद्यन्यतमरूपो भूत्वाऽन्यतमरूपो भवतीति पृष्ट इदमाह-बलाबलेनेत्यादि दोषाणामन्नचेष्टादिजन्मना बलाबलेन मनसश्च बलाबलेन पूर्व जन्मकृतस्य च कर्मणां बलाबलेन तदा तदा ज्वरः स्यात्| एव मुक्तं भवति=दोषोऽबलः सन्तताद्यन्यतमभूमिकास्थोऽन्नाद्य न्यतमस्मात् बलं लब्ध्वा पूर्वां पूर्वातरां वा भूमिकामासादयति| तथा बलवान् दोषोऽन्न्द्यन्यतमजन्मना अबलवत्वेन पूर्वां पूर्वतरां वा भूमिकामपहायोत्तरामुत्तरां वा गृह्णति| आदिग्रहणात् देश कालादीनां ग्रहणम्| मनश्च बलवद्दोषज्वरहानिकृदिति वक्ष्यते|| ४९||

Adhikarana rasadhAtugatajvaralakShaNam (50) · Śloka 50

उत्क्लेशो गोउरवं दैन्यं भङ्गोऽङ्गानां विजृम्भणम्| अरोचको वमिः सादः सर्वस्मिन् रसगे ज्वरे||५०||

🔊 Audio coming soon

उत्क्लेश इत्यादिना रसाद्याश्रयविशेषे ज्वरस्य लक्षणमुच्यते रसगे ज्वरे सर्वस्मिन् वातादिसम्भवे उत्क्लेशादीनि भवन्ति||

Adhikarana raktagatajvaralakShaNam (51) · Śloka 51

रक्तनिष्ठीवनम् तृष्णा रक्तोष्णपिटकोद्गमः| दाहारागभ्रममदप्रलापा रक्तसंश्रिते||५१||

🔊 Audio coming soon

रक्तनिष्ठीवनादीनि रक्तस्ये मदो वक्ष्यमाणलक्षणः ( अ. सं. नि - ६ )|

Adhikarana mAMsagatajvaralakShaNam (52) · Śloka 52

तृड्ग्लानिः सृष्टवर्चस्त्वगर्न्दाहो भ्रमस्तमः| दोउर्गन्ध्यं गात्रविक्षेपो मांसस्थे...........||५२||

🔊 Audio coming soon

मांसस्थे तृडादीनि|| ५२||

Adhikarana medogatajvaralakShaNam (53) · Śloka 53

.............................. मेदसि स्थिते| स्वेदोऽतितृष्णा वमनं स्वगन्धस्याऽसहिष्णुता| प्रलापो ग्लानिरुचिः..........................||५३||

🔊 Audio coming soon

मेदस्थे स्वेदादीनि| स्वेदः शरीरोद्भवः|| ५३||

Adhikarana asthigatajvaralakShaNam (54) · Śloka 54

.............. अस्थिस्थे त्वस्थिभेदबनम्| दोषप्रवृत्तिरूर्ध्वाधः श्वासाङ्गक्षेपकूजनम्||५४||

🔊 Audio coming soon

अस्थिस्थे अस्थिभेदादीनि| ऊर्ध्वमधश्च प्रवृत्तिदोउषस्य कफादेः|

Adhikarana majjagatajvaralakShaNam (55) · Śloka 55

अन्तर्दाहो बहिश्शैत्यं श्वासो हिध्मा च मज्जने||५५||

🔊 Audio coming soon

मज्जगतेऽन्तर्दाहादीनि|| ५५||

Adhikarana shukragatajvaralakShaNam (56) · Śloka 56

तमसोदर्शनं मर्मच्छेदनं स्तब्धमेढ्रता| शुक्रप्रवृत्तिर्मृत्युश्च जायते शुक्रसंश्रये||५६||

🔊 Audio coming soon

शुक्रसंश्रये ज्वरे तमसो दर्शनादीनि जायन्ते|| ५६||

Adhikarana dhAtugatajvarANAM duHsAdhyatvam (57) · Śloka 57

उत्तरोत्तरदुःसाध्याः पञ्चात्राऽन्त्योउ तु वर्जयेत्||५७||

🔊 Audio coming soon

अत्र धात्वाश्रयेषु पूर्वादुत्तरोत्तर दुःसाध्यः| रसाश्रितो दुःसाध्यः| ततोऽपि रक्तसमाश्रितः| ततो मेदः संश्रयः| ततोऽस्थित इत्यर्थः| अन्त्यौ मज्जशुक्रसंश्रयौ वर्जयत्| चरकाचार्य्यस्तु मज्ज्जगतस्य कृच्छ्रसाध्यत्वमृच्छती ( च चि - ३.८३ )|

Adhikarana pralepakajvaralakShaNam (58) · Śloka 58

प्रलिम्पन्निव गात्राणि श्लेष्मणा गौरवेण च| मन्दज्वरः प्रलेपस्तु सशीतः स्यात्प्रलेपकः|५८|

🔊 Audio coming soon

००

Adhikarana vAtabalAsakajvara lakShaNam (58) · Śloka 58

नित्यं मन्दज्वरो रूक्षः शीतः कृच्छ्रेण सिध्यति| स्तब्धाङ्गः श्लेष्मभूयिष्ठो भवेद्वातवलासकः|५८|

🔊 Audio coming soon

००

Adhikarana hAridrakajvaralakShaNam (58) · Śloka 58

हरिद्राभेकवर्णाभस्तद्वर्णः यः प्रमेहति| स वै हारिद्रको नाम ज्वरभेदोऽन्तकः स्मृतः|५८|

🔊 Audio coming soon

००

Adhikarana rAtrikajvaralakShaNam (58) · Śloka 58

कफ़वातोउ समोउ यस्य हीनपित्तस्य देहिनिः| तीक्ष्णो वा यदि मन्दो जायते रात्रिको ज्वरः|५८|

🔊 Audio coming soon

००

Adhikarana pUrvarAtrikajvaralakShaNam (58) · Śloka 58

दिवाकरा पीतबले व्यायामाच्च विशोषिते| शरीरे नियतं वाताज्ज्वरः स्यात् पूर्वरात्रिकः|५८|

🔊 Audio coming soon

००

Adhikarana shItajvaralakShaNam (58) · Śloka 58

आमाशये यदा दुष्टे श्लेष्मपित्ते व्यवस्थिते| तदार्धं शीतलं देहे त्वर्धञ्चोष्णं प्रजायते|५८|

🔊 Audio coming soon

००

Adhikarana dAhajvaralakShaNam (58) · Śloka 58

काये पित्तं यदा श्लेष्मा चान्ते व्यवस्थितः| ऊष्णत्वं तेन देहस्य शीतत्वं करपादयोः||५८||

🔊 Audio coming soon

प्रलिम्पन्नित्यादि सुबोधम्|| ५८||

Adhikarana jvaramokShakAlIna lakShaNAni (59) · Śloka 59

धातून् प्रक्षोभयन् दोषो मोक्षकाले विलीयते| ततो नरः श्वसन् स्विद्यन् कूजन् वमति चेष्टते| वेपते प्रलपत्युष्णैश्शीतैश्चाऽङ्गैर्हतप्रभः| विसंज्ञो ज्वरवेगार्त्तः सक्रोध इव वीक्षते| सदोषशब्दं च शकृद्द्रवं सृजति वेगवत्||५९||

🔊 Audio coming soon

सर्वस्मिश्च ज्वरे ज्वरकारणो दोषः ज्वरमोक्षकाले धातून् प्रक्षोभयन् विलीयते| ततो धातुप्रक्षोभादनन्तरमिदं कुरुते| श्वसन्नित्यादि सुबोधम्|| ५९||

Adhikarana vigatajvaralakShaNAni (60-61) · Śloka 61

देहो लघुव्यपगतक्लममोहतापः पाको मुखे करणसोउष्ठवमव्यथत्वम्| स्वेदः क्षवः प्रकृतियोगिमनोऽन्नलिप्सा कण्डूश्च मूर्ध्नि विगतज्वरलक्षणानि||६०|| इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतोउ अष्टाङ्गसंग्रहस्य निदानस्थानो ज्वरनिदानंनाम द्वितीयोऽध्यायः||६१||

🔊 Audio coming soon

देहलघुत्वादीनि विगतज्वरस्य पुरुषस्य लक्षणानि| स्वेदः शरीरजः|| ६०|| इति श्रीमन्महामहोपाध्यायेन्दुविरचितायाम् अष्टाङ्गसंग्रहव्याख्यायां शशिलेखायां निदानस्थाने द्वितीयोध्यायः